विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाᳶ प्राय॑श्चित्तिमैच्छ॒न्तस्मा॑ ए॒तान्दश॑र्षभा॒माऽल॑भन्त॒ तयै॒वास्मि॒न्रुच॑मदधु॒र्यो ब्र॑ह्मवर्च॒सका॑म॒स्स्यात्तस्मा॑ ए॒तान्दश॑र्षभा॒माऽल॑भेता॒मुमे॒वादि॒त्यँ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मि॑न्ब्रह्मवर्च॒सन्द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति
विश्वास-प्रस्तुतिः
अ॒सावा॑दि॒त्यो न व्य॑रोचत ।
तस्मै॑ दे॒वाᳶ प्राय॑श्चित्तिमैच्छन् ।
तस्मा॑ ए॒तान्दश॑र्षभा॒माऽल॑भन्त ।
तयै॒वास्मि॒न्रुच॑मदधु॒र्यो ब्र॑ह्मवर्च॒सका॑म॒स्स्यात् ।
तस्मा॑ ए॒तान्दश॑र्षभा॒माऽल॑भेत ।
अमुमे॒वादि॒त्यँ स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वास्मि॑न्ब्रह्मवर्च॒सन्द॑धाति ।
ब्र॒ह्म॒व॒र्चस्ये॑व भ॑वति ।
मूलम्
अ॒सावा॑दि॒त्यो न व्य॑रोचत ।
तस्मै॑ दे॒वाᳶ प्राय॑श्चित्तिमैच्छन् ।
तस्मा॑ ए॒तान्दश॑र्षभा॒माऽल॑भन्त ।
तयै॒वास्मि॒न्रुच॑मदधु॒र्यो ब्र॑ह्मवर्च॒सका॑म॒स्स्यात् ।
तस्मा॑ ए॒तान्दश॑र्षभा॒माऽल॑भेत ।
अमुमे॒वादि॒त्यँ स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वास्मि॑न्ब्रह्मवर्च॒सन्द॑धाति ।
ब्र॒ह्म॒व॒र्चस्ये॑व भ॑वति ।
भट्टभास्कर-टीका
1 असावादित्य इत्यादि ॥ दशानामृषभानां समाहारो दशर्षभा । ‘आकारान्तोत्तरपदो द्विगुः स्त्रियामिष्यते’ इति त्रिफलादिवदजादित्वात् ‘द्विगोः’ इति ङीबभावः । ‘इगन्तकाल’ इति पूर्वपदप्रकृतिस्वरत्वम् । अनिगन्तेऽपि व्यत्ययेन प्रवर्तते । बहुव्रीहिर्वा ; समष्टिर्वाच्या । दशर्षभेति कर्मनाम, जातिरिति केचित् ॥
मूलम् (संयुक्तम्)
व॒सन्ता॑ प्रा॒तस्त्रील्लँ॒लामा॒नाल॑भेत ग्री॒ष्मे म॒द्ध्यन्दि॑ने (21) त्रीञ्छि॑तिपृ॒ष्ठाञ्छ॒रद्य॑परा॒ह्णे त्रीञ्छि॑ति॒वारा॒न्त्रीणि॒ वा आ॑दि॒त्यस्य॒ तेजाँ॑सि व॒सन्ता॑ प्रा॒तर्ग्री॒ष्मे म॒द्ध्यन्दि॑ने श॒रद्य॑परा॒ह्णे याव॑न्त्ये॒व तेजाँ॑सि॒ तान्ये॒वाव॑रुन्धे॒ त्रय॑स्त्रय॒ आल॑भ्यन्तेऽभिपू॒र्वमे॒वास्मि॒न्तेजो॑ दधाति सव्ँ वत्स॒रम्प॒र्याल॑भ्यन्ते
विश्वास-प्रस्तुतिः
व॒सन्ता॑ प्रा॒तस्त्रील्लँ॒लामा॒नाल॑भेत । ।
मूलम्
व॒सन्ता॑ प्रा॒तस्त्रील्लँ॒लामा॒नाल॑भेत । ।
भट्टभास्कर-टीका
2 वसन्तेति ॥ पूर्ववत्सप्तम्या डादेशः । वसन्ते चतुर्दश्यां प्रक्रमः । प्रातःकाले उपाकरणं वपाहोमोभयं यथा स्यात्तथोपक्रमः । ग्रीष्मशरदोर्मध्याह्नापराह्णयोरेवोपक्रमः । सर्वत्र संवत्सरे ब्रह्मचर्यादि यजमानस्य केचिदिच्छन्ति ।
ललामा उक्ताः ।
विश्वास-प्रस्तुतिः
ग्री॒ष्मे म॒द्ध्यन्दि॑ने॒ त्रीञ्छि॑तिपृ॒ष्ठान् ।
श॒रद्य॑परा॒ह्णे त्रीञ्छि॑ति वारा॑न्।
त्रीणि॒ वा आ॑दि॒त्यस्य॒ तेजाँ॑सि ।
व॒सन्ता॑ प्रा॒तर्ग्री॒ष्मे म॒द्ध्यन्दि॑ने श॒रद्य॑परा॒ह्णे ।
याव॑न्त्ये॒व तेजाँ॑सि॒ तान्ये॒वाव॑रुन्धे ।
त्रय॑स्त्रय॒ आल॑भ्यन्ते ।
मूलम्
ग्री॒ष्मे म॒द्ध्यन्दि॑ने॒ त्रीञ्छि॑तिपृ॒ष्ठान् ।
श॒रद्य॑परा॒ह्णे त्रीञ्छि॑ति वारा॑न्।
त्रीणि॒ वा आ॑दि॒त्यस्य॒ तेजाँ॑सि ।
व॒सन्ता॑ प्रा॒तर्ग्री॒ष्मे म॒द्ध्यन्दि॑ने श॒रद्य॑परा॒ह्णे ।
याव॑न्त्ये॒व तेजाँ॑सि॒ तान्ये॒वाव॑रुन्धे ।
त्रय॑स्त्रय॒ आल॑भ्यन्ते ।
भट्टभास्कर-टीका
शितिपृष्ठाश्वेतवाराः श्वेतवालाः । उभयत्रापि ‘शितेर्नित्याबह्वच्’ इत्युत्तरपद- प्रकृतिस्वरत्वम् ।
विश्वास-प्रस्तुतिः
अभिपू॒र्वमे॒वास्मि॒न्तेजो॑ दधाति ।
मूलम्
अभिपू॒र्वमे॒वास्मि॒न्तेजो॑ दधाति ।
भट्टभास्कर-टीका
अभिपूर्वमिति । अनुक्रमेण त्रिभिः पशुभिः त्रीणि तेजांस्यस्मिन् दधाति ।
विश्वास-प्रस्तुतिः
सव्ँ॒व॒त्स॒र॒म्प॒र्याल॑भ्यन्ते ।
मूलम्
सव्ँ॒व॒त्स॒र॒म्प॒र्याल॑भ्यन्ते ।
भट्टभास्कर-टीका
संवत्सरमित्यादि । गतम् ॥
मूलम् (संयुक्तम्)
सव्ँ वत्स॒रो वै ब्र॑ह्मवर्च॒सस्य॑ प्रदा॒ता सव्ँ॑वत्स॒र ए॒वास्मै॑ ब्रह्मवर्च॒सम्प्रय॑च्छति ब्रह्मवर्च॒स्ये॑व भ॑वति सव्ँ वत्स॒रस्य॑ प॒रस्ता॑त्प्राजाप॒त्यङ्कद्रु॑म् (22) आल॑भेत प्र॒जाप॑ति॒स्सर्वा॑ दे॒वता॑ दे॒वता॑स्वे॒व प्रति॑तिष्ठति
विश्वास-प्रस्तुतिः
सं॒व॒त्स॒रो वैै ब्र॑ह्मवर्च॒सस्य॑ प्र॒दाता।
सव्ँ॒व॒त्स॒र ए॒वास्मै॑ ब्रह्मवर्च॒सम्प्रय॑च्छति।
ब्रह्मवर्च॒स्ये॑व भ॑वति ।
सव्ँ॒व॒त्स॒रस्य॑ प॒रस्ता॑त्प्राजाप॒त्यङ्कद्रु॒मा ल॑भेत ।
प्र॒जाप॑ति॒स्सर्वा॑ दे॒वता॑ दे॒वता॑स्वे॒व प्रति॑तिष्ठति ।
मूलम्
सं॒व॒त्स॒रो वैै ब्र॑ह्मवर्च॒सस्य॑ प्र॒दाता।
सव्ँ॒व॒त्स॒र ए॒वास्मै॑ ब्रह्मवर्च॒सम्प्रय॑च्छति।
ब्रह्मवर्च॒स्ये॑व भ॑वति ।
सव्ँ॒व॒त्स॒रस्य॑ प॒रस्ता॑त्प्राजाप॒त्यङ्कद्रु॒मा ल॑भेत ।
प्र॒जाप॑ति॒स्सर्वा॑ दे॒वता॑ दे॒वता॑स्वे॒व प्रति॑तिष्ठति ।
भट्टभास्कर-टीका
3 संवत्सरस्येति ॥ यस्मिन्नारभ्यते पर्वणि दशर्षभा ततः प्रभृति द्वादशसु द्वादशसु पौर्णमासीषु द्वादशामावास्यासु चातीतासु त्रयोदशे पर्वणि सङ्कल्पः । कद्रुं पक्वबदरवर्णम् ॥
मूलम् (संयुक्तम्)
यदि॑ बिभी॒याद्दु॒श्चर्मा॑ भविष्या॒मीति॑ सोमापौ॒ष्णँ श्या॒ममाल॑भेत सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षᳶ पौ॒ष्णाᳶ प॒शव॒स्स्वयै॒वास्मै॑ दे॒वत॑या प॒शुभि॒स्त्वच॑ङ्करोति॒ न दु॒श्चर्मा॑ भवति
विश्वास-प्रस्तुतिः
यदि॑ बिभी॒याद्दु॒श्चर्मा॑ भविष्या॒मीति॑ ।
सो॒मा॒पौ॒ष्णँ श्या॒ममाल॑भेत ।
सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षः ।
पौ॒ष्णाᳶ प॒शवः॑ ।
स्वयै॒वास्मै॑ दे॒वत॑या प॒शुभि॒स्त्वच॑ङ्करोति ।
न दु॒श्चर्मा॑ भवति ।
मूलम्
यदि॑ बिभी॒याद्दु॒श्चर्मा॑ भविष्या॒मीति॑ ।
सो॒मा॒पौ॒ष्णँ श्या॒ममाल॑भेत ।
सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षः ।
पौ॒ष्णाᳶ प॒शवः॑ ।
स्वयै॒वास्मै॑ दे॒वत॑या प॒शुभि॒स्त्वच॑ङ्करोति ।
न दु॒श्चर्मा॑ भवति ।
भट्टभास्कर-टीका
4 यदीत्यादि ॥ दुश्चर्मा कुष्ठी । ‘परादिश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । कुष्ठादित्वग्दोषो मे भविष्यतीति यदि कथंचिल्लिङ्गाद्बिभीयादिति । स्वयेति । देवतया पशुभिश्च सहकारिभिः त्वचं शोभनां करोति ॥
मूलम् (संयुक्तम्)
दे॒वाश्च॒ वै य॒मश्चा॒स्मिल्ँ लो॒के॑ऽस्पर्द्धन्त॒ स य॒मो दे॒वाना॑मिन्द्रि॒यव्ँ वी॒र्य॑मयुवत॒ तद्य॒मस्य॑ (23) य॒म॒त्वन्ते दे॒वा अ॑मन्यन्त य॒मो वा इ॒दम॑भू॒द्यद्व॒यँ स्म इति॒ ते प्र॒जाप॑ति॒मुपा॑धाव॒न्त्स ए॒तौ प्र॒जाप॑तिरा॒त्मन॑ उक्षव॒शौ निर॑मिमीत॒ ते दे॒वा वै॑ष्णावरु॒णीव्ँ व॒शामाऽल॑भन्तै॒न्द्रमु॒क्षाण॒न्तव्ँ वरु॑णेनै॒व ग्रा॑हयि॒त्वा विष्णु॑ना य॒ज्ञेन॒ प्राणु॑दन्तै॒न्द्रेणै॒वास्ये॑न्द्रि॒यम॑वृञ्जत॒ यो भ्रातृ॑व्यवा॒न्त्स्यात्स स्पर्द्ध॑मानो वैष्णावरु॒णीम् (24) व॒शामाल॑भेतै॒न्द्रमु॒क्षाणव्ँ॒वरु॑णेनै॒व भ्रातृ॑व्यङ्ग्राहयि॒त्वा विष्णु॑ना य॒ज्ञेन॒ प्रणु॑दत ऐ॒न्द्रेणै॒वास्ये॑न्द्रि॒यव्ँ वृ॑ङ्क्ते॒ भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भव॒ति
विश्वास-प्रस्तुतिः
दे॒वाश्च॒ वै य॒मश्चा॒स्मिल्ँ लो॒के॑ऽस्पर्द्धन्त ।
मूलम्
दे॒वाश्च॒ वै य॒मश्चा॒स्मिल्ँ लो॒के॑ऽस्पर्द्धन्त ।
भट्टभास्कर-टीका
5 देवाश्चेत्यादि ॥ अस्मिन् लोके एतल्लोकनिमित्तमस्पर्धन्त अस्माकमेवायं लोक इति देवाः, ममैवायमिति यमः ।
विश्वास-प्रस्तुतिः
स य॒मो दे॒वाना॑मिन्द्रि॒यव्ँ वी॒र्य॑मयुवत ।
मूलम्
स य॒मो दे॒वाना॑मिन्द्रि॒यव्ँ वी॒र्य॑मयुवत ।
भट्टभास्कर-टीका
स इत्यादि । देवानामिन्द्रियं वीर्यं चायुवत देवेभ्यः पृथक्कृतवान् अपहृतवान् । व्यत्ययेन शप्, आत्मनेपदं च ।
विश्वास-प्रस्तुतिः
तद्य॒मस्य॑ यम॒त्वम् ।
ते दे॒वा अ॑मन्यन्त ।
मूलम्
तद्य॒मस्य॑ यम॒त्वम् ।
ते दे॒वा अ॑मन्यन्त ।
भट्टभास्कर-टीका
तदिति । यवनाद्यमः । यौतेः पचाद्यचि अन्त्यविकारश्छान्दसः ।
विश्वास-प्रस्तुतिः
य॒मो वा इ॒दम॑भू॒द्यद्व॒यँ स्म इति॑ ।
मूलम्
य॒मो वा इ॒दम॑भू॒द्यद्व॒यँ स्म इति॑ ।
भट्टभास्कर-टीका
यमो वा इति । यमो वा इदं विश्वमभूत् यमेश्वरमभूत् यद्वयं स्मः यदस्मदधीनं पूर्वमासीत् ।
विश्वास-प्रस्तुतिः
ते प्र॒जाप॑ति॒मुपा॑धावन् ।
मूलम्
ते प्र॒जाप॑ति॒मुपा॑धावन् ।
भट्टभास्कर-टीका
त इति । तथा मन्यमाना देवाः प्रजापतिमुपसम्प्राप्ताः इत्थं स्मः अत्र प्रतिकर्तुमर्हसीति ।
विश्वास-प्रस्तुतिः
स ए॒तौ प्र॒जाप॑तिरा॒त्मन॑ उक्षव॒शौ निर॑मिमीत ।
मूलम्
स ए॒तौ प्र॒जाप॑तिरा॒त्मन॑ उक्षव॒शौ निर॑मिमीत ।
भट्टभास्कर-टीका
स चात्मनः शरीरादुक्षवशौ निरमिमीत निर्माय दत्तवान् । उक्षा च वशा चोक्षवशौ, व्यत्ययेन पूर्ववल्लिङ्गता । उक्षा सेक्ता वशा वन्ध्या ।
विश्वास-प्रस्तुतिः
ते दे॒वा वै॑ष्णावरु॒णीव्ँ व॒शामाऽल॑भन्त ।
ऐ॒न्द्रमु॒क्षाण॒न्तव्ँ वरु॑णेनै॒व ग्रा॑हयि॒त्वा विष्णु॑ना य॒ज्ञेन॒ प्राणु॑दन्त ।
ऐ॒न्द्रेणै॒वास्ये॑न्द्रि॒यम॑वृञ्जत ।
यो भ्रातृ॑व्यवा॒न्त्स्यात्स स्पर्द्ध॑मानो वैष्णावरु॒णीम् व॒शामाल॑भेत ।
ऐ॒न्द्रमु॒क्षाणव्ँ॒वरु॑णेनै॒व भ्रातृ॑व्यङ्ग्राहयि॒त्वा विष्णु॑ना य॒ज्ञेन॒ प्रणु॑दत ।
ऐ॒न्द्रेणै॒वास्ये॑न्द्रि॒यव्ँ वृ॑ङ्क्ते ।
भव॑त्या॒त्मना॑ ।
परा॑स्य॒ भ्रातृ॑व्यो भव॒ति ।
मूलम्
ते दे॒वा वै॑ष्णावरु॒णीव्ँ व॒शामाऽल॑भन्त ।
ऐ॒न्द्रमु॒क्षाण॒न्तव्ँ वरु॑णेनै॒व ग्रा॑हयि॒त्वा विष्णु॑ना य॒ज्ञेन॒ प्राणु॑दन्त ।
ऐ॒न्द्रेणै॒वास्ये॑न्द्रि॒यम॑वृञ्जत ।
यो भ्रातृ॑व्यवा॒न्त्स्यात्स स्पर्द्ध॑मानो वैष्णावरु॒णीम् व॒शामाल॑भेत ।
ऐ॒न्द्रमु॒क्षाणव्ँ॒वरु॑णेनै॒व भ्रातृ॑व्यङ्ग्राहयि॒त्वा विष्णु॑ना य॒ज्ञेन॒ प्रणु॑दत ।
ऐ॒न्द्रेणै॒वास्ये॑न्द्रि॒यव्ँ वृ॑ङ्क्ते ।
भव॑त्या॒त्मना॑ ।
परा॑स्य॒ भ्रातृ॑व्यो भव॒ति ।
भट्टभास्कर-टीका
ते इत्यादि । गतम् ॥
मूलम् (संयुक्तम्)
इन्द्रो॑ वृ॒त्रम॑ह॒न्तव्ँ वृ॒त्रो ह॒तष्षो॑ड॒शभि॑र्भो॒गैर॑सिना॒त्तस्य॑ वृ॒त्रस्य॑ शीर्ष॒तो गाव॒ उदा॑य॒न्ता वै॑दे॒ह्यो॑ऽभव॒न्तासा॑मृष॒भो ज॒घनेऽनूदै॒त्तमिन्द्रः॑ (25) अ॒चा॒य॒त्सो॑ऽमन्यत॒ यो वा इ॒ममा॒लभे॑त॒ मुच्ये॑ता॒स्मात्पा॒प्मन॒ इति॒ स आ॑ग्ने॒यङ्कृ॒ष्णग्री॑व॒माल॑भतै॒न्द्रमृ॑ष॒भन्तस्या॒ग्निरे॒व स्वेन॑ भाग॒धेये॒नोप॑सृतष्षोडश॒धा वृ॒त्रस्य॑ भो॒गानप्य॑दहदै॒न्द्रेणे॑न्द्रि॒यमा॒त्मन्न॑धत्त॒ यᳶ पा॒प्मना॑ गृही॒तस्स्यात्स आ॑ग्ने॒यङ्कृ॒ष्णग्री॑व॒माल॑भेतै॒न्द्रमृ॑ष॒भम॒ग्निरे॒वास्य॒ स्वेन॑ भाग॒धेये॒नोप॑सृतः (26) पा॒प्मान॒मपि॑ दहत्यै॒न्द्रेणे॑न्द्रि॒यमा॒त्मन्ध॑त्ते॒ मुच्य॑ते पा॒प्मनो॒ भव॑त्ये॒व
विश्वास-प्रस्तुतिः
इन्द्रो॑ वृ॒त्रम॑हन् ।
तव्ँ वृ॒त्रो ह॒तष्षो॑ड॒शभि॑र्भो॒गैर॑सिनात् ।
मूलम्
इन्द्रो॑ वृ॒त्रम॑हन् ।
तव्ँ वृ॒त्रो ह॒तष्षो॑ड॒शभि॑र्भो॒गैर॑सिनात् ।
भट्टभास्कर-टीका
6 इन्द्रो वृत्रमहन्नित्यादि ॥ षोडशभिर्भोगैः शरीरदेशैः इन्द्रमसिनात् अबध्नात् । षिञ् बन्धने ।
विश्वास-प्रस्तुतिः
तस्य॑ वृ॒त्रस्य॑ शीर्ष॒तो गाव॒ उदा॑य॒न्ता वै॑दे॒ह्यो॑ऽभवन् ।
मूलम्
तस्य॑ वृ॒त्रस्य॑ शीर्ष॒तो गाव॒ उदा॑य॒न्ता वै॑दे॒ह्यो॑ऽभवन् ।
भट्टभास्कर-टीका
वैदेह्यो गोविशेषाः । केचिदाहुः - विदेहा एव वैदेह्यः अशरीरा गावोऽभवन् । ‘उदात्तस्वरितयोः’ इति विभक्तिस्स्वर्यते ।
विश्वास-प्रस्तुतिः
तासा॑मृष॒भो ज॒घनेऽनूदै॑त् ।
तमिन्द्रो॑चायत् ।
सो॑ऽमन्यत ।
मूलम्
तासा॑मृष॒भो ज॒घनेऽनूदै॑त् ।
तमिन्द्रो॑चायत् ।
सो॑ऽमन्यत ।
भट्टभास्कर-टीका
अथ तासां गवां जघने पश्चात् ऋषभोऽनूदैत् अनूद्गतः, तमिन्द्रश्श्रुतवान् ।
विश्वास-प्रस्तुतिः
यो वा इ॒ममा॒लभे॑त॒ मुच्ये॑ता॒स्मात्पा॒प्मन॒ इति॑ ।
मूलम्
यो वा इ॒ममा॒लभे॑त॒ मुच्ये॑ता॒स्मात्पा॒प्मन॒ इति॑ ।
भट्टभास्कर-टीका
अस्मादिति । सर्वलोकप्रसिद्धात्, न तु प्रकृतात्, अत एवान्वादेशाभावान्निघाताभावः । ‘ऊडिदम्’ इति आविभक्तेरुदात्तत्वम् ।
विश्वास-प्रस्तुतिः
स आ॑ग्ने॒यङ्कृ॒ष्णग्री॑व॒माल॑भत ।
ऐ॒न्द्रमृ॑ष॒भम् +++(आलभत)+++।
मूलम्
स आ॑ग्ने॒यङ्कृ॒ष्णग्री॑व॒माल॑भत ।
ऐ॒न्द्रमृ॑ष॒भम् +++(आलभत)+++।
भट्टभास्कर-टीका
अथैवं जानन्निन्द्रः स्वयं तावदाग्नेयं कृष्णग्रीवमालभत ऐन्द्रमृषभम् ।
विश्वास-प्रस्तुतिः
तस्या॒ग्निरे॒व स्वेन॑ भाग॒धेये॒नोप॑सृतष्षोडश॒धा वृ॒त्रस्य॑ भो॒गानप्य॑दहत् ।
मूलम्
तस्या॒ग्निरे॒व स्वेन॑ भाग॒धेये॒नोप॑सृतष्षोडश॒धा वृ॒त्रस्य॑ भो॒गानप्य॑दहत् ।
भट्टभास्कर-टीका
पृथक् स्वेन भागधेयेनोपसृतोऽग्निरस्येन्द्रस्य बाधकान् वृत्रभोगान् षोडशधा स्थितानप्यदहत् यथाकाममदहत् । यद्वा - षोडशधा स्थितान्सर्वानप्यदहत् ।
विश्वास-प्रस्तुतिः
ऐ॒न्द्रेणे॑न्द्रि॒यमा॒त्मन्न॑धत्त ।
यᳶ पा॒प्मना॑ गृही॒तस्स्यात्स आ॑ग्ने॒यङ्कृ॒ष्णग्री॑व॒माल॑भत ।
ऐ॒न्द्रमृ॑ष॒भम् ।
अग्निरे॒वास्य॒ स्वेन॑ भाग॒धेये॒नोप॑सृतᳶ पा॒प्मान॒मपि॑ दहति ।
ऐ॒न्द्रेणे॑न्द्रि॒यमा॒त्मन्ध॑त्ते ।
मुच्य॑ते पा॒प्मनो॒ भव॑त्ये॒व ।
मूलम्
ऐ॒न्द्रेणे॑न्द्रि॒यमा॒त्मन्न॑धत्त ।
यᳶ पा॒प्मना॑ गृही॒तस्स्यात्स आ॑ग्ने॒यङ्कृ॒ष्णग्री॑व॒माल॑भत ।
ऐ॒न्द्रमृ॑ष॒भम् ।
अग्निरे॒वास्य॒ स्वेन॑ भाग॒धेये॒नोप॑सृतᳶ पा॒प्मान॒मपि॑ दहति ।
ऐ॒न्द्रेणे॑न्द्रि॒यमा॒त्मन्ध॑त्ते ।
मुच्य॑ते पा॒प्मनो॒ भव॑त्ये॒व ।
भट्टभास्कर-टीका
ऐन्द्रेणात्मनीन्द्रियमधत्तेन्द्रः [गतमन्यत्] ॥
मूलम् (संयुक्तम्)
द्या॑वापृथि॒व्या॑न्धे॒नुमाल॑भेत॒ ज्योग॑परुद्धो॒ऽनयो॒र्हि वा ए॒षोऽप्र॑तिष्ठि॒तोऽथै॒ष ज्योगप॑रुद्धो॒ द्यावा॑पृथि॒वी ए॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ ते ए॒वैन॑म्प्रति॒ष्ठाङ्ग॑मयत॒ᳶ प्रत्ये॒व ति॑ष्ठति पर्या॒रिणी॑ भवति पर्या॒रीव॒ ह्ये॑तस्य॑ रा॒ष्ट्रय्ँ यो ज्योग॑परुद्ध॒स्समृ॑द्ध्यै
विश्वास-प्रस्तुतिः
द्या॒वा॒पृ॒थि॒व्या॑न्धे॒नुमाल॑भेत।
मूलम्
द्या॒वा॒पृ॒थि॒व्या॑न्धे॒नुमाल॑भेत।
भट्टभास्कर-टीका
7 द्यावापृथिव्यामिति ॥ ‘द्यावापृथिवी शुनासीर’ इति यत् ।
विश्वास-प्रस्तुतिः
ज्योग॑परुद्धो॒ऽनयो॒र्हि वा ए॒षोऽप्र॑तिष्ठितः ।
मूलम्
ज्योग॑परुद्धो॒ऽनयो॒र्हि वा ए॒षोऽप्र॑तिष्ठितः ।
भट्टभास्कर-टीका
ज्योगपरुद्धः दीर्घकालं दुर्गतः । राष्ट्रान्निर्वासित इत्येके ।
विश्वास-प्रस्तुतिः
अथै॒ष ज्योगप॑रुद्धो॒ द्यावा॑पृथि॒वी ए॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
मूलम्
अथै॒ष ज्योगप॑रुद्धो॒ द्यावा॑पृथि॒वी ए॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
भट्टभास्कर-टीका
द्यावापृथिव्योरप्रतिष्ठितत्वादेष ज्योगपरुद्धो भवति ।
विश्वास-प्रस्तुतिः
ते ए॒वैन॑म्प्रति॒ष्ठाङ्ग॑मयत॒ᳶ प्रत्ये॒व ति॑ष्ठति ।
प॒र्या॒रिणी॑ भवति ।
मूलम्
ते ए॒वैन॑म्प्रति॒ष्ठाङ्ग॑मयत॒ᳶ प्रत्ये॒व ति॑ष्ठति ।
प॒र्या॒रिणी॑ भवति ।
भट्टभास्कर-टीका
पर्यारिणी प्रसवकालमतीत्य कृतप्रसवा । केचिदाहुः - प्रजननकालमतीत्य प्रजायतः [… तीत्य या प्रजातेति । ]
विश्वास-प्रस्तुतिः
प॒र्या॒रीव॒ ह्ये॑तस्य॑ रा॒ष्ट्रय्ँ यो ज्योग॑परुद्ध॒स्समृ॑द्ध्यै ।
मूलम्
प॒र्या॒रीव॒ ह्ये॑तस्य॑ रा॒ष्ट्रय्ँ यो ज्योग॑परुद्ध॒स्समृ॑द्ध्यै ।
भट्टभास्कर-टीका
ज्योगपरुद्धस्य हि राष्ट्रं पर्यारि भवति दीर्घकालातिक्रमेण प्राप्तत्वात् । तस्मात्सदृशयोगस्समृद्ध्यै भवति ॥
मूलम् (संयुक्तम्)
वाय॒व्य॑म् (27) व॒त्समा ल॑भेत वा॒युर्वा अ॒नयो॑र्व॒त्स इ॒मे वा ए॒तस्मै॑ लो॒का अप॑शुष्का॒ विडप॑शु॒ष्काऽथै॒ष ज्योगप॑रुद्धो वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मा॑ इ॒माल्ँ लो॒कान् विश॒म्प्रदा॑पयति॒ प्रास्मा॑ इ॒मे लो॒कास्स्नु॑वन्ति भुञ्ज॒त्ये॑नव्ँ॒विडुप॑तिष्ठते ॥ (28)
विश्वास-प्रस्तुतिः
वाय॒व्य॑म् व॒त्समा ल॑भेत ।
वा॒युर्वा अ॒नयो॑र्व॒त्सः ।
मूलम्
वाय॒व्य॑म् व॒त्समा ल॑भेत ।
वा॒युर्वा अ॒नयो॑र्व॒त्सः ।
भट्टभास्कर-टीका
8 अथ वायव्यो वत्सोऽपरुद्धस्यैव विधीयते - तस्या एव धेनोर्द्यावापृथिव्योः हि वत्सो वायुः ।
विश्वास-प्रस्तुतिः
इ॒मे वा ए॒तस्मै॑ लो॒का अप॑शुष्का॒ विडप॑शु॒ष्काः ।
मूलम्
इ॒मे वा ए॒तस्मै॑ लो॒का अप॑शुष्का॒ विडप॑शु॒ष्काः ।
भट्टभास्कर-टीका
इमे च द्युप्रभृतयो लोकाः एतस्मै पुरुषायापशुष्काः अपरक्ता अस्मिन् भवन्ति । विट्च प्रजा चापशुष्का भवति ।
विश्वास-प्रस्तुतिः
अथै॒ष ज्योगप॑रुद्धो वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
मूलम्
अथै॒ष ज्योगप॑रुद्धो वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
भट्टभास्कर-टीका
अथैष ज्योगपरुद्धो भवति ।
विश्वास-प्रस्तुतिः
स ए॒वास्मा॑ इ॒माल्ँ लो॒कान् विश॒म्प्रदा॑पयति ।
प्रास्मा॑ इ॒मे लो॒कास्स्नु॑वन्ति ।
भुञ्ज॒त्ये॑नव्ँ॒विडुप॑तिष्ठते ॥
मूलम्
स ए॒वास्मा॑ इ॒माल्ँ लो॒कान् विश॒म्प्रदा॑पयति ।
प्रास्मा॑ इ॒मे लो॒कास्स्नु॑वन्ति ।
भुञ्ज॒त्ये॑नव्ँ॒विडुप॑तिष्ठते ॥
भट्टभास्कर-टीका
प्रदापयतीति । अपरं हित्वा यथास्मै वसूनि ददाति विट्च तथा करोति वायुः, ततश्चास्मै इमे लोकाः प्रस्नुवन्ति वसस्नेहः [सस्नेहं] वसूनि दुहन्ति, विट्च एनमुपतिष्ठते सङ्गच्छते इति । सङ्गतिकरण आत्मनेपदम्, कीदृशा भूत्वा - भुञ्जति सर्वदा एनं परिपालयन्ति । ‘भुजोऽनवने’ इत्यात्मनेपदाभावात् ‘शतुरनुमः’ इति नद्या उदात्तत्वम् ॥
द्वितीये प्रथमे चतुर्थः ॥