विस्तारः (द्रष्टुं नोद्यम्)
१८ जगती
विश्वेदेवा ऋषयः
भास्करोक्त-विनियोगः
1रथमुपावहरति - इन्द्रस्येति ॥ व्याख्यातम् ॥
इन्द्र॑स्य॒ वज्रो॑ऽसि॒ ...{Loading}...
इन्द्र॑स्य॒ वज्रो॑ऽसि॒ ...{Loading}...
विश्वास-प्रस्तुतिः
इन्द्र॑स्य॒ वज्रो॑ऽसि॒,
वार्त्र॑घ्नः ।
Keith
Thou art the thunderbolt of Indra,
slaying obstructions,
Thou art the bolt of Indra [2] slaying foes;
मूलम्
इन्द्र॑स्य॒ वज्रो॑ऽसि॒
वार्त्र॑घ्नः ।
भट्टभास्कर-टीका
इन्द्रस्य यो वज्रस्स एव त्वमसि । अमित्रवधसाधनत्वसामर्थ्यात् भाव [तद्भाव?] उपचर्यते । यद्वा - वजित्वा गतो [वज गतौ] वज्रः । औणादिको रः [रन्] । रथ उच्यते । इन्द्रस्य रथोसि [सीति] स्तूयते । इन्द्रस्य रथो विशेष्यते - वार्त्रघ्नः वृत्रघ्नोयं वार्त्रघ्नः । उत्सादित्वादञ् । यं रथमारुह्य वृत्रमसुरमिन्द्रो हतवान् स एव रथस्त्वमसीति ।
यो वृत्रं हतवान् तस्येन्द्रस्य वज्रो वृत्रवधसाधनभूतो रथमसि ॥
विश्वास-प्रस्तुतिः
त्वया॒ ऽयव्ँ वृ॒त्रव्ँ व॑ध्यात् ॥
Keith
with thee may this one smite Vrtra.
with thee may he slay his foe.
मूलम्
त्वया॒ऽयव्ँवृ॒त्रव्ँव॑ध्यात् ॥
भट्टभास्कर-टीका
तस्मात् त्वयाऽयं यजमानो वृत्रं वारकं छादयितारममित्रं वध्यात् । आशिषि लिङ् । ‘हनो वध लिङि’ इति वधादेशः ॥
तस्मात्तादृशेन त्वयाऽयं यजमानो वृत्रं वध्याद् इति ॥
भास्करोक्त-विनियोगः
2प्रष्टिवाहिनं रथं युनक्ति - मित्रावरुणयोरिति ॥
विश्वास-प्रस्तुतिः
मि॒त्रा-वरु॑णयोस् त्वा
प्रशा॒स्त्रोᳶ प्र॒शिषा॑ युनज्मि
य॒ज्ञस्य॒ योगे॑न ।
Keith
By the precept of Mitra and Varuna, the directors, I yoke thee with the yoking of the sacrifice.
मूलम्
मि॒त्रावरु॑णयोस्त्वा प्रशा॒स्त्रोᳶ प्र॒शिषा॑ युनज्मि य॒ज्ञस्य॒ योगे॑न ।
भट्टभास्कर-टीका
मित्रावरुणयोः प्रशास्त्रोः । औणादिकस्तृच्, तृच इडभावः । प्रशिषा प्रकृष्टेन शासनेनाज्ञया त्वां युनाज्मि । ‘शास इदङ्हलोः’ इतीत्वं, ‘शासिवसिघसीनाम्’ इति षत्वम् । यज्ञस्य योगेन हेतुना यज्ञे यथा युज्येतेति ॥
भास्करोक्त-विनियोगः
3-5रथमभिप्रैति - विष्णोरित्यादि ॥ व्याख्यातम् ॥
विष्णोः क्रमः ...{Loading}...
मूलम् (संयुक्तम्)
विष्णो॒ᳵ क्रमो॑ऽसि॒ विष्णोः॑ क्रा॒न्तम॑सि॒ विष्णो॒र्विक्रा॑न्तमसि ।
विश्वास-प्रस्तुतिः
विष्णो॒ᳵ क्रमो॑ऽसि ।
Keith
Thou art the stepping of Visnu,
मूलम्
विष्णो॒ᳵ क्रमो॑ऽसि ।
भट्टभास्कर-टीका
विष्णोर्भगवत एव क्रमोसि गमनसाधनत्वात् । प्रकृष्टस्य विष्णोः क्रमरूपेण स्तूयते रथः विष्णोः क्रमवत् भविष्यसि जयहेतुरिति ।
विश्वास-प्रस्तुतिः
विष्णोः॑ क्रा॒न्तम॑सि ।
Keith
thou art the step of Visnu,
मूलम्
विष्णोः॑ क्रा॒न्तम॑सि ।
भट्टभास्कर-टीका
विष्णोः क्रान्तमसि यत्पूर्वं विष्णुना कृतं क्रमणं, तदेव त्वमसि तद्वज्जयसाधनं भविष्यसि अस्माकम् ।
विश्वास-प्रस्तुतिः
विष्णो॒र्विक्रा॑न्तमसि ।
Keith
thou art the stride of Visnu.
मूलम्
विष्णो॒र्विक्रा॑न्तमसि ।
भट्टभास्कर-टीका
विष्णोर्वीक्रान्तं विजयः, तदेव त्वमसि तद्वद्विजयसाधनत्वात् । पूर्ववद्गतिस्वरः ॥
भास्करोक्त-विनियोगः
6रथमातिष्ठति - मरुतामीति ॥
विश्वास-प्रस्तुतिः
म॒रुता॑म् प्रस॒वे जे॑षम्।
Keith
On the instigation of the Maruts may I conquer.
मूलम्
म॒रुता॑म्प्रस॒वे जे॑षम्।
भट्टभास्कर-टीका
मरुतां प्रसवे अनुज्ञायां सत्यां मरुद्भिरेवाहं जेषं जीयासं शत्रून् । जयतेर्लेटि ‘सिब्बहुलं लेटि’ इत्यडागमः, इतश्च लोपः ॥
भास्करोक्त-विनियोगः
7कूबरम् अभिमन्त्रयते - आप्तमिति ॥
विश्वास-प्रस्तुतिः
आ॒प्तम् मनः॑, सम॒हम् इ॑न्द्रि॒येण॑ वी॒र्ये॑ण ।
Keith
Be mind ready.
May I be united with power and strength.
मूलम्
आ॒प्तम्मनः॑, सम॒हमि॑न्द्रि॒येण॑ वी॒र्ये॑ण ।
भट्टभास्कर-टीका
आप्तं सुहृद्भूतं यन्मनस्तदेव त्वमसि । यद्वा - यन्मनसेप्सितं तन्मन उच्यते । मननीयं वा मनः । तत्सर्वं मया आप्तं लब्धमनेन कर्मणा ।
किञ्च - अहमिन्द्रियेण चक्षुरादिना वीर्येण च प्रजननसामर्थ्येनैश्वर्येण वा सङ्गतोस्मि । योग्यं क्रियापदमध्याह्रियते । ‘इन्द्रियमिन्द्रलिङ्गम्’ इति निपात्यते ॥
भास्करोक्त-विनियोगः
8 वाराही उपानहाव् उपमुञ्चते -
पशूनां मन्युर् असीति ॥
विश्वास-प्रस्तुतिः
पशू॒नाम् म॒न्युर् अ॑सि॒
तवे॑व मे म॒न्युर् भू॑यात् ।
Keith
Thou art the spirit of cattle; like them may my spirit be.
मूलम्
पशू॒नाम्म॒न्युर॑सि॒ तवे॑व मे म॒न्युर्भू॑यात् ।
भट्टभास्कर-टीका
पशूनां मन्युर्दीप्तिरसि क्रोधजन्मा गृह्यते । प्रकृतिशब्देन विकार उच्यते ‘पशूनां वा एष मन्युः । यद्वराहः’ इति च ब्राह्मणम् । ‘नामन्यतरस्याम्’ इति नाम उदात्तत्वम् । तवेव ममापि मन्युर्भूयात् दीप्तिमान् स्याम् ॥
भास्करोक्त-विनियोगः
9इमाम् अभिमृशति - नम इति ॥
विश्वास-प्रस्तुतिः
नमो॑ मा॒त्रे पृ॑थि॒व्यै ।
Keith
Homage to mother earth;
मूलम्
नमो॑ मा॒त्रे पृ॑थि॒व्यै ।
भट्टभास्कर-टीका
मात्रे सर्वस्योत्पादयित्र्यै पृथिव्यै नमः । ‘उभयत्राप्युदात्तयणः’ इति चतुर्थ्या उदात्तत्वम् ॥
भास्करोक्त-विनियोगः
10तस्य दक्षिणं पादमुपावहरति -
विश्वास-प्रस्तुतिः
मा ऽहम् मा॒तर॑म् पृथि॒वीँ हिँ॑सिषम् ।
मा माम् मा॒ता पृ॑थि॒वी हिँ॑सीत् ।
Keith
may I not harm mother earth [1]; may mother earth harm me not.
मूलम्
माऽहम्मा॒तर॑म्पृथि॒वीँ हिँ॑सिषम् ।
मा [29] माम्मा॒ता पृ॑थि॒वी हिँ॑सीत् ।
भट्टभास्कर-टीका
मातरं पृथिवीं अहं मा हिंसिषं अनेन पादक्रमेण । न हि कश्चिन्मातरं हिनस्ति । पृथिवी च माता मा हिंसीत् । न हि कं चिदपि माता हिनस्ति ॥
भास्करोक्त-विनियोगः
11सव्येंसे राजतं मणिं प्रतिमुञ्चते - इयदिति ॥
विश्वास-प्रस्तुतिः
इय॑द् अ॒स्य्, आयु॑र् अ॒स्य्, आयु॑र् मे धे॒हि ।
Keith
So great art thou, thou art life, bestow life upon me;
मूलम्
इय॑द॒स्यायु॑र॒स्यायु॑र्मे धे॒हि ।
भट्टभास्कर-टीका
इदं परिमाणमस्येयत् । ‘किमिदम्भ्यां वो घः’ इति मतु, ‘इदङ्किमोरीश्की’ ‘यस्येति’ लोपः, उदात्तनिवृत्तिस्वरेण इकार उदात्तः । इयत्तया परिच्छिन्नमसि ; तस्मादायुरसीति आयुरिवेयत्तया परिच्छिन्नत्वात्, आयुर्हेतुत्वाद्वा ; तस्मात्तादृशस्त्वमायुर्मे धेहि ॥
भास्करोक्त-विनियोगः
12दक्षिणेंसे औदुम्बरं - ऊर्गसीति ॥
विश्वास-प्रस्तुतिः
ऊर्ग् अ॑सि ।
ऊर्ज॑म् मे धेहि ।
Keith
thou art strength, bestow strength upon me;
मूलम्
ऊर्ग॑सि ।
ऊर्ज॑म्मे धेहि ।
भट्टभास्कर-टीका
ऊर्गन्नं तदेव त्वमसि तद्धेतुर्वा । तादृशं त्वमूर्जं धेहि ॥
भास्करोक्त-विनियोगः
13दक्षिण एवांसे सौवर्णं - युङ्ङसीति ॥
विश्वास-प्रस्तुतिः
युङ्ङ् अ॑सि॑।
वर्चो॑ ऽसि ।
वर्चो॒ मयि॑ धेहि ।
Keith
thou art the yoker; thou art radiance, bestow radiance upon me.
मूलम्
युङ्ङ॑सि॑।
वर्चो॑ऽसि ।
वर्चो॒ मयि॑ धेहि ।
भट्टभास्कर-टीका
योजयतीति युङ्, युक्तो वा । सर्वत्र ऋत्विगादिना क्विन्, ‘युजेरसमासे’ इति नुम्, ‘क्विन्प्रत्ययस्य’ इति कुत्वम् । तस्मात्त्वं वर्चो दीप्तिरसि । दीप्त्या हि योग्यतां भजते तत्त्वं वर्चो मे धेहि स्थापय ॥
भास्करोक्त-विनियोगः
14-17रथविमोचनीयं जुहोति - अग्नय इत्याद्याः ॥
अ॒ग्नये॑ गृ॒ह-प॑तये॒ स्वाहा॑ । ...{Loading}...
विश्वास-प्रस्तुतिः
अ॒ग्नये॑ गृ॒ह-प॑तये॒ स्वाहा॑ ।
Keith
To Agni, lord of the house, hail!
मूलम्
अ॒ग्नये॑ गृ॒ह-प॑तये॒ स्वाहा॑ ।
भट्टभास्कर-टीका
अग्नये गृहाणां निवासाधाराणां पात्रे ।
विश्वास-प्रस्तुतिः
सोमा॑य॒ वन॒स्-पत॑ये॒ स्वाहा॑ ।
इन्द्र॑स्य॒ बला॑य॒ स्वाहा॑ ।
म॒रुता॒म् ओज॑से॒ स्वाहा॑।
Keith
To Soma, lord of the forest, hail! To Indra’s strength hail! To the Maruts’ force hail!
मूलम्
सोमा॑य॒ वन॒स्पत॑ये॒ स्वाहा॑ ।
इन्द्र॑स्य॒ बला॑य॒ स्वाहा॑ ।
म॒रुता॒मोज॑से॒ स्वाहा॑।
भट्टभास्कर-टीका
सोमाय वनानां वनप्रभवानां दारूणां पात्रे । ‘इन्द्रस्य वज्रोसि’ इत्युक्तं, तदात्मने मरुतामोजसे वेगाय ॥
भास्करोक्त-विनियोगः
18रथवाहने रथमादधाति - हंस इत्यतिजगत्या ॥ ‘अतिच्छन्दसा दधाति’ इत्यादि ब्राह्मणम् ।
01 हंसश् शुचिषद् ...{Loading}...
+++(अहं)+++ हँ॒सश् शु॑चि॒-षद्, वसु॑र् अन्तरिक्ष॒-सद्,
+होता॑ वेदि॒-षद्, अति॑थिर् दुरोण॒-सत् ।
नृ॒-षद्, व॑र॒-सद्, ऋ॑त॒-सद् व्यो॑म॒-सद्,
अ॒ब्-जा, गो॒-जा, ऋ॑त॒-जा, अ॑द्रि॒-जा, ऋ॒तं बृ॒हत् ॥
01 हंसश् शुचिषद् ...{Loading}...
मूलम्
हँ॒सश्शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् ।
नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तम्बृ॒हत् ॥ [30]
Keith
I The gander seated in purity, the bright one seated in the atmosphere,
The Hotr seated at the altar, the guest seated in the house,
Seated among men, seated in the highest, seated in holy order, seated in the firmament, Born of the waters, born of the cows, born of holy order, born of the mountain, the great holy order.
भट्टभास्कर-टीका
अध्यात्ममधिदैवमधियज्ञं चाधिकृत्य त्रेधेमं मन्त्रं व्याचक्षते । तत्र प्रकरणानुरूपोर्थविशेषो गृहीतव्यः । अध्यात्मे तावत् - हंसः आत्मा । शुचिषु स्थानेषु सीदतीति शुचिषत् । वासयिता वसुः वरिष्ठो वा । अन्तरिक्षे हृदयाकाशादिषु सीदतीति अन्तरिक्षसत् । होता आह्वाता देवानामादाता वा । वेद्यां यागार्थं सीदतीति वेदिषत् । अतिथिस्सततगतिः, तिथिकृतविशेषरहितो वा । दुःखरक्षणेषु गृहादिषु सीदतीति दुरोणसत् । नृषु प्राणिशरीरेषु तद्भावेन सीदतीति नृषत् । वरेषु फलेषु भोक्तृत्वेन सीदतीति वरसत् । ऋते यज्ञे सत्ये वा सीदतीति ऋतसत् । विविधे रक्षणे तृप्तौ वा सीदतीति व्योमसत् । अद्भ्यो जातः अब्जाः शरीराभिप्रायं, शुक्क्लाज्जातत्वात् । यथा ‘पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इति । अपां वा यागद्वारेण जनयिता । अन्तर्भावितण्यर्थात् ‘जनसनखन’ इति विट्, ‘विड्वनोः’ इत्यात्वम् । गोषु पशुषु अनुग्राहकतया जातः गोजाः । ऋते यज्ञे ऋतार्थं वा जातः प्रादुर्भूतः ऋतजाः । अद्रिजाः पर्वतादिष्वपि प्रादुर्भूतः । ऋतं सत्यरूपं बृहद्ब्रह्म । अथाधिदैवे - हंस आदित्यः । शुचिनि मण्डले सीदतीति शुचिषत् । होता अपामादाता । वेद्यामाराध्यतया सीदतीति वेदिषत् । अतिथिस्सततगतिः । दुरोणेषु गृहेषु मेषादिषु सीदतीति दुरोणसत् । वराणां दातृत्वेन तेषु सीदतीति वरसत् । अपो जनयतीत्यब्जाः । गोजाः रश्मिसमूहवर्ती । ऋते सत्ये जात ऋतजाः । अद्रिजाः उदयाचलात्प्रादुर्भूतः । समानमन्यत् ।
अथाधियज्ञे - हंसो रथः हन्ति पृथिवीमिति । शुचौ देवयजने रथवाहने च सीदतीति शुचिषत् । शुचिर्यजमानः सीदत्यस्मिम्निति वा शुचिषत् । होतेव वेद्यां सीदतीति वेदिषत् । अतिथिस्सर्वत्राप्रतिहतगतिः । नृषत् मनुष्यार्थं शूरार्थं वा सीदतीति नृषु वा उपकारार्थं सीदतीति नृषत् । ऋतार्थं सत्यार्थं यज्ञार्थं वा सीदतीति ऋतसत् । अब्जाः उदकाज्जातः । गोजाः गोविकारचर्मादिग्रथितत्वात् ततो जात इत्युच्यते । अद्रिभिर्दारुभिरुत्पादितत्वात्ततो जात इत्युच्यते अद्रिजाः । गतमन्यत् ॥
इत्यष्टमे पञ्चदशोनुवाकः ॥