१४ राजसूयाभिषेकादिमन्त्राः

६ महापङ्क्तिः १०, १२ त्रिष्टुप् विश्वेदेवा ऋषयः

भास्करोक्त-विनियोगः

1यजमानायतने शार्दूलचर्मोपस्तृणाति - सोमस्य त्विषिरसीति ॥

विश्वास-प्रस्तुतिः

सोम॑स्य॒ त्विषि॑र् असि॒
तवे॑व मे॒ त्विषि॑र् भूयात् ।

Keith

Thou art the glittering of Soma; as thine may my glittering be.

मूलम्

सोम॑स्य॒ त्विषि॑रसि॒ तवे॑व मे॒ त्विषि॑र्भूयात् ।

भट्टभास्कर-टीका

सोमस्य या त्विषिर्दीप्तिः सैव त्वमसि दीप्तत्वात् व्यापित्वाच्छान्तत्वाच्च । तवेव मे ममापि त्वीषिर्भूयात् दीप्ता व्यापिनी शान्ता चेत्याशास्ते ॥

भास्करोक्त-विनियोगः

2चर्मणोधस्ताद् रजतम् उपास्यति - अमृतमिति ॥

विश्वास-प्रस्तुतिः

अ॒मृत॑म् असि
मृ॒त्योर् मा॑ पाहि ।

Keith

Thou art ambrosia; from death protect me.

मूलम्

अ॒मृत॑मसि मृ॒त्योर्मा॑ पाहि ।

भट्टभास्कर-टीका

अमृतममरणहेतुरसीति । मृत्योर्मा पाहिति । ‘मृत्योर्वा एष वर्णः । यच्छार्दूलः’ इति शार्दूलचर्मणोधस्तादन्तर्धानकरणेन मृत्योरन्तर्धानकरणमाशास्ते ॥

भास्करोक्त-विनियोगः

3उपरिष्टात् सुवर्णम् अधिनिदधाति - दिद्योदिति ॥

विश्वास-प्रस्तुतिः

दि॒द्योन्+++(→विद्युतः)+++ मा॑ पा॒हि ।

Keith

From the thunderbolt protect me.

मूलम्

दि॒द्योन्मा॑ पा॒हि ।

भट्टभास्कर-टीका

दिद्युत् आयुधम् उच्यते ।
द्युतेः क्विपि द्विर्वचनं, ‘द्युतिस्वाप्योस्सम्प्रसारणम्’ अत्रापि भवति ।
ततो मां पाहि ।
‘सुपां सुलुक्’ इति पञ्चम्या लुक्, वर्णव्यत्ययेन उकारस्योकारः ।
यद्वा - द्युतेर्विचि द्विर्वचने गुणे दिद्योदिति ।
शब्दान्तरं दितेर्दिद्युत् अवखण्डनकृदिति केचित् । सुवर्णविशेषणं वा । हे सुवर्ण दिद्योत् द्योतमान मा पाहीति ॥

भास्करोक्त-विनियोगः

4क्लीबं सीसेन विद्ध्यति - अवेष्टा इति ॥

विश्वास-प्रस्तुतिः

अवे॑ष्टा+++(←यज्)+++ दन्द॒शूकाः॑ ।

Keith

Propitiated are biting flies.

मूलम्

अवे॑ष्टा दन्द॒शूकाः॑ ।

भट्टभास्कर-टीका

अवेष्टाः विनाशिताः । अवपूर्वो यजिर्विनाशने । दन्दशूकाः दशनशीलास्सर्पादयः । ‘यजजपदशां यङः’ इत्यूकप्रत्ययः ॥

भास्करोक्त-विनियोगः

5लोहितायसं पादेन निरस्यति - निरस्तमिति गायत्र्यैकपदया ॥

विश्वास-प्रस्तुतिः

निर॑स्त॒न् नमु॑चे॒श् शिरः॑ ॥

Keith

Cast away is Namuci’s head.

मूलम्

निर॑स्त॒न्नमु॑चे॒श्शिरः॑ ॥

भट्टभास्कर-टीका

निरस्तं निष्कृष्यास्तं नमुचेश्शिरः न मुञ्चति पुरुषमिति नमुचिः अधर्मः । न मुञ्चत्यधर्ममिति वा नमुचिरसुरः बाधकः, तस्य शिरो निरस्तमनेन लोहितायसेन ॥

भास्करोक्त-विनियोगः

6अभिषेकानवेक्षते - सोम इति षट्पदया त्रिष्टुभा ॥

विश्वास-प्रस्तुतिः ...{Loading}...

सोमो॒ राजा॒ वरु॑णो
दे॒वा ध॑र्म॒-सुव॑श् च॒ ये ।
ते ते॒ वाचँ॑ सुवन्तां॒
ते ते॑ प्रा॒णँ सु॑वन्तां॒
ते ते॒ चक्षु॑स् सुवन्तां॒
ते ते॒ श्रोत्रँ॑ सुवन्ताम् ॥

सर्वाष् टीकाः ...{Loading}...

Keith

Soma, king Varuna, and the gods which instigate righteousness, may they instigate thy speech, may they instigate thy breath, may they instigate thy sight, may they instigate thine ear.

मूलम्

सोमो॒ राजा॒ वरु॑णो दे॒वा ध॑र्म॒सुव॑श्च॒ ये ।
ते ते॒ वाचँ॑ सुवन्ता॒न्ते ते॑ प्रा॒णँ सु॑वन्ता॒न्ते ते॒ चक्षु॑स्सुवन्ता॒न्ते ते॒ श्रोत्रँ॑ सुवन्ता॒म्

भट्टभास्कर-टीका

सोमो राजा वरुणश्च देवाश्चान्ये ये धर्मसुवः धर्मस्यानुज्ञातार उत्पादयितारो वा । तेते वाचं सुवन्तां प्रेरयन्तु । तेते प्राणं सुवन्तामित्यादि स्पष्टम् ॥

भास्करोक्त-विनियोगः

7अध्वर्युर् अभिषिञ्चति - सोमस्येति ॥

विश्वास-प्रस्तुतिः

सोम॑स्य त्वा द्यु॒म्नेना॒भिषि॑ञ्चाम्य्
अ॒ग्नेस् तेज॑सा॒
सूर्य॑स्य॒ वर्च॒सेन्द्र॑स्येन्द्रि॒येण॑
मि॒त्रावरु॑णयोर् वी॒र्ये॑ण
म॒रुता॒म् ओज॑सा

Keith

With the glory of Soma I besprinkle thee, with the brilliance of Agni [1], with the radiance of the sun, with the power of Indra, with the strength of Mitra and Varuna, with the force of the Maruts.

मूलम्

सोम॑स्य त्वा द्यु॒म्नेना॒भिषि॑ञ्चाम्य॒ग्नेः [27]
तेज॑सा॒ सूर्य॑स्य॒ वर्च॒सेन्द्र॑स्येन्द्रि॒येण॑ मि॒त्रावरु॑णयोर्वी॒र्ये॑ण म॒रुता॒मोज॑सा

भट्टभास्कर-टीका

सोमस्य द्युम्नेन दीप्त्या सह यशसा वा त्वामभिसषिञ्चामि अस्योपरि क्षारयामि त्वाम् । अग्नेस्तेजसाभिषिञ्चामि त्वामित्येव । एवं मरुतामोजसेत्यादि निगदसिद्धम् ।

विश्वास-प्रस्तुतिः

क्ष॒त्त्राणा॑ङ् क्ष॒त्त्र-प॑तिर् असि ।
अति॑ दि॒वस् पा॑हि ।

Keith

Thou art the lord of kingly powers.
Protect from the sky.

मूलम्

क्ष॒त्त्राणा॑ङ्क्ष॒त्त्रप॑तिर॒स्यति॑ दि॒वस्पा॑हि

भट्टभास्कर-टीका

क्षत्राणां बलानां सर्वेषामपि क्षत्रपतिरसि त्वं, न पुन रेकस्य पतित्वादित्यसमासेन प्रतिपाद्यते । ‘गवामसि गोपतिः’ इति यथा । स त्वं दिवः द्युमतस्सर्वान्सोमादीन् द्युलोकवासिनो वा सोमादीनतिक्रम्य एनं यजमानं पाहि । यद्वा - यजमान एवोच्यते, हे यजमान त्वामभिषिञ्चामीति । क्षत्राणां क्षत्रपतिरसि त्वं दीप्तिमतोतिक्रम्य लोकान् पाहि, दिवो वा उपरि पाहि । ‘पातौ च बहुलम्’ इति सत्वम् । कस्कादिर्वा द्रष्टव्यः ॥

भास्करोक्त-विनियोगः

8ऊर्ध्वं धारास्समुन्मार्ष्टि - समाववृत्रन्निति त्रिष्टुभा ॥

विश्वास-प्रस्तुतिः ...{Loading}...

स॒माव॑वृत्रन्न्+++(←वृत्)+++ अध॒राग् उदी॑ची॒र्
अहि॑म् +++(मेरु-)+++बु॒ध्निय॒म् अनु॑ स॒ञ्चर॑न्तीः
ताᳶ +++(axis-मेरु-)+++पर्व॑तस्य वृष॒भस्य॑+++(→मेघस्य)+++ पृ॒ष्ठे
नाव॑श्+++(→आपः)+++ चरन्ति स्व॒-सिच॑+++(←सिच्)+++ इया॒नाः
+++(अत्रापः कर्म-प्रवाह-रूपाः, यथैव Socrates in Phaedo)+++

सर्वाष् टीकाः ...{Loading}...

Keith

Out from below have they come,
Following the serpent of the deep;
On the back of the mountain, the hill,
The ships that pour spontaneously go ever.

मूलम्

स॒माव॑वृत्रन्नध॒रागुदी॑ची॒रहि॑म् बु॒ध्निय॒मनु॑ स॒ञ्चर॑न्तीः ।
ताᳶ पर्व॑तस्य वृष॒भस्य॑ पृ॒ष्ठे नाव॑श्चरन्ति स्व॒सिच॑ इया॒नाः ॥

भट्टभास्कर-टीका

(समाववृत्रन्निति) एकीभूत्वा समन्ताद् वर्तन्ताम् । अधराक् अधस्तात् गताः । उदीचीः ऊर्ध्वगाः उपलक्षणं चैतत् ; सर्वं देहं व्याप्य वर्तन्तामनेनोन्मार्जनेन । वृतेर्लुङि व्यत्ययेन च्लेश्चङ्, ‘द्युद्भ्यो लुङि’ इति परस्मैपदं, ‘बहुलं छन्दसि’ इति रुट् ।
अहिं स्थिराणि स्थानानि बुध्नियं सुषिराणि चानुसञ्चरन्तीर् अनुक्रमेण सञ्चरन्त्यः ।
अहिं बुध्नियं वानुप्राप्य सञ्चरन्तीस् ताः ।
पर्वतस्य पर्ववतः । ‘पर्वमरुद्भ्यस्तः’ इति मत्वर्थीयस्तः । वृषभस्य प्रधानस्य वर्षितुर्वा यजमानस्य पृष्ठे देहस्योपरि नावः नाव्या इवापश्चरन्ति प्रभूताः प्रवर्तन्ते स्वसिचः स्वयमेव सर्वमङ्गं सिञ्चन्त्यः इयानाः सर्वमङ्गं व्याप्नुवन्त्यः । लिटः कानजादेशः ।

यद्वा - समाववृत्रन् संहत्य समन्तात् वर्तन्ताम् । अधरागुपरिष्टाच्च सर्वास्वपि दिक्षु अहिं मेघं बुध्नियमन्तरिक्षं चानुसञ्चरन्त्यः मेघमनुप्राप्यान्तरिक्षे वर्तमानाः । वर्षकाले पर्वतस्य पर्ववतो वृषभस्य वर्षितुर्मेघस्य पृष्ठे नाव्या आप इव प्रभूतास् सञ्चरन्ति ओषधिनिष्पत्तये । स्वसिचस् स्वयमेव विश्वं सिञ्चन्त्यः इयाना दिगन्तं व्याप्नुवन्त्यः इति । नौभिः कार्याभिः कारणभूता आपो लक्ष्यन्ते ॥

भास्करोक्त-विनियोगः

9आग्नीध्रे प्ररेकं जुहोति - रुद्र यत्त इति ॥

विश्वास-प्रस्तुतिः

रुद्र॒ यत्ते॒ क्रयी॒ परं॒ नाम॒
तस्मै॑ हु॒तम् अ॑सि
य॒मेष्ट॑म्+++(=यमेन इष्टम् ←यज्)+++ असि ।

Keith

O Rudra, that highest active name of thee, to that thou art offered, thou art offered to+++(sic!)+++ Yama.

मूलम्

रुद्र॒ यत्ते॒ क्रयी॒ पर॒न्नाम॒ तस्मै॑ हु॒तम॑सि य॒मेष्ट॑मसि ।

भट्टभास्कर-टीका

हे रुद्र यत्ते तव रुद्रेत्यादिकं नामधेयं परमुत्कृष्टं क्रयि क्रीणात्यात्मसात्करोति विश्वमिति क्रयि । छान्दस इप्रत्ययः, छान्दसं सांहितिकं दीर्घत्वम् । करोत्यर्थे वा क्रीणातिः ।

अन्य आह - करोतेः कर्मणि छान्दसः केन्प्रत्ययः । क्रे इति कर्मनाम ; सप्तम्येकवचने अयादेशः, ‘सावेकाचः’ व्यत्ययेन न प्रवर्तते । क्रयि कर्मणिकर्मणि यदुपादीयते शिवो रुद्रः त्र्यम्बकः कृत्तिवासा विरूपाक्ष इत्यादि तव नाम परं प्रशस्तं तस्मै इदं हुतं तदिदमिति त्वमेवासि ।

यमेष्टं यद्यमेनापीष्टं पूजितं तच्छ्रुत्वा मृत्युरपि बिभेति, तेन च मनसा तत्पूजितमिति भावः । तदिदं त्वमेवासि । यजतेर्निष्ठा, ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । तस्मात्तव नाम्ने इदमुदकाख्यं हविर्जुहोमीति शेषः । यद्वा - लिङर्थे आशिषि लोट्, पुरुषव्यत्ययः । तस्मादिदं हुतमसि हुतं भूयादित्यर्थः यमेष्टं चास्त्विति ॥

भास्करोक्त-विनियोगः

10युवराजस्य प्रतिहितस्य गृहे जुहोति - प्रजापत इति त्रिष्टुभा ॥

१० प्रजापते न ...{Loading}...

प्र᳓जापते न᳓ त्व᳓द् +++(विश्वा जातानि→)+++ एता᳓न्य् अन्यो᳓
वि᳓श्वा जाता᳓नि प᳓रि ता᳓ बभूव
य᳓त्-कामास् ते जुहुम᳓स् त᳓न् नो अस्तु
वयँ᳓ स्याम प᳓तयो रयीणा᳓म्॥

010 ...{Loading}...

अधिमन्त्रम् - sa
  • देवता - कः
  • ऋषिः - हिरण्यगर्भः प्राजापत्यः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

प्र᳓जापते न᳓ त्व᳓द् एता᳓नि अन्यो᳓
वि᳓श्वा जाता᳓नि प᳓रि ता᳓ बभूव
य᳓त्कामास् ते जुहुम᳓स् त᳓न् नो अस्तु
वयं᳓ सियाम प᳓तयो रयीणा᳓म्

मूलम् - तैत्तिरीयम्

प्रजा॑पते॒ न त्वदे॒तान्य॒न्यः । विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु । व॒यँ स्या॑म॒ पत॑यो रयी॒णाम्॥

Vedaweb annotation

Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons


Pāda-label
popular
popular
popular
popular;; repeated line


Morph
anyáḥ ← anyá- (nominal stem)
{case:NOM, gender:M, number:SG}

etā́ni ← eṣá (pronoun)
{case:ACC, gender:N, number:PL}

ná ← ná (invariable)

prájāpate ← prajā́pati- (nominal stem)
{case:VOC, gender:M, number:SG}

tvát ← tvám (pronoun)
{case:ABL, number:SG}

babhūva ← √bhū- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}

jātā́ni ← √janⁱ- (root)
{case:ACC, gender:N, number:PL, non-finite:PPP}

pári ← pári (invariable)

tā́ ← sá- ~ tá- (pronoun)
{case:ACC, gender:N, number:PL}

víśvā ← víśva- (nominal stem)
{case:ACC, gender:N, number:PL}

astu ← √as- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}

juhumáḥ ← √hu- (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:ACT}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}

te ← tvám (pronoun)
{case:DAT, number:SG}

yátkāmāḥ ← yátkāma- (nominal stem)
{case:NOM, gender:M, number:PL}

pátayaḥ ← páti- (nominal stem)
{case:NOM, gender:M, number:PL}

rayīṇā́m ← rayí- ~ rāy- (nominal stem)
{case:GEN, gender:M, number:PL}

syāma ← √as- 1 (root)
{number:PL, person:1, mood:OPT, tense:PRS, voice:ACT}

vayám ← ahám (pronoun)
{case:NOM, number:PL}

पद-पाठः

प्रजा॑ऽपते । न । त्वत् । ए॒तानि॑ । अ॒न्यः । विश्वा॑ । जा॒तानि॑ । परि॑ । ता । ब॒भू॒व॒ ।
यत्ऽका॑माः । ते॒ । जु॒हु॒मः । तत् । नः॒ । अ॒स्तु॒ । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥

Hellwig Grammar
  • prajāpateprajāpati
  • [noun], vocative, singular, masculine
  • “Prajapati; Brahma; Dakṣa.”

  • na
  • [adverb]
  • “not; like; no; na [word].”

  • tvadtvattvad
  • [noun], ablative, singular
  • “you.”

  • etānyetānietad
  • [noun], accusative, plural, neuter
  • “this; he,she,it (pers. pron.); etad [word].”

  • anyoanyaḥanya
  • [noun], nominative, singular, masculine
  • “other; another(a); remaining; different; anya [word]; other than; more(a); fresh; any(a).”

  • viśvāviśva
  • [noun], accusative, plural, neuter
  • “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”

  • jātānijan
  • [verb noun], accusative, plural
  • “become; originate; be born; transform; happen; result; grow; beget; produce; create; conceive; separate; cause; give birth; grow; produce; generate; be; become; arise; come on.”

  • pari
  • [adverb]
  • “from; about; around.”

  • tad
  • [noun], accusative, plural, neuter
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • babhūvabhū
  • [verb], singular, Perfect indicative
  • “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”

  • yatkāmāsyad
  • [noun]
  • “who; which; yat [pronoun].”

  • yatkāmāskāmāḥkāma
  • [noun], nominative, plural, masculine
  • “wish; desire; sexual love; sexual desire; desire; Kama; sensuality; love; purpose; sexual arousal; pleasure; enjoyment; licentiousness; kāma [word]; sexual intercourse; thorn apple; wish.”

  • tetvad
  • [noun], dative, singular
  • “you.”

  • juhumasjuhumaḥhu
  • [verb], plural, Present indikative
  • “sacrifice; offer; pour; worship.”

  • tantattad
  • [noun], nominative, singular, neuter
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • nonaḥmad
  • [noun], dative, plural
  • “I; mine.”

  • astuas
  • [verb], singular, Present imperative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

  • vayaṃvayammad
  • [noun], nominative, plural
  • “I; mine.”

  • syāmaas
  • [verb], plural, Present optative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

  • patayopatayaḥpati
  • [noun], nominative, plural, masculine
  • “husband; overlord; king; deity; īśvara; ruler; pati [word]; commanding officer; leader; owner; mayor; lord.”

  • rayīṇāmrayi
  • [noun], genitive, plural, masculine
  • “wealth; property.”

सायण-भाष्यम्

हे प्रजापते त्वत् त्वत्तोऽन्यः कश्चित् एतानि इदानीं वर्तमानानि विश्वा विश्वानि सर्वाणि ॥ ‘ शेश्छन्दसि बहुलम् ’ इति शेर्लोपः ॥ जातानि प्रथमविकारभाञ्जि ता तानि सर्वाणि भूतजातानि परि बभूव न परिगृह्णाति । न व्याप्नोति । त्वमेवैतानि परिगृह्य स्रष्टुं शक्नोषीति भावः । परिपूर्वो भवतिः परिग्रहार्थः । वयं च यत्कामाः यत्फलं कामयमानाः ते तुभ्यं जुहुमः हवींषि प्रयच्छामः तत् फलं नः अस्माकम् अस्तु भवतु । तथा वयंरयीणां धनानां पतयः ईश्वराः स्याम भवेम ॥ नामन्यतरस्याम् ’ इति नाम उदात्तत्वम् ॥ ॥ ४ ॥


हे प्रजापते! त्वदन्यः कश्चिदपि जातानि उत्पन्नानि यान्येतानि विश्वानि लोकजातानि सन्ति ता तानि परिबभूव परितो व्याप्तुं त्वत् त्वत्तोऽन्यः कोऽपि न समर्थः । वयं यत्कामा येन फलकामेन युक्ताः सन्तस्ते तुभ्यं जुहुमः तत्फलं नोऽस्माकमस्तु सिध्यतु । वयं त्यत्प्रसादाद्रयीणां धनानां पतयः स्याम ॥

हरदत्तः

प्रजापत इति ॥ हे प्रजापते त्वत् त्वत्तः अन्यः एतानि विश्वा विश्वानि जातानि जनिमन्ति वस्तूनि कश्चिदपि न परिबभूव । परिपूर्वो भवतिः परिग्रहे वर्तते । वर्तमाने लिट्, परिगृह्वाति । न त्वदन्यः परिग्रहीतुं समर्थ इत्यर्थःस । ता तान्येतानि प्रसिद्धानि भुवनादीनीत्यर्थः यत्कामा यत् कामयमाना वयं ते तुभ्यं जुहुमः तन्नः अस्माकं अस्तु संपद्यताम् । कि पुनस्तत्? वयं रयीणां पतयः स्याम ॥

भट्टभास्कर-टीका

हे प्रजापते तान्येतानि विश्वानि जातानि भूतानि त्वत्तोन्यः कश्चिदपि परिभवति निजेन महिम्ना व्याप्नोति । यत्कामास्ते जुहुमो वयं तदस्माकमस्तु । किं च - वयं रयीणां पतयः स्याम भूयास्मेति ॥


हे प्रजापते त्वत्तोन्यः कश्चिदपि तान्येतानि विश्वा विश्वानि जातानि जन्मवन्ति वस्तूनि परिबभूव परिभवति वाप्नोति परिगृह्णाति वा । यद्वा - त्वदेतानि त्वत्तो जातानि विश्वानि वस्तूनि कश्चिदन्यः पीरबभूव न त्वमेव परिभवसि, तस्मादेवं तावन्महानुभावस्त्वम् । न च मया किञ्चिदज्ञातमस्ति ; अतो यत्कामा यत्फलं कामयमानाः ते जुहुमस्तन्नोस्माकमस्तु त्वत्प्रसादात् स कामोस्माकं सम्पद्यताम् । ‘शीलिकामिभिक्षाचरिभ्यः’ इति णः, पूर्वपदप्रकृतिस्वरत्वं च । इदं तु विशेषेणेत्याह - वयं रयीणां धनानां पतयः सर्वदा स्यामेत्याशास्ते ॥


हे प्रजापते न खलु कश्चित् त्वत्तोन्यः तान्येतानि विश्वानि जातानि भूतानि परिबभूव परिभवति । तस्माद्यत्कामा वयं जुहुमस्तन्नोस्माकमस्तु । किञ्च - वयं रयीणां पतयस्स्वामिनश्च स्यामेति ॥


हे प्रजापते त्वदन्य एतानि विश्वानि जातानि भुवनानि परिबभूव सर्वतो व्याप्नोति । तस्माद्यद्यत्कामयमानास्ते जुहुमो वयं तत्तथैवास्माकमस्तु वयं रयीणां पतयस्स्यामेति ॥

Wilson

English translation:

“No other than you, Prajāpati, has given existence to all these beings; may that object of our desiresfor which we sacrifice to you be ours, may we be the possessors of riches.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Yajus. 10.20; Nirukta 10.43

Jamison Brereton

O Prajāpati! No one other than you has encompassed all these things that have been born.
Let what we desire as we make oblation to you be ours. We would be lords of riches.

Keith

O Prajapati, none other than thou
Hath encompassed all these beings;
Be that ours for which we sacrifice to thee
May we be lords of wealth.


O Prajapati, none other than thou
Comprehendeth all these creatures [6].
What we seek when we sacrifice to thee, let that be ours;
May we be lords of riches.

Griffith

Prajapati! thou only comprehendest all these created things, and none beside thee.
Grant us our hearts’ desire when we invoke thee: may we have store of riches in possession.

Geldner

Prajapati, kein anderer als du umspannt schützend alle diese Geschöpfe. Mit welchem Wunsche wir dir opfern, der werde uns zuteil! Wir möchten Gebieter von Reichtümern sein!

Grassmann

Pradschāpati, kein anderer als du nur hält alle diese Wesen hier umschlungen, Um was wir heischend flehn, das mög’ uns werden; wir mögen sein die Herren reicher Schätze.

Elizarenkova

О Праджапати! Никто, кроме тебя,
Не охватил все эти существа.
С каким желанием мы совершаем тебе возлияния, да сбудется оно для нас!
Какого бога мы почтили жертвенным возлиянием?

अधिमन्त्रम् (VC)
  • कः
  • हिरण्यगर्भः प्राजापत्यः
  • विराट्त्रिष्टुप्
  • धैवतः
ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (प्रजापते) हे उत्पन्नमात्र के पालक स्वामी ! (त्वत्-अन्यः) तुझसे भिन्न (विश्वा जातानि) सब उत्पन्न हुईं (ता-एता) उन पूर्व की इन वर्तमान की वस्तुओं को (न परि बभूव) न परिभव करता है-अधिकृत करता है (यत्कामाः) जिस कामना को रखते हुए हम (ते जुहुमः) तेरे लिये अपने भाव को समर्पित करते हैं (तत्-नः अस्तु) वह हमारे लिये होवे, (वयम्) हम (रयीणाम्) विविध धनों के (पतयः स्याम) स्वामी होवें ॥१०॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - जो वस्तुएँ पूर्व उत्पन्न हुईं या वर्तमान में होती हैं, उन सबका परमात्मा अधिष्ठाता है, अन्य नहीं, जिस-जिस कामना को लेकर मनुष्य भावना प्रस्तुत करते हैं, वह पूरी होती है, मनुष्य आवश्यक धनों के स्वामी बन जाते हैं ॥१०॥

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (प्रजापते) हे प्रजायमानानां पालयितः स्वामिन् ! (त्वत्-अन्यः) त्वत्तो भिन्नः (ता-एतानि विश्वा जातानि न परि बभूव) सर्वाणि खलूत्पन्नानि तानि पूर्वाणि तथेमानि सम्प्रत्युत्पन्नानि वस्तूनि न परि भवति-नाधिकरोति (यत्कामाः-ते जुहुमः) यः कामो येषां ते तुभ्यं स्वात्मभावं समर्पयेम (तत्-नः-अस्तु) तदभीष्टमस्मभ्यं भवतु (वयं रयीणां पतयः स्याम) वयं सर्वविधधनानां स्वामिनो भवेम ॥१०॥