विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत॒ ता अ॑स्मात्सृ॒ष्टाᳶ परा॑चीराय॒न्ता वरु॑णमगच्छ॒न्ता अन्वै॒त्ताᳶ पुन॑रयाचत॒ ता अ॑स्मै॒ न पुन॑रददा॒त्सो॑ऽब्रवी॒द्वरव्ँ॑ वृणी॒ष्वाथ॑ मे॒ पुन॑र्दे॒हीति॒ तासाव्ँ॒वर॒माऽल॑भत॒ स कृ॒ष्ण एक॑शितिपादभवत्
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
ता अ॑स्मात्सृ॒ष्टाᳶ परा॑चीरायन् ।
मूलम्
प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
ता अ॑स्मात्सृ॒ष्टाᳶ परा॑चीरायन् ।
भट्टभास्कर-टीका
1 प्रजापतिरित्यादि ॥ प्रजापतिना सृष्टाः प्रजाः पराचीः पराच्यः अपरक्तचित्तास्सत्यः अस्मात्प्रजापतेरायन् आगच्छन् ।
विश्वास-प्रस्तुतिः
ता वरु॑णमगच्छन् ।
मूलम्
ता वरु॑णमगच्छन् ।
भट्टभास्कर-टीका
ता वरुणमगच्छन् अभजन्त ।
विश्वास-प्रस्तुतिः
ता अन्वै॑त् ।
मूलम्
ता अन्वै॑त् ।
भट्टभास्कर-टीका
अथ प्रजापतिः ताः प्रजाः पराचीर्यातीः अन्वैत् अन्वगच्छत् ।
विश्वास-प्रस्तुतिः
ताᳶ पुन॑रयाचत ।
मूलम्
ताᳶ पुन॑रयाचत ।
भट्टभास्कर-टीका
ताश्च वरुणमयाचत ।
विश्वास-प्रस्तुतिः
ता अ॑स्मै॒ न पुन॑रददात् ।
मूलम्
ता अ॑स्मै॒ न पुन॑रददात् ।
भट्टभास्कर-टीका
वरुणश्च ताः पुनःपुनर्याचितोऽपि नाददात् न दत्तवान् ।
विश्वास-प्रस्तुतिः
सो॑ऽब्रवीत् ।
वरव्ँ॑ वृणीष्व ।
मूलम्
सो॑ऽब्रवीत् ।
वरव्ँ॑ वृणीष्व ।
भट्टभास्कर-टीका
अथाब्रवीत्प्रजापतिः, वरमभिमतं मत्तो वृणीष्व ।
विश्वास-प्रस्तुतिः
अथ॑ मे॒ पुन॑र्दे॒हीति॑ ।
मूलम्
अथ॑ मे॒ पुन॑र्दे॒हीति॑ ।
भट्टभास्कर-टीका
अथानन्तरमिमाः प्रजाः वरलाभतुष्टो मे देहीति ।
विश्वास-प्रस्तुतिः
तासाव्ँ॒वर॒माऽल॑भत ।
मूलम्
तासाव्ँ॒वर॒माऽल॑भत ।
भट्टभास्कर-टीका
अथैवमुक्त्वा तासां प्रजानां मध्ये वरं वरिष्ठं पशुं वरुणायालभत स्वयमेव वरदानमालम्भनेनाकरोत् ।
विश्वास-प्रस्तुतिः
स कृ॒ष्ण एक॑शितिपादभवत् ।
मूलम्
स कृ॒ष्ण एक॑शितिपादभवत् ।
भट्टभास्कर-टीका
स च ततः प्रमापितः कृष्ण एकशितिपादभवत् ।एकश्शितिः श्वेतः पादो यस्येति त्रिपदो बहुव्रीहिः । यद्वा - शितिः पादो यस्येति शितिपात् । ‘पादस्य लोपः’ इति समासान्तः । एकेन पादेन शितिपात् । तृतीयापूर्वपदप्रकृतिस्वरत्वम् ॥
मूलम् (संयुक्तम्)
यो वरु॑णगृहीत॒स्स्यात्स ए॒तव्ँ वा॑रु॒णङ्कृ॒ष्णमेक॑शितिपाद॒माल॑भेत॒ वरु॑णम् (7) ए॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वैनव्ँ॑वरुणपा॒शान्मु॑ञ्चति कृ॒ष्ण एक॑शितिपाद्भवति वारु॒णो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै
विश्वास-प्रस्तुतिः
यो वरु॑णगृहीत॒स्स्यात् ।
स ए॒तव्ँ वा॑रु॒णङ्कृ॒ष्णमेक॑शितिपाद॒माल॑भेत ।
वरु॑णमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वैनव्ँ॑वरुणपा॒शान्मु॑ञ्चति ।
कृ॒ष्ण एक॑शितिपाद्भवति ।
वा॒रु॒णो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै ।
मूलम्
यो वरु॑णगृहीत॒स्स्यात् ।
स ए॒तव्ँ वा॑रु॒णङ्कृ॒ष्णमेक॑शितिपाद॒माल॑भेत ।
वरु॑णमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वैनव्ँ॑वरुणपा॒शान्मु॑ञ्चति ।
कृ॒ष्ण एक॑शितिपाद्भवति ।
वा॒रु॒णो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै ।
भट्टभास्कर-टीका
2 वरुणगृहीतस्स्यादिति ॥ वरुणो महोदर इति व्याधिरित्येके । अज्ञातरोग इत्यन्ये । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । गतमन्यत् ॥
मूलम् (संयुक्तम्)
सुव॑र्भानुरासु॒रस्सूर्य॒न्तम॑साऽविद्ध्य॒त्तस्मै॑ दे॒वाᳶ प्राय॑श्चित्तिमैच्छ॒न्तस्य॒ यत्प्र॑थ॒मन्तमो॒ऽपाघ्न॒न्त्सा कृ॒ष्णाऽवि॑रभव॒द्यद्द्वि॒तीयँ॒ सा फल्गु॑नी॒ यत्तृ॒तीयँ॒ सा ब॑ल॒क्षी यद॑द्ध्य॒स्थाद॒पाकृ॑न्त॒न्त्साऽवि॑ऽर्व॒शा (8) सम॑भव॒त्ते दे॒वा अ॑ब्रुवन्देवप॒शुर्वा अ॒यँ सम॑भू॒त्कस्मा॑ इ॒ममाल॑प्स्यामह॒ इत्यथ॒ वै तर्ह्यल्पा॑ पृथि॒व्यासी॒दजा॑ता॒ ओष॑धय॒स्तामविव्ँ॑व॒शामा॑दि॒त्येभ्य॒ᳵ कामा॒याऽल॑भन्त॒ ततो॒ वा अप्र॑थत पृथि॒व्यजा॑य॒न्तौष॑धयो॒ यᳵ का॒मये॑त॒ प्रथे॑य प॒शुभि॒ᳶ प्र प्र॒जया॑ जाये॒येति॒ स ए॒तामविव्ँ॑व॒शामा॑दि॒त्येभ्य॒ᳵ कामा॑य (9) आ ल॑भेतादि॒त्याने॒व कामँ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ त ए॒वैन॑म्प्र॒थय॑न्ति प॒शुभि॒ᳶ प्र प्र॒जया॑ जनयन्ति
विश्वास-प्रस्तुतिः
सुव॑र्भानुरासु॒रस्सूर्य॒न्तम॑साऽविद्ध्यत् ।
मूलम्
सुव॑र्भानुरासु॒रस्सूर्य॒न्तम॑साऽविद्ध्यत् ।
भट्टभास्कर-टीका
3 सुवर्भानुरिति ॥ सुवर्भानुर्नाम आसुरः असुरस्यापत्यम् । शिवादित्वादण् । तमसा अविध्यत् अबाधत ।
विश्वास-प्रस्तुतिः
तस्मै॑ दे॒वाᳶ प्राय॑श्चित्तिमैच्छन् ।
मूलम्
तस्मै॑ दे॒वाᳶ प्राय॑श्चित्तिमैच्छन् ।
भट्टभास्कर-टीका
प्रायश्चित्तिः दोषनिर्घातार्थो यत्नः । अथ प्रथमं यत्तमोऽपाघ्नन्, सा कृष्णवर्णाऽविरजायत ।
विश्वास-प्रस्तुतिः
तस्य॒ यत्प्र॑थ॒मन्तमो॒ऽपाघ्नन् ।
सा कृ॒ष्णाऽवि॑रभवत् ।
यद्द्वि॒तीयँ॒ सा फल्गु॑नी ।
मूलम्
तस्य॒ यत्प्र॑थ॒मन्तमो॒ऽपाघ्नन् ।
सा कृ॒ष्णाऽवि॑रभवत् ।
यद्द्वि॒तीयँ॒ सा फल्गु॑नी ।
भट्टभास्कर-टीका
द्वितीयं यदपाघ्नन् सा फल्गुनी नीलवर्णा ।
विश्वास-प्रस्तुतिः
यत्तृ॒तीयँ॒ सा ब॑ल॒क्षी ।
मूलम्
यत्तृ॒तीयँ॒ सा ब॑ल॒क्षी ।
भट्टभास्कर-टीका
यत्तृतीयमपाघ्नन्, सा बलक्षी शुक्लवर्णा । अन्यतो ङीष् । वबयोरेकत्वमिच्छन्ति ।
विश्वास-प्रस्तुतिः
यद॑द्ध्य॒स्थाद॒पाकृ॑न्त॒त् साऽवि॑ऽर्व॒शा सम॑भवत् ।
मूलम्
यद॑द्ध्य॒स्थाद॒पाकृ॑न्त॒त् साऽवि॑ऽर्व॒शा सम॑भवत् ।
भट्टभास्कर-टीका
अथाध्यस्थात् अस्थिभ्यो यत्तमोऽपाघ्नन् अपाच्छिदन्, सा वशा वन्ध्याऽविरजायत । अध्यस्थादिति विभक्त्यर्थेऽव्ययीभावः । ‘छन्दस्यपि दृश्यते’ इत्यनङादेशः ‘नपुंसकादन्यतरस्याम्’ इति टच्समासान्तः ।
विश्वास-प्रस्तुतिः
ते दे॒वा अ॑ब्रुवन् ।
देवप॒शुर्वा अ॒यँ सम॑भूत् ।
कस्मा॑ इ॒ममाल॑प्स्यामह॒ इति॑ ।
मूलम्
ते दे॒वा अ॑ब्रुवन् ।
देवप॒शुर्वा अ॒यँ सम॑भूत् ।
कस्मा॑ इ॒ममाल॑प्स्यामह॒ इति॑ ।
भट्टभास्कर-टीका
अथ ते देवा अब्रुवन् । देवानां पशुः देवपशुः ; देवास्थिसम्भूतत्वात् । एवं महानुभावोऽयं पशुः वशात्मा, तमिमं कस्मै कामाया- लप्स्यामहे? इति ।
विश्वास-प्रस्तुतिः
अथ॒ वै तर्ह्यल्पा॑ पृथि॒व्यासी॑त् ।
अजा॑ता॒ ओष॑धयः +++(आसन् )+++ ।
मूलम्
अथ॒ वै तर्ह्यल्पा॑ पृथि॒व्यासी॑त् ।
अजा॑ता॒ ओष॑धयः +++(आसन् )+++ ।
भट्टभास्कर-टीका
अथ तर्हि तस्मिन् काले । ‘अनद्यतने र्हिलन्यतरस्याम्’ इति । पृथिवी अल्पा सङ्कुचिता आसीत् ओषधयश्च अजाता आसन् ।
विश्वास-प्रस्तुतिः
तामविव्ँ॑व॒शामा॑दि॒त्येभ्य॒ᳵ कामा॒याऽल॑भन्त ।
मूलम्
तामविव्ँ॑व॒शामा॑दि॒त्येभ्य॒ᳵ कामा॒याऽल॑भन्त ।
भट्टभास्कर-टीका
अथ देवाः तां वशां आदित्येभ्यः कामाय चालभन्त, आदित्येभ्यः कामाय त्वा जुष्टमुपाकरोमीति । कस्मै कामाय ? प्रथतां पृथिवी, जायन्तामोषधयः इत्येवंरूपाय कामाय । सम्पादित्वात्ताच्छब्द्यम् ।
विश्वास-प्रस्तुतिः
ततो॒ वा अप्र॑थत ।
पृ॒थि॒व्यजा॑यन्त ।
औष॑धयो॒ यᳵ का॒मये॑त॒ प्रथे॑य प॒शुभि॒ᳶ प्र प्र॒जया॑ जाये॒येति॑ ।
स ए॒तामविव्ँ॑व॒शाम् ?
आ॒दि॒त्येभ्य॒ᳵ कामा॑या ल॑भेत ।
आ॒दि॒त्या॒ने॒व कामँ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति ।
त ए॒वैन॑म्प्र॒थय॑न्ति ।
प॒शुभि॒ᳶ प्र प्र॒जया॑ जनयन्ति ।
मूलम्
ततो॒ वा अप्र॑थत ।
पृ॒थि॒व्यजा॑यन्त ।
औष॑धयो॒ यᳵ का॒मये॑त॒ प्रथे॑य प॒शुभि॒ᳶ प्र प्र॒जया॑ जाये॒येति॑ ।
स ए॒तामविव्ँ॑व॒शाम् ?
आ॒दि॒त्येभ्य॒ᳵ कामा॑या ल॑भेत ।
आ॒दि॒त्या॒ने॒व कामँ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति ।
त ए॒वैन॑म्प्र॒थय॑न्ति ।
प॒शुभि॒ᳶ प्र प्र॒जया॑ जनयन्ति ।
भट्टभास्कर-टीका
ततो वा इत्यादि । गतम् ॥
मूलम् (संयुक्तम्)
अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाᳶ प्राय॑श्चित्तिमैच्छ॒न्तस्मा॑ ए॒ता म॒ल्हा आल॑ऽभन्ताग्ने॒यीङ्कृ॑ष्णग्री॒वीँ सँ॑हि॒तामै॒न्द्रीँ श्वे॒ताम्बा॑र्हस्प॒त्यान्ताभि॑रे॒वास्मि॒न्रुच॑मदधु॒र्यो ब्र॑ह्मवर्च॒सका॑म॒स्स्यात्तस्मा॑ ए॒ता म॒ल्हा आल॑भेत (10) आ॒ग्ने॒यीङ्कृ॑ष्णग्री॒वीँ सँ॑हि॒तामै॒न्द्रीँ श्वे॒ताम्बा॑र्हस्प॒त्यामे॒ता ए॒व दे॒वता॒स्स्वेन॑ भाग॒धेये॒नोप॑धावति॒ ता ए॒वास्मि॑न्ब्रह्मवर्च॒सन्द॑धति ब्रह्मवर्च॒स्ये॑व भ॑वति
विश्वास-प्रस्तुतिः
अ॒सावा॑दि॒त्यो न व्य॑रोचत ।
तस्मै॑ दे॒वाᳶ प्राय॑श्चित्तिमैच्छन्।
तस्मा॑ ए॒ता म॒ल्हा आल॑ऽभन्त ।
मूलम्
अ॒सावा॑दि॒त्यो न व्य॑रोचत ।
तस्मै॑ दे॒वाᳶ प्राय॑श्चित्तिमैच्छन्।
तस्मा॑ ए॒ता म॒ल्हा आल॑ऽभन्त ।
भट्टभास्कर-टीका
4 असावादित्य इत्यादि ॥ मल्हा कण्ठावलम्बितस्तनयुग्मा ।
विश्वास-प्रस्तुतिः
आ॒ग्ने॒यीङ्कृ॑ष्णग्री॒वीँ सँ॑हि॒तामै॒न्द्रीँ श्वे॒ताम्बा॑र्हस्प॒त्याम् +++(आलभन्)+++।
ताभि॑रे॒वास्मि॒न् रुच॑मदधुः ।
यो ब्र॑ह्मवर्च॒सका॑म॒स्स्यात् ।
तस्मा॑ ए॒ता म॒ल्हा आल॑भेत ।
मूलम्
आ॒ग्ने॒यीङ्कृ॑ष्णग्री॒वीँ सँ॑हि॒तामै॒न्द्रीँ श्वे॒ताम्बा॑र्हस्प॒त्याम् +++(आलभन्)+++।
ताभि॑रे॒वास्मि॒न् रुच॑मदधुः ।
यो ब्र॑ह्मवर्च॒सका॑म॒स्स्यात् ।
तस्मा॑ ए॒ता म॒ल्हा आल॑भेत ।
भट्टभास्कर-टीका
कृष्णग्रीवी कृष्णबिन्दुलाञ्छितग्रीवी शुक्ला । ‘स्वाङ्गाच्चोपसर्जनात्’ इति ञीष् । सतिशिष्टसमासान्तस्वरः ।
विश्वास-प्रस्तुतिः
आ॒ग्ने॒यीङ्कृ॑ष्णग्री॒वीँ सँ॑हि॒तामै॒न्द्रीँ श्वे॒ताम्बा॑र्हस्प॒त्याम् ।
ए॒ता ए॒व दे॒वता॒स्स्वेन॑ भाग॒धेये॒नोप॑धावति ।
ता ए॒वास्मि॑न्ब्रह्मवर्च॒सन्द॑धति ।
ब्र॒ह्म॒व॒र्च॒स्ये॑व भ॑वति ।
मूलम्
आ॒ग्ने॒यीङ्कृ॑ष्णग्री॒वीँ सँ॑हि॒तामै॒न्द्रीँ श्वे॒ताम्बा॑र्हस्प॒त्याम् ।
ए॒ता ए॒व दे॒वता॒स्स्वेन॑ भाग॒धेये॒नोप॑धावति ।
ता ए॒वास्मि॑न्ब्रह्मवर्च॒सन्द॑धति ।
ब्र॒ह्म॒व॒र्च॒स्ये॑व भ॑वति ।
भट्टभास्कर-टीका
संहिता कृष्णश्वेतमिश्रदेहा ॥
मूलम् (संयुक्तम्)
व॒सन्ता॑ प्रा॒तरा॑ग्ने॒यीङ्कृ॑ष्णग्री॒वीमाल॑भेत ग्री॒ष्मे म॒द्ध्यन्दि॑ने सँहि॒तामै॒न्द्रीँ श॒रद्य॑परा॒ह्णे श्वे॒ताम्बा॑र्हस्प॒त्यान्त्रीणि॒ वा आ॑दि॒त्यस्य॒ तेजाँ॑सि व॒सन्ता॑ प्रा॒तर्ग्री॒ष्मे म॒द्ध्यन्दि॑ने श॒रद्य॑परा॒ह्णे याव॑न्त्ये॒व तेजाँ॑सि॒ तान्ये॒व (11) अव॑ रुन्धे सव्ँ वत्स॒रम्प॒र्याल॑भ्यन्ते सव्ँ वत्स॒रो वै ब्र॑ह्मवर्च॒सस्य॑ प्रदा॒ता सव्ँ॑वत्स॒र ए॒वास्मै॑ ब्रह्मवर्च॒सम्प्रय॑च्छति ब्रह्मवर्च॒स्ये॑व भ॑वति ग॒र्भिण॑यो भवन्तीन्द्रि॒यव्ँ वै गर्भ॑ इन्द्रि॒यमे॒वास्मि॑न्दधति
विश्वास-प्रस्तुतिः
व॒सन्ता॑ प्रा॒तरा॑ग्ने॒यीङ्कृ॑ष्णग्री॒वीमाल॑भेत ।
ग्री॒ष्मे म॒द्ध्यन्दि॑ने सँहि॒ताम् ।
ऐ॒न्द्रीँ श॒रदि॑ ।
अ॒प॒रा॒ह्णे श्वे॒ताम्बा॑र्हस्प॒त्याम् ।
त्रीणि॒ वा आ॑दि॒त्यस्य॒ तेजाँ॑सि ।
व॒सन्ता॑ प्रा॒तः +++(तेजः)+++।
ग्री॒ष्मे म॒द्ध्यन्दि॑ने +++(तेजः)+++।
श॒रद्य॑परा॒ह्णे +++(तेजः)+++।
याव॑न्त्ये॒व तेजाँ॑सि॒ तान्ये॒वाव॑ रुन्धे ।
मूलम्
व॒सन्ता॑ प्रा॒तरा॑ग्ने॒यीङ्कृ॑ष्णग्री॒वीमाल॑भेत ।
ग्री॒ष्मे म॒द्ध्यन्दि॑ने सँहि॒ताम् ।
ऐ॒न्द्रीँ श॒रदि॑ ।
अ॒प॒रा॒ह्णे श्वे॒ताम्बा॑र्हस्प॒त्याम् ।
त्रीणि॒ वा आ॑दि॒त्यस्य॒ तेजाँ॑सि ।
व॒सन्ता॑ प्रा॒तः +++(तेजः)+++।
ग्री॒ष्मे म॒द्ध्यन्दि॑ने +++(तेजः)+++।
श॒रद्य॑परा॒ह्णे +++(तेजः)+++।
याव॑न्त्ये॒व तेजाँ॑सि॒ तान्ये॒वाव॑ रुन्धे ।
भट्टभास्कर-टीका
5 वसन्तेति ॥ ‘सुपां सुलुक्’ वसन्तशब्दात्सप्तम्या आकारः । अत्र ब्रह्मचर्यादिकं आरम्भप्रभृति यावत्संवत्सरं यजमानस्य केचिदिच्छन्ति । उपाकरणं वपाहोमो वा यथा प्रातरादिषु भवति । .. सर्वत्र मल्हा एव गतिकम् ।
विश्वास-प्रस्तुतिः
सव्ँ॒व॒त्स॒रम्प॒र्याल॑भ्यन्ते ।
सव्ँ॒व॒त्स॒रो वै ब्र॑ह्मवर्च॒सस्य॑ प्रदा॒ता ।
सव्ँ॒व॒त्स॒र ए॒वास्मै॑ ब्र॒ह्म॒व॒र्च॒सम्प्रय॑च्छति ।
मूलम्
सव्ँ॒व॒त्स॒रम्प॒र्याल॑भ्यन्ते ।
सव्ँ॒व॒त्स॒रो वै ब्र॑ह्मवर्च॒सस्य॑ प्रदा॒ता ।
सव्ँ॒व॒त्स॒र ए॒वास्मै॑ ब्र॒ह्म॒व॒र्च॒सम्प्रय॑च्छति ।
भट्टभास्कर-टीका
पर्यालभ्यन्त इति । परितस्सर्वत्र संवत्सरे । यद्वा - संवत्सरसमाप्तेः प्राक् ।
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒व॒र्च॒स्ये॑व भ॑वति ।
ग॒र्भिण॑यो भवन्ति।
इ॒न्द्रि॒यव्ँ वै गर्भः॑ ।
इ॒न्द्रि॒यमे॒वास्मि॑न्दधति ।
मूलम्
ब्र॒ह्म॒व॒र्च॒स्ये॑व भ॑वति ।
ग॒र्भिण॑यो भवन्ति।
इ॒न्द्रि॒यव्ँ वै गर्भः॑ ।
इ॒न्द्रि॒यमे॒वास्मि॑न्दधति ।
भट्टभास्कर-टीका
गर्भिणयः । वर्णव्यत्ययेन जसि ह्रस्वत्वम् ॥
मूलम् (संयुक्तम्)
सारस्व॒तीम्मे॒षीमाल॑भेत॒ य ई॑श्व॒रो वा॒चो वदि॑तो॒स्सन्वाच॒न्न वदे॒द्वाग्वै सर॑स्वती॒ सर॑स्वतीमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ सैवास्मि॑न्न् (12) वाच॑न्दधाति प्रवदि॒ता वा॒चो भ॑व॒त्यप॑न्नदती भवति॒ तस्मा॑न्मनु॒ष्या॑स्सर्वाव्ँ॒वाचव्ँ॑वदन्ति
विश्वास-प्रस्तुतिः
सा॒र॒स्व॒तीम्मे॒षीमाल॑भेत ।
मूलम्
सा॒र॒स्व॒तीम्मे॒षीमाल॑भेत ।
भट्टभास्कर-टीका
6 मेषीमिति ॥ ‘जातेरस्त्रीविषयात्’ इति ङीष् ।
विश्वास-प्रस्तुतिः
य ई॑श्व॒रो वा॒चो वदि॑तो॒स्सन्वाच॒न्न वदे॑त् ।
वाग्वै सर॑स्वती ।
सर॑स्वतीमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
सैवास्मि॒न्वाच॑न्दधाति ।
मूलम्
य ई॑श्व॒रो वा॒चो वदि॑तो॒स्सन्वाच॒न्न वदे॑त् ।
वाग्वै सर॑स्वती ।
सर॑स्वतीमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
सैवास्मि॒न्वाच॑न्दधाति ।
भट्टभास्कर-टीका
य ईश्वर इत्यादि । वाचो वदितोः तां वाचं वदितुमीश्वरस्सम्पन्नसामग्रीकोऽपि वाचं न वदेत् वादित्वं न लभेत । ‘ईश्वरे तोसुन्कसुनौ’ इति तोसुन् ।
विश्वास-प्रस्तुतिः
प्र॒व॒दि॒ता वा॒चो भ॑वति ।
मूलम्
प्र॒व॒दि॒ता वा॒चो भ॑वति ।
भट्टभास्कर-टीका
प्रवदिता प्रवक्ता । यद्वा – वाक्प्रसरणसमर्थोऽपि विरोधाद्वाचं वदितुं बिभेति, स यजेत ।
विश्वास-प्रस्तुतिः
अप॑न्नदती भवति ।
मूलम्
अप॑न्नदती भवति ।
भट्टभास्कर-टीका
अपन्नदती अविपन्नदन्ता । ‘छन्दसि च’ इति दद्भावः ।
विश्वास-प्रस्तुतिः
तस्मा॑न्मनु॒ष्या॑स्सर्वाव्ँ॒वाचव्ँ॑वदन्ति।
मूलम्
तस्मा॑न्मनु॒ष्या॑स्सर्वाव्ँ॒वाचव्ँ॑वदन्ति।
भट्टभास्कर-टीका
तस्मादिति । तस्माद्दन्तविपत्तौ सर्वेषां वाचोऽप्रवृत्तेः दन्तानां वाक्प्रवृत्तिहेतुत्वाच्च ॥
मूलम् (संयुक्तम्)
आग्ने॒यङ्कृ॒ष्णग्री॑व॒मा ल॑भेत सौ॒म्यम्ब॒भ्रुञ्ज्योगा॑मयाव्य॒ग्निव्ँ वा ए॒तस्य॒ शरी॑रङ्गच्छति॒ सोमँ॒ रसो॒ यस्य॒ ज्योगा॒मय॑त्य॒ग्नेरे॒वास्य॒ शरी॑रन्निष्क्री॒णाति॒ सोमा॒द्रस॑मु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व
विश्वास-प्रस्तुतिः
आ॒ग्ने॒यङ्कृ॒ष्णग्री॑व॒मा ल॑भेत ।
सौ॒म्यम्ब॒भ्रुम् +++(आलभेत)+++ ।
मूलम्
आ॒ग्ने॒यङ्कृ॒ष्णग्री॑व॒मा ल॑भेत ।
सौ॒म्यम्ब॒भ्रुम् +++(आलभेत)+++ ।
भट्टभास्कर-टीका
7 आग्नेयमित्यादि ॥ बभ्रुः कपिलश्यामः ।
विश्वास-प्रस्तुतिः
ज्योगा॑मयाव्य॒ग्निव्ँ वा ए॒तस्य॒ शरी॑रङ्गच्छति ।
सोमँ॒ रसः॑।
मूलम्
ज्योगा॑मयाव्य॒ग्निव्ँ वा ए॒तस्य॒ शरी॑रङ्गच्छति ।
सोमँ॒ रसः॑।
भट्टभास्कर-टीका
ज्योगामयावी दीर्घरोगः ।
विश्वास-प्रस्तुतिः
यस्य॒ ज्योगा॒मय॑ति …
मूलम्
यस्य॒ ज्योगा॒मय॑ति …
भट्टभास्कर-टीका
यस्येति । ‘रुजार्थानाम्’ इति षष्ठी ।
विश्वास-प्रस्तुतिः
अ॒ग्नेरे॒वास्य॒ शरी॑रन्निष्क्री॒णाति॑ । सोमा॒द्रस॑मु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व ॥
मूलम्
अ॒ग्नेरे॒वास्य॒ शरी॑रन्निष्क्री॒णाति॑ । सोमा॒द्रस॑मु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व ॥
भट्टभास्कर-टीका
अग्नेरेवेत्यादि । अग्निना गृहीतमस्य शरीरं अग्नेर्निष्क्रीणाति । सोमगृहीतरसं सोमान्निष्क्रीणातीत्येव । एवञ्च कृते यद्यपि गतासुर्जीवत्येव ॥
मूलम् (संयुक्तम्)
सौ॒म्यम्ब॒भ्रुमाल॑भेताग्ने॒यङ्कृ॒ष्णग्री॑वम्प्र॒जाका॑म॒स्सोमः॑ (13)
वै रे॑तो॒धा अ॒ग्निᳶ प्र॒जाना॑म्प्रजनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑त्य॒ग्निᳶ प्र॒जाम्प्रज॑नयति वि॒न्दते॑ प्र॒जाम्
विश्वास-प्रस्तुतिः
सौ॒म्यम्ब॒भ्रुमाल॑भेत ।
आ॒ग्ने॒यङ्कृ॒ष्णग्री॑वम् ।
प्र॒जाका॑मः॒ सोमो॒ वै रे॑तो॒धाः ।
अ॒ग्निᳶ प्र॒जाना॑म्प्रजनयि॒ता ।
सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति ।
अ॒ग्निᳶ प्र॒जाम्प्रज॑नयति वि॒न्दते॑ प्र॒जाम् ।
मूलम्
सौ॒म्यम्ब॒भ्रुमाल॑भेत ।
आ॒ग्ने॒यङ्कृ॒ष्णग्री॑वम् ।
प्र॒जाका॑मः॒ सोमो॒ वै रे॑तो॒धाः ।
अ॒ग्निᳶ प्र॒जाना॑म्प्रजनयि॒ता ।
सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति ।
अ॒ग्निᳶ प्र॒जाम्प्रज॑नयति वि॒न्दते॑ प्र॒जाम् ।
भट्टभास्कर-टीका
8 सौम्यमित्यादि ॥ गतम् ॥
मूलम् (संयुक्तम्)
आग्ने॒यङ्कृ॒ष्णग्री॑व॒माल॑भेत सौ॒म्यम्ब॒भ्रुय्ँ यो ब्रा॑ह्म॒णो वि॒द्याम॒नूच्य॒ न वि॒रोचे॑त॒ यदा॑ग्ने॒यो भव॑ति॒ तेज॑ ए॒वास्मि॒न्तेन॑ दधाति॒ यत्सौ॒म्यो ब्र॑ह्मवर्च॒सन्तेन॑ कृ॒ष्णग्री॑व आग्ने॒यो भ॑वति॒ तम॑ ए॒वास्मा॒दप॑हन्ति श्वे॒तो भ॑वति (14) रुच॑मे॒वास्मि॑न्दधाति ब॒भ्रुस्सौ॒म्यो भ॑वति ब्रह्मवर्च॒समे॒वास्मि॒न्त्विषि॑न्दधाति
विश्वास-प्रस्तुतिः
आग्ने॒यङ्कृ॒ष्णग्री॑व॒माल॑भेत सौ॒म्यम्ब॒भ्रुम्+++(आलभेत)+++ ।
योँ ब्रा॑ह्म॒णो वि॒द्याम॒नूच्य॒ न वि॒रोचे॑त ।
मूलम्
आग्ने॒यङ्कृ॒ष्णग्री॑व॒माल॑भेत सौ॒म्यम्ब॒भ्रुम्+++(आलभेत)+++ ।
योँ ब्रा॑ह्म॒णो वि॒द्याम॒नूच्य॒ न वि॒रोचे॑त ।
भट्टभास्कर-टीका
9 विद्यामनूच्येति ॥ विद्यामर्जयित्वाऽपि तदनुरूपं न विरोचते । यद्वा - अनुवचनम्, तत्कृत्वापि यो न विरोचेत विद्यानुरूपां कीर्तिमारभेत [र्तिं न ल त] ।ब्रह्मवर्चसं तेनेति ।
विश्वास-प्रस्तुतिः
यदा॑ग्ने॒यो भव॑ति॒ तेज॑ ए॒वास्मि॒न्तेन॑ दधाति ।
यत्सौ॒म्यो ब्र॑ह्मवर्च॒सन्तेन॑ कृ॒ष्णग्री॑व आग्ने॒यो भ॑वति ।
तम॑ ए॒वास्मा॒दप॑हन्ति ।
मूलम्
यदा॑ग्ने॒यो भव॑ति॒ तेज॑ ए॒वास्मि॒न्तेन॑ दधाति ।
यत्सौ॒म्यो ब्र॑ह्मवर्च॒सन्तेन॑ कृ॒ष्णग्री॑व आग्ने॒यो भ॑वति ।
तम॑ ए॒वास्मा॒दप॑हन्ति ।
भट्टभास्कर-टीका
अस्मिन् दधातीत्येव । आग्नेयत्वात्तमोपघातहेतुभूतः ।
विश्वास-प्रस्तुतिः
श्वे॒तो भ॑वति।
मूलम्
श्वे॒तो भ॑वति।
भट्टभास्कर-टीका
श्वेत इति । ग्रीवकार्ष्ण्यम्मुक्त्वा ।
विश्वास-प्रस्तुतिः
ब्रह्मवर्च॒समे॒वास्मि॒न्त्विषि॑न्दधाति ।
मूलम्
ब्रह्मवर्च॒समे॒वास्मि॒न्त्विषि॑न्दधाति ।
भट्टभास्कर-टीका
ब्रह्मवर्चसं ब्राह्मण्यम् ।
त्विषिर्दीप्तिः ॥
मूलम् (संयुक्तम्)
आग्ने॒यङ्कृ॒ष्णग्री॑व॒माल॑भेत सौ॒म्यम्ब॒भ्रुमा॑ग्ने॒यङ्कृ॒ष्णग्री॑वम्पुरो॒धायाँ॒ स्पर्ध॑मान आग्ने॒यो वै ब्रा॑ह्म॒णस्सौ॒म्यो रा॑ज॒न्यो॑ऽभित॑स्सौ॒म्यमा॑ग्ने॒यौ भ॑वत॒सतेज॑सै॒व ब्रह्म॑णोभ॒यतो॑ रा॒ष्ट्रम्परि॑गृह्णात्येक॒धा स॒मावृ॑ङ्क्ते पु॒र ए॑नन्दधते ॥ (15)
विश्वास-प्रस्तुतिः
आ॒ग्ने॒यङ्कृ॒ष्णग्री॑व॒माल॑भेत ।
सौ॒म्यम्ब॒भ्रुम्+++(आलभेत)+++ ।
मूलम्
आ॒ग्ने॒यङ्कृ॒ष्णग्री॑व॒माल॑भेत ।
सौ॒म्यम्ब॒भ्रुम्+++(आलभेत)+++ ।
भट्टभास्कर-टीका
10 आग्नेयमित्यादि ॥ आग्नेययोर्मध्ये सौम्यम् ।
विश्वास-प्रस्तुतिः
आ॒ग्ने॒यङ्कृ॒ष्णग्री॑वम्पुरो॒धायाँ॒ स्पर्ध॑मान आग्ने॒यो वै ब्रा॑ह्म॒णस्सौ॒म्यो रा॑ज॒न्यः॑।
मूलम्
आ॒ग्ने॒यङ्कृ॒ष्णग्री॑वम्पुरो॒धायाँ॒ स्पर्ध॑मान आग्ने॒यो वै ब्रा॑ह्म॒णस्सौ॒म्यो रा॑ज॒न्यः॑।
भट्टभास्कर-टीका
पुरोधायामिति । पुरोधानं प्राधान्यं पौरोहित्यम् । तत्र स्पर्धमानः ‘अहमित्थं भूयासमन्यो मा भूत्’ इति ।
विश्वास-प्रस्तुतिः
अ॒भित॑स्सौ॒म्यमा॑ग्ने॒यौ भ॑वतः ।
मूलम्
अ॒भित॑स्सौ॒म्यमा॑ग्ने॒यौ भ॑वतः ।
भट्टभास्कर-टीका
अभितस्सौम्यमिति । आदावन्ते च । ‘अभितः परितस्समया’ इति द्वितीया ।
विश्वास-प्रस्तुतिः
तेज॑सै॒व ब्रह्म॑णोभ॒यतो॑ रा॒ष्ट्रम्परि॑गृह्णाति ।
ए॒क॒धा स॒मावृ॑ङ्क्ते ।
पु॒र ए॑नन्दधते ॥
मूलम्
तेज॑सै॒व ब्रह्म॑णोभ॒यतो॑ रा॒ष्ट्रम्परि॑गृह्णाति ।
ए॒क॒धा स॒मावृ॑ङ्क्ते ।
पु॒र ए॑नन्दधते ॥
भट्टभास्कर-टीका
तेजसेत्यादि । अग्निब्राह्मणाभ्यामुभयतोवसि[स्थि]ताभ्यां मध्यस्थं राष्ट्रं विषयं परिगृह्णाति सर्वतो गृह्णाति । ततश्चैकधा अद्वितीयं समावृङ्क्ते समावर्जयति । ततश्चैनमेव पुरोदधते प्राधान्ये स्थापयन्ति प्रजाः ॥
इति द्वितीये प्रथमे द्वितीयोऽनुवाकः ॥