१७ संसृपां दशसङ्ख्याकहविषां ब्राह्मणम्

विश्वेदेवा ऋषयः

मूलम् - संयुक्तम्

आ॒ग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पति॒ हिर॑ण्य॒न्दक्षि॑णा सारस्व॒तञ्च॒रुव्ँव॑त्सत॒री दक्षि॑णा सावि॒त्रन्द्वाद॑शकपालमुपध्व॒स्तो दक्षि॑णा पौ॒ष्णञ्च॒रुँ श्या॒मो दक्षि॑णा बार्हस्प॒त्यञ्च॒रुँ शि॑तिपृ॒ष्ठो दक्षि॑णै॒न्द्रमेका॑दशकपालमृष॒भो दक्षि॑णा वारु॒णन्दश॑कपालम्म॒हानि॑रष्टो॒ दक्षि॑णा सौ॒म्यञ्च॒रुम्ब॒भ्रुर्दक्षि॑णा त्वा॒ष्ट्रम॒ष्टाक॑पालँ शु॒ण्ठो दक्षि॑णा वैष्ण॒वन्त्रि॑कपा॒लव्ँवा॑म॒नो दक्षि॑णा ॥

विश्वास-प्रस्तुतिः

आ॒ग्ने॒यम् अ॒ष्टा-क॑पाल॒न् निर्व॑पति॒, हिर॑ण्य॒न् दक्षि॑णा ।

Keith

He offers to Agni on eight potsherds; the sacrificial fee is gold.

मूलम्

आ॒ग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पति॒ .. हिर॑ण्य॒न्दक्षि॑णा ।

भट्टभास्कर-टीका

1एवमभिषेचनीये पञ्चम्यां संस्थिते दशपेयस्यागामिनो देवयननस्य पश्चात् संसृपां हविर्भिर्यजेत, तानि विदधाति - आग्नेयमष्टाकपालमिति ॥ षष्ठ्यामुपक्रमः । तत्र पूर्वंपूर्वं देवयजनमध्यवस्यति । यत्र पूर्वस्या आहवनीयः तत्र उत्तरस्या गार्हपत्यः ।

दशपेयस्य सङ्कल्पात् प्रागेवाष्टाकपालमाग्नेयं निर्वपति । हिरण्यं दक्षिणा । ‘वरुणस्य सुषुवाणस्य दशधेन्द्रियं वीर्यं परापतत्’ इत्यादि ब्राह्मणम् ॥

विश्वास-प्रस्तुतिः

सा॒र॒स्व॒तञ् च॒रुम् +++(निर्वपति)+++ । व॒त्स॒त॒री+++(=पौगण्ड-वत्सा)+++ दक्षि॑णा ।

Keith

(He offers) to Sarasvati an oblation; the sacrificial fee is a calf.

मूलम्

सा॒र॒स्व॒तञ्च॒रुम् +++(निर्वपति)+++ , व॒त्स॒त॒री दक्षि॑णा ।

भट्टभास्कर-टीका

2श्वोभूते सारस्वतं चरुं निर्वपति ॥ आग्नेयस्याहवनीयायतने सारस्वतस्य गार्हपत्यायतनम् । एवमुत्तरत्र द्रष्टव्यम् । अत्र वत्सतरी द्वितीयं वयः प्राप्नुवन्ती गौर्दक्षिणा । ‘वत्सोक्षा’ इति ष्टरच् ॥

विश्वास-प्रस्तुतिः

सा॒वि॒त्रन् द्वाद॑श-कपालम् +++(निर्वपति)+++ ।
उ॒प॒ध्व॒स्तो दक्षि॑णा ।

हिन्दी

To Savitr (he offers) on twelve potsherds; the sacrificial fee is a speckled (ox).

मूलम्

सा॒वि॒त्रन्द्वाद॑शकपालम् +++(निर्वपति)+++ ,
उ॒प॒ध्व॒स्तो +++(=शबलोक्षो)+++ दक्षि॑णा ।

भट्टभास्कर-टीका

3श्वोभूते सावित्रं द्वादशकपालं निर्वपति ॥ तत्रोपध्वस्तो गौर्दक्षिणा अन्येन वर्णेन परिभूतो[/भूतनि] निजवर्ण इत्यर्थः ॥

विश्वास-प्रस्तुतिः

पौ॒ष्णञ् च॒रुम् +++(निर्वपति)+++ ,
श्या॒मो दक्षि॑णा ।

Keith

To Pusan (he offers) an oblation; the sacrificial fee is a dark (ox),

मूलम्

पौ॒ष्णञ्च॒रुम् +++(निर्वपति)+++ ,
श्या॒मो दक्षि॑णा ।

भट्टभास्कर-टीका

4श्वोभूते पौष्णं चरुं निर्वपति ॥ तत्र श्यामो गौर्दकिष्णा ॥

विश्वास-प्रस्तुतिः

बा॒र्र्ह॒स्प॒त्यञ् च॒रुम् +++(निर्वपति)+++ ।
शि॒ति॒पृ॒ष्ठो दक्षि॑णा ।

Keith

To Brhaspati (he offers) an oblation; the sacrificial fee is a white-backed (ox).

मूलम्

बा॒र्र्ह॒स्प॒त्यञ्च॒रुम् +++(निर्वपति)+++ ,
शि॒ति॒पृ॒ष्ठो दक्षि॑णा ।

भट्टभास्कर-टीका

5श्वोभूते बार्हस्पत्यं चरुं निर्वपति ॥ तत्र शितिपृष्ठश्शुक्लपृष्ठो गौर्दक्षिणा ॥

विश्वास-प्रस्तुतिः

ऐ॒न्द्रम् एका॑दशकपालम् +++(निर्वपति)+++ ।
ऋ॒ष॒भो दक्षि॑णा ।

Keith

To Indra (he offers) on eleven potsherds; the sacrificial fee is a bull.

मूलम्

ऐ॒न्द्रमेका॑दशकपालम् +++(निर्वपति)+++ ,
ऋ॒ष॒भो दक्षि॑णा ।

भट्टभास्कर-टीका

6श्वोभूते ऐन्द्रमेकादशकपालं निर्वपति ॥ तत्र ऋषभो दक्षिणा ॥

विश्वास-प्रस्तुतिः

वा॒रु॒णन् दश॑कपालम् +++(निर्वपति)+++ ,
म॒हानि॑रष्टो॒+++(=पीडितवृषणो)+++ दक्षि॑णा ।

Keith

To Varuna (he offers) on ten potsherds; the sacrificial fee is a great castrated (ox).

मूलम्

वा॒रु॒णन्दश॑कपालम् +++(निर्वपति)+++ ,
म॒हानि॑रष्टो॒ दक्षि॑णा ।

भट्टभास्कर-टीका

7श्वोभूते वारुणं दशकपालं निर्वपति ॥ तत्र महानिरष्टः पीडितवृषणो गौर्दकिष्णा ॥

विश्वास-प्रस्तुतिः

सौ॒म्यञ् च॒रुम् +++(निर्वपति)+++ ,
ब॒भ्रुर् दक्षि॑णा ।

Keith

To Soma (he offers) an oblation; the sacrificial fee is a brown (ox).

मूलम्

सौ॒म्यञ्च॒रुम् +++(निर्वपति)+++ ,
ब॒भ्रुर्दक्षि॑णा ।

भट्टभास्कर-टीका

8अथ दशपेये प्रक्रान्ते आतिथ्यया प्रचर्य उपसदां पुरस्तात्सौम्यं चरुं निर्वपति द्वादश्याम् ॥ तत्र बभ्रुश्श्वेतलोहितो गौर्दकिष्णा ॥

विश्वास-प्रस्तुतिः

त्वा॒ष्ट्रम् अ॒ष्टाक॑पालम् +++(निर्वपति)+++ ,
शु॒ण्ठो+++(=अल्पकायो)+++ दक्षि॑णा ।

Keith

To Tvastr (he offers) on eight potsherds; the sacrificial fee is a white (ox)

मूलम्

त्वा॒ष्ट्रम॒ष्टाक॑पालम् +++(निर्वपति)+++ ,
शु॒ण्ठो दक्षि॑णा ।

भट्टभास्कर-टीका

9श्वोभूते त्रयोदश्यां प्रवर्ग्योपसद्भ्यां प्रचर्य सुब्रह्मण्यान्ते त्वाष्ट्रमष्टाकपालं निर्वपति ॥ तत्र शुण्ठः अल्पकायो गौर्दक्षिणा ॥

विश्वास-प्रस्तुतिः

वै॒ष्ण॒वन् त्रि॑-कपा॒लम् +++(निर्वपति)+++।
वा॒म॒नो दक्षि॑णा ॥ [33]

Keith

To Vishnu (he offers) on three potsherds; the sacrificial fee is a dwarf (ox).

मूलम्

वै॒ष्ण॒वन्त्रि॑कपा॒लम् +++(निर्वपति)+++ ,
वा॒म॒नो दक्षि॑णा ॥ [33]

भट्टभास्कर-टीका

10श्वोभूते प्रवर्ग्योद्वासनात्प्राग्वैष्णवं त्रिकपालं निर्वपति ॥ तत्र वामनो ह्रस्वो गौर्दक्षिणा ॥

इत्यष्टमे सप्तदशोनुवाकः ॥