विश्वेदेवा ऋषयः
विश्वास-प्रस्तुतिः
स॒द्यो दी॑क्षयन्ति ।
स॒द्यस् सोम॑ङ् क्रीणन्ति ।
पु॒ण्ड॒रि॒-स्र॒जाम् प्रय॑च्छति ।
Keith
On the same day they consecrate, on the same day they buy the Soma. He presents a lotus wreath.
मूलम्
स॒द्यो दी॑क्षयन्ति ।
स॒द्यस्सोम॑ङ्क्रीणन्ति ।
पु॒ण्ड॒रि॒स्र॒जाम्प्र य॑च्छति ।
भट्टभास्कर-टीका
1अथ दशपेयस्य तन्त्रविशेषान् कांश्चिद्विदधाति - सद्यो दीक्षयन्तीत्यादि ॥ सद्यस्समानेह्नि । ‘सद्यःपरुत्’ इति निपात्यते । दीक्षाया यद्भवति, सोमक्रयस्य च यद्भवति सर्वं समानेह्नि कुर्यात् । अशक्यं लुप्यते, शक्यं क्रियते।
एतदुक्तं भवति - एका दीक्षा, तिस्र उपसदः । तत्र द्वादश्यां वारुणयागानन्तरं दशपेयेन दीक्षा इत्यादि प्रथमोपसदं तदहरेव कुर्युरिति । सोमपरिवेषणं परिलुप्यते । दीक्षणीयां कृत्वा वपनदन्तधावनतूष्णींस्नानानि क्रियन्ते । ‘आपो अस्मान्’ इति स्नानमारभ्य यदपवदितव्यं तस्य स्थाने श्रुतिरेवापवादं विदधाति - पुण्डरिस्रजामीति । पुण्डरीकं पद्मम् । छान्दसो वर्णविकारः, पर्यायान्तरं वा । द्वादशपुणडरीकां स्रजं प्रतिमुञ्चते यजमानस्य शरीरे बध्नाति तूष्णीम् । ‘अच्’ इति योगविभागात्समासान्तः । ‘अङ्गिरसस्सुवर्गं लोकं यन्तः । अप्सु दीक्षान्तपसी प्रावेशयन् । तत्पुण्डरीकमभवत्’ इत्यादि ब्राह्मणम्, ‘अथास्मै क्षौममहतं’ इत्यादि आसनीहारप्रस्थापनदीक्षात् । दीक्षाव्रतं प्रायणीयक्रियया क्रियते । ‘प्रायणीयाया ध्रौवादष्टौ’ इत्यादेः ‘तत्सा गृहेषु निदधाति’ इत्यन्तस्य लोपः । अभिषेचनीय एव दशपेयार्थं विक्रयस्य कृतत्वात् ‘देवसूर्य’ इत्यादि ‘प्रजाभ्यस्त्वा ’ इत्यन्तो लुप्यते ; पूर्वक्रीतत्वात् ॥
विश्वास-प्रस्तुतिः
द॒शभि॑र् वत्सत॒रैस् सोम॑ङ् क्रीणाति ।
Keith
He buys the Soma with (10) calves.
मूलम्
द॒शभि॑र्वत्सत॒रैस्सोम॑ङ्क्रीणाति ।
भट्टभास्कर-टीका
2अथ क्रमखीशेपमाह - दशभिर्वत्सतैरिति ॥ पूर्वमेव क्रीतं पुरोहितगृहं गतं सोमं फलेन सहाहत्य ‘क्षौमेण वाससोपसङ्गृह्य’ इत्यादि विस्रंसनान्तं कृत्वा सोमविक्रयेण प्रदाय दशभिर्वत्सतरैः क्रीणाति । द्वितीयं वयः प्राप्नुवन्तो वत्सतराः । ‘वत्सोक्षाश्व’ इति ष्टरच् । दश वत्सतरान् सोमविक्रयिणे दक्षिणां दत्वा ‘अस्मे ज्योतिः’ इत्यादि कृत्वाऽऽदत्ते सोमम् । ‘मित्रो न एहि’ इत्यादि लुप्यते । ‘वनेषु व्यन्तरिक्षम्’ इत्यादि कुर्यात् । ततो हस्तेन राज्ञो नयनमाप्राग्वंशात् । प्राग्वंशसमीपे यत्र कुत्रचित् सोमफले स्थापयित्वाऽऽतिथ्यं कुर्यात् । आतिथ्यान्तरं सौर्येण चरुणेष्ट्वा पौर्वाह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचर्य, तदहरेवापराह्णिकीभ्यां प्रचर्य विरामः ; एवं प्रथमोपसदन्तमहस्सन्तिष्ठते ।
विश्वास-प्रस्तुतिः
द॒श॒पेयो॑ भवति ।
Keith
There is a drink for ten.
मूलम्
द॒श॒पेयो॑ भवति ।
भट्टभास्कर-टीका
दशपेयो भवतीति । एकैकस्मिन् चमसे दशदश ब्राह्मणास्सोमं पिबान्ति यस्मिन् स दशपेयः । अधिकरणे ‘अचो यत्’ इति यत्, ‘ईद्यति’ इतीत्वं, कृदुत्तरपदप्रकृतिस्वरत्वे ‘यतो नावः’ इत्याद्युदात्तत्वम्, सप्तपर्णादिवद्वीप्साद्यर्थलाभः । पात्रसंसादनकाले प्राकृतेभ्योतिरिक्ता दश चमसाः प्रयोक्तव्याः, उन्नयनकाले चोन्नेतव्या इति ।
विश्वास-प्रस्तुतिः
श॒तम् ब्रा॑ह्म॒णाᳶ पि॑बन्ति ।
Keith
A hundred Brahmans drink.
मूलम्
श॒तम्ब्रा॑ह्म॒णाᳶ पि॑बन्ति ।
भट्टभास्कर-टीका
शतं ब्राह्मणाः पिबन्तीति । यत एवं चमसेचमसे दशदश ब्राह्मणः पिबन्ति, तस्मात्संहत्य शतं सोमस्य पातारस्सन्तीत्यर्थः ।
एतेन दशपेयार्थे वीप्सां द्योतयति । ब्राह्मणग्रहणं विशिष्टब्राह्मणपरिग्रहार्थम् । तेन सोमयाजिनः आदशमात्पुरुषादविच्छिन्नसोमपीथाः विद्यावन्तस्त्रैविद्यवृद्धा वा मीमांसादिशास्त्राभियुक्ता वाकोवाक्येतिहासादिपुराणादिज्ञाः कृछ्रचान्द्रायणादितपोनिष्ठाः पवित्रार्थेष्टियज्ञक्रतूनामाहर्तारश्च ब्राह्मणाः पातारो वेदितव्याः ।
विश्वास-प्रस्तुतिः
स॒प्त॒द॒शँं स्तो॒त्रम्भ॑वति ।
Keith
The Stotra is the Saptadaśa.
मूलम्
स॒प्त॒द॒शँं स्तो॒त्रम्भ॑वति ।
भट्टभास्कर-टीका
सप्तदशं स्तोत्रं भवतीति । सप्तदशस्तोत्रीयाः परिमाणमस्य सप्तदशम् । इदमेव स्तोत्रं स्तोमो भवति । अनुब्राह्मणं च भवति ‘सप्तदशो दशपेयः’ इति ॥
विश्वास-प्रस्तुतिः
प्रा॒का॒शाव् +++(आभरणे)+++ अ॑ध्व॒र्यवे॑ ददाति ।
Keith
The two ornaments he gives to the Adhvaryu,
मूलम्
प्रा॒का॒शाव॑ध्व॒र्यवे॑ ददाति ।
भट्टभास्कर-टीका
3प्राकाशावित्यादि ॥ सौवर्णं दर्पणद्वयमध्वर्यवे ददाति । प्रकाशन्तेऽत्र रूपाणीति प्रकाशः । अधिकरणे घङ्, ‘उपसर्गस्य घञ्यमनुष्ये’ इति दीर्घश्छान्दसो वा, थाथादिनोत्तरपदान्तोदात्तत्वम् ।
विश्वास-प्रस्तुतिः
स्रज॑म् उद्गा॒त्रे +++(ददाति)+++ ।
Keith
the garland to the Udgatr,
मूलम्
स्रज॑मुद्गा॒त्रे +++(ददाति)+++ ।
भट्टभास्कर-टीका
स्रजमित्यादि । अत्रापि हिरण्यस्रजमुद्गात्रे ददाति ।
विश्वास-प्रस्तुतिः
रु॒क्मँ+++(←रुच्)+++ होत्रे॑ +++(ददाति)+++ ।
Keith
the round ornament to the Hotr,
मूलम्
रु॒क्मँ होत्रे॑ +++(ददाति)+++ ।
भट्टभास्कर-टीका
रुक्ममिति । रुक्मं रुचकम् । हिरण्यमिति केचित् ।
विश्वास-प्रस्तुतिः
अश्व॑म् प्रस्तोतृ-प्रतिह॒र्तृभ्या॑म् +++(ददाति)+++ ।
Keith
a horse to the Prastotr and Pratihartr,
मूलम्
अश्व॑म्प्रस्तोतृप्रतिह॒र्तृभ्या॑म् +++(ददाति)+++ ।
भट्टभास्कर-टीका
अश्वमिति गतम् ।
विश्वास-प्रस्तुतिः
द्वाद॑श पष्ठौ॒हीर्+++(=४-वर्षीया गर्भिण्यः ←पष्ठ+वह्)+++ ब्र॒ह्मणे॑ +++(ददाति)+++ ।
Keith
twelve heifers to the Brahman,
मूलम्
द्वाद॑श पष्ठौ॒हीर्ब्र॒ह्मणे॑ +++(ददाति)+++ ।
भट्टभास्कर-टीका
द्वादशेति । चतुर्वर्षास्स्त्रीगवीः । पष्ठं वहन्तीति ‘वहेश्च’ इति ण्विः, ‘वाहः’ इति ङीष्, ‘वाह ऊठ्’ ‘एत्येधत्यूठ्सु’ इति वृद्धिः । द्वौ च दश च द्वादश । ‘अष्टनस्सङ्ख्यायाम्’ इत्यात्वम्, ‘सङ्ख्या’ इति पूर्वपदप्रकृतिस्वरत्वम् ।
विश्वास-प्रस्तुतिः
व॒शाम्+++(=वन्ध्याम्)+++ मै॑त्रावरु॒णाय॑ +++(ददाति)+++ ।
Keith
a cow to the Maitravaruna,
मूलम्
व॒शाम्मै॑त्रावरु॒णाय॑ +++(ददाति)+++ ।
भट्टभास्कर-टीका
वशा वन्ध्या ।
विश्वास-प्रस्तुतिः
ऋ॒ष॒भम् ब्रा॑ह्मणाच्छँ॒सिने॑ +++(ददाति)+++ ।
Keith
a bull to the Brahmanacchansin,
मूलम्
ऋ॒ष॒भम्ब्रा॑ह्मणाच्छँ॒सिने॑ +++(ददाति)+++ ।
भट्टभास्कर-टीका
ऋषभः खेलगतिः । ब्राह्मणादाहृत्य शंसति ब्राह्मणानि शंसति वा ब्राह्मणाच्छंसीति । ‘सुप्यजातौ णिनिः’, ‘ब्राह्मणाच्छंसिन उपसङ्ख्यानम्’ इति पञ्चम्या अलुक् । पक्षान्तरे छान्दसोदुगागमः ।
विश्वास-प्रस्तुतिः
वास॑सी नेष्टा-पो॒तृभ्या॑म् +++(ददाति)+++ ।
Keith
garments to the Nestr and Potr,
मूलम्
वास॑सी नेष्टापो॒तृभ्या॑म् +++(ददाति)+++ ।
भट्टभास्कर-टीका
नेष्टा च पोता च नेष्टापोतारौ । ‘आनङृतो द्वन्द्वे’ इत्यानङ् ।
विश्वास-प्रस्तुतिः
स्थूरि॑+++(=धुरि बद्ध उक्षः)+++ यवाचि॒तम् अ॑च्छावा॒काय॑ +++(ददाति)+++ ।
Keith
a wagon drawn by one ox laden with barley to the Achavaka,
मूलम्
स्थूरि॑ यवाचि॒तम॑च्छावा॒काय॑ +++(ददाति)+++ ।
भट्टभास्कर-टीका
स्थूरीति । स्थूरिः पष्ठवाट् । तत्साधर्म्याद्गोयुक्तो रथ उच्यते । यवाचितं यवा अस्मिन्नचीयन्ते यवैर्वा आचितमिति शकटमुच्यते । ‘संज्ञायामनाचितादीनाम्’ इत्युत्तरपदान्तोदात्तत्वं व्यत्ययेन प्रवर्तते । अच्छाभिमुख्येन ब्रवीतीत्यच्छावाकः । ‘हलश्च’ इति संज्ञायां घञ्, छान्दसो दीर्घः ।
विश्वास-प्रस्तुतिः
अ॒न॒ड्वाह॑म् अ॒ग्नीधे॑ +++(ददाति)+++ ।
Keith
a draught ox to the Agnidh.
मूलम्
अ॒न॒ड्वाह॑म॒ग्नीधे॑ +++(ददाति)+++ ।
भट्टभास्कर-टीका
अनड्वाहमिति । अनो वहतीत्यनड्वान् । पृषोदरादिः । अग्निमिन्ध इत्यग्नीत् ।
विश्वास-प्रस्तुतिः
भा॒र्ग॒वो होता॑ भवति ।
Keith
The Hotr is a Bhargava;
मूलम्
भा॒र्ग॒वो होता॑ भवति ।
भट्टभास्कर-टीका
भार्गव इति । ऋत्विग्वरण एव भार्गवः भृगोरपत्यं तत्र वरितव्यः । श्रायन्तीयमिति ।
विश्वास-प्रस्तुतिः
श्रा॒य॒न्तीय॑म् ब्रह्म-सा॒मम् भ॑वति ।
Keith
the Saman of the Brahman is the Śrayantiya;
मूलम्
श्रा॒य॒न्तीय॑म्ब्रह्मसा॒मम्भ॑वति ।
भट्टभास्कर-टीका
ब्रह्मस्साम ब्रह्मसामम् । पूर्ववदच् । श्रायन्तीयं भवति ‘श्रायन्त सूर्यम्’ इत्यस्यामृचि गेयं भवति । श्रायन्तशब्दोस्मिन्नस्तीति श्रायन्तीयं साम । ‘मतौ छस्सूक्तसाम्नोः’ इति छः ।
विश्वास-प्रस्तुतिः
वा॒र॒व॒न्तीय॑म् अग्निष्टोम-सा॒मम् +++(भवति)+++ ।
Keith
the Agnistoma Saman is the Varavantiya.
मूलम्
वा॒र॒व॒न्तीय॑मग्निष्टोमसा॒मम् +++(भवति)+++ ।
भट्टभास्कर-टीका
वारवन्तीयमिति । अग्निष्टोमस्य सामाग्निष्टोमसामं, येनाग्निष्टोमस्सन्तिष्ठते । पूर्ववदच् । तद्वारवन्तीयं भवति । ‘अश्वं नत्वा वारवन्तम्’ इत्यस्यामृचि गेयं भवति । वारवन्तमित्यस्मात्पूर्ववन्मत्वर्थे छः ।
विश्वास-प्रस्तुतिः
सा॒र॒स्व॒तीर् अ॒पो गृ॑ह्णाति ॥ [34]
Keith
He takes water of the Sarasvati.
मूलम्
सा॒र॒स्व॒तीर॒पो गृ॑ह्णाति ॥ [34]
भट्टभास्कर-टीका
सारस्वतीरिति । सरस्वतीनाम नदी । तदीया अपो वसतीवरीर्गृह्णाति, यदा सरस्वत्यास्समीपे यजते । इतरथा सरस्वतीजलमाहृत्य बहुयाजिकुम्भस्थं गृह्णातीत्याहुः । ‘ऊडिदम्’ इत्यद्भ्यो द्वितीयाया उदात्तत्वम् ॥
इत्यष्टमेष्टादशोनुवाकः ॥