विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
बा॒र्ह॒स्प॒त्यँ शि॑तिपृ॒ष्ठमाल॑भेत॒ ग्राम॑कामो॒ यᳵ का॒मये॑त पृ॒ष्ठँ स॑मा॒नानाँ॑ स्या॒मिति॒ बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैन॑म्पृ॒ष्ठँ स॑मा॒नाना॑ङ्करोति ग्रा॒म्ये॑व भ॑वति शितिपृ॒ष्ठो भ॑वति बार्हस्प॒त्यो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै
विश्वास-प्रस्तुतिः
बा॒र्ह॒स्प॒त्यँ शि॑तिपृ॒ष्ठमाल॑भेत॒ ग्राम॑कामः ।
यᳵ का॒मये॑त पृ॒ष्ठँ स॑मा॒नानाँ॑ स्या॒मिति॑।
बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वैन॑म्पृ॒ष्ठँ स॑मा॒नाना॑ङ्करोति ।
ग्रा॒म्ये॑व भ॑वति शितिपृ॒ष्ठो भ॑वति ।
बा॒र्ह॒स्प॒त्यो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै ।
मूलम्
बा॒र्ह॒स्प॒त्यँ शि॑तिपृ॒ष्ठमाल॑भेत॒ ग्राम॑कामः ।
यᳵ का॒मये॑त पृ॒ष्ठँ स॑मा॒नानाँ॑ स्या॒मिति॑।
बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वैन॑म्पृ॒ष्ठँ स॑मा॒नाना॑ङ्करोति ।
ग्रा॒म्ये॑व भ॑वति शितिपृ॒ष्ठो भ॑वति ।
बा॒र्ह॒स्प॒त्यो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै ।
भट्टभास्कर-टीका
1बार्हस्पत्यमित्यादि ॥ उक्तश्शितिपृष्ठः, स्वरश्च । पृष्ठं प्रधान एकोधिकार इति । राद्धान्तकर्मण्यधिकार इति केचित् ॥
मूलम् (संयुक्तम्)
पौ॒ष्णँ श्या॒ममाल॑भे॒तान्न॑का॒मोऽन्नव्ँ॒ वै पू॒षा पू॒षण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ (36) अन्न॒म्प्रय॑च्छत्यन्ना॒द ए॒व भ॑वति श्या॒मो भ॑वत्ये॒तद्वा अन्न॑स्य रू॒पँ समृ॑द्ध्यै
विश्वास-प्रस्तुतिः
पौ॒ष्णँ श्या॒ममाल॑भे॒तान्न॑कामः ।
अन्नव्ँ॒ वै पू॒षा पू॒षण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वास्मा॒ अन्न॒म्प्रय॑च्छति ।
अ॒न्ना॒द ए॒व भ॑वति ।
श्या॒मो भ॑वति ।
ए॒तद्वा अन्न॑स्य रू॒पँ समृ॑द्ध्यै ।
मूलम्
पौ॒ष्णँ श्या॒ममाल॑भे॒तान्न॑कामः ।
अन्नव्ँ॒ वै पू॒षा पू॒षण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वास्मा॒ अन्न॒म्प्रय॑च्छति ।
अ॒न्ना॒द ए॒व भ॑वति ।
श्या॒मो भ॑वति ।
ए॒तद्वा अन्न॑स्य रू॒पँ समृ॑द्ध्यै ।
भट्टभास्कर-टीका
2पौष्णमित्यादि ॥ गतम् ॥
मूलम् (संयुक्तम्)
मारु॒तम्पृश्ञि॒माल॑भे॒तान्न॑का॒मोऽन्नव्ँ॒ वै म॒रुतो॑ म॒रुत॑ ए॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ त ए॒वास्मा॒ अन्न॒म्प्रय॑च्छन्त्यन्ना॒द ए॒व भ॑वति॒ पृश्ञि॑र्भवत्ये॒तद्वा अन्न॑स्य रू॒पँ समृ॑द्ध्या ऐ॒न्द्रम॑रु॒णमाल॑भेतेन्द्रि॒यका॑म॒ इन्द्र॑मे॒व (37) स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मि॑न्निन्द्रि॒यन्द॑धातीन्द्रिया॒व्ये॑व भ॑वति ।
विश्वास-प्रस्तुतिः
मा॒रु॒तम्पृश्ञि॒माल॑भे॒तान्न॑का॒मः ।
अन्नव्ँ॒ वै म॒रुतो॑ म॒रुत॑ ए॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
त ए॒वास्मा॒ अन्न॒म्प्रय॑च्छन्ति ।
अ॒न्ना॒द ए॒व भ॑वति ।
पृश्ञि॑र्भवति ।
ए॒तद्वा अन्न॑स्य रू॒पँ समृ॑द्ध्यै ।
ऐ॒न्द्रम॑रु॒णमाल॑भेतेन्द्रि॒यका॑मः ।
इन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वास्मि॑न्निन्द्रि॒यन्द॑धातीन्द्रिया॒व्ये॑व भ॑वति ।
मूलम्
मा॒रु॒तम्पृश्ञि॒माल॑भे॒तान्न॑का॒मः ।
अन्नव्ँ॒ वै म॒रुतो॑ म॒रुत॑ ए॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
त ए॒वास्मा॒ अन्न॒म्प्रय॑च्छन्ति ।
अ॒न्ना॒द ए॒व भ॑वति ।
पृश्ञि॑र्भवति ।
ए॒तद्वा अन्न॑स्य रू॒पँ समृ॑द्ध्यै ।
ऐ॒न्द्रम॑रु॒णमाल॑भेतेन्द्रि॒यका॑मः ।
इन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वास्मि॑न्निन्द्रि॒यन्द॑धातीन्द्रिया॒व्ये॑व भ॑वति ।
भट्टभास्कर-टीका
3अन्नं वा इत्यादि ॥ तद्धेतुत्वात्ताच्छब्द्यम् ॥
मूलम् (संयुक्तम्)
अरु॒णो भ्रूमा॑न्भवत्ये॒तद्वा इन्द्र॑स्य रू॒पँ समृ॑द्ध्यै सावि॒त्रमु॑पद्ध्व॒स्तमाल॑भेत स॒निका॑मस्सवि॒ता वै प्र॑स॒वाना॑मीशे सवि॒तार॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ स॒निम्प्रसु॑वति॒ दान॑कामा अस्मै प्र॒जा भ॑वन्ति
विश्वास-प्रस्तुतिः
अ॒रु॒णो भ्रूमा॑न्भवति ।
ए॒तद्वा इन्द्र॑स्य रू॒पँ समृ॑द्ध्यै ।
सा॒वि॒त्रमु॑पद्ध्व॒स्तमाल॑भेत स॒निका॑मः ।
स॒वि॒ता वै प्र॑स॒वाना॑मीशे ।
स॒वि॒तार॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वास्मै॑ स॒निम्प्रसु॑वति ।
दान॑कामा अस्मै प्र॒जा भ॑वन्ति ।
मूलम्
अ॒रु॒णो भ्रूमा॑न्भवति ।
ए॒तद्वा इन्द्र॑स्य रू॒पँ समृ॑द्ध्यै ।
सा॒वि॒त्रमु॑पद्ध्व॒स्तमाल॑भेत स॒निका॑मः ।
स॒वि॒ता वै प्र॑स॒वाना॑मीशे ।
स॒वि॒तार॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वास्मै॑ स॒निम्प्रसु॑वति ।
दान॑कामा अस्मै प्र॒जा भ॑वन्ति ।
भट्टभास्कर-टीका
4अरुण इत्यादि ॥ भ्रूमान् महाभ्रूः ॥
विश्वास-प्रस्तुतिः
उ॒प॒ध्व॒स्तो भ॑वति सावि॒त्रो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै ।
मूलम्
उ॒प॒ध्व॒स्तो भ॑वति सावि॒त्रो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै ।
भट्टभास्कर-टीका
5उपध्वस्तः विभिन्नवर्णः बहुबिन्दुचितशरीरः । सनिकाम इति । याच्ञया लब्धं धनं सनिः । प्रसुवति अनुजानाति ॥
मूलम् (संयुक्तम्)
वैश्वदे॒वम्ब॑हुरू॒पमाल॑भे॒तान्न॑कामो वैश्वदे॒वव्ँ वा अन्नव्ँ॒विश्वा॑ने॒व दे॒वान्त्स्वेन॑ भाग॒धेये॒नोप॑धावति॒ त ए॒वास्मा॒ अन्न॒म्प्रय॑च्छन्त्यन्ना॒द ए॒व भ॑वति बहुरू॒पो भ॑वति बहुरू॒पँ ह्यन्नँ॒ समृ॑द्ध्यै वैश्वदे॒वम्ब॑हुरू॒पमाल॑भेत॒ ग्राम॑कामो वैश्वदे॒वा वै स॑जा॒ता विश्वा॑ने॒व दे॒वान्त्स्वेन॑ भाग॒धेये॒नोप॑धावति॒ त ए॒वास्मै॑ (39) स॒जा॒तान्प्रय॑च्छन्ति ग्रा॒म्ये॑व भ॑वति बहुरू॒पो भ॑वति बहुदेव॒त्यो ३॒॑ ह्ये॑ष समृ॑द्ध्यै
विश्वास-प्रस्तुतिः
वै॒श्व॒दे॒वम्ब॑हुरू॒पमाल॑भे॒तान्न॑कामः ।
वै॒श्व॒दे॒वव्ँ वा अन्नव्ँ॒विश्वा॑ने॒व दे॒वान्त्स्वेन॑ भाग॒धेये॒नोप॑धावति ।
त ए॒वास्मा॒ अन्न॒म्प्रय॑च्छन्ति ।
अ॒न्ना॒द ए॒व भ॑वति ।
बहुरू॒पो भ॑वति ।
बहुरू॒पँ ह्यन्नँ॒ समृ॑द्ध्यै ।
वै॒श्व॒दे॒वम्ब॑हुरू॒पमाल॑भेत॒ ग्राम॑कामः ।
वै॒श्व॒दे॒वा वै स॑जा॒ता विश्वा॑ने॒व दे॒वान्त्स्वेन॑ भाग॒धेये॒नोप॑धावति।
त ए॒वास्मै॑ स॒जा॒तान्प्रय॑च्छन्ति ।
ग्रा॒म्ये॑व भ॑वति ।
बहुरू॒पो भ॑वति ।
बहुदेव॒त्यो ३॒॑ ह्ये॑ष समृ॑द्ध्यै ।
मूलम्
वै॒श्व॒दे॒वम्ब॑हुरू॒पमाल॑भे॒तान्न॑कामः ।
वै॒श्व॒दे॒वव्ँ वा अन्नव्ँ॒विश्वा॑ने॒व दे॒वान्त्स्वेन॑ भाग॒धेये॒नोप॑धावति ।
त ए॒वास्मा॒ अन्न॒म्प्रय॑च्छन्ति ।
अ॒न्ना॒द ए॒व भ॑वति ।
बहुरू॒पो भ॑वति ।
बहुरू॒पँ ह्यन्नँ॒ समृ॑द्ध्यै ।
वै॒श्व॒दे॒वम्ब॑हुरू॒पमाल॑भेत॒ ग्राम॑कामः ।
वै॒श्व॒दे॒वा वै स॑जा॒ता विश्वा॑ने॒व दे॒वान्त्स्वेन॑ भाग॒धेये॒नोप॑धावति।
त ए॒वास्मै॑ स॒जा॒तान्प्रय॑च्छन्ति ।
ग्रा॒म्ये॑व भ॑वति ।
बहुरू॒पो भ॑वति ।
बहुदेव॒त्यो ३॒॑ ह्ये॑ष समृ॑द्ध्यै ।
भट्टभास्कर-टीका
6बहुरूपः नानारूपः । ‘बहोर्नञ्वत्’ इति नञ्वद्भावः, ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् ॥
मूलम् (संयुक्तम्)
प्राजाप॒त्यन्तू॑प॒रमाल॑भेत॒ यस्याना॑ज्ञातमिव॒ ज्योगा॒मये॑त्प्राजाप॒त्यो वै पुरु॑षᳶ प्र॒जाप॑ति॒ᳵ खलु॒ वै तस्य॑ वेद॒ यस्याना॑ज्ञातमिव॒ ज्योगा॒मय॑ति प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैन॒न्तस्मा॒त्स्रामा॑न्मुञ्चति तूप॒रो भ॑वति प्राजाप॒त्यो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै ॥ (40)
विश्वास-प्रस्तुतिः
प्रा॒जा॒प॒त्यन्तू॑प॒रमाल॑भेत ।
यस्याना॑ज्ञातमिव॒ ज्योगा॒मये॑त् ।
मूलम्
प्रा॒जा॒प॒त्यन्तू॑प॒रमाल॑भेत ।
यस्याना॑ज्ञातमिव॒ ज्योगा॒मये॑त् ।
भट्टभास्कर-टीका
7यस्यानाज्ञातमिति ॥ ज्योगामयेदिति । अज्ञातविशेषं यं ना[षः यमा]मय आमयेत् दीर्घकालम् । ‘रुजार्थानाम्’ इति षष्ठी ।
विश्वास-प्रस्तुतिः
प्रा॒जा॒प॒त्यो वै पुरु॑षः ।
प्र॒जाप॑ति॒ᳵ खलु॒ वै तस्य॑ वेद ।
यस्याना॑ज्ञातमिव॒ ज्योगा॒मय॑ति ।
मूलम्
प्रा॒जा॒प॒त्यो वै पुरु॑षः ।
प्र॒जाप॑ति॒ᳵ खलु॒ वै तस्य॑ वेद ।
यस्याना॑ज्ञातमिव॒ ज्योगा॒मय॑ति ।
भट्टभास्कर-टीका
तस्य वेदेति । कर्मर्णस्सप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी ।
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वैन॒न्तस्मा॒त्स्रामा॑न्मुञ्चति ।
तूप॒रो भ॑वति ।
प्राजाप॒त्यो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै ॥
मूलम्
प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वैन॒न्तस्मा॒त्स्रामा॑न्मुञ्चति ।
तूप॒रो भ॑वति ।
प्राजाप॒त्यो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै ॥
भट्टभास्कर-टीका
स्रामादिति रोगनाम । यद्वा - स्रामं मन्त्रेण परलोक आह्वानं मरणमेव ॥
इति द्वितीये प्रथमे षष्ठोनुवाकः ॥