०१

१-६ भूति-प्रजाकामस्य आमयाविनश्च , ७-९ प्रजाकामस्य, १० पशुकामस्य च पशवः

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

वा॒य॒व्यँ॑ श्वे॒तमा ल॑भेत॒ भूति॑कामो वा॒युर्वै क्षेपि॑ष्ठा दे॒वता॑ वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒म्भूति॑ङ्गमयति॒ भव॑त्ये॒व

विश्वास-प्रस्तुतिः

वा॒य॒व्यँ॑ श्वे॒तमा ल॑भेत॒ भूति॑कामः।

मूलम्

वा॒य॒व्यँ॑ श्वे॒तमा ल॑भेत॒ भूति॑कामः।

भट्टभास्कर-टीका

1 अतः परं काम्याः पशवो विधीयन्ते काम्यप्रायाः, नैमित्तिकानां च मध्ये विधानात् । तेषां वेद्यादिनियमो नास्ति । वैश्वदेवकाण्डं - वायव्यं श्वेतमा लभेतेत्यादि ॥
तेषां च ‘पीवोन्नां रयिवृधः’ इत्यारभ्य षडृचो याज्यानुवाक्याः ; वपायाः, पुरोडाशस्य, हविष इति द्वेद्वे । वायव्यं वायुदेवत्यं श्वेतं श्वेतवर्णं पशुमालभेत भूतिकामः । आलम्भनं नियोजनम् । भूतिः विभूतिः धनवत्ता । भूतिं कामयत इति ‘शीलिकामि’ इत्यादिना णप्रत्ययः, पूर्वपदप्रकृति- स्वरत्वं च ।

विश्वास-प्रस्तुतिः

वा॒युर्वै क्षेपि॑ष्ठा दे॒वता॑ ।

मूलम्

वा॒युर्वै क्षेपि॑ष्ठा दे॒वता॑ ।

भट्टभास्कर-टीका

क्षेपिष्ठा क्षिप्रतमा । ‘स्थूलादूर’ इति यणादिलोपो गुणश्च ॥

ननु भूतिं कामयमानं प्रति वायोर्भूतिहेतुत्वं वाच्यं, यथा ‘ऐन्द्रं चरुं निर्वपेत्पशुकाम ऐन्द्रा वै पशवः’ इति तत्र । तद्वदस्य क्षेपिष्ठत्वप्रतिपादनेन क्षेपिष्ठत्वमप्ययं कामयत इति चेत् न ; ‘स एवैनं क्षेपिष्ठत्वं भूतिं च गमयति’ इति निगमनाभावात् ।
किञ्च – देवताग्रहणमप्य- नर्थकम्, वायुर्वै क्षेपिष्ठा इत्येव वाच्यम् । अत्रोच्यते - भूष्णुता पटुत्वं क्षिप्रकारित्वं कार्याणां सर्वार्थसाधनभूत आत्मधर्मः । अत एव निगमयति ‘भवत्येव’ इति । वायुश्चायं देवतानां मध्ये क्षिप्रकारितमः । निर्धारणश्रवणा- न्निर्धार्य[र्धारण ?] करणस्याभिधानम् । यथा - ‘प्राची दिशां वसन्त ऋतूनामग्निर्देवता’ इति । तदर्थमेव देवता- ग्रहणम् । देवतान्तरापेक्षया चातिशायिनिकः प्रयुज्यते । यजमानश्चायं मनुष्याणां मध्ये क्षिप्रतमत्वलक्षणां भूतिं कामयते तस्माद्वायव्यमालभेतेति । यद्वा - भूतिर्विभूतिः, तस्या यत्क्षिप्रतमत्वं प्रदाने, स देवताभावः प्रतिपाद्यते वायुरिति । भूतिहेतुत्वं तु वायोरप्रतिपादितमेव सामर्थ्यसिद्धमिति वेदितव्यम् । भूतिहेतूनां देवतानां मध्ये वायुः क्षिप्रतमां भूतिं ददातीति भावः ।

विश्वास-प्रस्तुतिः

वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
स ए॒वैन॒म्भूति॑ङ्गमयति॒ भव॑त्ये॒व ।

मूलम्

वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
स ए॒वैन॒म्भूति॑ङ्गमयति॒ भव॑त्ये॒व ।

भट्टभास्कर-टीका

स्वेनेति । वायोस्स्वभूतेन शुक्लेन पशुना भागधेयेन भागेन । ‘भागरूपनामभ्यो धेयः’ इति स्वार्थे धेयप्रत्ययः । उपधावति उपगच्छति । सर्तेः पाघ्रादिना धावादेशः वेगितायां गतौ । शीघ्रमुपगच्छति ; स्वभागधेयलाभात् । स एवेत्यादि गतम् ॥

विश्वास-प्रस्तुतिः

अति॑क्षिप्रा दे॒वतेत्या॑हु॒स्सैन॑मीश्व॒रा प्र॒दह॒ इति॑ ।

मूलम्

अति॑क्षिप्रा दे॒वतेत्या॑हु॒स्सैन॑मीश्व॒रा प्र॒दह॒ इति॑ ।

भट्टभास्कर-टीका

2 अतिक्षिप्रेति ॥ प्रथम इतिकरणो हेतौ । यस्मादतिक्षिप्रत्वं देवतात्वं च वायोः तस्मादेनं यजमानं सा देवता प्रदहः प्रकर्षेण दग्धुमीश्वरा स्यात् । तस्मादत्र प्रतिविधेयमित्याहुः पुराविदः । ‘ईश्वरे तोसुन्कसुनौ’ इति कसुन् । वायोः प्रेरणविशेषादग्निर्जायते इति हेतुत्वम् । यथा ‘स हि सर्वत्रोद्भूतः’ इति ‘वायोरग्निः’ इति च श्रुतिः । यद्वा - दाहेन विनाशो लक्ष्यते ॥

मूलम् (संयुक्तम्)

ए॒तमे॒व सन्तव्ँ॑वा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत नि॒युद्वा अ॑स्य॒ धृति॑र्द्धृ॒त ए॒व भूति॒मुपै॒त्यप्र॑दाहाय॒ भव॑त्ये॒व (1) वा॒यवे॑ नि॒युत्व॑त॒ आल॑भेत

विश्वास-प्रस्तुतिः

ए॒तमे॒व सन्तव्ँ॑वा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत ।

मूलम्

ए॒तमे॒व सन्तव्ँ॑वा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत ।

भट्टभास्कर-टीका

इदानीं प्रतिविधानमाह - एतमेवेति ॥ सर्वत्रैव गुणविधानमित्येके । कर्मान्तरमित्यन्ये । एतं श्वेतमेव सन्तं एतं विभूतिमलं सन्तं नियुत्वते वायव आलभेत । ‘तसौ मत्त्वर्थे’ इति भत्वम् ।

विश्वास-प्रस्तुतिः

नि॒युद्वा अ॑स्य॒ धृतिः॑ ।
धृ॒त ए॒व भूति॒मुपै॒त्यप्र॑दाहाय॒ भव॑त्ये॒व +++(यजमानः)+++ ।

मूलम्

नि॒युद्वा अ॑स्य॒ धृतिः॑ ।
धृ॒त ए॒व भूति॒मुपै॒त्यप्र॑दाहाय॒ भव॑त्ये॒व +++(यजमानः)+++ ।

भट्टभास्कर-टीका

नियुद्वा इति । ध्रियतेऽनयेति धृतिर्वाहनम् । एवं कृते धृतः अविनष्ट एव भूतिमुपैति अप्रदाहाय सम्पद्यते, ततो भवत्येव यजमानः । समानवाक्ये पदात्परत्वाभावान्निघाताभावः ॥

मूलम् (संयुक्तम्)

वा॒यवे॑ नि॒युत्व॑त॒ आल॑भेत ग्राम॑कामो वा॒युर्वा इ॒माᳶ प्र॒जा न॑स्यो॒ता ने॑नीयते वा॒युमे॒व नि॒युत्व॑न्तँ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ प्र॒जा न॑स्यो॒ता निय॑च्छति ग्रा॒म्ये॑व भ॑वति नि॒युत्व॑ते भवति द्ध्रु॒वा ए॒वास्मा॒ अन॑पगाᳵ करोति वा॒यवे॑ नि॒युत्व॑त॒ आल॑भेत

विश्वास-प्रस्तुतिः

वा॒यवे॑ नि॒युत्व॑त॒ आल॑भेत ।
ग्राम॑कामो वा॒युर्वा इ॒माᳶ प्र॒जा न॑स्यो॒ता ने॑नीयते ।
वा॒युमे॒व नि॒युत्व॑न्तँ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति ।

मूलम्

वा॒यवे॑ नि॒युत्व॑त॒ आल॑भेत ।
ग्राम॑कामो वा॒युर्वा इ॒माᳶ प्र॒जा न॑स्यो॒ता ने॑नीयते ।
वा॒युमे॒व नि॒युत्व॑न्तँ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति ।

भट्टभास्कर-टीका

3 ग्रामकाम इति ॥ ग्रामो जनसमूहः । स विधेयो मे स्यादिति कामयमानः । यद्वा - केनचिदपहृतं ग्रामं पुनः प्राप्तुकामः । नस्योता इति । नसि नासिकायां रज्ज्वेव ओताः आबद्धाः । आङ्पूर्वाद्वेञस्सम्प्रसारणम्, ‘पद्दन्’ इति नसादेशः, ‘तत्पुरुषे कृति बहुलम्’ इत्यलुक्, कृदुत्तरपदप्रकृतिस्वरत्वम् ।
नेनीयते पुनःपुनर्नयति ।

विश्वास-प्रस्तुतिः

स ए॒वास्मै॑ प्र॒जा न॑स्यो॒ता निय॑च्छति ।
ग्रा॒म्ये॑व भ॑वति ।
नि॒युत्व॑ते भवति ।

मूलम्

स ए॒वास्मै॑ प्र॒जा न॑स्यो॒ता निय॑च्छति ।
ग्रा॒म्ये॑व भ॑वति ।
नि॒युत्व॑ते भवति ।

भट्टभास्कर-टीका

नियच्छतीति, अस्मै यजमानाय नियमयति विधेयीकरोति ।

विश्वास-प्रस्तुतिः

ध्रु॒वा ए॒वास्मा॒ अन॑पगाᳵ करोति ।
वा॒यवे॑ नि॒युत्व॑त॒ आल॑भेत ।

मूलम्

ध्रु॒वा ए॒वास्मा॒ अन॑पगाᳵ करोति ।
वा॒यवे॑ नि॒युत्व॑त॒ आल॑भेत ।

भट्टभास्कर-टीका

ध्रुवाः स्थिराः अनपगाः अनपरक्ताः ॥

मूलम् (संयुक्तम्)

प्र॒जाका॑मᳶ प्रा॒णो वै वा॒युर॑पा॒नो नि॒युत्प्रा॑णापा॒नौ खलु॒ वा ए॒तस्य॑ प्र॒जायाः॑ (2) अप॑क्रामतो॒ योऽल॑म्प्र॒जायै॒ सन्प्र॒जान्न वि॒न्दते॑ वा॒युमे॒व नि॒युत्व॑न्तँ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ प्राणापा॒नाभ्या॑म्प्र॒जाम्प्रज॑नयति वि॒न्दते॑ प्र॒जाव्ँवा॒यवे॑ नि॒युत्व॑त॒ आल॑भेत

विश्वास-प्रस्तुतिः

प्र॒जाका॑मᳶ प्रा॒णो वै वा॒युः ।
अ॒पा॒नो नि॒युत् ।

मूलम्

प्र॒जाका॑मᳶ प्रा॒णो वै वा॒युः ।
अ॒पा॒नो नि॒युत् ।

भट्टभास्कर-टीका

4 प्रजाकाम इति ॥ प्रजां पुत्रादिकां कामयमानः । प्राण इति । उपर्यधोभावाभ्यां प्राणापानत्वमनयोः ।

विश्वास-प्रस्तुतिः

प्रा॒णा॒पानौ खलु॒ वा ए॒तस्य॑ प्र॒जायाः॑ अप॑क्रामतः ।

मूलम्

प्रा॒णा॒पानौ खलु॒ वा ए॒तस्य॑ प्र॒जायाः॑ अप॑क्रामतः ।

भट्टभास्कर-टीका

प्राणापानौ खल्विति । अनयोरपक्रमणात्प्रजा नोत्पद्यते ।

विश्वास-प्रस्तुतिः

योऽल॑म्प्र॒जायै॒ सन्प्र॒जान्न वि॒न्दते॑।
वा॒युमे॒व नि॒युत्व॑न्तँ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति ।

मूलम्

योऽल॑म्प्र॒जायै॒ सन्प्र॒जान्न वि॒न्दते॑।
वा॒युमे॒व नि॒युत्व॑न्तँ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति ।

भट्टभास्कर-टीका

योऽलमिति । सत्यामेव प्रजननशक्तौ प्रजां न लभते ; प्राणापानाननुग्रहात् ।

विश्वास-प्रस्तुतिः

स ए॒वास्मै॑ प्राणापा॒नाभ्या॑म्प्र॒जाम्प्रज॑नयति ।
वि॒न्दते॑ प्र॒जाम् ।
वा॒यवे॑ नि॒युत्व॑त॒ आल॑भेत ।

मूलम्

स ए॒वास्मै॑ प्राणापा॒नाभ्या॑म्प्र॒जाम्प्रज॑नयति ।
वि॒न्दते॑ प्र॒जाम् ।
वा॒यवे॑ नि॒युत्व॑त॒ आल॑भेत ।

भट्टभास्कर-टीका

स एवेति । नियुत्त्वान् वायुः प्राणापानरूपत्वेन प्रजां जनयति ॥

मूलम् (संयुक्तम्)

ज्योगा॑मयावी प्रा॒णो वै वा॒युर॑पा॒नो नि॒युत्प्रा॑णापा॒नौ खलु॒ वा ए॒तस्मा॒दप॑क्रामतो॒ यस्य॒ ज्योगा॒मय॑ति वा॒युमे॒व नि॒युत्व॑न्तँ॒ स्वेन॑ भाग॒धेये॒नोप॑ (3) धा॒व॒ति॒ स ए॒वास्मि॑न्प्राणापा॒नौ द॑धात्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व

विश्वास-प्रस्तुतिः

ज्योगा॑मयावी प्रा॒णो वै वा॒युः ।
अ॒पा॒नो नि॒युत् ।
प्रा॑णापा॒नौ खलु॒ वा ए॒तस्मा॒दप॑क्रामतः ।

मूलम्

ज्योगा॑मयावी प्रा॒णो वै वा॒युः ।
अ॒पा॒नो नि॒युत् ।
प्रा॑णापा॒नौ खलु॒ वा ए॒तस्मा॒दप॑क्रामतः ।

भट्टभास्कर-टीका

5 ज्योगामयावी दीर्घरोगः । प्राणापानावित्यादि गतम् ।

विश्वास-प्रस्तुतिः

यस्य॒ ज्योगा॒मय॑ति ।
वा॒युमे॒व नि॒युत्व॑न्तँ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति ।

मूलम्

यस्य॒ ज्योगा॒मय॑ति ।
वा॒युमे॒व नि॒युत्व॑न्तँ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति ।

भट्टभास्कर-टीका

यस्येति । ‘रुजार्थानाम्’ इति षष्ठी ।

विश्वास-प्रस्तुतिः

स ए॒वास्मि॑न्प्राणापा॒नौ द॑धाति ।
उ॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व ।

मूलम्

स ए॒वास्मि॑न्प्राणापा॒नौ द॑धाति ।
उ॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व ।

भट्टभास्कर-टीका

उतेति । यद्यपि इतासुर्गतासुर्भवति, तथाप्यनेन कर्मणा जीवत्येव ॥

मूलम् (संयुक्तम्)

प्र॒जाप॑ति॒र्वा इ॒दमेक॑ आसी॒थसो॑ऽकामयत प्र॒जाᳶ प॒शून्त्सृ॑जे॒येति॒ स आ॒त्मनो॑ व॒पामुद॑क्खिद॒त्ताम॒ग्नौ प्रागृ॑ह्णा॒त्ततो॒ऽजस्तू॑प॒रस्सम॑भव॒त्तँ स्वायै॑ दे॒वता॑या॒ आऽल॑भत॒ ततो॒ वै स प्र॒जाᳶ प॒शून॑सृजत॒ यᳶ प्र॒जाका॑मः (4) प॒शुका॑म॒स्स्यात्स ए॒तम्प्रा॑जाप॒त्यम॒जन्तू॑प॒रमाल॑भेत प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै॑ प्र॒जाम्प॒शून्प्रज॑नयति

विश्वास-प्रस्तुतिः

प्र॒जाप॑ति॒र्वा इ॒दमेक॑ आसीत् ।

मूलम्

प्र॒जाप॑ति॒र्वा इ॒दमेक॑ आसीत् ।

भट्टभास्कर-टीका

6 प्रजापतिर्वा इत्यादि ॥ इदं परिदृश्यमानं स्थावरजङ्गमात्मकं सर्वं जगत् प्रजापतिरेक एव प्रत्यस्तमितसमस्त- विकार आसीत् ।

विश्वास-प्रस्तुतिः

सो॑ऽकामयत प्र॒जाᳶ प॒शून्त्सृ॑जे॒येति॑ ।

मूलम्

सो॑ऽकामयत प्र॒जाᳶ प॒शून्त्सृ॑जे॒येति॑ ।

भट्टभास्कर-टीका

स प्रजापतिः प्रजाः पशूंश्च सृजेयेत्यकामयत । व्यत्ययेनात्मनेपदम् ।

विश्वास-प्रस्तुतिः

स आ॒त्मनो॑ व॒पामुद॑क्खिदत् ।

मूलम्

स आ॒त्मनो॑ व॒पामुद॑क्खिदत् ।

भट्टभास्कर-टीका

उदक्खिदत् उद्धृतवान् । खिद परिघाते, छान्दसो वर्णोपजनः । व्यञ्जनद्वयादिरित्येके ।

विश्वास-प्रस्तुतिः

ताम॒ग्नौ प्रागृ॑ह्णात् ।

मूलम्

ताम॒ग्नौ प्रागृ॑ह्णात् ।

भट्टभास्कर-टीका

तां वपामग्नेरुपरि होतुं प्रागृह्णात् अधारयत् ।

विश्वास-प्रस्तुतिः

ततो॒ऽजस्तू॑प॒रस्सम॑भवत् ।

मूलम्

ततो॒ऽजस्तू॑प॒रस्सम॑भवत् ।

भट्टभास्कर-टीका

ततः प्रगृहीताया वपाया अजस्तूपरश्शृङ्गविहीनस्समभवत् । पुच्छविहीन इत्येके ।

विश्वास-प्रस्तुतिः

तँ स्वायै॑ दे॒वता॑या॒ आऽल॑भत ।

मूलम्

तँ स्वायै॑ दे॒वता॑या॒ आऽल॑भत ।

भट्टभास्कर-टीका

अथ प्रजापतिः तमजं स्वायै देवतायै आत्मानमेव देवतां कृत्वा तस्या आलभत ।

विश्वास-प्रस्तुतिः

ततो॒ वै स प्र॒जाᳶ प॒शून॑सृजत ।
यᳶ प्र॒जाका॑मः प॒शुका॑म॒स्स्यात् ।
स ए॒तम्प्रा॑जाप॒त्यम॒जन्तू॑प॒रमाल॑भेत ।
प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वास्मै॑ प्र॒जाम्प॒शून्प्रज॑नयति ।

मूलम्

ततो॒ वै स प्र॒जाᳶ प॒शून॑सृजत ।
यᳶ प्र॒जाका॑मः प॒शुका॑म॒स्स्यात् ।
स ए॒तम्प्रा॑जाप॒त्यम॒जन्तू॑प॒रमाल॑भेत ।
प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
स ए॒वास्मै॑ प्र॒जाम्प॒शून्प्रज॑नयति ।

भट्टभास्कर-टीका

ततो वा इत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

यच्छ्म॑श्रु॒णस्तत्पुरु॑षाणाँ रू॒पय्ँयत्तू॑प॒रस्तदश्वा॑नाय्ँ॒यद॒न्यतो॑द॒न्तद्गवाय्ँ॒यदव्या॑ इव श॒फास्तदवी॑नाय्ँ॒यद॒जस्तद॒जाना॑मे॒ताव॑न्तो॒ वै ग्रा॒म्याᳶ प॒शव॒स्तान् (5) रू॒पेणै॒वाव॑रुन्धे

विश्वास-प्रस्तुतिः

यच्छ्म॑श्रु॒णस्तत्पुरु॑षाणाँ रू॒पम् ।

मूलम्

यच्छ्म॑श्रु॒णस्तत्पुरु॑षाणाँ रू॒पम् ।

भट्टभास्कर-टीका

7 यदित्यादि ॥ पशुगणस्स्तूयते । श्मश्रुणत्वं पुरुषाणां रूपम् । पामादित्वान्नप्रत्ययः ।

विश्वास-प्रस्तुतिः

यत्तू॑प॒रस्तदश्वा॑नाम् +++(रूपम्)+++

मूलम्

यत्तू॑प॒रस्तदश्वा॑नाम् +++(रूपम्)+++

भट्टभास्कर-टीका

तूपरत्वं अश्वानां रूपम् ।

विश्वास-प्रस्तुतिः

यद॒न्यतो॑द॒न्तद्द्गवा॑म्+++(रूपम्)+++।

मूलम्

यद॒न्यतो॑द॒न्तद्द्गवा॑म्+++(रूपम्)+++।

भट्टभास्कर-टीका

अन्यतोदत्त्वं अन्यतरपार्श्वस्थितदन्तवत्वं गवां रूपम् । ‘छन्दसि च’ इति दतृभावः ।

विश्वास-प्रस्तुतिः

यदव्या॑ इव श॒फास्तदवी॑नाम् +++(रूपम्)+++।

मूलम्

यदव्या॑ इव श॒फास्तदवी॑नाम् +++(रूपम्)+++।

भट्टभास्कर-टीका

यतः अव्या इव अस्य शफास्सन्ति तदवीनां रूपम् । अजत्वमेवाजानां रूपम् ।

विश्वास-प्रस्तुतिः

यद॒जस्तद॒जाना॑मम् +++(रूपम् )+++।
ए॒ताव॑न्तो॒ वै ग्रा॒म्याᳶ प॒शवः॑ ।

मूलम्

यद॒जस्तद॒जाना॑मम् +++(रूपम् )+++।
ए॒ताव॑न्तो॒ वै ग्रा॒म्याᳶ प॒शवः॑ ।

भट्टभास्कर-टीका

एतावन्तो वै ग्राम्याः पशवः प्रधानाः ; उष्ट्रगर्दभयोरसत्प्रायत्वात् ।

विश्वास-प्रस्तुतिः

तान् रू॒पेणै॒वाव॑रुन्धे ।

मूलम्

तान् रू॒पेणै॒वाव॑रुन्धे ।

भट्टभास्कर-टीका

तानिति । तान् सर्वान् पशून् यस्यो[पूर्वो]क्तगुणं पशुमालभमानः रूपद्वारेणावरुन्धे ॥

मूलम् (संयुक्तम्)

सोमापौ॒ष्णन्त्रै॒तमाल॑भेत प॒शुका॑मो॒ द्वौ वा अ॒जायै॒ स्तनौ॒ नानै॒व द्वाव॒भिजाये॑ते॒ ऊर्ज॒म्पुष्टि॑न्तृ॒तीय॑स्सोमापू॒षणा॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति॒ तावे॒वास्मै॑ प॒शून्प्रज॑नयतः

विश्वास-प्रस्तुतिः

सो॒मा॒पौ॒ष्णम् त्रै॒तमाल॑भेत प॒शुका॑मः ।

मूलम्

सो॒मा॒पौ॒ष्णम् त्रै॒तमाल॑भेत प॒शुका॑मः ।

भट्टभास्कर-टीका

8 त्रैतमिति ॥ त्रयाणां वत्सानां युगपज्जातानां यस्स त्रितः तत्र भवस्त्रैतः । मध्यम एवेति केचित् । त्रयोऽप्यालभ्या इत्यपरे । यस्तिस्रः पिबति स त्रैत इति केचित् ।

विश्वास-प्रस्तुतिः

द्वौ वा अ॒जायै॒ स्तनौ॒ नानै॒व द्वाव॒भिजाये॑ते॒ ऊर्ज॑म् ।

मूलम्

द्वौ वा अ॒जायै॒ स्तनौ॒ नानै॒व द्वाव॒भिजाये॑ते॒ ऊर्ज॑म् ।

भट्टभास्कर-टीका

इदानीं त्रैतस्य सोमापूषसम्बन्धं प्रतिपादयति - द्वौ वा इति । अजाया द्वौ स्तनौ क्षीरस्रवणौ । तयोः द्वयोरूर्जं रसं क्षीरलक्षणं अभि अभिलक्ष्य द्वौ वत्सौ जायेते नानैव पृथक्स्वभावौ अनियतस्तनपायिनौ जायेते ।

विश्वास-प्रस्तुतिः

पुष्टि॑म् +++(अभिजायते)+++तृ॒तीयः॑ ।

मूलम्

पुष्टि॑म् +++(अभिजायते)+++तृ॒तीयः॑ ।

भट्टभास्कर-टीका

तृतीयस्तु वत्सः पुष्टिमभि जायते पुष्ट्यतिशयनिर्दिष्टत्वात्तस्य ।

विश्वास-प्रस्तुतिः

सो॒मा॒पू॒षणा॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
तावे॒वास्मै॑ प॒शून्प्रज॑नयतः ।

मूलम्

सो॒मा॒पू॒षणा॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति ।
तावे॒वास्मै॑ प॒शून्प्रज॑नयतः ।

भट्टभास्कर-टीका

एवं रसपुष्टिप्रसवत्वात् सोमापूष्णोः स्वो भागः त्रैतः । गतमन्यत् ॥

मूलम् (संयुक्तम्)

सोमो॒ वै रे॑तो॒धाᳶ पू॒षा प॑शू॒नाम्प्र॑जनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति पू॒षा प॒शून्प्रज॑नय॒ति

विश्वास-प्रस्तुतिः

सोमो॒ वै रे॑तो॒धाᳶ पू॒षा प॑शू॒नाम्प्र॑जनयि॒ता ।
सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति ।
पू॒षा प॒शून्प्रज॑नय॒ति ।

मूलम्

सोमो॒ वै रे॑तो॒धाᳶ पू॒षा प॑शू॒नाम्प्र॑जनयि॒ता ।
सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति ।
पू॒षा प॒शून्प्रज॑नय॒ति ।

भट्टभास्कर-टीका

किञ्चेत्याह - सोमो वा इति ॥ सिक्तस्य रेतसो धाता रेतोधाः । ‘आतो मनिन्’ इति विच् । पूषा तु सिक्तस्य रेतसः पशुत्वेन परिणमयिता ॥

मूलम् (संयुक्तम्)

औदु॑म्बरो॒ यूपो॑ भव॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्क्प॒शव॑ ऊ॒र्जैवास्मा॒ ऊर्ज॑म्प॒शूनव॑रुन्धे ॥6॥

विश्वास-प्रस्तुतिः

औदु॑म्बरो॒ यूपो॑ भवति ।
ऊर्ग्वा उ॑दु॒म्बरः ।
ऊर्क्प॒शवः॑।
ऊ॒र्जैवास्मा॒ ऊर्ज॑म्प॒शूनव॑रुन्धे ॥

मूलम्

औदु॑म्बरो॒ यूपो॑ भवति ।
ऊर्ग्वा उ॑दु॒म्बरः ।
ऊर्क्प॒शवः॑।
ऊ॒र्जैवास्मा॒ ऊर्ज॑म्प॒शूनव॑रुन्धे ॥

भट्टभास्कर-टीका

9 औदुम्बर इति ॥ ‘अनुदात्तादेश्च’ इत्यञ् । ऊर्ग्वा इति । अन्नस्य क्षीरादित्वात्ताछब्द्यमुभयत्र । गतमन्यत् ॥

इति द्वितीयकाण्डे प्रथमप्रश्ने प्रथमोऽनुवाकः ॥