विस्तारः (द्रष्टुं नोद्यम्)
दिशामवेष्टि-पशुद्वयबन्ध-सात्यदूत-हविषां ब्राह्मणम्
विश्वेदेवा ऋषयः
विश्वास-प्रस्तुतिः
आ॒ग्ने॒यम् अ॒ष्टाक॑पाल॒न् निर्व॑पति ।
हिर॑ण्य॒न् दक्षि॑णा ।
Keith
To Agni he offers on eight potsherds; the sacrificial fee is gold.
मूलम्
आ॒ग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पति ।
हिर॑ण्य॒न्दक्षि॑णा ।
भट्टभास्कर-टीका
1अथ पञ्चहविषामवेष्ट्योदवस्यति, तां विदधाति - आग्नेयमित्यादि ॥ ‘ईश्वरो वा एष दिशोनून्मदितोः’ इत्यादि ब्राह्मणम् । आग्नेयैन्द्रवैश्वदेवमैत्रावरुणबार्हस्पत्यानि पञ्च हवींषि निर्वपति । हिरण्यऋषभपष्ठौहीवशाशितिपृष्ठेत्येतानि दक्षिणाकाले देयनि । सन्तिष्ठते दशपेयः । ‘एतया दिशामवेष्ट्या तेजस्कामो ब्राह्मणो राजन्यो वा वैश्यो वा’ इत्ययज्ञसंयुक्तं केचिदाहुः ॥
विश्वास-प्रस्तुतिः
ऐ॒न्द्रम् एका॑दश-कपालम् +++(निर्वपति)+++ ।
ऋ॒ष॒भो दक्षि॑णा ।
Keith
To Indra (he offers) on eleven potsherds; the sacrificial fee is a bull.
मूलम्
ऐ॒न्द्रमेका॑दशकपालम् +++(निर्वपति)+++ ।
ऋ॒ष॒भो दक्षि॑णा ।
विश्वास-प्रस्तुतिः
वै॒श्व॒दे॒वञ् च॒रुम् +++(निर्वपति)+++ ।
पि॒शङ्गी॑ पष्ठौ॒ही+++(=4-वर्षीया)+++ दक्षि॑णा ।
Keith
To the All-gods (he offers) an oblation; the sacrificial fee is a tawny heifer.
मूलम्
वै॒श्व॒दे॒वञ्च॒रुम् +++(निर्वपति)+++ ।
पि॒शङ्गी॑ पष्ठौ॒ही दक्षि॑णा ।
विश्वास-प्रस्तुतिः
मै॒त्रा॒व॒रु॒णीम् आ॒मिक्षा॑म् +++(निर्वपति)+++ ।
व॒शा+++(=वन्ध्या)+++ दक्षि॑णा ।
Keith
To Mitra and Varuna (he offers) clotted curds; the sacrificial fee is a cow.
मूलम्
मै॒त्रा॒व॒रु॒णीमा॒मिक्षा॑म् +++(निर्वपति)+++ ।
व॒शा दक्षि॑णा ।
विश्वास-प्रस्तुतिः
बा॒र्र्ह॒स्प॒त्यञ्च॒रुम् +++(निर्वपति)+++ ।
शि॒ति॒+++(=श्वेत)+++-पृ॒ष्ठो दक्षि॑णा ।
Keith
To Brhaspati (he offers) an oblation; the sacrificial fee is a white-backed (ox).
मूलम्
बा॒र्र्ह॒स्प॒त्यञ्च॒रुम् +++(निर्वपति)+++ ।
शि॒ति॒पृ॒ष्ठो दक्षि॑णा ।
विश्वास-प्रस्तुतिः
आ॒दि॒त्याम् म॒ल्हाङ् +++(अजां, यस्या ग्रीवायां मणिवन्मांसद्वयमवलम्बते)+++ ग॒र्भिणी॒म् आ ल॑भते,
मारु॒तीम् पृश्ञि॑म् पष्ठौ॒हीम्+++(=४-वर्षीयाम्)+++ ।
Keith
To the Adityas he sacrifices a sheep in young, to the Maruts a dappled heifer.
मूलम्
आ॒दि॒त्याम्म॒ल्हाङ्ग॒र्भिणी॒मा ल॑भते मारु॒तीम्पृश्ञि॑म्पष्ठौ॒हीम् ।
भट्टभास्कर-टीका
2अथ यस्यां दशपेयासमाप्तिस्तस्यां प्रथमायामपराह्णे द्विपशुना पशुबन्धेन यजते, तं विदधाति - आदित्यां मल्हामिति ॥ आदित्यो देवता । ‘दित्यदित्यादित्य’ इति ण्यः । मल्हा मणिला अजा, यस्या ग्रीवायां मणिवन्मांसद्वयमवलम्बते । तादृशीं गर्भिणीमालभेत । मारुतीं च पृश्निं श्वेतवर्णां पष्ठौहीम् । उक्ता पष्ठौही ॥
विश्वास-प्रस्तुतिः
अ॒श्विभ्या॑म् पू॒ष्णे पु॑रो॒डाश॒न् द्वा-द॑श-कपाल॒न् निर्व॑पति ।
Keith
To the Aśvins and Pusan he offers a cake on twelve potsherds;
मूलम्
अ॒श्विभ्या॑म् पू॒ष्णे पु॑रो॒डाश॒न् द्वा-द॑श-कपाल॒न् निर्व॑पति ।
भट्टभास्कर-टीका
3श्वोभूते द्वितीयायां सात्यदूतानां त्रिहविषेष्ट्या यजते, तां विदधाति - अश्विभ्यामित्यादि ॥ अश्विनौ पूषा च सम्भूय देवते । ‘अश्विभ्यां पूष्णे जुष्टं निर्वपामि’ इति निर्वापः । पूष्ण इत्याद्युदात्तनिवृत्तिस्वरेण चतुर्थ्या उदात्तत्वम् ।
विश्वास-प्रस्तुतिः
सर॑स्वते सत्य॒-वाचे॑ च॒रुम् +++(निर्वपति)+++ ।
Keith
to Sarasvati of true speech an oblation;
मूलम्
सर॑स्वते सत्य॒-वाचे॑ च॒रुम् +++(निर्वपति)+++ ।
भट्टभास्कर-टीका
सरस्वान् सत्यवाङ्नाम देवता । सत्यं वक्ति सत्यवाक् । ‘क्विब्वचि’ इत्यादिना क्विब्दीर्घौ, कृदुत्तरपदप्रकृतिस्वरत्वम्, ‘अन्तोदात्तादुत्तरपदात्’ इति विभक्त्युदात्तत्वं नित्यसमासत्वान्न भवति । बहुव्रीहौ त्रिचक्रादित्वादुत्तरपदान्तोदात्तत्वम्, ‘अन्यतरस्यां’ इति वचनाद्विभक्त्युदात्तत्वाभावः ।
विश्वास-प्रस्तुतिः
स॒वि॒त्रे स॒त्यप्र॑सवाय पुरो॒डाश॒न् द्वाद॑श-कपालान्
+++(निर्वपति)+++,
तिसृ+++(-इषु)+++-ध॒न्वँ, शु॑ष्क-दृ॒तिर्+++(=स्यूतं)+++ दक्षि॑णा ॥ [35]
Keith
to Savitr of true instigation a cake on twelve potsherds;
the sacrificial fee is a dry skin bag and a bow with three arrows.
मूलम्
स॒वि॒त्रे स॒त्यप्र॑सवाय पुरो॒डाश॒न्द्वाद॑शकपालान् +++(निर्वपति)+++ ।
+++(स॒वि॒त्रे स॒त्यप्र॑सवाय)+++ तिसृध॒न्वँ शु॑ष्कदृ॒तिर्दक्षि॑णा ॥ [35]
भट्टभास्कर-टीका
सवित्रे । ‘उदात्तयणः’ इति विभक्त्युदात्तत्वम् । सत्यप्रसवाय सत्याभ्यनुज्ञानाय तिसृधन्वं शुष्कदृतिश्च दक्षिणा । तिसृभिरिषुभिर्युक्तं धनुः तिसृधन्वम् । शुष्का केवला दृतिश् शुष्कदृतिः ॥
इत्यष्टमे एकोनविंशोनुवाकः ॥