विस्तारः (द्रष्टुं नोद्यम्)
५, २० त्रिष्टुप्
विश्वेदेवा ऋषयः
अभिषेकजलसंस्कारमन्त्राः, तार्प्योष्णीषधारणादिमन्त्राश्च
भास्करोक्त-विनियोगः
1एवं गृहीत्वाथ वैतसे द्रोणकलशे ग्रहान् समवनयति - देवीराप इति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
देवी॑र् आप॒स् सम्मधु॑मती॒र्
मधु॑मतीभिस् सृज्यध्वम् ।
महि॒ वर्चः॑ क्ष॒त्रिया॑य वन्वा॒नाः+++(=याचमानाः)+++।
सर्वाष् टीकाः ...{Loading}...
Keith
a. O ye divine waters, be ye united
Full of sweetness with the sweet,
Winning great radiance for the Ksatriya.
मूलम्
देवी॑राप॒स्सम्मधु॑मती॒र्मधु॑मतीभिस्सृज्यध्वम् ।
महि॒ वर्चः॑ क्ष॒त्रिया॑य वन्वा॒नाः।
भट्टभास्कर-टीका
हे देवीरापः मधुमतीः मधुमत्यः मधुरसवत्यः मधुमतीभिस्संसृज्यध्वं परस्परमेकीभवत ।
महि महत् वर्चः क्षत्रियायास्मै वन्वानाः याचमानाः । वनु याचने शानच् ॥
भास्करोक्त-विनियोगः
2अन्तराहोतुर् धिष्ण्यं ब्राह्मणाच्छंसिनश् च सादयति - अनाधृष्टा इति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अना॑धृष्टास् सीद॒तोर्ज॑स्वती॒र्
महि॒ वर्चः॑ क्ष॒त्रिया॑य॒ दध॑तीः ।
सर्वाष् टीकाः ...{Loading}...
Keith
Unsurpassed, sit ye down, full of strength,
Bestowing great radiance upon the Ksatriya.
मूलम्
अना॑धृष्टास्सीद॒तोर्ज॑स्वती॒र्महि॒ वर्चः॑ क्ष॒त्रिया॑य॒ दध॑तीः ।
भट्टभास्कर-टीका
हे आपः अनाधृष्टाः केनाप्यतिरस्कृताः ऊर्जस्वतीः बलवत्यः महि महत् वर्चः क्षत्रियायास्मै दधतीः दधत्यः धारयन्त्यः ददत्यो वा । एवम्भूतास्सत्यः अत्र सीदतेति ॥
भास्करोक्त-विनियोगः
3शतमानं हिरण्यं प्रग्रथ्नाति - अनिभृष्टमिति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अनि॑भृष्टम्+++(←भर्जने)+++ असि,
वा॒चो बन्धु॑स् तपो॒-जाः ।
सर्वाष् टीकाः ...{Loading}...
Keith
Friend of speech, born of heat, thou art undefeated;
मूलम्
अनि॑भृष्टमसि वा॒चो बन्धु॑स्तपो॒जाः ।
भट्टभास्कर-टीका
अनिभृष्टम् असन्तप्तम् असि रक्षोभिः । वाचो बन्धुः हिरण्यवतां हि वाक् सर्वानभिभवति, वाच उत्कर्षहेतुश्च । तपोजाः अग्नेर्जातत्वात् । ‘जनसनखनक्रमगमो विट्’ ‘विड्वनोरनुनासिकस्यात्’ इत्यात्वं, लिङ्गव्यत्ययः ॥
भास्करोक्त-विनियोगः
4तद् वैतस अवदधाति - सोमस्येति ॥
विश्वास-प्रस्तुतिः
सोम॑स्य दा॒त्रम्+++(=देयम्)+++ अ॑सि ।
Keith
thou art the share of Soma.
मूलम्
सोम॑स्य दा॒त्रम॑सि ।
भट्टभास्कर-टीका
सोमस्य दात्रं देयं त्वमसि दक्षिणारूपत्वात् ॥
भास्करोक्त-विनियोगः
5हिरण्येनोत्पुनाति - शुक्रा व इति ।
विश्वास-प्रस्तुतिः
शु॒क्रा व॑श् शु॒क्रेणोत्पु॑नामि
च॒न्द्राश् च॒न्द्रेण
+अ॒मृता॑ अ॒मृते॑न॒
[स्वाहा॑, राज॒सूया॑य॒ चिता॑नाः ॥]
+++(केचिद् अत्र त्रीण्य् उत्पवनान्य् अनेनानुषङ्गेनाहुः॥)+++
Keith
The pure I purify you with the pure, the bright with the bright, the immortal with ambrosia, hail! caring for the royal consecration.
मूलम्
शु॒क्रा व॑श्शु॒क्रेणोत्पु॑नामि
च॒न्द्राश्च॒न्द्रेणा॒मृता॑ अ॒मृते॑न॒
स्वाहा॑ राज॒सूया॑य॒ चिता॑नाः ॥
भट्टभास्कर-टीका
शुक्राः निर्मलाः वः युष्मान् शुक्रेण पुनामि । चन्द्राः कान्ताः आह्लादनीर्वा चन्द्रेण तादृशेन हिरण्येन । अमृता अमरणाः अमरणहेतुभूताः तादृशेनानेन जीवनहेतुना व उत्पुनामि । स्वाहा एवं कर्तव्यमिति सैव वागाह ।
राजसूयाय चिताना इति व्याख्यातम् ।
- [ 1-/8-11/-1मन्त्रे - राजसूयाय राजसूयार्थं राजसूये अभिषेकार्थमगृह्णन् चितानाः चिन्तयन्तीः राजसूयाभिनिष्पत्त्युपायचिन्ताव्यापृताः । यद्वा - राजसूयाय चिताना देवा अगृह्णन् । राजेह सूयते राजा वानेन सूयते इति राजसूयः क्रतुः, ‘राजसूयसूर्य’ इति क्यपि निपात्यते । चिती सञ्चेतने, चुरादिरनुदात्तेत्, ‘बहुलमन्यत्रापि’ इति णिलुक्, ‘बहुलं छन्दसि’ इति शपो लुक्, लसार्वधातुकानुदात्तत्वे धातुस्वरः।]
केचित्तु - त्रिभिरुत्पवनमाहुः । तदा ‘शुक्रा वश्शुक्रेणोत्पुनामि स्वाहा राजसूयाय चितानाः’ इति ‘अमृता अमृतेनोत्पुनामि +++( ‘चन्द्राश्चन्द्रेणोत्पुनामि इति साधु)+++ स्वाहा राजसूयाय चितानाः’ इति ‘अमृता अमृतेनोत्पुनामि स्वाहा राजसूयाय चितानाः’ इति प्रयोगाः ॥
भास्करोक्त-विनियोगः
6अथ पालाशादिषु पात्रेषु गृह्णाति - सधमाद इति त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
स॒ध॒+++(=सह)+++-मादो॑ द्यु॒म्निनी॒र् ऊर्ज॑ ए॒ता
अनि॑भृष्टा अप॒स्युवो॒+++(=अपस्=कर्म-कामाः)+++ वसा॑नः ।
प॒स्त्या॑सु+++(=गृह-भूतासु)+++ चक्रे॒ वरु॑णस् स॒धस्थ॑म्
अ॒पाँ शिशुः॑ मा॒तृत॑मास्व् अ॒न्तः ॥
सर्वाष् टीकाः ...{Loading}...
Keith
Clothed in these (waters), sharing joy, glorious in strength,
Undefeated and busy,
In the waters hath Varuna made his abode,
The child [1] of the waters in those most motherly.
मूलम्
स॒ध॒मादो॑ द्यु॒म्निनी॒रूर्ज॑ ए॒ता अनि॑भृष्टा अप॒स्युवो॒ वसा॑नः ।
प॒स्त्या॑सु चक्रे॒ वरु॑णस्स॒धस्थ॑म॒पाँ शिशुः॑ [21] मा॒तृत॑मास्व॒न्तः ॥
भट्टभास्कर-टीका
सहैकस्मिन् पात्रे मादयन्त इति सधमादः । मद तृप्तियोगे, चौरादिकः, क्विपि णिलोपः, ‘सधमाधस्थयोश्छन्दसि’ इति सधादेशः । द्युम्निनीर् धनवतीः दीप्तिमतीर्वा । ऊर्जः ऊर्जयित्रीः । ऊर्जयतेः कर्तरि क्विप् । बलहेतुभूताः ।
अनिभृष्टाः अक्लिष्टाः अपस्युवः अपांसि कर्माणीच्छन्तीः । छान्दस उवङ् ।
एवम्भूता एता अपः वसानः आच्छादयन्
एताभिर् आत्मानं छादयित्वा
पस्त्यासु गृह-भूतास्व् एतासु सधस्थम् एताभिस् सह-स्थानं
वरुणश् चक्रे करोति । अपामासां शिशुश्शिशुरिव मातृतमासु अतिशयेन जगतो निर्मात्रीषु पस्त्यासु भूतासु अन्तः मध्ये वरुणः सधस्थं करोति यथा मातॄणामुदरे शिशुस्सहवासं करोति । ता एवम्महानुभावाः अस्याभिषेकाय गृह्णामीति ॥
भास्करोक्त-विनियोगः
7तार्प्यं परिधापयति - क्षत्रस्योल्बमिति ॥
विश्वास-प्रस्तुतिः
क्ष॒त्त्रस्योल्ब॑म्+++(=गर्भकोशः)+++ असि ।
Keith
Thou art the caul of kingly power,
मूलम्
क्ष॒त्त्रस्योल्ब॑मसि ।
भट्टभास्कर-टीका
व्याख्यातं वाजपेये । घृताक्तं तार्प्यम् ॥
भास्करोक्त-विनियोगः
8पाण्डुरं वासः परिधत्ते - क्षत्रस्य योनिरसीति ॥
विश्वास-प्रस्तुतिः
क्ष॒त्रस्य॒ योनि॑र् अ॒सि ।
Keith
thou art the womb of kingly power.
मूलम्
क्ष॒त्रस्य॒ योनि॑र॒सि ।
भट्टभास्कर-टीका
क्षत्रस्य बलस्य राजन्यस्य वा योनिः कारणमसीति । अस्मिन् कर्मणि (यद्वा) स जातो भवतीति हि स्तुतिः ।
भास्करोक्त-विनियोगः
9-15आविदो यजमानं वाचयन् बर्हिरुदानयति - आविन्नो अग्निरित्यादि ॥
विश्वास-प्रस्तुतिः
आवि॑न्नो+++(←विद्)+++ अ॒ग्निर् गृ॒ह-प॑तिः ।
Keith
Notified is Agni, lord of the house;
मूलम्
आवि॑न्नो अ॒ग्निर्गृ॒हप॑तिः ।
भट्टभास्कर-टीका
अग्निरिदानीमनेन मुख्येन कर्मणा गृहपतिराविन्नः लब्धात्मा, परिनिष्पन्नात्मा वा । विन्दतेर् विद्यतेर्वा निष्ठा । अग्नेर्गृहपतित्वमिदानीं परिनिष्पन्नमिति । ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम्, कर्तरि निष्ठायां तु व्यत्ययेन ।
विश्वास-प्रस्तुतिः
आवि॑न्न॒ इन्द्रो॑ वृ॒द्ध-श्र॑वाः+++(=कीर्तिः)+++ ।
Keith
notified is Indra, of ancient fame;
मूलम्
आवि॑न्न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः ।
भट्टभास्कर-टीका
इन्द्रश्चेदानीं वृद्धश्रवाः प्रवृद्धकीर्तिः आविन्नः ।
विश्वास-प्रस्तुतिः
आवि॑न्नᳶ पू॒षा वि॒श्व-वे॑दाः।
Keith
notified is Pusan, all knower;
मूलम्
आवि॑न्नᳶ पू॒षा वि॒श्ववे॑दाः।
भट्टभास्कर-टीका
पूषा चेदनीं विश्ववेदाः विश्वस्य वेदिता आविन्नः । ‘गतिकारकयोरपि’ इत्यसुन् । विश्वधनो वा ।
विश्वास-प्रस्तुतिः
आवि॑न्नौ मि॒त्रा-वरु॑णाव् ऋता॒-वृधौ॑ ।
Keith
notified are Mitra and Varuna, increasing holy order;
मूलम्
आवि॑न्नौ मि॒त्रावरु॑णावृता॒वृधौ॑ ।
भट्टभास्कर-टीका
मित्रावरुणौ चेदानीमृतावृधौ ऋतस्य यज्ञस्य सत्यस्य वा वर्धयितारौ आवीन्नौ । ‘अन्येषामपि दृश्यते’ इति दीर्घत्वम् । ‘देवताद्वन्द्वे च’ इति मित्रावरुणशब्दे पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ।
विश्वास-प्रस्तुतिः
आवि॑न्ने॒ द्यावा॑-पृथि॒वी धृ॒त-व्र॑ते।
Keith
notified are sky and earth, of sure vows;
मूलम्
आवि॑न्ने॒ द्यावा॑पृथि॒वी धृ॒तव्र॑ते।
भट्टभास्कर-टीका
द्यावापृथिवी द्यावापृथिव्यौ च धृतव्रते धृतकर्मणावाविन्ने । ‘दिवो द्यावा’ इति द्यावादेशः, पूर्ववत्प्रकृतिस्वरत्वम् ।
विश्वास-प्रस्तुतिः
आवि॑न्ना दे॒व्य् अदि॑तिर् विश्व-रू॒पी।
Keith
notified is the goddess Aditi, of all forms;
मूलम्
आवि॑न्ना दे॒व्यदि॑तिर्विश्वरू॒पी।
भट्टभास्कर-टीका
अदितिर्देवमाता पृथिवी वा । देवी दीप्तिमती । इदानीं विश्वरूपैस्सर्वैर्विकाररूपैस्तद्वती आविन्ना । गौरादित्वात् ङीष् ।
विश्वास-प्रस्तुतिः
आवि॑न्नो॒ ऽयम् अ॒साव् आ॑मुष्याय॒णो॑
ऽस्याव्ँ वि॒श्य्
अ॑स्मिन् रा॒ष्ट्रे …
Keith
notified is he, N. N., descendant of N. N., in this folk, this kingdom, for great lordship,
मूलम्
आवि॑न्नो॒ऽयम॒सावा॑मुष्याय॒णो॑ऽस्याव्ँवि॒श्य॑स्मिन्रा॒ष्ट्रे
भट्टभास्कर-टीका
तथाऽयं च यजमानः असौ नरसिंहवर्मा आमुष्यायणः राजेन्द्रवर्मणोपत्यमिति युवप्रत्ययान्तं पितुर्नाम गृह्यते ; राजेन्द्रायण इति यथा । अमुष्यशब्दान्नडादित्वात्फक् ।
अस्यां विशि । जातावेकवचनम् । कुटुम्बभूतासु प्रजासु अस्मिन्राष्ट्रे सर्वजनपदे आविन्नः ।
महते क्षत्रायेति व्याख्यातम् ॥
म॒ह॒ते क्ष॒त्त्राय॑ ...{Loading}...
विश्वास-प्रस्तुतिः - यजुः
… म॒ह॒ते क्ष॒त्त्राय॑
मह॒त आधि॑पत्याय
मह॒ते जान॑राज्यायै
Keith
to great lordship, to great overlordship, to great rule over the people.
मूलम्
म॒ह॒ते क्ष॒त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्याय॥
भट्टभास्कर-टीका
किञ्च - महते च क्षत्राय बलाय महते चाधिपत्याय स्वामित्वाय महते अविच्छिन्नाय च जानराज्याय जनानां राजा जनराजः तद्भावाय । उभयत्रापि गुणवचनत्वात् ष्यञ् । इममायुष्यायणं सुवध्वमित्येव । ‘बृहन्महतोरुपसङ्ख्यानम्’ इति महतो विभक्तेरुदात्तत्वम् ॥
भास्करोक्त-विनियोगः
16यजमानायतने तिष्ठन्तं प्राह - एष व इति ॥ व्याख्यातमेव ॥
17सोमोस्माकमिति ॥ ब्रह्मणश्च जपो व्याख्यातः ॥
ए॒ष वो॑ भरता॒ राजा॑ ...{Loading}...
विश्वास-प्रस्तुतिः - यजुः
ए॒ष वो॑ भरता॒ राजा॑ ।
Keith
This is your king, O Bharatas;
मूलम्
ए॒ष वो॑ भरता॒ राजा॑ ।
भट्टभास्कर-टीका
भरतानां निवासो जनपदो भरताः । ‘जनपदे लुप्’ । भरतानां राजानोपि भरताः । ‘तस्य राजन्यपत्यवत्’ इति ‘जनपदशब्दात् क्षत्रियादञ्’, ‘यञिञोश्च’ इति बहुषु लुक् । हे भरताः एष वो युष्माकं राजा, योयं राजसूयेन यजते । एवमयं व्याख्यातिगतो भवति, राज्यं चास्मिन् प्रतिहितम् । यद्यसौ भरतानामेव राजा तदानीमेवं, नान्यदा । यथाजनपदमिति केचित् ॥
भास्करोक्त-विनियोगः
4बह्मा जपति - सोम इति ॥
विश्वास-प्रस्तुतिः
सोमो॒ऽस्माक॑म् ब्राह्म॒णानाँ॒ राजा॑ ।+++(5)+++
Keith
Soma is the king of us Brahmans.
मूलम्
सोमो॒ऽस्माक॑म्ब्राह्म॒णानाँ॒ राजा॑ ।
भट्टभास्कर-टीका
अस्माकं ब्राह्मणानां सोमो राजा, अधुना अयञ्चेति । सर्वदा सराजका एव वयमित्यभिप्रायः ॥
भास्करोक्त-विनियोगः
18यजमानाय धनुः प्रयच्छति - इन्द्रस्येति ॥
व्याख्यातं वाजपेये ॥
इन्द्र॑स्य॒ वज्रो॑ऽसि॒ ...{Loading}...
इन्द्र॑स्य॒ वज्रो॑ऽसि॒ ...{Loading}...
विश्वास-प्रस्तुतिः
इन्द्र॑स्य॒ वज्रो॑ऽसि॒,
वार्त्र॑घ्नः ।
Keith
Thou art the thunderbolt of Indra,
slaying obstructions,
Thou art the bolt of Indra [2] slaying foes;
मूलम्
इन्द्र॑स्य॒ वज्रो॑ऽसि॒
वार्त्र॑घ्नः ।
भट्टभास्कर-टीका
इन्द्रस्य यो वज्रस्स एव त्वमसि । अमित्रवधसाधनत्वसामर्थ्यात् भाव [तद्भाव?] उपचर्यते । यद्वा - वजित्वा गतो [वज गतौ] वज्रः । औणादिको रः [रन्] । रथ उच्यते । इन्द्रस्य रथोसि [सीति] स्तूयते । इन्द्रस्य रथो विशेष्यते - वार्त्रघ्नः वृत्रघ्नोयं वार्त्रघ्नः । उत्सादित्वादञ् । यं रथमारुह्य वृत्रमसुरमिन्द्रो हतवान् स एव रथस्त्वमसीति ।
यो वृत्रं हतवान् तस्येन्द्रस्य वज्रो वृत्रवधसाधनभूतो रथमसि ॥
विश्वास-प्रस्तुतिः
त्वया॒ ऽयव्ँ वृ॒त्रव्ँ व॑ध्यात् ॥
Keith
with thee may this one smite Vrtra.
with thee may he slay his foe.
मूलम्
त्वया॒ऽयव्ँवृ॒त्रव्ँव॑ध्यात् ॥
भट्टभास्कर-टीका
तस्मात् त्वयाऽयं यजमानो वृत्रं वारकं छादयितारममित्रं वध्यात् । आशिषि लिङ् । ‘हनो वध लिङि’ इति वधादेशः ॥
तस्मात्तादृशेन त्वयाऽयं यजमानो वृत्रं वध्याद् इति ॥
भास्करोक्त-विनियोगः
19इषून् प्रयच्छति - शत्रुबाधनास्स्थेति ॥
विश्वास-प्रस्तुतिः
शत्रु॒बाध॑नास् स्थ ।
Keith
Ye are overcomers of foes.
मूलम्
शत्रु॒बाध॑नास्स्थ ।
भट्टभास्कर-टीका
शत्रवो बाध्यन्ते यैस्तादृशास्स्थेति ॥
भास्करोक्त-विनियोगः
20प्रतिगृह्णाति - पात मेति ।
विश्वास-प्रस्तुतिः
पा॒त मा॑ प्र॒त्यञ्च॑म् ।
पा॒त मा॑ ति॒र्यञ्च॑म् ।
अ॒न्वञ्च॑म् मा पात ।
दि॒ग्भ्यो मा॑ पात॒ ।
विश्वा॑भ्यो मा ना॒ष्ट्राभ्यᳶ॑ पात ।
Keith
Protect me in front, protect me at the side, protect me from behind; from the quarters protect me; from all deadly things protect me.
मूलम्
पा॒त मा॑ प्र॒त्यञ्च॑म् ।
पा॒त मा॑ ति॒र्यञ्च॑म् ।
अ॒न्वञ्च॑म्मा पात ।
दि॒ग्भ्यो मा॑ पात॒ ।
विश्वा॑भ्यो मा ना॒ष्ट्राभ्यᳶ॑ पात ।
भट्टभास्कर-टीका
हे इषवः मा पात रक्षत प्रत्यञ्चं प्रत्यग्गमनं युष्माकमभिमुखमागच्छन्तं शत्रोर्वा । तथा पात मा तिर्यञ्चं तिरश्चीनगमनं पार्श्वयोश्चरन्तम् । तथा पात मान्वञ्चं अन्वग्गमनं पृष्ठतो गच्च्छन्तम् । ऋत्विगादिना क्विन् । किं बहुना ; दिग्भ्यस्सर्वाभ्यो मा पात सर्वासु दिक्षु स्थितं, सर्वदिगवस्थितशत्रुपीडाभ्यो वा ।
अपि च – विश्वाभ्योपि भौमान्तरिक्षद्युप्रभवाभ्योपि नाष्ट्राभ्यः नाशहेतुभ्यः पात माम् । नशेरौणादिकस्त्रप्रत्ययः, वृद्धिश्च ॥
भास्करोक्त-विनियोगः
21बाहू उद्गृह्णाति - हिरण्यवर्णाविति त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
हिर॑ण्य-वर्णाव् उ॒षसाव्ँ॑ विरो॒के+++(←रुच्)+++
ऽय॑स्-स्थूणा॒व् उदि॑तौ॒ सूर्य॒स्य ।
आरो॑हतव्ँ वरुण मित्र॒ +++(रथ/ख-)+++गर्त॒न्
तत॑श् चक्षाथा॒म्+++(←चक्ष् वीक्षणे)+++ अदि॑ति॒न् दिति॑ञ् च ॥ [23]
सर्वाष् टीकाः ...{Loading}...
Keith
Gold hued in the glowing of the dawns,
Bronze pillared at the rising of the sun,
O Varuna, O Mitra, mount your chariot seat,
And thence behold ye Aditi and Diti.
मूलम्
हिर॑ण्यवर्णावु॒षसाव्ँ॑विरो॒केऽय॑स्स्थूणा॒वुदि॑तौ॒ सूर्य॒स्य ।
आरो॑हतव्ँवरुण मित्र॒ गर्त॒न्तत॑श्चक्षाथा॒मदि॑ति॒न्दिति॑ञ्च ॥ [23]
भट्टभास्कर-टीका
हे हिरण्यवर्णौ हिरण्मयाभरणसन्नद्धौ हिरण्यवद् उज्ज्वलवर्णौ वा । हे ईदृशौ बाहू । अयस्स्थूणौ वा ।
अयस्स्थूणसदृशौ अप्रधृष्यौ ।
‘इवे प्रतिकृतौ’ इति कनो ‘देवपथादिभ्यश्च’ इति लुप्, ‘स्फिगन्तस्योपमेयनामधेयस्य’ इत्याद्युदात्तत्वम् ।
अतश्च बाहू एकैकेनामन्त्र्येते -
हे वरुण शत्रूणां वारक
हे मित्र तेषां प्रमापक अस्माकं वा हिंसायास् त्रायक
ईदृशौ युवां गर्तं एतं रथपृष्ठं आकाशोदरं वा आरोहतं उषसां विरोके व्युष्टौ । पूजनार्थमेकस्मिन् बहुवचनम् ।
उषसो व्युष्टिकाले । एतस्या लक्षणमाह - सूर्यस्येति । उदितावुदये । ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् । तत आरोहणानन्तरं चक्षाथां पश्यतं अदितिमखण्डितं स्वजनं दितिं च खण्डितं शत्रुजनं च तदुचितेन चक्षुषा सानुग्रहेण सनिग्रहेण च स्वीकुरुतमित्यर्थः । यद्वा - अखण्डनं खण्डनं च स्वेषां परेषां च पश्यतमुत्पादयतम् ॥
इत्यष्टमे द्वादशोनुवाकः ॥