०५

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

इन्द्रो॑ व॒लस्य॒ बिल॒मपौ॑र्णो॒त्स य उ॑त्त॒मᳶ प॒शुरासी॒त्तम्पृ॒ष्ठम्प्रति॑ स॒ङ्गृह्योद॑क्खिद॒त्तँ स॒हस्र॑म्प॒शवोऽनूदा॑य॒न्त्स उ॑न्न॒तो॑ऽभव॒द्यᳶ प॒शुका॑म॒स्स्यात्स ए॒तमै॒न्द्रमु॑न्न॒तमाल॑भे॒तेन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ प॒शून्प्रय॑च्छति पशु॒माने॒व भ॑वत्युन्न॒तः (29) भ॒व॒ति

विश्वास-प्रस्तुतिः

इन्द्रो॑ व॒लस्य॒ बिल॒मपौ॑र्णोत् ।

मूलम्

इन्द्रो॑ व॒लस्य॒ बिल॒मपौ॑र्णोत् ।

भट्टभास्कर-टीका

1 इन्द्रो वलस्येत्यादि ॥ अपौर्णोत् अपावृतद्वारमकरोत् ।

विश्वास-प्रस्तुतिः

स य उ॑त्त॒मᳶ प॒शुरासी॑त् ।
तम्पृ॒ष्ठम्प्रति॑ स॒ङ्गृह्योद॑क्खिदत्।

मूलम्

स य उ॑त्त॒मᳶ प॒शुरासी॑त् ।
तम्पृ॒ष्ठम्प्रति॑ स॒ङ्गृह्योद॑क्खिदत्।

भट्टभास्कर-टीका

स इति । ‘सुपां सुलुक्’ इति सप्तम्यास्स्वादेशः । तत्र बिले वसतां पशूनाम्मध्ये य उत्तमः पशुरासीत्, तं पृष्ठं प्रतिसङ्गृह्य पृष्ठे गृहीत्वा उदक्खिदत् उत्क्षिप्तवान् । छान्दसो वर्णोपजनः । उत्तमशब्द उञ्छादिषु निपात्यते, तेनान्तोदात्तः । लक्षणे प्रतेः कर्मप्रवचनीयत्वम् ।

विश्वास-प्रस्तुतिः

तँ स॒हस्र॑म्प॒शवोऽनूदा॑यन् ।

मूलम्

तँ स॒हस्र॑म्प॒शवोऽनूदा॑यन् ।

भट्टभास्कर-टीका

तमनु सहस्रं पशव उदायन् उदगच्छन् ।

विश्वास-प्रस्तुतिः

स उ॑न्न॒तो॑ऽभवत् ।
यᳶ प॒शुका॑म॒स्स्यात् ।
स ए॒तमै॒न्द्रमु॑न्न॒तमाल॑भेत ।
ऐन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वास्मै॑ प॒शून्प्रय॑च्छति ।
पशु॒माने॒व भ॑वत्युन्न॒तो भ॑वति ।

मूलम्

स उ॑न्न॒तो॑ऽभवत् ।
यᳶ प॒शुका॑म॒स्स्यात् ।
स ए॒तमै॒न्द्रमु॑न्न॒तमाल॑भेत ।
ऐन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वास्मै॑ प॒शून्प्रय॑च्छति ।
पशु॒माने॒व भ॑वत्युन्न॒तो भ॑वति ।

भट्टभास्कर-टीका

स उत्तमः पशुरुन्नतोऽभवत् । उन्नतं पृष्ठभागोऽस्यास्तीति लक्षणया तद्वानुच्यते, मत्त्वर्थीयो लुप्यते । यत्र गृहीतपेसवः [… हीतपशोः] ककुदाख्य उन्नतोऽभवत् ॥

मूलम् (संयुक्तम्)

सा॒ह॒स्री वा ए॒षा ल॒क्ष्मी यदु॑न्न॒तो ल॒क्ष्मियै॒व प॒शूनव॑रुन्धे य॒दा स॒हस्र॑म्प॒शून्प्रा॑प्नु॒यादथ॑ वैष्ण॒वव्ँ वा॑म॒नमा ल॑भेतै॒तस्मि॒न्वै तत्स॒हस्र॒मद्ध्य॑तिष्ठ॒त्तस्मा॑दे॒ष वा॑म॒नस्समी॑षितᳶ प॒शुभ्य॑ ए॒व प्रजा॑तेभ्यᳶ प्रति॒ष्ठान्द॑धाति॒ को॑ऽर्हति स॒हस्र॑म्प॒शून्प्राप्तु॒मित्या॑हुरहोरा॒त्राण्ये॒व स॒हस्रँ॑ स॒म्पाद्याल॑भेत प॒शवः॑ (30)
वा अ॑होरा॒त्राणि॑ प॒शूने॒व प्रजा॑तान्प्रति॒ष्ठाङ्ग॑मयति

विश्वास-प्रस्तुतिः

सा॒ह॒स्री वा ए॒षा ल॒क्ष्मी यदु॑न्न॒तो ल॒क्ष्मियै॒व प॒शूनव॑रुन्धे ।

मूलम्

सा॒ह॒स्री वा ए॒षा ल॒क्ष्मी यदु॑न्न॒तो ल॒क्ष्मियै॒व प॒शूनव॑रुन्धे ।

भट्टभास्कर-टीका

2 साहस्रीति ॥ सहस्रस्य निमित्तभूता । ‘शतमानविंशतिक’ इत्यण् । लक्ष्मी लक्षणम् । ‘सुपां सुलुक्’ इति सोर्लुक् ।

विश्वास-प्रस्तुतिः

य॒दा स॒हस्र॑म्प॒शून्प्रा॑प्नु॒यात् ।
अथ॑ वैष्ण॒वव्ँ वा॑म॒नमा ल॑भेत ।
ए॒तस्मि॒न्वै तत्स॒हस्र॒मद्ध्य॑तिष्ठत् ।
तस्मा॑दे॒ष वा॑म॒नस्समी॑षितᳶ प॒शुभ्य॑ ए॒व प्रजा॑तेभ्यᳶ प्रति॒ष्ठान्द॑धाति ।
को॑ऽर्हति स॒हस्र॑म्प॒शून्प्राप्तु॒मित्या॑हुः ।

मूलम्

य॒दा स॒हस्र॑म्प॒शून्प्रा॑प्नु॒यात् ।
अथ॑ वैष्ण॒वव्ँ वा॑म॒नमा ल॑भेत ।
ए॒तस्मि॒न्वै तत्स॒हस्र॒मद्ध्य॑तिष्ठत् ।
तस्मा॑दे॒ष वा॑म॒नस्समी॑षितᳶ प॒शुभ्य॑ ए॒व प्रजा॑तेभ्यᳶ प्रति॒ष्ठान्द॑धाति ।
को॑ऽर्हति स॒हस्र॑म्प॒शून्प्राप्तु॒मित्या॑हुः ।

भट्टभास्कर-टीका

यदेत्यादि । गतम् । समीषितस्सम्यगीषितः ।

विश्वास-प्रस्तुतिः

अ॒हो॒रा॒त्राण्ये॒व स॒हस्रँ॑ स॒म्पाद्याल॑भेत ।
प॒शवो॒ वै अ॑होरा॒त्राणि॑ ।
प॒शूने॒व प्रजा॑तान्प्रति॒ष्ठाङ्ग॑मयति ।

मूलम्

अ॒हो॒रा॒त्राण्ये॒व स॒हस्रँ॑ स॒म्पाद्याल॑भेत ।
प॒शवो॒ वै अ॑होरा॒त्राणि॑ ।
प॒शूने॒व प्रजा॑तान्प्रति॒ष्ठाङ्ग॑मयति ।

भट्टभास्कर-टीका

अहोरात्राण्येवेति । अहोरात्राणां च पशूनां सहस्रत्वात् प्रजाताः पशवः प्रतिष्ठिता भवन्ति । ‘हेमन्तशिशिरावहोरात्रे च’ इति पूर्ववल्लिङ्गता । पशुबन्धान्तरमिदम् । पशूनां सहस्रं प्राप्याहोरात्राणां सहस्रं स्थित्वाऽथ वैष्णवं वामनमालभेत ॥

मूलम् (संयुक्तम्)

ओष॑धीभ्यो वे॒हत॒माल॑भेत प्र॒जाका॑म॒ ओष॑धयो॒ वा ए॒तम्प्र॒जायै॒ परि॑बाधन्ते॒ योऽल॑म्प्र॒जायै॒ सन्प्र॒जान्न वि॒न्दत॒ ओष॑धय॒ᳵ खलु॒ वा ए॒तस्यै॒ सूतु॒मपि॑ घ्नन्ति॒ या वे॒हद्भव॒त्योष॑धीरे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ ता ए॒वास्मै॒ स्वाद्योनेः॑ प्र॒जाम्प्रज॑नयन्ति वि॒न्दते॑ (31) प्र॒जामापो॒ वा ओष॑ध॒योऽस॒त्पुरु॑ष॒ आप॑ ए॒वास्मा॒ अस॑त॒स्सद्द॑दति॒ तस्मा॑दाहु॒र्यश्चै॒वव्ँ वेद॒ यश्च॒ नाप॒स्त्वावास॑त॒स्सद्द॑द॒तीति

विश्वास-प्रस्तुतिः

ओष॑धीभ्यो वे॒हत॒माल॑भेत प्र॒जाका॑मः ।
ओष॑धयो॒ वा ए॒तम्प्र॒जायै॒ परि॑बाधन्ते ।
योऽल॑म्प्र॒जायै॒ सन्प्र॒जान्न वि॒न्दते ।

मूलम्

ओष॑धीभ्यो वे॒हत॒माल॑भेत प्र॒जाका॑मः ।
ओष॑धयो॒ वा ए॒तम्प्र॒जायै॒ परि॑बाधन्ते ।
योऽल॑म्प्र॒जायै॒ सन्प्र॒जान्न वि॒न्दते ।

भट्टभास्कर-टीका

3 ओषधीभ्य इत्यादि ॥ ‘ओषधेश्च’ इति दीर्घत्वम् । वेहत् गर्भनाशिनी ।

विश्वास-प्रस्तुतिः

ओष॑धय॒ᳵ खलु॒ वा ए॒तस्यै॒ सूतु॒मपि॑ घ्नन्ति।
या वे॒हद्भव॒त्योष॑धीरे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
ता ए॒वास्मै॒ स्वाद्योनेः॑ प्र॒जाम्प्रज॑नयन्ति वि॒न्दते॑ प्र॒जाम् ।

मूलम्

ओष॑धय॒ᳵ खलु॒ वा ए॒तस्यै॒ सूतु॒मपि॑ घ्नन्ति।
या वे॒हद्भव॒त्योष॑धीरे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
ता ए॒वास्मै॒ स्वाद्योनेः॑ प्र॒जाम्प्रज॑नयन्ति वि॒न्दते॑ प्र॒जाम् ।

भट्टभास्कर-टीका

ओषधयः खल्विति । एतस्या वेहतस्सूतुं सोतव्यं गर्भम् । औणादिकस्तुन्प्रत्ययः । अपिघ्नन्ति यथेष्टं घ्नन्ति ।

विश्वास-प्रस्तुतिः

आपो॒ वा ओष॑ध॒योऽस॒त्पुरु॑षः ।

मूलम्

आपो॒ वा ओष॑ध॒योऽस॒त्पुरु॑षः ।

भट्टभास्कर-टीका

आपो वा इति । तद्धेतुत्वात्ताच्छब्द्यम्, व्यापिन्यो वा ।

विश्वास-प्रस्तुतिः

आप॑ ए॒वास्मा॒ अस॑त॒स्सद्द॑दति ।

मूलम्

आप॑ ए॒वास्मा॒ अस॑त॒स्सद्द॑दति ।

भट्टभास्कर-टीका

असदिति । अव्यक्तावस्थं करणरूपं पुरुषः । तस्मादोषधीनामपि हेतुभूता आप एव असतोऽव्यक्तात् सद्व्यक्तं प्रजालक्षणं ददति अस्मै यजमानाय ओषधीभ्यो वेहतमालभमानाय ।

विश्वास-प्रस्तुतिः

तस्मा॑दाहु॒र्यश्चै॒वव्ँ वेद ।
यश्च॒ नाप॒स्त्वावास॑त॒स्सद्द॑द॒तीति॑ ।

मूलम्

तस्मा॑दाहु॒र्यश्चै॒वव्ँ वेद ।
यश्च॒ नाप॒स्त्वावास॑त॒स्सद्द॑द॒तीति॑ ।

भट्टभास्कर-टीका

तस्मादाहुरिति । यश्चैवमपां हेतुत्वं, वेद यश्च न वेद लौकिकः, ते सर्वे आपः खल्वसतस्सद्ददतीत्याहुः अप्संसर्गादेव सर्वबीजाङ्कुरोत्पत्तिं पश्यन्तः । ‘तुनुपूर्व उदात्तयोर्वकारः’ इति वकारो लुप्यते ॥

मूलम् (संयुक्तम्)

एै॒न्द्रीँ सू॒तव॑शा॒माल॑भेत॒ भूति॑का॒मोऽजा॑तो॒ वा ए॒ष योऽल॒म्भूत्यै॒ सन्भूति॒न्न प्रा॒प्नोतीन्द्र॒ङ्खलु॒ वा ए॒षा सू॒त्वा व॒शाऽभ॑वत् (32) इन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैन॒म्भूति॑ङ्गमयति॒ भव॑त्ये॒व यँ सू॒त्वा व॒शा स्यात्तमै॒न्द्रमे॒वाल॑भेतै॒तद्वाव तदि॑न्द्रि॒यँ सा॒क्षादे॒वेन्द्रि॒यमव॑रुन्धे

विश्वास-प्रस्तुतिः

एै॒न्द्रीँ सू॒तव॑शा॒माल॑भेत॒ भूति॑कामः ।

मूलम्

एै॒न्द्रीँ सू॒तव॑शा॒माल॑भेत॒ भूति॑कामः ।

भट्टभास्कर-टीका

4 ऐन्द्रीमित्यादि ॥ सूतवशा सकृत्प्रसूता वन्ध्या ।

विश्वास-प्रस्तुतिः

अजा॑तो॒ वा ए॒ष योऽल॒म्भूत्यै॒ सन्भूति॒न्न प्रा॒प्नोति॑ ।

मूलम्

अजा॑तो॒ वा ए॒ष योऽल॒म्भूत्यै॒ सन्भूति॒न्न प्रा॒प्नोति॑ ।

भट्टभास्कर-टीका

अजातो वा इति । अजातकल्पत्वात् ।

विश्वास-प्रस्तुतिः

इन्द्र॒ङ्खलु॒ वा ए॒षा सू॒त्वा व॒शाऽभ॑वत् ।

मूलम्

इन्द्र॒ङ्खलु॒ वा ए॒षा सू॒त्वा व॒शाऽभ॑वत् ।

भट्टभास्कर-टीका

इन्द्रं खल्विति । प्रथमं सूतवशा इन्द्रं सूत्वा जनयित्वा ततो वशाऽभवत्, तस्मादैन्द्रीमालभेतेति ।

विश्वास-प्रस्तुतिः

इन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।

स ए॒वैन॒म्भूति॑ङ्गमयति ।
भव॑त्ये॒व ।

यँ सू॒त्वा व॒शा स्यात् तमै॒न्द्रमे॒वाल॑भेत ।

मूलम्

इन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।

स ए॒वैन॒म्भूति॑ङ्गमयति ।
भव॑त्ये॒व ।

यँ सू॒त्वा व॒शा स्यात् तमै॒न्द्रमे॒वाल॑भेत ।

भट्टभास्कर-टीका

यमित्यादि । इन्द्रियकामस्य यं सूत्वा वशा स्यात् तत्प्रथमवत्सं इन्द्रायालभतेति ।

विश्वास-प्रस्तुतिः

ए॒तद्वाव तदि॑न्द्रि॒यँ सा॒क्षादे॒वेन्द्रि॒यमव॑रुन्धे।

मूलम्

ए॒तद्वाव तदि॑न्द्रि॒यँ सा॒क्षादे॒वेन्द्रि॒यमव॑रुन्धे।

भट्टभास्कर-टीका

एतदिति प्रजारूपम् ॥

मूलम् (संयुक्तम्)

ऐन्द्रा॒ग्नम्पु॑नरुत्सृ॒ष्टमाल॑भेत॒ य आ तृ॒तीया॒त्पुरु॑षा॒त्सोम॒न्न पिबे॒द्विच्छि॑न्नो॒ वा ए॒तस्य॑ सोमपी॒थो यो ब्रा॑ह्म॒णस्सन्ना (33) तृ॒तीया॒त्पुरु॑षा॒त्सोम॒न्न पिब॑तीन्द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मै॑ सोमपी॒थम्प्रय॑च्छत॒ उपै॑नँ सोमपी॒थो न॑मति॒ यदै॒न्द्रो भव॑तीन्द्रि॒यव्ँ वै सो॑मपी॒थ इ॑न्द्रि॒यमे॒व सो॑मपी॒थमव॑रुन्धे॒ यदा॑ग्ने॒यो भव॑त्याग्ने॒यो वै ब्रा॑ह्म॒णस्स्वामे॒व दे॒वता॒मनु॒ सन्त॑नोति पुनरुत्सृ॒ष्टो भ॑वति पुनरुत्सृ॒ष्ट इ॑व॒ ह्ये॑तस्य॑ (34) सो॒म॒पी॒थस्समृ॑द्ध्यै

विश्वास-प्रस्तुतिः

ऐ॒न्द्रा॒ग्नम्पु॑नरुत्सृ॒ष्टमाल॑भेत ।
य आ तृ॒तीया॒त्पुरु॑षा॒त्सोम॒न्न पिबे॑त् ।
विच्छि॑न्नो॒ वा ए॒तस्य॑ सोमपी॒थः ।

मूलम्

ऐ॒न्द्रा॒ग्नम्पु॑नरुत्सृ॒ष्टमाल॑भेत ।
य आ तृ॒तीया॒त्पुरु॑षा॒त्सोम॒न्न पिबे॑त् ।
विच्छि॑न्नो॒ वा ए॒तस्य॑ सोमपी॒थः ।

भट्टभास्कर-टीका

5 ऐन्द्राग्नमिति ॥ पुनरुत्सृष्टं जीर्णो गलितवृषणः । पुङ्गवः महर्षभार्थं गोषु मुक्त इत्येके । ‘पुनरुत्सृष्टः छागः’ इति भरद्वाजमतम् ।

  • +++(आ तृतीयादिति । अभिविधावाकार इत्येके । तृतीयमपि गृहीत्वा इत्यन्ये )+++
विश्वास-प्रस्तुतिः

यो ब्रा॑ह्म॒णस्सन्ना तृ॒तीया॒त्पुरु॑षा॒त्सोम॒न्न पिब॑ति ।
इ॒न्द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑धावति।
तावे॒वास्मै॑ सोमपी॒थम्प्रय॑च्छतः ।

मूलम्

यो ब्रा॑ह्म॒णस्सन्ना तृ॒तीया॒त्पुरु॑षा॒त्सोम॒न्न पिब॑ति ।
इ॒न्द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑धावति।
तावे॒वास्मै॑ सोमपी॒थम्प्रय॑च्छतः ।

भट्टभास्कर-टीका

आ तृतीयादिति । अभिविधावाकार इत्येके । तृतीयमपि गृहीत्वा इत्यन्ये ।

विश्वास-प्रस्तुतिः

उपै॑नँ सोमपी॒थो न॑मति ।
यदै॒न्द्रो भव॑ति ।

मूलम्

उपै॑नँ सोमपी॒थो न॑मति ।
यदै॒न्द्रो भव॑ति ।

भट्टभास्कर-टीका

सोमपीथस्सोमपानम् । औणादिकस्थक्प्रत्ययः ।

विश्वास-प्रस्तुतिः

इ॒न्द्रि॒यव्ँ वै सो॑मपी॒थ इ॑न्द्रि॒यमे॒व सो॑मपी॒थमव॑रुन्धे ।
यदा॑ग्ने॒यो भव॑ति ।

मूलम्

इ॒न्द्रि॒यव्ँ वै सो॑मपी॒थ इ॑न्द्रि॒यमे॒व सो॑मपी॒थमव॑रुन्धे ।
यदा॑ग्ने॒यो भव॑ति ।

भट्टभास्कर-टीका

इन्द्रियं वा इति । तद्धेतुत्वात्ताच्छब्द्यम् ।

विश्वास-प्रस्तुतिः

आ॒ग्ने॒यो वै ब्रा॑ह्म॒णस्स्वामे॒व दे॒वता॒मनु॒ सन्त॑नोति ।
पुनरुत्सृ॒ष्टो भ॑वति ।
पुनरुत्सृ॒ष्ट इ॑व॒ ह्ये॑तस्य॑ +++(ए॒तस्य॑ सोमपी॒थः सो॒म॒पी॒थस्समृ॑द्ध्यै- इति क्रमपाठः । सोमपीथ इत्यत्र विराम आसीत् । परिशीलनीयम् ।)+++सोमपी॒थस्समृ॑द्ध्यै ।

मूलम्

आ॒ग्ने॒यो वै ब्रा॑ह्म॒णस्स्वामे॒व दे॒वता॒मनु॒ सन्त॑नोति ।
पुनरुत्सृ॒ष्टो भ॑वति ।
पुनरुत्सृ॒ष्ट इ॑व॒ ह्ये॑तस्य॑ +++(ए॒तस्य॑ सोमपी॒थः सो॒म॒पी॒थस्समृ॑द्ध्यै- इति क्रमपाठः । सोमपीथ इत्यत्र विराम आसीत् । परिशीलनीयम् ।)+++सोमपी॒थस्समृ॑द्ध्यै ।

भट्टभास्कर-टीका

आग्नेयो वा इति । अग्निर्देवता अस्येति सर्वत्र ‘अग्निकलिभ्यां’ इति ढक् ॥

मूलम् (संयुक्तम्)

ब्राह्मणस्प॒त्यन्तू॑प॒रमाल॑भेताभि॒चर॒न्ब्रह्म॑ण॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तस्मा॑ ए॒वैन॒मा वृ॑श्चति ता॒जगार्ति॒मार्च्छ॑ति तूप॒रो भ॑वति क्षु॒रप॑वि॒र्वा ए॒षा ल॒क्ष्मी यत्तू॑प॒रस्समृ॑द्ध्यै॒ स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्रह॑रति शर॒मय॑म्ब॒र्हिश्शृ॒णात्ये॒वैनव्ँ॒ वैभी॑दक इ॒द्ध्मो भि॒नत्त्ये॒वैन॑म् ॥ (35)

विश्वास-प्रस्तुतिः

ब्रा॒ह्म॒ण॒स्पत्यन्तू॑प॒रमाल॑भेत ।

मूलम्

ब्रा॒ह्म॒ण॒स्पत्यन्तू॑प॒रमाल॑भेत ।

भट्टभास्कर-टीका

6 ब्राह्मणस्पत्यमिति ॥ ब्रह्म परिबृढं यज्ञाख्यं कर्म तस्य पालकोग्निः ब्रह्मणस्पतिः । तूपरश्शृङ्गहीनः । पुच्छहीन इत्येके ।

विश्वास-प्रस्तुतिः

अ॒भि॒चर॒न्ब्रह्म॑ण॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।

मूलम्

अ॒भि॒चर॒न्ब्रह्म॑ण॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।

भट्टभास्कर-टीका

अभिचरन् मारयन् शत्रून् । ब्रह्मणः छान्दसोऽलुक् । ‘षष्ठ्याः पतिपुत्र’ इति सत्वम् ।

विश्वास-प्रस्तुतिः

तस्मा॑ ए॒वैन॒मा वृ॑श्चति ।

मूलम्

तस्मा॑ ए॒वैन॒मा वृ॑श्चति ।

भट्टभास्कर-टीका

एनमिति । अभिचर्यमाणं तस्मै ब्रह्मणस्पतये आभिमुख्येन वृश्चति ।

विश्वास-प्रस्तुतिः

ता॒जगार्ति॒मार्च्छ॑ति ।
तूप॒रो भ॑वति ।

मूलम्

ता॒जगार्ति॒मार्च्छ॑ति ।
तूप॒रो भ॑वति ।

भट्टभास्कर-टीका

ताजक् तदानीमेव आर्तिं प्राप्नोति । ‘उपसर्गादृति धातौ’ इति वृद्धिः ।

मूलम् (संयुक्तम्)

क्षु॒रप॑वि॒र्वा ए॒षा ल॒क्ष्मी यत्तू॑प॒रस्समृ॑द्ध्यै॒ स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्रह॑रति शर॒मय॑म्ब॒र्हिश्शृ॒णात्ये॒वैनव्ँ॒ वैभी॑दक इ॒द्ध्मो भि॒नत्त्ये॒वैन॑म् ॥

विश्वास-प्रस्तुतिः

क्षु॒रप॑वि॒र्वा ए॒षा ल॒क्ष्मी ।
यत्तू॑प॒रस्समृ॑द्ध्यै ।
स्फ्यो यूपो॑ भवति ।
वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्रह॑रति।

मूलम्

क्षु॒रप॑वि॒र्वा ए॒षा ल॒क्ष्मी ।
यत्तू॑प॒रस्समृ॑द्ध्यै ।
स्फ्यो यूपो॑ भवति ।
वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्रह॑रति।

भट्टभास्कर-टीका

क्षुरपविरिति । क्षुरत्वे छेदनसामर्थ्ये स्थितं पवित्वं वज्रत्वं यस्यास्सा तथोक्ता शीघ्रच्छेदिनी, लक्ष्मी लक्षणम् ॥

मूलम् (संयुक्तम्)

स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्रह॑रति शर॒मय॑म्ब॒र्हिश्शृ॒णात्ये॒वैनव्ँ॒ वैभी॑दक इ॒द्ध्मो भि॒नत्त्ये॒वैन॑म् ॥ (35)

विश्वास-प्रस्तुतिः

स्फ्यो यूपो॑ भवति +++(भ॑वति ?)+++।
वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्रह॑रति ।

मूलम्

स्फ्यो यूपो॑ भवति +++(भ॑वति ?)+++।
वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्रह॑रति ।

भट्टभास्कर-टीका

7स्फ्य इति ॥ स्फ्याकृतिर्यूपः कार्यः स्फ्य एव वा यूपः कार्यः । तदानीमन्येन स्फ्यकार्यं कुर्यात् ।

विश्वास-प्रस्तुतिः

श॒र॒मय॑म्ब॒र्हिश्शृ॒णात्ये॒वैन॑म् ।

मूलम्

श॒र॒मय॑म्ब॒र्हिश्शृ॒णात्ये॒वैन॑म् ।

भट्टभास्कर-टीका

शरमयमिति । ‘नित्यं वृद्धशिरादिभ्यः’ इति विकारे मयट् । शरोपि पङ्कतृणविशेषः तत्पर्णमयं भवति । शॄ हिंसायाम्, ‘पुंसि संज्ञायां घः’ ।

विश्वास-प्रस्तुतिः

वैभी॑दक इ॒द्ध्मो भि॒नत्त्ये॒वैन॑म् ॥

मूलम्

वैभी॑दक इ॒द्ध्मो भि॒नत्त्ये॒वैन॑म् ॥

भट्टभास्कर-टीका

वैभीदक इति । ‘पलाशादिभ्यो वा’ इत्यण् । विभीदकोऽक्षद्रुमः । विभिनत्तीति विभीदः, ततस्संज्ञायां कन्, पृषोदरादित्वाद्दीर्घत्वम् ॥

इति द्वितीये प्रथमे पञ्चमोनुवाकः ॥