०७

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

व॒ष॒ट्का॒रो वै गा॑यत्रि॒यै शिरो॑ऽच्छिन॒त्तस्यै॒ रस॒ᳶ परा॑ऽपत॒त्तम्बृह॒स्पति॒रुपा॑गृह्णा॒त्सा शि॑तिपृ॒ष्ठा व॒शाऽभ॑व॒द्यो द्वि॒तीयᳶ॑ प॒राप॑त॒त्तम्मि॒त्रावरु॑णा॒वुपा॑गृह्णीताँ॒ सा द्वि॑रू॒पा व॒शाऽभ॑व॒द्यस्तृ॒तीयᳶ॑ प॒राप॑त॒त्तव्ँ विश्वे॑ दे॒वा उपा॑गृह्ण॒न्त्सा ब॑हुरू॒पा व॒शाऽभ॑व॒द्यश्च॑तु॒र्थᳶ प॒राप॑त॒त्स पृ॑थि॒वीम्प्रावि॑श॒त्तम्बृह॒स्पति॑र॒भि (41) अ॒गृ॒ह्णा॒दस्त्वे॒वायम्भोगा॒येति॒ स उ॑क्षव॒शस्सम॑भव॒द्यल्लोहि॑तम्प॒राप॑त॒त्तद्रु॒द्र उपा॑गृह्णा॒त्सा रौ॒द्री रोहि॑णी व॒शाऽभ॑वत्

विश्वास-प्रस्तुतिः

व॒ष॒ट्का॒रो वै गा॑यत्रि॒यै शिरो॑ऽच्छिनत् ।
तस्यै॒ रस॒ᳶ परा॑ऽपतत् ।
तम्बृह॒स्पति॒रुपा॑गृह्णात् ।
सा शि॑तिपृ॒ष्ठा व॒शाऽभ॑वत् ।

मूलम्

व॒ष॒ट्का॒रो वै गा॑यत्रि॒यै शिरो॑ऽच्छिनत् ।
तस्यै॒ रस॒ᳶ परा॑ऽपतत् ।
तम्बृह॒स्पति॒रुपा॑गृह्णात् ।
सा शि॑तिपृ॒ष्ठा व॒शाऽभ॑वत् ।

भट्टभास्कर-टीका

1वषट्कार इत्यादि ॥ रसः शरीरस्थं जलम् । शितिपृष्ठादिवशान्तानामुत्पत्तिरुच्यते । शितिपृष्ठा । उक्तमुत्तरपदप्रकृतिस्वरत्वम् ।

विश्वास-प्रस्तुतिः

यो द्वि॒तीयᳶ॑ प॒राप॑तत् ।
तम्मि॒त्रावरु॑णा॒वुपा॑गृह्णीताम् ।
सा द्वि॑रू॒पा व॒शाऽभ॑वत् ।

मूलम्

यो द्वि॒तीयᳶ॑ प॒राप॑तत् ।
तम्मि॒त्रावरु॑णा॒वुपा॑गृह्णीताम् ।
सा द्वि॑रू॒पा व॒शाऽभ॑वत् ।

भट्टभास्कर-टीका

यो द्वितीयः परापतदिति । ‘यद्वृत्तान्नित्यम्’ इति निघाते प्रतिषिद्धे, ‘उदात्तवता तिङा’ इति समासः । द्विरूपा शुक्लकृष्णा वे[ष्णैवे]ति केचित्।

विश्वास-प्रस्तुतिः

यस्तृ॒तीयᳶ॑ प॒राऽप॑तत् ।
तव्ँ विश्वे॑ दे॒वा उपा॑गृह्णत् ।
सा ब॑हुरू॒पा व॒शाऽभ॑वत् ।

मूलम्

यस्तृ॒तीयᳶ॑ प॒राऽप॑तत् ।
तव्ँ विश्वे॑ दे॒वा उपा॑गृह्णत् ।
सा ब॑हुरू॒पा व॒शाऽभ॑वत् ।

भट्टभास्कर-टीका

। निरुदकादित्वादुत्तरपदान्तोदात्तत्वम् । बहुरूपा । ‘बहोर्नञ्वत्’ इत्युत्तरपदान्तोदात्तत्वम् ।

विश्वास-प्रस्तुतिः

यश्च॑तु॒र्थᳶ प॒राप॑तत् ।
स पृ॑थि॒वीम्प्रावि॑शत् ।
तम्बृह॒स्पति॑र॒भ्य॑गृह्णात्।

मूलम्

यश्च॑तु॒र्थᳶ प॒राप॑तत् ।
स पृ॑थि॒वीम्प्रावि॑शत् ।
तम्बृह॒स्पति॑र॒भ्य॑गृह्णात्।

भट्टभास्कर-टीका

अभ्यगृह्णादिति । निर्गमनकाल एव ग्रहणमुपग्रहणम् । निर्गत्य भूमौ प्रविष्टस्य उपरिग्रहणमभिग्रहणम् ।

विश्वास-प्रस्तुतिः

अस्त्वे॒वायम्भोगा॒येति॑ ।

मूलम्

अस्त्वे॒वायम्भोगा॒येति॑ ।

भट्टभास्कर-टीका

अस्त्वेवेति । अयं मम भोगायैवास्तु वृधा भूमौ सङ्क्रान्तो मा भूदिति ।

विश्वास-प्रस्तुतिः

स उ॑क्षव॒शस्सम॑भवत् ।

मूलम्

स उ॑क्षव॒शस्सम॑भवत् ।

भट्टभास्कर-टीका

उक्षवश इति । उक्षा चासौ वशश्चेत्युक्षवशः । यथेष्टचारी वशः । मोघरेता इत्यन्ये । प्रजननाशक्त इत्यन्ये ।

विश्वास-प्रस्तुतिः

यल्लोहि॑तम्प॒राप॑तत् ।
तद्रु॒द्र उपा॑गृह्णात् ।
सा रौ॒द्री रोहि॑णी व॒शाऽभ॑वत् ।

मूलम्

यल्लोहि॑तम्प॒राप॑तत् ।
तद्रु॒द्र उपा॑गृह्णात् ।
सा रौ॒द्री रोहि॑णी व॒शाऽभ॑वत् ।

भट्टभास्कर-टीका

या गर्भं ध्वंसयन्ती स्वैरं चरति सा वशा । रोहिणी लोहितवर्णा । ‘वर्णादनुदात्तात्’ इति ङीप् ॥

मूलम् (संयुक्तम्)

बार्हस्प॒त्याँ शि॑तिपृ॒ष्ठामाल॑भेत ब्रह्मवर्च॒सका॑मो॒ बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मि॑न्ब्रह्मवर्च॒सन्द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति॒ छन्द॑साव्ँ॒वा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॑ (42) वै ब्र॑ह्मवर्च॒सञ्छन्द॑सामे॒व रसे॑न॒ रस॑म्ब्रह्मवर्च॒समव॑रुन्धे मैत्रावरु॒णीन्द्वि॑रू॒पामाल॑भेत॒ वृष्टि॑कामो मै॒त्रव्ँ वा अह॑र्वारु॒णी रात्रि॑रहोरा॒त्राभ्या॒ङ्खलु॒ वै प॒र्जन्यो॑ वर्षति मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मा॑ अहोरा॒त्राभ्या॑म्प॒र्जन्यव्ँ॑वर्षयत॒श्छन्द॑साव्ँ॒वा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वै वृष्टि॒श्छन्द॑सामे॒व रसे॑न (43) रसव्ँ॒वृष्टि॒मव॑रुन्धे मैत्रावरु॒णीन्द्वि॑रू॒पामाल॑भेत प्र॒जाका॑मो मै॒त्रव्ँ वा अह॑र्वारु॒णी रात्रि॑रहोरा॒त्राभ्या॒ङ्खलु॒ वै प्र॒जाᳶ प्रजा॑यन्ते मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मा॑ अहोरा॒त्राभ्या॑म्प्र॒जाम्प्रज॑नयत॒श्छन्द॑साव्ँ॒वा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वै प्र॒जा छन्द॑सामे॒व रसे॑न॒ रस॑म्प्र॒जामव॑ (44) रु॒न्धे॒ वै॒श्व॒दे॒वीम्ब॑हुरू॒पामाल॑भे॒तान्न॑कामो वैश्वदे॒वव्ँ वा अन्नव्ँ॒विश्वा॑ने॒व दे॒वान्त्स्वेन॑ भाग॒धेये॒नोप॑धावति॒ त ए॒वास्मा॒ अन्न॒म्प्रय॑च्छन्त्यन्ना॒द ए॒व भ॑वति॒ छन्द॑साव्ँ॒वा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वा अन्न॒ञ्छन्द॑सामे॒व रसे॑न॒ रस॒मन्न॒मव॑रुन्धे वैश्वदे॒वीम्ब॑हुरू॒पामाल॑भेत॒ ग्राम॑कामो वैश्वदे॒वा वै (45) स॒जा॒ता विश्वा॑ने॒व दे॒वान्त्स्वेन॑ भाग॒धेये॒नोप॑धावति॒ त ए॒वास्मै॑ सजा॒तान्प्रय॑च्छन्ति ग्रा॒म्ये॑व भ॑वति॒ छन्द॑साव्ँ॒वा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वै स॑जा॒ताश्छन्द॑सामे॒व रसे॑न॒ रसँ॑ सजा॒तानव॑रुन्धे बार्हस्प॒त्यमु॑क्षव॒शमाल॑भेत ब्रह्मवर्च॒सका॑मो॒ बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धाव॒ति स ए॒वास्मि॑न्ब्रह्मवर्च॒सम् (46) द॒धा॒ति॒ ब्र॒ह्म॒व॒र्च॒स्ये॑व भ॑वति॒ वशव्ँ॒वा ए॒ष च॑रति॒ यदु॒क्षा वश॑ इव॒ खलु॒ वै ब्र॑ह्मवर्च॒सव्ँ वशे॑नै॒व वश॑म्ब्रह्मवर्च॒समव॑रुन्धे रौ॒द्रीँ रोहि॑णी॒मा ल॑भेताभि॒चर॑न्रु॒द्रमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तस्मा॑ ए॒वैन॒मावृ॑श्चति ता॒जगार्ति॒मार्च्छ॑ति॒ रोहि॑णी भवति रौ॒द्री ह्ये॑षा दे॒वत॑या॒ समृ॑द्ध्यै

विश्वास-प्रस्तुतिः

बा॒र्ह॒स्प॒त्याँ शि॑तिपृ॒ष्ठामाल॑भेत ब्रह्मवर्च॒सका॑मः ।
बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वास्मि॑न्ब्रह्मवर्च॒सन्द॑धाति ।
ब्र॒ह्म॒व॒र्चस्ये॑व भ॑वति ।

छन्द॑साव्ँ॒वा ए॒ष रसः॑ ।
यद्व॒शा रस॑ इव॒ खलु॑ वै ब्र॑ह्मवर्च॒सम्।
छन्द॑सामे॒व रसे॑न॒ रस॑म्ब्रह्मवर्च॒समव॑रुन्धे ।

2अथ शितिपृष्ठादीनां विधानं - बार्हस्पत्यामिति ॥ गायत्र्यास्सर्वछन्दोयोनित्वात् छन्दसामित्युक्तम् । रस इवेति । आस्वादनहेतुत्वात् । गतमन्यत् ।

विश्वास-प्रस्तुतिः

मै॒त्रा॒व॒रु॒णीन्द्वि॑रू॒पामाल॑भेत॒ वृष्टि॑कामः ।
मै॒त्रव्ँ वा अह॑र्वारु॒णी रात्रिः॑ ।
अ॒हो॒रा॒त्राभ्या॒ङ्खलु॒ वै प॒र्जन्यो॑ वर्षति ।
मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
तावे॒वास्मा॑ अहोरा॒त्राभ्या॑म्प॒र्जन्यव्ँ॑वर्षयतः ।

छन्द॑साव्ँ॒वा ए॒ष रसः॑ ।
यद्व॒शा रस॑ इव॒ खलु॒ वै वृष्टिः ।
छन्द॑सामे॒व रसे॑न रसव्ँ॒वृष्टि॒मव॑रुन्धे ।

  • रस इवेति । आस्वादनहेतुत्वात् । गतमन्यत् ।

मै॒त्रा॒व॒रु॒णीन्द्वि॑रू॒पामाल॑भेत प्र॒जाका॑मः ।
मै॒त्रव्ँ वा अह॑र्वारु॒णी रात्रिः॑ ।
अ॒हो॒रा॒त्राभ्या॒ङ्खलु॒ वै प्र॒जाᳶ प्रजा॑यन्ते ।
मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
तावे॒वास्मा॑ अहोरा॒त्राभ्या॑म्प्र॒जाम्प्रज॑नयतः ।

छन्द॑साव्ँ॒वा ए॒ष रसः॑ । यद्व॒शा रस॑ इव॒ खलु॒ वै प्र॒जाः ।
छन्द॑सामे॒व रसे॑न॒ रस॑म्प्र॒जामव॑ रुन्धे ।

  • रस इवेति । आस्वादनहेतुत्वात् । गतमन्यत् ।

वै॒श्व॒दे॒वीम्ब॑हुरू॒पामाल॑भे॒तान्न॑कामः ।
वैश्वदे॒वव्ँ वा अन्नव्ँ॒विश्वा॑ने॒व दे॒वान्त्स्वेन॑ भाग॒धेये॒नोप॑धावति ।
त ए॒वास्मा॒ अन्न॒म्प्रय॑च्छन्ति ।
अ॒न्ना॒द ए॒व भ॑वति ।

छन्द॑साव्ँ॒वा ए॒ष रसः॑ ।
यद्व॒शा रस॑ इव॒ खलु॒ वा अन्न॑म्।
छन्द॑सामे॒व रसे॑न॒ रस॒मन्न॒मव॑रुन्धे ।

  • रस इवेति । आस्वादनहेतुत्वात् । गतमन्यत् ।

वै॒श्व॒दे॒वीम्ब॑हुरू॒पामाल॑भेत॒ ग्राम॑कामः ।
वै॒श्व॒दे॒वा वै स॒जा॒ता विश्वा॑ने॒व दे॒वान्त्स्वेन॑ भाग॒धेये॒नोप॑धावति ।
त ए॒वास्मै॑ सजा॒तान्प्रय॑च्छन्ति ।
ग्रा॒म्ये॑व भ॑वति ।

छन्द॑साव्ँ॒वा ए॒ष रसः॑ ।
यद्व॒शा रस॑ इव॒ खलु॒ वै स॑जा॒ताः ।
छन्द॑सामे॒व रसे॑न॒ रसँ॑ सजा॒तानव॑रुन्धे ।

बा॒र्ह॒स्प॒त्यमु॑क्षव॒शमाल॑भेत ब्रह्मवर्च॒सका॑मः ।
बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वास्मि॑न्ब्रह्मव॒र्च॒सन्द॑धाति ।
ब्र॒ह्म॒व॒र्च॒स्ये॑व भ॑वति ।

वशव्ँ॒वा ए॒ष च॑रति ।
यदु॒क्षा वश॑ इव॒ खलु॒ वै ब्र॑ह्मवर्च॒सम् ।
वशे॑नै॒व वश॑म्ब्रह्मवर्च॒समव॑रुन्धे ।

वश इवेति । वश इन्द्रियसंयमः । तद्धेतुत्वात्ताच्छब्द्यम् ॥

विश्वास-प्रस्तुतिः

[*** - रौ॒द्रीँ रोहि॑णी॒मा ल॑भेताभि॒चर॑न्रु॒द्रमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तस्मा॑ ए॒वैन॒मावृ॑श्चति ता॒जगार्ति॒मार्च्छ॑ति॒ रोहि॑णी भवति रौ॒द्री ह्ये॑षा दे॒वत॑या॒ समृ॑द्ध्यै ।]

रौ॒द्रीँ रोहि॑णी॒मा ल॑भेत ।
अभि॒चर॑न्रु॒द्रमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
तस्मा॑ ए॒वैन॒मावृ॑श्चति ।
ता॒जगार्ति॒मार्च्छ॑ति।
रोहि॑णी भवति ।
रौ॒द्री ह्ये॑षा दे॒वत॑या॒ समृ॑द्ध्यै ।

3रौद्रीमित्यादि ॥ गतम् ॥

मूलम् (संयुक्तम्)

स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्रह॑रति शर॒मय॑म्ब॒र्हिश्शृ॒णात्ये॒वैनव्ँ॒ वैभी॑दक इ॒द्ध्मो भि॒नत्त्ये॒वैन॑म् ॥ (47)

विश्वास-प्रस्तुतिः

स्फ्यो यूपो॑ भवति ।
वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्रह॑रति ।
शर॒मय॑म्ब॒र्हिश्शृ॒णात्ये॒वैनम् ।
वैभी॑दक इ॒द्ध्मो भि॒नत्त्ये॒वैन॑म् ॥

मूलम्

स्फ्यो यूपो॑ भवति ।
वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्रह॑रति ।
शर॒मय॑म्ब॒र्हिश्शृ॒णात्ये॒वैनम् ।
वैभी॑दक इ॒द्ध्मो भि॒नत्त्ये॒वैन॑म् ॥

भट्टभास्कर-टीका

4स्फ्य इत्यादि ॥ व्याख्यातम् ॥

  • स्फ्य इति ॥ स्फ्याकृतिर्यूपः कार्यः स्फ्य एव वा यूपः कार्यः । तदानीमन्येन स्फ्यकार्यं कुर्यात् ।
  • शरमयमिति । ‘नित्यं वृद्धशिरादिभ्यः’ इति विकारे मयट् । शरोपि पङ्कतृणविशेषः तत्पर्णमयं भवति । शॄ हिंसायाम्, ‘पुंसि संज्ञायां घः’ ।
  • वैभीदक इति । ‘पलाशादिभ्यो वा’ इत्यण् । विभीदकोऽक्षद्रुमः । विभिनत्तीति विभीदः, ततस्संज्ञायां कन्, पृषोदरादित्वाद्दीर्घत्वम् ॥

इति द्वितीये प्रथमे सप्तमोनुवाकः ॥