०३

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

दे॒वा॒सु॒रा ए॒षु लो॒केष्व॑स्पर्द्धन्त॒ स ए॒तव्ँ विष्णु॑र्वाम॒नम॑पश्य॒त्तँ स्वायै॑ दे॒वता॑या॒ आऽल॑भत॒ ततो॒ वै स इ॒माल्ँ लो॒कान॒भ्य॑जयद्वैष्ण॒वव्ँ वा॑म॒नमाल॑भेत॒ स्पर्द्ध॑मानो॒ विष्णु॑रे॒व भू॒त्वेमाल्ँ लो॒कान॒भिज॑यति॒ विष॑म॒ आल॑भेत॒ विष॑मा इव॒ हीमे लो॒कास्समृ॑द्ध्यै

विश्वास-प्रस्तुतिः

दे॒वा॒सु॒रा ए॒षु लो॒केष्व॑स्पर्द्धन्त।

मूलम्

दे॒वा॒सु॒रा ए॒षु लो॒केष्व॑स्पर्द्धन्त।

भट्टभास्कर-टीका

1 देवासुरा इत्यादि ॥ स्पर्धा लोकविषयं परस्परमैश्वर्यासहनम् ।

विश्वास-प्रस्तुतिः

स ए॒तव्ँ विष्णु॑र्वाम॒नम॑पश्यत् ।

मूलम्

स ए॒तव्ँ विष्णु॑र्वाम॒नम॑पश्यत् ।

भट्टभास्कर-टीका

वामनो ह्रस्वाङ्गः । स्वायै देवतायै आत्मानमेव देवतां कृत्वा ।

विश्वास-प्रस्तुतिः

तँ स्वायै॑ दे॒वता॑या॒ आऽल॑भत ।

मूलम्

तँ स्वायै॑ दे॒वता॑या॒ आऽल॑भत ।

भट्टभास्कर-टीका

तस्यै वामनमालभत ।

विश्वास-प्रस्तुतिः

ततो॒ वै स इ॒माल्ँ लो॒कान॒भ्य॑जयत् ।
वैष्ण॒वव्ँ वा॑म॒नमाल॑भेत।
स्पर्द्ध॑मानो॒ विष्णु॑रे॒व भू॒त्वेमाल्ँ लो॒कान॒भिज॑यति ।

मूलम्

ततो॒ वै स इ॒माल्ँ लो॒कान॒भ्य॑जयत् ।
वैष्ण॒वव्ँ वा॑म॒नमाल॑भेत।
स्पर्द्ध॑मानो॒ विष्णु॑रे॒व भू॒त्वेमाल्ँ लो॒कान॒भिज॑यति ।

भट्टभास्कर-टीका

ततो वा इत्यादि । गतम् । स्पर्धमान इति स्पर्धाविषयसिद्ध्यै ।

विश्वास-प्रस्तुतिः

विष॑म॒ आल॑भेत ।

मूलम्

विष॑म॒ आल॑भेत ।

भट्टभास्कर-टीका

विषम इति । निम्नोन्नतस्थले देवयजनभूते ।

विश्वास-प्रस्तुतिः

विष॑मा इव॒ हीमे लो॒कास्समृ॑द्ध्यै ।

मूलम्

विष॑मा इव॒ हीमे लो॒कास्समृ॑द्ध्यै ।

भट्टभास्कर-टीका

विषमा इवेति । भोक्तृभोग्यादिवैलक्षण्याद्वैषम्यं लोकानाम् ॥

मूलम् (संयुक्तम्)

इन्द्रा॑य मन्यु॒मते॒ मन॑स्वते ल॒लाम॑म्प्राशॄ॒ङ्गमाल॑भेत सङ्ग्रा॒मे (16)
सय्ँय॑त्त इन्द्रि॒येण॒ वै म॒न्युना॒ मन॑सा सङ्ग्रा॒मञ्ज॑य॒तीन्द्र॑मे॒व म॑न्यु॒मन्त॒म्मन॑स्वन्तँ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मि॑न्निन्द्रि॒यम्म॒न्युम्मनो॑ दधाति॒ जय॑ति॒ तँ स॑ङ्ग्रा॒मम्

विश्वास-प्रस्तुतिः

इन्द्रा॑य मन्यु॒मते॒ मन॑स्वते ल॒लाम॑म्प्राशॄ॒ङ्गमाल॑भेत ।

मूलम्

इन्द्रा॑य मन्यु॒मते॒ मन॑स्वते ल॒लाम॑म्प्राशॄ॒ङ्गमाल॑भेत ।

भट्टभास्कर-टीका

2 इन्द्रायेत्यादि ॥ ललामः श्वेतपुण्ड्रलाच्छितललाटः । मत्त्वर्थीयो लुप्यते । प्राशृङ्गो लम्बितशृङ्गः, पिङ्गल- प्राशृङ्गो गौः’ इति भरद्वाजवचनात् ।

विश्वास-प्रस्तुतिः

सङ्ग्रा॒मे सय्ँय॑त्त इन्द्रि॒येण॒ वै म॒न्युना॒ मन॑सा सङ्ग्रा॒मञ्ज॑यति ।
इन्द्र॑मे॒व म॑न्यु॒मन्त॒म्मन॑स्वन्तँ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वास्मि॑न्निन्द्रि॒यम्म॒न्युम्मनो॑ दधाति ।
जय॑ति॒ तँ स॑ङ्ग्रा॒मम् ।

मूलम्

सङ्ग्रा॒मे सय्ँय॑त्त इन्द्रि॒येण॒ वै म॒न्युना॒ मन॑सा सङ्ग्रा॒मञ्ज॑यति ।
इन्द्र॑मे॒व म॑न्यु॒मन्त॒म्मन॑स्वन्तँ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वास्मि॑न्निन्द्रि॒यम्म॒न्युम्मनो॑ दधाति ।
जय॑ति॒ तँ स॑ङ्ग्रा॒मम् ।

भट्टभास्कर-टीका

इन्द्रियेणेत्यादि । इन्द्रियं वीर्यम् । इन्द्रियादित्रयं सङ्ग्रामजयश्रीहेतुः ॥

मूलम् (संयुक्तम्)

इन्द्रा॑य म॒रुत्व॑ते पृश्ञिस॒क्थमाल॑भेत॒ ग्राम॑काम॒ इन्द्र॑मे॒व म॒रुत्व॑न्तँ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ सजा॒तान्प्रय॑च्छति ग्रा॒म्ये॑व भ॑वति॒ यदृ॑ष॒भस्तेन॑ (17) ऐ॒न्द्रो यत्पृश्ञि॒स्तेन॑ मारु॒तस्समृ॑द्ध्यै प॒श्चात्पृ॑श्ञिस॒क्थो भ॑वति पश्चादन्ववसा॒यिनी॑मे॒वास्मै॒ विश॑ङ्करोति

विश्वास-प्रस्तुतिः

इन्द्रा॑य म॒रुत्व॑ते पृश्ञिस॒क्थमाल॑भेत॒ ग्राम॑कामः ।
इन्द्र॑मे॒व म॒रुत्व॑न्तँ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वास्मै॑ सजा॒तान्प्रय॑च्छति ।
ग्रा॒म्ये॑व भ॑वति।

मूलम्

इन्द्रा॑य म॒रुत्व॑ते पृश्ञिस॒क्थमाल॑भेत॒ ग्राम॑कामः ।
इन्द्र॑मे॒व म॒रुत्व॑न्तँ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वास्मै॑ सजा॒तान्प्रय॑च्छति ।
ग्रा॒म्ये॑व भ॑वति।

भट्टभास्कर-टीका

3 मरुत्त्वत इति ॥ ‘तसौ मत्त्वर्थे’ इति भत्वम् । पृश्निसक्थः श्वेतजानुः, श्वेतोरुरित्येके श्वेतकटिप्रदेश इति । ‘बहुव्रीहौ सक्थ्यक्ष्णोः’ इति षच् ।

विश्वास-प्रस्तुतिः

यदृ॑ष॒भस्तेन॑ ऐ॒न्द्रः ।

मूलम्

यदृ॑ष॒भस्तेन॑ ऐ॒न्द्रः ।

भट्टभास्कर-टीका

यदृषभ इत्यादि । ऋषभस्य सेक्तृत्वादैन्द्रत्वम् ।

विश्वास-प्रस्तुतिः

यत्पृश्ञि॒स्तेन॑ मारु॒तः ।

मूलम्

यत्पृश्ञि॒स्तेन॑ मारु॒तः ।

भट्टभास्कर-टीका

श्वेतस्य वायव्यत्वात्पृश्नेर्मारुतत्वम् ।

विश्वास-प्रस्तुतिः

समृ॑द्ध्यै प॒श्चात्पृ॑श्ञिस॒क्थो भ॑वति ।

मूलम्

समृ॑द्ध्यै प॒श्चात्पृ॑श्ञिस॒क्थो भ॑वति ।

भट्टभास्कर-टीका

समृद्ध्या इति । सदृशस्सम्बन्धस्समृद्धिः ।

विश्वास-प्रस्तुतिः

प॒श्वा॒द॒न्व॒व॒सा॒यिनी॑मे॒वास्मै॒ विश॑ङ्करोति ।

मूलम्

प॒श्वा॒द॒न्व॒व॒सा॒यिनी॑मे॒वास्मै॒ विश॑ङ्करोति ।

भट्टभास्कर-टीका

पश्चादिति । सक्थः पश्चाद्भागे पृश्नित्वं यस्य स तथोक्तः । पश्चादन्ववसायिनीं पश्चादनुसृत्यावस्थानशीलां विशं प्रजां करोति ॥

मूलम् (संयुक्तम्)

सौ॒म्यम्ब॒भ्रुमाल॑भे॒तान्न॑कामस्सौ॒म्यव्ँ वा अन्नँ॒ सोम॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मा॒ अन्न॒म्प्रय॑च्छत्यन्ना॒द ए॒व भ॑वति ब॒भ्रुर्भ॑वत्ये॒तद्वा अन्न॑स्य रू॒पँ समृ॑द्ध्यै

विश्वास-प्रस्तुतिः

सौ॒म्यम्ब॒भ्रुमाल॑भे॒तान्न॑कामः ।
सौ॒म्यव्ँ वा अन्नँ॒ सोम॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वास्मा॒ अन्न॒म्प्रय॑च्छत्यन्ना॒द ए॒व भ॑वति ।
ब॒भ्रुर्भ॑वति ।
ए॒तद्वा अन्न॑स्य रू॒पँ समृ॑द्ध्यै ।

मूलम्

सौ॒म्यम्ब॒भ्रुमाल॑भे॒तान्न॑कामः ।
सौ॒म्यव्ँ वा अन्नँ॒ सोम॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वास्मा॒ अन्न॒म्प्रय॑च्छत्यन्ना॒द ए॒व भ॑वति ।
ब॒भ्रुर्भ॑वति ।
ए॒तद्वा अन्न॑स्य रू॒पँ समृ॑द्ध्यै ।

भट्टभास्कर-टीका

4 सौम्यमित्यादि ॥ बभ्रुः कपिलश्यामः । सौम्यमन्नं, तस्योदयशीलत्वाद्बभ्रुरिति ॥

मूलम् (संयुक्तम्)

सौ॒म्यम्ब॒भ्रुमाल॑भेत॒ यमल॑म् (18) रा॒ज्याय॒ सन्तँ॑ रा॒ज्यन्नोप॒नमे॑त्सौ॒म्यव्ँ वै रा॒ज्यँ सोम॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ रा॒ज्यम्प्रय॑च्छ॒त्युपै॑नँ रा॒ज्यन्न॑मति ब॒भ्रुर्भ॑वत्ये॒तद्वै सोम॑स्य रू॒पँ समृ॑द्ध्यै

विश्वास-प्रस्तुतिः

सौ॒म्यम्ब॒भ्रुमाल॑भेत ।
यमलँ॑ रा॒ज्याय॒ सन्तँ॑ रा॒ज्यन् नोप॒नमे॑त् ।
सौ॒म्यव्ँ वै रा॒ज्यँ सोम॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वास्मै॑ रा॒ज्यम्प्रय॑च्छति ।
उपै॑नँ रा॒ज्यन्न॑मति ।
ब॒भ्रुर्भ॑वति ।
ए॒तद्वै सोम॑स्य रू॒पँ समृ॑द्ध्यै ।

मूलम्

सौ॒म्यम्ब॒भ्रुमाल॑भेत ।
यमलँ॑ रा॒ज्याय॒ सन्तँ॑ रा॒ज्यन् नोप॒नमे॑त् ।
सौ॒म्यव्ँ वै रा॒ज्यँ सोम॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वास्मै॑ रा॒ज्यम्प्रय॑च्छति ।
उपै॑नँ रा॒ज्यन्न॑मति ।
ब॒भ्रुर्भ॑वति ।
ए॒तद्वै सोम॑स्य रू॒पँ समृ॑द्ध्यै ।

भट्टभास्कर-टीका

5 राज्यं प्राप्तुं योग्यमपि राज्यं राजन्यं वा यन्नोपनमेत् नोपगच्छेत् । राज्ञः कर्म राज्यम् । पुरोहितादित्वात् यत् ॥

मूलम् (संयुक्तम्)

इन्द्रा॑य वृत्र॒तुरे॑ ल॒लाम॑म्प्राशृ॒ङ्गमाल॑भेत ग॒तश्रीः॑ प्रति॒ष्ठाका॑मᳶ पा॒प्मान॑मे॒व वृ॒त्रन्ती॒र्त्वा प्र॑ति॒ष्ठाङ्ग॑च्छ॒ति

विश्वास-प्रस्तुतिः

इन्द्रा॑य वृत्र॒तुरे॑ ल॒लाम॑म्प्राशृ॒ङ्गमाल॑भेत ।

मूलम्

इन्द्रा॑य वृत्र॒तुरे॑ ल॒लाम॑म्प्राशृ॒ङ्गमाल॑भेत ।

भट्टभास्कर-टीका

6 वृत्रतुर इति ॥ वृत्रस्य वा पापादेर्वा हिंसिता वृत्रतूः । तुर्वी हिंसायाम्, क्विप् । ललामं प्राशृङ्गमिति व्याख्यातम् ।

विश्वास-प्रस्तुतिः

ग॒तश्रीः॑ प्रति॒ष्ठाका॑मᳶ पा॒प्मान॑मे॒व वृ॒त्रन्ती॒र्त्वा प्र॑ति॒ष्ठाङ्ग॑च्छति ।

मूलम्

ग॒तश्रीः॑ प्रति॒ष्ठाका॑मᳶ पा॒प्मान॑मे॒व वृ॒त्रन्ती॒र्त्वा प्र॑ति॒ष्ठाङ्ग॑च्छति ।

भट्टभास्कर-टीका

गतश्रीः । केचिदाहुः - शुश्रुवान् ग्रामणी राजन्यो वेति । पाप्मानमिति । येन प्रतिष्ठा निरुद्ध्यते । वृत्रं वारकम् ॥

मूलम् (संयुक्तम्)

इन्द्रा॑याभिमाति॒घ्ने ल॒लाम॑म्प्राशृ॒ङ्गमा (19) ल॒भे॒त॒ यᳶ पा॒प्मना॑ गृही॒तस्स्यात्पा॒प्मा वा अ॒भिमा॑ति॒रिन्द्र॑मे॒वाभि॑माति॒हनँ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मा॑त्पा॒प्मान॑म॒भिमा॑ति॒म्प्रणु॑दत

विश्वास-प्रस्तुतिः

इन्द्रा॑याभिमाति॒घ्ने ल॒लाम॑म्प्राशृ॒ङ्गमा ल॑भेत ।
यᳶ पा॒प्मना॑ गृही॒तस्स्यात् ।
पा॒प्मा वा अ॒भिमा॑तिः ।
इन्द्र॑मे॒वाभि॑माति॒हनँ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वास्मा॑त्पा॒प्मान॑म॒भिमा॑ति॒म्प्रणु॑दत ।

मूलम्

इन्द्रा॑याभिमाति॒घ्ने ल॒लाम॑म्प्राशृ॒ङ्गमा ल॑भेत ।
यᳶ पा॒प्मना॑ गृही॒तस्स्यात् ।
पा॒प्मा वा अ॒भिमा॑तिः ।
इन्द्र॑मे॒वाभि॑माति॒हनँ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वास्मा॑त्पा॒प्मान॑म॒भिमा॑ति॒म्प्रणु॑दत ।

भट्टभास्कर-टीका

7 अभिमातिघ्न इति ॥ अभिमातिः पाप्मा तस्य हन्त्रे । क्विप् । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । गतमन्यत् ॥

मूलम् (संयुक्तम्)

इन्द्रा॑य व॒ज्रिणे॑ ल॒लाम॑म्प्राशृ॒ङ्गमाल॑भेत॒ यमलँ॑ रा॒ज्याय॒ सन्तँ॑ रा॒ज्यन्नोप॒नमे॒दिन्द्र॑मे॒व व॒ज्रिणँ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॒ वज्र॒म्प्रय॑च्छति॒ स ए॑नव्ँ॒वज्रो॒ भूत्या॑ इन्ध॒ उपै॑नँ रा॒ज्यन्न॑मति ल॒लामᳶ॑ प्राशृ॒ङ्गो भ॑वत्ये॒तद्वै वज्र॑स्य रू॒पँ समृ॑द्ध्यै ॥ (20)

विश्वास-प्रस्तुतिः

इन्द्रा॑य व॒ज्रिणे॑ ल॒लाम॑म्प्राशृ॒ङ्गमाल॑भेत ।
यमलँ॑ रा॒ज्याय॒ सन्तँ॑ रा॒ज्यन्नोप॒नमे॑त् ।
इन्द्र॑मे॒व व॒ज्रिणँ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वास्मै॒ वज्र॒म्प्रय॑च्छति।
स ए॑नव्ँ॒वज्रो॒ भूत्या॑ इन्ध॒ उपै॑नँ रा॒ज्यन्न॑मति ।
ल॒लामᳶ॑ प्राशृ॒ङ्गो भ॑वति ।
ए॒तद्वै वज्र॑स्य रू॒पँ समृ॑द्ध्यै ॥

मूलम्

इन्द्रा॑य व॒ज्रिणे॑ ल॒लाम॑म्प्राशृ॒ङ्गमाल॑भेत ।
यमलँ॑ रा॒ज्याय॒ सन्तँ॑ रा॒ज्यन्नोप॒नमे॑त् ।
इन्द्र॑मे॒व व॒ज्रिणँ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वास्मै॒ वज्र॒म्प्रय॑च्छति।
स ए॑नव्ँ॒वज्रो॒ भूत्या॑ इन्ध॒ उपै॑नँ रा॒ज्यन्न॑मति ।
ल॒लामᳶ॑ प्राशृ॒ङ्गो भ॑वति ।
ए॒तद्वै वज्र॑स्य रू॒पँ समृ॑द्ध्यै ॥

भट्टभास्कर-टीका

8 इन्धे इति ॥ राज्यप्राप्तियोग्यां दीप्तिं करोतीति । ञि इन्धी दीप्तौ, श्नान्नलोपः ॥

इति द्वितीये प्रथमे तृतीयोऽनुवाकः ॥