विश्वेदेवा ऋषयः
विश्वास-प्रस्तुतिः
आ॒ग्ने॒यम् अ॒ष्टा-क॑पाल॒न् निर्व॑पति।
Keith
To Agni he offers on eight potsherds;
मूलम्
आ॒ग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पति।
भट्टभास्कर-टीका
1तस्मिन्नपराह्णे षड्भिः प्रयुजां हविर्भिर्यजते, तानि विदधाति - आग्नेयमिति ॥ प्रयुजां हविर्भिर्यक्ष्ये इति सङ्कल्पः । षड्ढविष्क एको यज्ञ इति आग्नेयेष्ट्यन्ते सत्यान् दूतान् दक्षिणाद्रव्यहस्तान् प्रतिराजभ्यः प्रहिणोति । ‘अभ्यषिक्षि राजाऽभूवम्’ इति चावेदनं, आगतेषु दक्षिणाद्रव्याणि ऋत्विग्भ्य एव ददाति । ततस्सौम्यसावित्रबार्हस्पत्यत्वाष्ट्रवैश्वानराणि हवींषि ।
विश्वास-प्रस्तुतिः
सौ॒म्यञ् च॒रुम् ।
Keith
to Soma, an oblation;
मूलम्
सौ॒म्यञ् च॒रुम् ।
विश्वास-प्रस्तुतिः
सा॒वि॒त्रन् द्वाद॑शकपालम् +++(निर्वपति)+++ ।
Keith
to Savitr on twelve potsherds;
मूलम्
सा॒वि॒त्रन्द्वाद॑शकपालम् +++(निर्वपति)+++ ।
विश्वास-प्रस्तुतिः
बा॒र्र्ह॒स्प॒त्यञ् च॒रुम् ।
Keith
to Brhaspati an oblation;
मूलम्
बा॒र्र्ह॒स्प॒त्यञ्च॒रुम् ।
विश्वास-प्रस्तुतिः
त्वा॒ष्ट्रम् अ॒ष्टाक॑पालम् +++(निर्वपति)+++ ।
Keith
to Tvastr on eight potsherds;
मूलम्
त्वा॒ष्ट्रम॒ष्टाक॑पालम् +++(निर्वपति)+++ ।
विश्वास-प्रस्तुतिः
वै॒श्वा॒न॒रन् द्वाद॑शकपालम् +++(निर्वपति)+++ ।
दक्षि॑णो रथवाहनवा॒हो +++(उक्षः)+++ दक्षि॑णा ।
Keith
to (Agni) Vaiśvanara on twelve potsherds; the sacrificial fee is the southern drawer of the chariot stand.
मूलम्
वै॒श्वा॒न॒रन्द्वाद॑शकपालम् +++(निर्वपति)+++ ।
दक्षि॑णो रथवाहनवा॒हो दक्षि॑णा ।
भट्टभास्कर-टीका
विश्वेषां नराणां सम्बन्धी वैश्वानरः । ‘नरे संज्ञायाम्’ इति दीर्घत्वम् ।
अत्र दक्षिणः दक्षिणतो युक्तः रथवाहनस्यासौ वाहो वाहकः गौर्दक्षिणा देया ॥
मूलम् (संयुक्तम्)
सारस्व॒तञ्च॒रुन्निर्व॑पति पौ॒ष्णञ्च॒रुम्मै॒त्रञ्च॒रुव्ँवा॑रु॒णञ्च॒रुङ्क्षै॑त्रप॒त्यञ्च॒रुमा॑दि॒त्यञ्च॒रुमुत्त॑रो रथवाहनवा॒हो दक्षि॑णा ॥
विश्वास-प्रस्तुतिः
सा॒र॒स्व॒तञ् च॒रुन् निर्व॑पति ।
Keith
To Sarasvati he offers an oblation;
मूलम्
सा॒र॒स्व॒तञ्च॒रुन्निर्व॑पति ।
भट्टभास्कर-टीका
2श्वोभूते सारस्वतादीभिः प्रयुजां हविर्भिर्यजते, तानि विदधाति - सारस्वतं चरुमित्यादि ॥ सारस्वतपौष्णमैत्रवारुणक्षैत्रपत्यादित्यानि हवींषि ।
विश्वास-प्रस्तुतिः
पौ॒ष्णञ् च॒रुम् +++(निर्वपति)+++ ।
Keith
to Pusan an oblation;
मूलम्
पौ॒ष्णञ् च॒रुम् +++(निर्वपति)+++ ।
विश्वास-प्रस्तुतिः
मै॒त्रञ्च॒रुम् +++(निर्वपति)+++ ।
Keith
to Mitra an oblation;
मूलम्
मै॒त्रञ्चरुम् +++(निर्वपति)+++ ।
विश्वास-प्रस्तुतिः
वा॒रु॒णञ् च॒रुम् +++(निर्वपति)+++ ।
Keith
to Varuna an oblation;
मूलम्
वा॒रु॒णञ्च॒रुम् +++(निर्वपति)+++ ।
विश्वास-प्रस्तुतिः
क्षै॒त्र॒प॒त्यञ् च॒रुम् +++(निर्वपति)+++ ।
Keith
to the lord of the fields an oblation;
मूलम्
क्षै॒त्र॒प॒त्यञ्च॒रुम् +++(निर्वपति)+++ ।
विश्वास-प्रस्तुतिः
आ॒दि॒त्यञ्च॒रुम् +++(निर्वपति)+++ ।
Keith
to the Adityas an oblation;
मूलम्
आ॒दि॒त्यञ्च॒रुम् +++(निर्वपति)+++ ।
विश्वास-प्रस्तुतिः
उत्त॑रो रथवाहनवा॒हो +++(उक्षो)+++ दक्षि॑णा ॥ [36]
Keith
the sacrificial fee is the northern drawer of the chariot stand.
मूलम्
उत्त॑रो रथवाहनवा॒हो दक्षि॑णा ॥ [36]
भट्टभास्कर-टीका
अत्र उत्तरः उत्तरतो युक्तः रथवाहनवाहो बलीवर्दो दक्षिणा देया । ‘आग्नेयमष्टाकपालं निर्वपति । तस्माच्छिशिरे कुरुपाञ्चालाः प्राञ्चो यान्ति’ इत्यादि ब्राह्मणम् ॥
अथ राजसूयशेषः केशवपनीयोतिरात्रः, व्युष्टिर्द्विरात्रः, अग्निष्टोमातिरात्रः, क्षत्राणां धृतिस्त्रिष्टोमोग्निष्टोमश्चेति । सर्वोनुब्राह्मणेनावगन्तव्यः ॥
राजसूयस्समाप्तः ॥
इत्यष्टमे विंशोनुवाकः ॥