विश्वेदेवा ऋषयः
भास्करोक्त-विनियोगः
1अथ यजमानम् अध्वर्युर् दिशो व्यास्थापयति,
मध्ये पश्चिमेन समिधम् आतिष्ठति पञ्चभिः । तत्र प्राचीं - समिधमिति ॥
विश्वास-प्रस्तुतिः
स॒मिध॒म् +++(दिशम्)+++ आति॑ष्ठ,
गाय॒त्री त्वा॒ छन्द॑साम् अवतु
त्रि॒वृत् स्तोमो॑, रथन्त॒रँ साम॑
+अ॒ग्निर् दे॒वता॒, ब्रह्म॒ द्रवि॑णम्
Keith
Do I thou mount the kindling (quarter); let the Gayatri of metres help thee; the Trivrt Stoma, the Rathantara Saman, the deity Agni, the treasure the Brahman class.
मूलम्
स॒मिध॒मा ति॑ष्ठ गाय॒त्री त्वा॒ छन्द॑सामवतु त्रि॒वृत्स्तोमो॑ रथन्त॒रँ सामा॒ग्निर्दे॒वता॒ ब्रह्म॒ द्रवि॑णम्
भट्टभास्कर-टीका
समिद्ध्यतेस्यामादित्य इति समित् प्राचीदिक् उपर्युपरि समिद्धा भवतीति । तामातिष्ठाधितिष्ठ स्वीकुरु ।
गायत्री चतुर्विंशत्यक्षरा छन्दसाम्मध्ये प्राच्यां दिशि स्थिता त्वामवतु ।
त्रिवृदाख्यस्स्तोमश्च त्वामवत्वित्येव । स्तोमानाम्मध्य इति गम्यते । त्रयोवयवस्तिस्रो वृत्तयो यस्य स त्रिवृत् नवस्तोत्रीयः । ‘त्रिचक्रादीनां छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् ।
रथन्तरं च साम त्वामवतु साम्नाम्मध्ये । ‘संज्ञायां भृतॄवृजि’ इत्यादिना खच् ।
अग्निर्देवता त्वामवतु देवतानां मध्ये ।
ब्रह्म ब्राह्मणः द्रविणं प्रशस्तं धनं त्वामवतु द्रविणानां मध्ये ॥
भास्करोक्त-विनियोगः
2दक्षिणां उग्रामिति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒ग्राम् +++(दिशम्)+++ आ ति॑ष्ठ,
त्रि॒ष्टुप् त्वा॒ छन्द॑साम् अवतु
पञ्चद॒शस् स्तोमो॑, बृ॒हत् साम॑+
इन्द्रो॑ दे॒वता॑ क्ष॒त्त्रन् द्रवि॑णम्
सर्वाष् टीकाः ...{Loading}...
Keith
Do thou mount the dread (quarter); let the Tristubh of metres help thee, the Pañcadaśa Stoma, the Brhat Saman, the deity Indra, the treasure the ruling class.
मूलम्
उ॒ग्रामा ति॑ष्ठ त्रि॒ष्टुप्त्वा॒ छन्द॑सामवतु पञ्चद॒शस्स्तोमो॑ बृ॒हत्सामेन्द्रो॑ दे॒वता॑ क्ष॒त्त्रन्द्रवि॑णम्
भट्टभास्कर-टीका
उग्रां पितृसम्बन्धाद्दक्षिणामातिष्ठ । त्रिष्टुप् चतुश्चत्वारिंशदक्षरा । पञ्चदशस्स्तोमः पञ्चदशस्स्तोत्रीयः परिमाणमस्य ‘स्तोमे डविधिः पञ्चदशाद्यर्थे’ इति डः । बृहत्साम इन्द्रश्च क्षत्रं क्षत्रियाः ।
गतमन्यत् ।
विश्वास-प्रस्तुतिः
वि॒राज॒म् +++(←राज्, दिशम्)+++ आ ति॑ष्ठ॒
जग॑ती त्वा॒ छन्द॑साम् अवतु
सप्त-द॒शस् स्तोमो॑, वैरू॒पँ साम॑,
म॒रुतो॑ दे॒वता॒, विड् द्रवि॑ण॒म्
Keith
Do thou mount the shining (quarter); let the Jagati of metres help thee, the Saptadaśa Stoma, the Vairapa Saman, the deity the Maruts, the treasure the peasant class.
मूलम्
वि॒राज॒मा ति॑ष्ठ॒ जग॑ती त्वा॒ छन्द॑सामवतु सप्तद॒शस्स्तोमो॑ वैरू॒पँ साम॑ म॒रुतो॑ दे॒वता॒ विड्द्रवि॑ण॒मुदी॑ची॒मा ति॑ष्ठानु॒ष्टुप्त्वा॑ [24]
भट्टभास्कर-टीका
3प्रतीचीं - विराजमिति ॥ जगती विराट् उपर्युपरि शान्ता भवतीति । अष्टाचत्वारिंशदक्षरा जगती । सप्तदशस्स्तोमः सप्तदशस्तोत्रीयः । वैरूपाख्यं साम । मरुतो देवता । विट् वैश्याः ॥
भास्करोक्त-विनियोगः
4उत्तरां - उदीचीमिति ॥
विश्वास-प्रस्तुतिः
उदी॑ची॒म् +++(दिशम्)+++ आति॑ष्ठानु॒ष्टुप् त्वा॒ [24] छन्द॑साम् अवत्व्
एकविँ॒शस् स्तोमो॑, वैरा॒जँ साम॑, मि॒त्रावरु॑णौ दे॒वता॒, बल॒न् द्रवि॑णम्
Keith
Do thou mount the northern (quarter); let the Anustubh of metres help thee [1], the Ekavinśa Stoma, the Vairaja Saman, the deity Mitra and Varuna, the treasure the host.
मूलम्
उदी॑ची॒मा ति॑ष्ठानु॒ष्टुप् त्वा॒ [24] छन्द॑साम् अवत्व्
एकविँ॒शस् स्तोमो॑ वैरा॒जँ साम॑ मि॒त्रावरु॑णौ दे॒वता॒ बल॒न् द्रवि॑णम्
भट्टभास्कर-टीका
उत्क्रम्याञ्चति भूगोलमित्युदीची ; यत्र गच्छन्नादित्यो न दृश्यते । ‘अनिगन्तोञ्चतौ’ इति प्रकृतिस्वरत्वम् । अनुष्टुब्द्वात्रिंशदक्षरा । एकविंशः एकविंशतिस्तोत्रीयः ।
वैराजाख्यं साम ।
मित्रावरुणौ देवता । समुदायस्य देवतात्वादेकवचनं, देवतात्वमात्रस्य विवक्षितत्वात् ; श्रुतयः प्रमाणमिति यथा । ‘देवताद्वन्द्वे च’ इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ॥
भास्करोक्त-विनियोगः
5मध्ये - ऊर्ध्वामिति ॥
विश्वास-प्रस्तुतिः
ऊ॒र्ध्वाम् आ ति॑ष्ठ,
प॒ङ्क्तिस् त्वा॒ छन्द॑साम् अवतु
त्रिणवत्रयस्त्रिँ॒शौ स्तोमौ॑
शाक्वर-रैव॒ते साम॑नी॒
बृह॒स्पति॑र् दे॒वता॒, वर्चो॒ द्रवि॑णम्
Keith
Do thou mount the zenith; let the Pañkti of metres help thee, the Trinava, and Trayastrinśa Stomas, the Śakvara and Raivata Samans, the deity Brhaspati, the treasure radiance.
मूलम्
ऊ॒र्ध्वामा ति॑ष्ठ प॒ङ्क्तिस्त्वा॒ छन्द॑सामवतु त्रिणवत्रयस्त्रिँ॒शौ स्तोमौ॑ शाक्वररैव॒ते साम॑नी॒ बृह॒स्पति॑र्दे॒वता॒ वर्चो॒ द्रवि॑णम्
भट्टभास्कर-टीका
पङ्क्तिः पञ्चपदा चत्वारिंशदक्षरा । त्रिणवत्रयस्त्रिंशौ स्तोमौ त्रिणवस्सप्तविशस्तोत्रीयः त्रयस्त्रिंशस्त्रयस्त्रिंशस्तोत्रीयः ।
शाक्वरं रैवतं च सामद्वयम् ।
बृहस्पतिर्देवता ।
वनस्पत्यादित्वाद्द्वयोर्युगपत्प्रकृतिस्वरत्वम् । वर्चो दीप्तिः ।
निगदसिद्धमन्यत् ॥
भास्करोक्त-विनियोगः
6-19अत्र मारुत एकविंशतिकपालोस्ति,
तत्र मध्यमानि सप्तकपालानि
‘धुनिश्च ध्वान्तश्च’ इत्यारण्येनानुवाक्येनोपधीयन्ते ।
अन्यानि चतुर्दश, एताभ्यां गणाभ्याम् उपदधाति - ईदृङ् चेत्यादिना ॥
विश्वास-प्रस्तुतिः
+++(चतुर्दश मरुद्-विशेषाः -)+++
ई॒-दृङ् चा॑न्या॒दृङ् चै॑ता॒दृङ् च॑
प्रति॒-दृङ्च॑ मि॒तश् च॒ सम्मि॑तश् च॒ सभ॑राः +++(इति ७)+++ ।
शु॒क्र-ज्यो॑तिश् च चि॒त्र-ज्यो॑तिश् च
स॒त्य-ज्यो॑तिश् च॒ ज्योति॑ष्माँश् च
स॒त्यश् च॑+ऋ॒त॒-पाश् चा॑त्य्-अँ॑हाः +++(इति ७)+++ ।
Keith
Such like, other like, thus like, similar, the measured, commensurate, harmonious, Of pure radiance, of varied radiance, of true radiance, the radiant, true, protector of holy order [2], beyond distress.
मूलम्
ई॒दृङ्चा॑न्या॒दृङ्चै॑ता॒दृङ्च॑ प्रति॒दृङ्च॑ मि॒तश्च॒ सम्मि॑तश्च॒ सभ॑राः ।
शु॒क्रज्यो॑तिश्च चि॒त्रज्यो॑तिश्च स॒त्यज्यो॑तिश्च॒ ज्योति॑ष्माँश्च स॒त्यश्च॑र्त॒पाश्च॑ [25] अत्यँ॑हाः ।
भट्टभास्कर-टीका
शुक्रज्योतिश्चेत्यादिना च ॥ एते चतुर्दश मरुद्-विशेषाः । तादर्थ्यात्कपालेषु ताच्छब्द्यम् । इदमिव पश्यतीदृङ् । ‘त्यदादिषु दृशः’ इति क्विन्, ‘इदङ्किभोरीश्की’ इतीशादेशः, ‘दृक्स्ववस्स्ववतसां छन्दसि ’ ईति नुम्, ‘क्विन्प्रत्ययस्य कुः’ इति कुत्वम् । अन्य इव पश्यति अन्यादृङ् । ‘आ सर्वनाम्नः’ इत्यात्वम् । एष इव पश्यति एतादृङ् । परत्र सन्निहितमेतच्छब्द आह, आत्मनि सन्निहितमिदंशब्दः । प्रतिकूलं पश्यतीति प्रतिदृङ् । छान्दसः क्विन् । मितः निभृतः । सम्मितः संहतरूपः । ‘गतिरनन्तरः’ इति पूर्वपदप्रकृतिस्वरत्वम् । सह बिभतीर्ति सभराः । छान्दसोसुन् । भरसा सह वर्तत इति वा सभराः, भरो वेगः ।
शुक्रज्योतिः येन ज्योतींषि शुक्राणि क्रियन्ते । चित्राणि पूजनीयानि ज्योतींषि येन क्रियन्ते स चित्रज्योतिः । सत्सु साधूनि सत्यानि ज्योतींषि येन स सत्यज्योतिः । ज्योतिष्मान् ब्रह्मज्योतिः । सत्यस् सति साधुः । छान्दसमन्तोदात्तत्वम् ।
ऋतस्य यज्ञस्य पाता रक्षकः ऋतपाः । अत्यंहाः अंहोतिक्रान्तवान् । अत्यर्थं वा गच्छतीत्यत्यंहाः । ‘गतिकारकयोरपि’ इत्यंहेरसुन् ॥
भास्करोक्त-विनियोगः
20-25षट्पार्थिवानि वारुणानि पुरस्तादभिषेकस्य जुहोति - अग्नये स्वाहेत्यादीनि बृहस्पत्यन्तानि ॥
विश्वास-प्रस्तुतिः
अ॒ग्नये॒ स्वाहा॑ ।
सोमा॑य॒ स्वाहा॑ ।
स॒वि॒त्रे स्वाहा॑ ।
सर॑स्वत्यै॒ स्वाहा॑ ।
पू॒ष्णे स्वाहा॑ ।
बृह॒स्पत॑ये॒ स्वाहा॑ ।
Keith
To Agni hail! To Soma hail! To Savitr hail! To Sarasvati hail!
To Pusan hail! To Brhaspati hail!
मूलम्
अ॒ग्नये॒ स्वाहा॑ ।
सोमा॑य॒ स्वाहा॑ ।
स॒वि॒त्रे स्वाहा॑ ।
सर॑स्वत्यै॒ स्वाहा॑ ।
पू॒ष्णे स्वाहा॑ ।
बृह॒स्पत॑ये॒ स्वाहा॑ ।
भास्करोक्त-विनियोगः
26-31 षडुपरिष्टात् - इन्द्राय स्वाहेत्यादीनि क्षेत्रस्य पतये स्वाहे त्यन्तानि ।
विश्वास-प्रस्तुतिः
इन्द्रा॑य॒ स्वाहा॑ ।
घोषा॑य॒ स्वाहा॑ ।
श्लोका॑य॒ स्वाहा॑ ।
अंँशा॑य॒ स्वाहा॑ ।
भगा॑य॒ स्वाहा॑ ।
क्षेत्र॑स्य॒ पत॑ये॒ स्वाहा॑ ।
Keith
To Indra hail! To sound hail!
To verse hail! To Anśa hail! To Bhaga hail! To the lord of the field hail!
मूलम्
इन्द्रा॑य॒ स्वाहा॑ ।
घोषा॑य॒ स्वाहा॑ ।
श्लोका॑य॒ स्वाहा॑ ।
अंँशा॑य॒ स्वाहा॑ ।
भगा॑य॒ स्वाहा॑ ।
क्षेत्र॑स्य॒ पत॑ये॒ स्वाहा॑ ।
भट्टभास्कर-टीका
सर्वाणि निगदसिद्धानि ॥
भास्करोक्त-विनियोगः
32-37षट्पुरस्ताद्भूतानामवेष्टीर्जुहोति - पृथिव्यै स्वाहेत्याद्यानि नक्षत्रेभ्यस्स्वाहेत्यन्तानि ॥ पृथिव्यादिभ्यः मृत्युरवेष्टो भवति विनाशितो भवति ॥
विश्वास-प्रस्तुतिः
पृ॒थि॒व्यै स्वाहा॑ ।
अ॒न्तरि॑क्षाय॒ स्वाहा॑ ।
दि॒वे स्वाहा॑ ।
सूर्या॑य॒ स्वाहा॑ ।
च॒न्द्रम॑से॒ स्वाहा॑ ।
नक्ष॑त्रेभ्य॒स् स्वाहा॑ ।
Keith
To earth hail! To atmosphere hail! To sky hail! To the sun hail! To the moon hail! To the Naksatras hail!
मूलम्
पृ॒थि॒व्यै स्वाहा॑ ।
अ॒न्तरि॑क्षाय॒ स्वाहा॑ ।
दि॒वे स्वाहा॑ ।
सूर्या॑य॒ स्वाहा॑ ।
च॒न्द्रम॑से॒ स्वाहा॑ ।
नक्ष॑त्रेभ्य॒स्स्वाहा॑ ।
भास्करोक्त-विनियोगः
38-43षडुपरिष्टादद्भ्यस्स्वाहेत्याद्याः सरीसृपेभ्यस्स्वाहेत्यन्ताः ।
विश्वास-प्रस्तुतिः
अ॒द्भ्यस् स्वाहा॑ ।
ओष॑धीभ्य॒स् स्वाहा॑ ।
वन॒स्-पति॑भ्य॒स् स्वाहा॑ ।
च॒रा॒च॒रेभ्य॒स् स्वाहा॑ ।
प॒रि॒प्ल॒वेभ्य॒स् स्वाहा॑ ।
स॒री॒-सृ॒पेभ्य॒स् स्वाहा॑ ॥ [26]
Keith
To the waters hail! To plants hail! To trees hail! To moving creatures hail! To swimming creatures hail! To creeping creatures hail!
मूलम्
अ॒द्भ्यस्स्वाहा॑ ।
ओष॑धीभ्य॒स्स्वाहा॑ ।
वन॒स्पति॑भ्य॒स्स्वाहा॑ ।
च॒रा॒च॒रेभ्य॒स्स्वाहा॑ ।
प॒रि॒प्ल॒वेभ्य॒स्स्वाहा॑ ।
स॒री॒सृ॒पेभ्य॒स्स्वाहा॑ ॥ [26]
भट्टभास्कर-टीका
सर्वा निगदसिद्धाः । चरणशिलाश्चराचराः । चरेर्यङ्लुगन्तात्पचाद्यचि अभ्यासस्याडागमः । परितः प्लवनशीलाः परिप्लवाः । स एवाच् । सर्पणशीलास्सरीसृपाः । सृपेर्यङ्लुगन्तात्पचाद्यचि अभ्यासस्य रीगागमः, ‘न धातुलोप आर्धधातुके’ इति गुणाभावः ॥
इत्यष्टमे त्रयोदशोनुवाकः ॥