विस्तारः (द्रष्टुं नोद्यम्)
वैश्वदेवं काण्डम् - सौत्रामणी
सौत्रामणीमन्त्राः सौत्रामण्यां पशु-पुरोडाशविधानब्राह्मणम्॥
२-३ गायत्री, ४ त्रिष्टुप्, ७ एकपदा त्रिष्टुप् विश्वेदेवा ऋषयः
भास्करोक्त-विनियोगः
1अथ राजसूयेनेष्ट्वा सौत्रामण्या यजेत, तामधिकृत्योच्यते । वैश्वदेवं काण्डम् ।
आसरेणावेक्षन् सोमं सम्पादयति - स्वद्वीमिति ।
विश्वास-प्रस्तुतिः ...{Loading}...
स्वा॒द्वीन् त्वा॑ स्वा॒दुना॑
ती॒व्रान् ती॒व्रेणा॒मृता॑म॒मृते॑न।
सृ॒जामि॒ सम्॥
सर्वाष् टीकाः ...{Loading}...
Keith
the sacrificial fee is the northern drawer of the chariot stand.
मूलम्
स्वा॒द्वीन्त्वा॑ स्वा॒दुना॑ ती॒व्रान्ती॒व्रेणा॒मृता॑म॒मृते॑न सृ॒जामि॒ सम्
भट्टभास्कर-टीका
इयं गायत्री, एकादशकः पादः, अभितस्सप्तकः ॥ सुराभिप्रायेणाह – स्वाद्वीं स्वादुरसां स्वादुना स्वादुरसेनानेन तीव्रामुत्कृष्टां त्वां तीव्रेनोत्कृष्टेनानेन । यद्वा - उत्कृष्टरसत्वं तीव्रत्वम् । तीव स्थौल्ये, औणाणादिको रप्रत्ययः । अमृतां अमृतत्वहेतुं त्वां अमृतेनामृतत्वहेतुनानेन सोमेन सोमसदृशेन प्रशस्तेन संसृजामि । पादादित्वान्न निहन्यते । ‘सोममेवैनां करोति’ इत्यादिब्राह्मणम् । यद्वा - सम्यक् सृजामि सोमेन समायुत्य पादयामि । ओदनं करोमि ॥
मूलम् (संयुक्तम्)
सोमे॑न॒ सोमो॑ऽस्य॒श्विभ्या॑म्पच्यस्व॒ सर॑स्वत्यै पच्य॒स्वेन्द्रा॑य सु॒त्राम्णे॑ पच्यस्व
भास्करोक्त-विनियोगः
2तामुपरिस्थितामभिमृशति - सोमोसीति ॥
विश्वास-प्रस्तुतिः
सोमे॑न॒ सोमो॑ऽसि।
अ॒श्विभ्या॑म् पच्यस्व।
सर॑स्वत्यै पच्यस्व ।
इन्द्रा॑य सु॒-त्राम्णे॑ पच्यस्व ।
Keith
thou art Soma; be ready for the Aśvins, be ready for Sarasvati, be ready for Indra, the good protector.
मूलम्
सोमे॑न॒ सोमो॑ऽसि।
अ॒श्विभ्या॑म्पच्यस्व।
सर॑स्वत्यै पच्यस्व ।
इन्द्रा॑य सु॒त्राम्णे॑ पच्यस्व ।
भट्टभास्कर-टीका
सोमवत्प्रशस्तोसि । अश्विभ्यामश्व्यर्थं पच्यस्व सुरारूपेण । कर्मवद्भावात् यगात्मनेपदे, स्वयमेव पच्यस्वेति ।
सरस्वत्यै पच्यस्व ।
इन्द्राय सुत्रामृणे । सुष्ठु त्रायते शत्रुभ्य इति सुत्रामा । ‘आतो मनिन्’ इति मनिन् । ‘एताभ्यो ह्येषा देवताभ्यः पच्यते’ इत्यादि ब्राह्मणम् । यद्वा - सोमोसि सोमसमो वा भव । पावनो भव । सुनोतेःक्रन् सुरा तत एव मन्प्रत्यये सोमः ॥
भास्करोक्त-विनियोगः
3सुरां पुनाति वालेन - पुनात्विति गायत्र्या ॥
विश्वास-प्रस्तुतिः ...{Loading}...
पु॒नातु॑ ते परि॒स्रुतँ॒
+++(सुरा-रूपं)+++ सोमँ॒ सूर्य॑स्य दुहि॒ता ।
वारे॑ण॒+++(=वालेन)+++ शश्व॑ता॒ तना॑+++(←तन्)+++ ॥
सर्वाष् टीकाः ...{Loading}...
Keith
Let the daughter of the Sun
Purify for thee the flowing Soma
With the eternal sieve.
मूलम्
पु॒नातु॑ ते परि॒स्रुतँ॒ सोमँ॒ सूर्य॑स्य दुहि॒ता ।
वारे॑ण॒ शश्व॑ता॒ तना॑ ॥
भट्टभास्कर-टीका
हे इन्द्र तव ते तुभ्यं वा
परिस्रुतं परिस्रवणजन्मा सुरा परिस्रुक्[त्]
तस्मिन्यदा प्रस्रवति सा परिस्रुक्[त्] भवति,
तां पुनातु
सोमं सोमीभूतां सोमवत् प्रशस्तभावम् आपन्नां
सूर्यस्य दुहीता
सूर्यो वरुण उच्यते,
तस्य सुता वारुणी प्रसिद्धा सुरा ।
यद्वा - सूर्येण दोहनीया दुहिता
करसंतापविशेषजन्मा सुराविशेषः ।
यद्वा - श्रद्धा सूर्यस्य दुहिता ।
उक्तं च शतपथे ।
सा पुनातु वारेण वालेन । कापीलादित्वाल्लत्वविकल्पः ।
शश्वता नित्येन तना विस्तीर्णेन । तृतीयायाः ‘सुपां सुलुक्’ इत्याकारः । यद्वा - शश्वता वारेण । कालेन पुनातु नित्यं पुनात्विति यावत् । तना सूर्यस्य दुहिता । पचाद्यचि पृषोदरादिर्द्रष्टव्यः । यद्वा - तनेति निपातः नित्ये वर्तते शश्वता अविनाशेन वालेन नित्यं पुनात्विति । निपातनादाद्युदात्तत्वम् । यद्वा - शश्वतातना सदातनेनेत्यर्थः । शश्वतेत्याकारान्तो निपातितः । तेनाव्ययलक्षणः ट्युत्प्रत्ययः ‘ट्युट्य्लौ तुट्च’ इति । प्रकृतिप्रत्यययोश्च पृथक्पदत्वं दृश्यते - यथा ‘मा च ते ख्या स्म तीरिषत्’ इति ॥
भास्करोक्त-विनियोगः
4सोमातिपवितस्य सोम-वामिनो वा पुनाति - वायुरिति गायत्र्या च ॥
विश्वास-प्रस्तुतिः ...{Loading}...
+++(वमने सादृश्येन)+++ वा॒युᳶ पू॒तᳶ प॒वित्रे॑ण
+++(वमनेन)+++ प्र॒त्यङ्क् सोमो॒ अति॑द्रुतः ।
इन्द्र॑स्य॒ युज्य॒स् सखा॑ ॥
सर्वाष् टीकाः ...{Loading}...
Keith
Vayu purified by the strainer,
Soma hath sped away,
Indra’s dear friend.
मूलम्
वा॒युᳶ पू॒तᳶ प॒वित्रे॑ण प्र॒त्यङ्क्सोमो॒ अति॑द्रुतः ।
इन्द्र॑स्य॒ युज्य॒स्सखा॑ ॥
भट्टभास्कर-टीका
पवित्रेणानेन पूतस्सोमः इन्द्रस्य युज्यः सखा ।
युजि साधुर् युज्यः युक्तस् सखा ।
ऐन्द्राग्नवायवादिषु सहपान-भोजनत्वात् सोम-विशेषणम् इदम् ।
स सोमो वायुः वायुसदृशः वायुवत् स्वस्थानचलितः
प्रत्यङ् प्रतिकूलो घनः । अतिद्रुतः अधस्ताद्गतः अतिगतो वा । यद्वा - वायुरिति । ‘सुपां सुलुक्’ इति तृतीयायास्स्वादेशः । वायुना प्रत्यङ्प्रतिद्रुतः अतीतः तमेतेन पवनेन स्वस्थानस्थं करोमीति शेषः । एवमनेन कर्मणा स्वस्थानस्थित एव भवतीति ।
अपरा योजना - वायुश्शरीरस्थः प्राणः पवित्रेण पावनेन सोमेन पीतेन पूतः प्रथमं शोधितः इन्द्रस्य युज्यस्सखा स प्रत्यङ् प्रतीपमतिद्रुतः स्वस्थानत्पीडितोतिक्रम्य निर्गतः सोमश्च सोतिद्रुतः । यद्वा - पूर्ववत्तृतीयायास्स्वादेशः । अनेन सोमेन स वायुरतिद्रुतः । यद्वा - सोमश्च वायुश्चेति तदुभयमनेन कर्मणा स्वस्थानस्थं भवति ॥
भास्करोक्त-विनियोगः
5सुरा-ग्रहान् गृह्णाति - कुविदङ्गेति त्रिष्टुप् ॥
विश्वास-प्रस्तुतिः ...{Loading}...
कु॒विद् अ॒ङ्ग यव॑मन्तो॒ यव॑ञ् चि॒द्
यथा॒ दान्त्य्+++(←लवने)+++ अ॑नुपू॒र्वव्ँ वि॒यूय॑+++(←यु मिश्रणे ऽमिश्रणे च)+++ ।
इ॒ह+इहै॑षाङ् कृणुत॒ भोज॑नानि॒
ये ब॒र्हिषो॒ नमो॑-वृक्ति॒न्+++(→व्यावृत्तिं)+++ न ज॒ग्मुः ॥
सर्वाष् टीकाः ...{Loading}...
Keith
What then? As men who have barley
Reap the barley in order, removing it,
Hither bring the food of those
Who have not gone to the reverential cutting of the straw.
मूलम्
कु॒विद॒ङ्ग यव॑मन्तो॒ यव॑ञ्चि॒द्यथा॒ दान्त्य॑नुपू॒र्वव्ँवि॒यूय॑ ।
इ॒हेहै॑षाङ्कृणुत॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नमो॑वृक्ति॒न्न ज॒ग्मुः ॥
भट्टभास्कर-टीका
कुविद् इति बहु-प्रसिद्धानुवादे । अङ्गेत्यप्रातिलोम्ये बहुप्रसिद्धमेतत् सर्वानुकूलमिति द्योतयतः । किम्पुनस्तत् ? आह - यवमन्तः बहुयवाः । यवग्रहणेन यवितव्या यव-मुद्ग-व्रीहि-गोधूमादयो धान्यविशेषा गृह्यन्ते । भूम्नि मतुप् । ‘यथा चित्’ इति द्वे अप्युपमानार्थे, एकानेकोपमेयत्वादुपमायाः । यवमिति जातावेकवचनम् ।
अयमर्थः -
यथा यवादि-बहुधान्यवन्तो यवादीन् सहोत्पद्यमानान् अनुपूर्वं परिपाट्या वियूय पृथक्कृत्य दान्ति पृथक्त्वेन स्थापयन्ति, परस्परं काण्डपलालादिभ्यो वा । दा प्लवने, आदादिकः ।
यवमन्तो यवं यथा तुषकणादिभ्यः पृथक्कृत्य तानि शोधयन्ति ।
दैप् शोधने, भौवादिकः, ‘बहुलं छन्दसि’ इति शपो लुक् ।
तथा यूयम् अपि इहेह एषां भोजनानि कृणुत अस्वादुभूतं तुषादिकं पृथक्कृत्य
भोजनानि भोक्तव्यानि स्वादूनि कृणुत उत्पाद्य धारयत ।
इहेहेति वीप्सा ।
सर्वत्र स्थानेस्थाने गृहेगृहे लोकेलोके वा । ‘अनुदात्तं च’ इति द्वितीयस्य निघातः ।
वियूयेति यौतेर्ल्यपि छान्दसो दीर्घः । उक्तमेषां भोजनानि कृणुतेति, केषामित्याह - ये बर्हिषो यज्ञस्य नमोवृक्तिं नमस्कारनाशनं सान्नस्य[साङ्गस्य]नाशनं न जमुर् न गताः ये यज्ञस्य नमस्कारादिकं न नाशयन्ति अस्माकमुपकारिणः तेषां कृणुत । ये पुनर्नाशयन्ति ते त्वनेन विनाश्यन्ताम् । यथोक्तं ‘नमोवृक्तिमेवैषां वृङ्क्ते’ इति । नमश्शब्दे ऊर्यादिगतित्वात् ‘तादौ च निति’ इति प्रकृतिस्वरत्वम् ॥
मूलम् (संयुक्तम्)
आ॒श्वि॒नन्धू॒म्रमा ल॑भते सारस्व॒तम्मे॒षमै॒न्द्रमृ॑ष॒भमै॒न्द्रमेका॑दशकपाल॒न्निर्व॑पति सावि॒त्रन्द्वाद॑शकपालव्ँवारु॒णन्दश॑कपालँ॒ सोम॑प्रतीकाᳶ पितरस्तृप्णुत॒ वड॑बा॒ दक्षि॑णा ॥
भास्करोक्त-विनियोगः
6अथ त्रीन् पशून् विदधाति - आश्विनमिति ॥
विश्वास-प्रस्तुतिः
आ॒श्वि॒नन् धू॒म्रम् +++(वृषम्)+++ आ ल॑भते,
सारस्व॒तम् मे॒षम्,
ऐै॒न्द्रम् ऋ॑ष॒भम् ।
Keith
To the Aśvins he sacrifices a dusky (ox), to Sarasvati a ram, to Indra a bull.
मूलम्
आ॒श्वि॒नन्धू॒म्रमा ल॑भते ।
सारस्व॒तम्मे॒षम् +++(आलभते)+++ ।
ऐै॒न्द्रमृ॑ष॒भम् +++(आलभते)+++ ।
भट्टभास्कर-टीका
आश्विनं धूम्रललाममालभते । सारस्वतं सरस्वत्यै मेषम् । ऐन्द्रमृषभम् । सुराग्रहाश्च त्रयो भवन्ति आश्विनसारस्वतैन्द्राः ॥
भास्करोक्त-विनियोगः
7अथ त्रीन् पुरोडाशान्विदधाति - ऐन्द्रमेकादशकपालमिति ॥ ऐन्द्रसावित्रवारुणाः ॥
विश्वास-प्रस्तुतिः
ऐ॒न्द्रम् एका॑दश-कपाल॒न् निर्व॑पति
सावि॒त्रन् द्वा-द॑शकपालं,
वारु॒णन् दश॑-कपालम्।
Keith
To Indra he offers on eleven potsherds, to Savitr on twelve potsherds, to Varuna on ten potsherds.
मूलम्
ऐ॒न्द्रमेका॑दशकपाल॒न्निर्व॑पति
सावि॒त्रन्द्वाद॑शकपालं,
वारु॒णन् दश॑कपालम्।
भास्करोक्त-विनियोगः
8अथ शतातृण्णायां स्थाल्यां सुराशेषम् अवनयति - सोमप्रतीका इति ॥
विश्वास-प्रस्तुतिः
सोम॑-प्रतीकाᳶ पितरस् तृप्णुत ।
Keith
O Pitrs, beaded by Soma, rejoice.
मूलम्
सोम॑-प्रतीकाᳶ पितरस् तृप्णुत ।
भास्करोक्त-विनियोगः
सोमप्रतीकाः सोमः प्रतीकः उपक्रमो येषां ते । हे सोमप्रभृतयः पितरस् तृप्णुत अनेन सुराशेषेण तृप्यत । व्यत्ययेन श्नुः ।
विश्वास-प्रस्तुतिः
वड॑बा॒ दक्षि॑णा ॥[37]
Keith
The sacrificial fee is a mare.
मूलम्
वड॑बा॒ दक्षि॑णा ॥[37]
भट्टभास्कर-टीका
अस्मिन् कर्मणि वडबा अश्वा दक्षिणा । ‘उत वा एषाश्वं सूते’ इति ब्राह्मणम् ॥ सौत्रामणी समाप्ता ॥
इत्यष्टमे एकविंशोनुवाकः ॥