विस्तारः (द्रष्टुं नोद्यम्)
विजयाद् ऊर्ध्वम् उपवेशनादिमन्त्राः , जितवतो राज्ञः सेवोपचारार्थं मन्त्राः
७ गायत्री
विश्वेदेवा ऋषयः
भास्करोक्त-विनियोगः
1वैश्वदेव्यामिक्षायां यजमानो दक्षिणं बाहुम् उपावहरते - मित्रोसीति ॥
विश्वास-प्रस्तुतिः
मि॒त्रो॑ऽसि ।
Keith
Thou art Mitra
मूलम्
मि॒त्रो॑ऽसि ।
भट्टभास्कर-टीका
मित्रो देवस्त्वमसि वैश्वदेवत्वादन्यतररूपत्वेन भेदेन स्तुतिः । यद्वा - हिंसायास्त्रासकस्तुतिस्त्वमसि ॥
भास्करोक्त-विनियोगः
2सव्यम् उपावहरति - वरुणोसीति ॥
विश्वास-प्रस्तुतिः
वरु॑णोऽसि ।
Keith
thou art Varuna.
मूलम्
वरु॑णोऽसि ।
भट्टभास्कर-टीका
वरुणो देवस्त्वमसि । पूर्ववत् स्तुतिः । वारको वा शत्रूणामसि ॥
भास्करोक्त-विनियोगः
3तामभिमृशति - समहमिति ॥
विश्वास-प्रस्तुतिः
सम् अ॒हव्ँ विश्वै॑र् दे॒वैः।
Keith
May I be united with the All-gods.
मूलम्
सम॒हव्ँविश्वै॑र्दे॒वैः।
भट्टभास्कर-टीका
समित्युपसर्गस्ससाधनां क्रियामाह । संहतोहं विश्वैर्देवैः । यद्वा - विश्वैर्देवैर्युक्तां त्वामहं संस्पृशामि ॥
भास्करोक्त-विनियोगः
4आसन्दीं मिनोति - क्षत्रस्येति ॥
विश्वास-प्रस्तुतिः
क्ष॒त्त्रस्य॒ नाभि॑रसि ।
Keith
Thou art the navel of kingly power,
मूलम्
क्ष॒त्त्रस्य॒ नाभि॑रसि ।
भट्टभास्कर-टीका
क्षत्रस्य बलस्य नाभिस्सन्नहनं त्वमसि । ‘नहो भश्च इति इञ्प्रत्ययः ॥
भास्करोक्त-विनियोगः
5तस्त्याम् अधिवासं स्तृणाति - क्षत्रस्य योनिरसीति ॥
विश्वास-प्रस्तुतिः
क्ष॒त्त्रस्य॒ योनि॑र् असि ।
Keith
thou are the womb of kingly power.
मूलम्
क्ष॒त्त्रस्य॒ योनि॑रसि ।
भट्टभास्कर-टीका
योनिः कारणं क्षत्रस्यासि, अतो ह्ययं जायते । ‘अधीवासमास्तृणाति सयोनित्वाय’ ॥
भास्करोक्त-विनियोगः
6तत्रासीनं तम् अभिमन्त्रयते - स्योनामासीदेति ॥
विश्वास-प्रस्तुतिः
स्यो॒नाम् आ सी॑द ।
सु॒षदा॒म् आ सी॑द ।
मा त्वा॑ हिँसीत् ।
मा मा॑ हिँसीः ।
Keith
Sit thou on the smooth, sit thou on the pleasant seat.
May she hurt thee not; may she hurt me not.
मूलम्
स्यो॒नामा सी॑द ।
सु॒षदा॒मा सी॑द ।
मा त्वा॑ हिँसीत् ।
मा मा॑ हिँसीः ।
भट्टभास्कर-टीका
स्योनां सुखामासीद आस्थायास्व । सुषदां सुखेनासादनीयमासीद । खलि कृदुत्तरपदप्रकृतिस्वरत्वम् । सिवेरौणादिके नप्रत्यये ऊठि गुणे च स्योनेति भवति । मा त्वा हिंसीदियमासन्दी । तां च त्वं मा हिंसीः ॥
भास्करोक्त-विनियोगः
7अनुमन्त्र्यमाणम् आसन्नम् अभिमन्त्रयते - निषसादेति गायत्र्या त्रिपदया ॥
विश्वास-प्रस्तुतिः ...{Loading}...
निष॑साद धृ॒त-व्र॑तो॒
वरु॑णᳶ प॒स्त्या॑स्व्+++(=गृहेषु|अप्सु)+++ आ ।
साम्रा॑ज्याय सु॒-क्रतुः॑॥
सर्वाष् टीकाः ...{Loading}...
Keith
Varuna, of sure vows, hath set him down
In the waters, with keen insight, for lordship.
मूलम्
… निष॑साद धृ॒तव्र॑तो॒
वरु॑णᳶ प॒स्त्या॑स्वा ।
साम्रा॑ज्याय सु॒क्रतुः॑॥
भट्टभास्कर-टीका
‘वरुणः पस्त्यास्त्वा’ इति द्वितीयः पादः ।
इयादिपूरणेनाक्षरसङ्ख्या सम्पद्यते ।
निषसाद निषण्णवान् । धृतव्रतः धृतकर्मा वरुण एव स्वयमिहास्ति ।
यद् वा - वरुणो वारयितारीणां यजमानोयं सिंहासन इवात्र निषसाद धृतव्रतः स्थितव्रतः पस्त्यासु गृहेषु । आकारस्समुच्चये । गृहेषु च निषसाद शत्रूणां सर्वमनेन जितमिदानीम् । (यं) यदा साम्राज्याय शोभनराज्याय सुक्रतुश्शोभनकर्मा शोभनसङ्कल्पो वाऽयमत्र निषसाद पस्त्यासु च तथैव निषसादेति । यद्वा - आकार उपर्यर्थे । पस्त्याग्रहणं चोपलक्षणम् । गृहनगरजनपदादिषु यत्तद्विषयसाम्राज्यं तदर्थं निषसाद शोभनकर्माऽयमिति । ‘क्रत्वादयश्च’ इत्युत्तरपदाद्युत्तत्वम् ॥
भास्करोक्त-विनियोगः
8अथ ऋत्विक्षु च सर्वतः पर्युपविष्टेषु
अध्वर्युं राजाभिमन्त्रयते - ब्रह्मा3न् इति ॥
ब्रह्मान् ...{Loading}...
विश्वास-प्रस्तुतिः
ब्रह्मा३न् ।
Keith
O Brahman!
मूलम्
ब्रह्मा ३ न् ।
भट्टभास्कर-टीका
हे ब्रह्मन् इति । ‘दूराद्धूते च’ इति वाक्यस्य टेरुदात्तः प्लुतश्च, ‘पूर्वत्रासिद्धम्’ इति तस्यासिद्धत्वात् ‘आमन्त्रितस्य’ इति षाष्ठिकमामन्त्रिताद्युदात्तत्वं प्रवर्तते ‘अनुदात्तं पदमेकवर्नम्’ इति च न प्रवर्तते ॥
भास्करोक्त-विनियोगः
9अध्वर्युः प्रत्याह - त्वमिति ॥
विश्वास-प्रस्तुतिः
त्वँ रा॑जन् ब्र॒ह्मा ऽसि॑ ।
सवि॒ता ऽसि॑ स॒त्य-स॑वः ।
Keith
Thou, O king, art the Brahman priest, thou art Savitr of true instigation.
मूलम्
त्वँ रा॑जन्ब्र॒ह्माऽसि॑ ।
सवि॒ताऽसि॑ स॒त्यस॑वः ।
भट्टभास्कर-टीका
हे राजन् त्वमेव ब्रह्मासि नाहम् । हेतुमाह - यतस्सविता सर्वस्य प्रेरकः अनुज्ञाता वा त्वमसि त्वदाज्ञया हि सर्वं प्रवर्तते । सत्यसवः सत्यानुज्ञः अमोघशासनः, अतस्त्वमेव ब्रह्मासि ॥
भास्करोक्त-विनियोगः
10अथ ब्रह्माणमाम् अन्त्रयते - ब्रह्मा3न् इति ॥ व्याख्यातम् ॥
ब्रह्मान् ...{Loading}...
विश्वास-प्रस्तुतिः
ब्रह्मा३न् ।
Keith
O Brahman!
मूलम्
ब्रह्मा ३ न् ।
भट्टभास्कर-टीका
हे ब्रह्मन् इति । ‘दूराद्धूते च’ इति वाक्यस्य टेरुदात्तः प्लुतश्च, ‘पूर्वत्रासिद्धम्’ इति तस्यासिद्धत्वात् ‘आमन्त्रितस्य’ इति षाष्ठिकमामन्त्रिताद्युदात्तत्वं प्रवर्तते ‘अनुदात्तं पदमेकवर्नम्’ इति च न प्रवर्तते ॥
भास्करोक्त-विनियोगः
11ब्रह्मा प्रत्याह - त्वमिति ॥
विश्वास-प्रस्तुतिः
त्वँ रा॑जन् ब्र॒ह्माऽसि॑।
इन्द्रो॑ऽसि स॒त्यौजाः॑ [31]
भास्करोक्त-विनियोगः
Thou, O king, art the Brahman priest, thou art Indra of true force [1].
मूलम्
त्वँ रा॑जन्ब्र॒ह्माऽसि॑।
इन्द्रो॑ऽसि स॒त्यौजाः॑ [31]
भट्टभास्कर-टीका
हे राजन् त्वमेव ब्रह्मासि यतस्त्वमिन्द्रोसि सर्वस्येश्वरोसि । सत्यौजाः अवितथबलः ॥
भास्करोक्त-विनियोगः
12होतारमामन्त्रयते - ब्रह्मा3न् इति ॥
ब्रह्मान् ...{Loading}...
विश्वास-प्रस्तुतिः
ब्रह्मा३न् ।
Keith
O Brahman!
मूलम्
ब्रह्मा ३ न् ।
भट्टभास्कर-टीका
हे ब्रह्मन् इति । ‘दूराद्धूते च’ इति वाक्यस्य टेरुदात्तः प्लुतश्च, ‘पूर्वत्रासिद्धम्’ इति तस्यासिद्धत्वात् ‘आमन्त्रितस्य’ इति षाष्ठिकमामन्त्रिताद्युदात्तत्वं प्रवर्तते ‘अनुदात्तं पदमेकवर्नम्’ इति च न प्रवर्तते ॥
भास्करोक्त-विनियोगः
13स प्रत्याह - त्वमिति ॥
विश्वास-प्रस्तुतिः
त्वँ रा॑जन् ब्र॒ह्माऽसि॑ ।
मि॒त्रो॑ऽसि सु॒-शेवः॑ ।
Keith
Thou, O king, art the Brahman priest; thou art Mitra, the kindly.
मूलम्
त्वँ रा॑जन्ब्र॒ह्माऽसि॑ ।
मि॒त्रो॑ऽसि सु॒शेवः॑ ।
भट्टभास्कर-टीका
हे राजन् त्वमेव ब्रह्मासि, यतो मित्रोसि शर्वस्य हिंसाभ्यस्त्रातासि । सुशेवस्सुसुखः । ‘आद्युदात्तं द्व्यच्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् ॥
ब्रह्मान् ...{Loading}...
विश्वास-प्रस्तुतिः
ब्रह्मा३न् ।
Keith
O Brahman!
मूलम्
ब्रह्मा ३ न् ।
भट्टभास्कर-टीका
हे ब्रह्मन् इति । ‘दूराद्धूते च’ इति वाक्यस्य टेरुदात्तः प्लुतश्च, ‘पूर्वत्रासिद्धम्’ इति तस्यासिद्धत्वात् ‘आमन्त्रितस्य’ इति षाष्ठिकमामन्त्रिताद्युदात्तत्वं प्रवर्तते ‘अनुदात्तं पदमेकवर्नम्’ इति च न प्रवर्तते ॥
भास्करोक्त-विनियोगः
14उद्गातारमामन्त्रयते - ब्रह्मा3न् इति ॥
ब्रह्मान् ...{Loading}...
विश्वास-प्रस्तुतिः
ब्रह्मा३न् ।
Keith
O Brahman!
मूलम्
ब्रह्मा ३ न् ।
भट्टभास्कर-टीका
हे ब्रह्मन् इति । ‘दूराद्धूते च’ इति वाक्यस्य टेरुदात्तः प्लुतश्च, ‘पूर्वत्रासिद्धम्’ इति तस्यासिद्धत्वात् ‘आमन्त्रितस्य’ इति षाष्ठिकमामन्त्रिताद्युदात्तत्वं प्रवर्तते ‘अनुदात्तं पदमेकवर्नम्’ इति च न प्रवर्तते ॥
भास्करोक्त-विनियोगः
15 स प्रत्याह - त्वमिति ॥
विश्वास-प्रस्तुतिः
त्वँ रा॑जन् ब्र॒ह्माऽसि॒,
वरु॑णोऽसि स॒त्य-ध॑र्मा ।
Keith
Thou, O king, art the Brahman priest; thou art Varuna, of true rule.
मूलम्
त्वँ रा॑जन्ब्र॒ह्माऽसि॒ वरु॑णोऽसि स॒त्यध॑र्मा ।
भट्टभास्कर-टीका
हे राजन् त्वमेव ब्रह्मासि, यतस्त्वं वरुणोसि वारयिता शत्रूणां पापचोरव्याघ्रादीनां वारयितासि । सत्यधर्मा सत्यस्वभावः । ‘धर्मादनिच्केवलात्’ ॥
भास्करोक्त-विनियोगः
16ब्रह्मा स्फ्यं राज्ञे प्रयच्छति - इन्द्रस्येति ॥ व्याख्यातम् ।
इन्द्र॑स्य॒ वज्रो॑ऽसि॒ ...{Loading}...
विश्वास-प्रस्तुतिः
इन्द्र॑स्य॒ वज्रो॑ऽसि॒,
वार्त्र॑घ्नः ।
Keith
Thou art the thunderbolt of Indra,
slaying obstructions,
Thou art the bolt of Indra [2] slaying foes;
मूलम्
इन्द्र॑स्य॒ वज्रो॑ऽसि॒
वार्त्र॑घ्नः ।
भट्टभास्कर-टीका
इन्द्रस्य यो वज्रस्स एव त्वमसि । अमित्रवधसाधनत्वसामर्थ्यात् भाव [तद्भाव?] उपचर्यते । यद्वा - वजित्वा गतो [वज गतौ] वज्रः । औणादिको रः [रन्] । रथ उच्यते । इन्द्रस्य रथोसि [सीति] स्तूयते । इन्द्रस्य रथो विशेष्यते - वार्त्रघ्नः वृत्रघ्नोयं वार्त्रघ्नः । उत्सादित्वादञ् । यं रथमारुह्य वृत्रमसुरमिन्द्रो हतवान् स एव रथस्त्वमसीति ।
यो वृत्रं हतवान् तस्येन्द्रस्य वज्रो वृत्रवधसाधनभूतो रथमसि ॥
विश्वास-प्रस्तुतिः
तेन॑ मे रध्य
Keith
with this subject to me.
मूलम्
तेन॑ मे रध्य
भट्टभास्कर-टीका
तस्मात्तेन वज्रेण हेतुना मम दस्यून् रध्य नाशय । यद्वा - साधयाभिमतानीति । रध हिसासिद्ध्योः, दैवादिकः ॥
भास्करोक्त-विनियोगः
17पञ्चाक्षान् राज्ञे प्रयछति - दिश इति ॥
विश्वास-प्रस्तुतिः
दिशो॒ ऽभ्य् अ॑यँ राजा॑ ऽभूत् ।
Keith
This king hath surmounted the quarters.
मूलम्
दिशो॒ऽभ्य॑यँ राजा॑ऽभूत् ।
भट्टभास्कर-टीका
अयं राजा सर्वा दिशः अभ्यभूत् अभिभवतु सर्वा दिशोधिष्ठाय स्वयमेव राजा भवत्वित्यर्थः । यद्वा - ‘अभिरभागे’ इति लक्षणे अभेः कर्मप्रवचनीयत्वम् । दिशोभि सर्वासु दिक्षु अयं राजा भवति सर्वदा ॥
भास्करोक्त-विनियोगः
18मङ्गल्यनाम्नो राजाह्वयति - सुश्लोकेति ॥
विश्वास-प्रस्तुतिः
सु-श्लो॒काँ४ सुम॑ङ्ग॒लाँ४ सत्य॑-रा॒जा३न् ।
Keith
O thou of good fame!
O thou of prosperity!
O thou of true rule!
मूलम्
सुश्लो॒काँ ४ सुम॑ङ्ग॒लाँ ४ सत्य॑रा॒जा ३ न् ।
भट्टभास्कर-टीका
सङ्ग्रहीता भागदुघः क्षत्ता चेत्येते मङ्गल्यनामानः, एषामेतानि सुश्लोकादीनि नामानि, एतैरेत आमन्त्र्यन्ते । सुश्लोकः शोभनकीर्तिः ; धनेन राज्ञश्शोभनकीर्तिहेतुत्वात् । अहं सदा सुश्लोकस्स्यामित्याह्वातुरभिप्रायः । सुमङ्गलश्शोभनमङ्गलहेतुः । निरुपसृष्टाभिप्रेतार्थसिद्धिहेतुर्मङ्गलम् । सत्यराज्ञस्सत्यो रजा येन । राज्ञस्सत्यत्वहेतुः । ‘आशिषमेवैतामाशास्ते’ इत्यादिब्राह्मणम् । पूर्ववद्द्वौ उदात्तौ । ‘अणोप्रगृह्यस्यानुनासिकः’ इति प्रथमद्वितीययोरन्त्य(रूप)स्यानुनासिकः ॥
भास्करोक्त-विनियोगः
19अथावभृथेन प्रचर्यापामन्ते जुहोति - अपां नप्त्र इति ॥
विश्वास-प्रस्तुतिः
अ॒पान् नप्त्रे॒ स्वाहा॑ ।
भास्करोक्त-विनियोगः
To the son of the waters hail!
मूलम्
अ॒पान्नप्त्रे॒ स्वाहा॑ ।
भट्टभास्कर-टीका
अपां चतुर्थायाग्नये स्वाहा । अद्भ्य ओषधयः, ओषधीभ्योन्नं, अन्नादग्निरिति । ‘ऊडिदम्’ इति षष्ठ्युदात्ता ॥
भास्करोक्त-विनियोगः
20विषुवति दर्भस्तम्बे जुहोति - ऊर्जो नप्त्र इति ॥
विश्वास-प्रस्तुतिः
ऊ॒र्जो नप्त्रे॒ स्वाहा॑ ।
भास्करोक्त-विनियोगः
To the son of strength hail!
मूलम्
ऊ॒र्जो नप्त्रे॒ स्वाहा॑ ।
भट्टभास्कर-टीका
ऊर्गन्नं तस्य नप्त्रे चतुर्थाय स्वाहा । ‘अन्नाद्बलं’ बलान्मथनवेगः, ततोग्निरिति । ‘सावेकचः’ इत्यूर्जष्षष्ठ्युदात्ता ॥
भास्करोक्त-विनियोगः
21पुनरेत्य गार्हपत्ये जुहोति - अग्नये गृहपतये स्वाहेति । गतम् ॥
अष्टमे षोडशोनुवाकः ॥
अ॒ग्नये॑ गृ॒ह-प॑तये॒ स्वाहा॑ । ...{Loading}...
विश्वास-प्रस्तुतिः
अ॒ग्नये॑ गृ॒ह-प॑तये॒ स्वाहा॑ ।
Keith
To Agni, lord of the house, hail!
मूलम्
अ॒ग्नये॑ गृ॒ह-प॑तये॒ स्वाहा॑ ।
भट्टभास्कर-टीका
अग्नये गृहाणां निवासाधाराणां पात्रे ।