१० देवसू-हविरादि

विस्तारः (द्रष्टुं नोद्यम्)

विश्वेदेवा ऋषयः
देवसुवां हवींषि, यजमानहस्तग्रहणमन्त्राः,
रत्निभ्यो राज्ञ आवेदनार्थं मन्त्राः

भास्करोक्त-विनियोगः

1अथाभिषेचनीये अग्नीषोमीयस्य पशुपुरोडाशस्यानुनिर्वाप्याण्य् अष्टौ देवसुवां हवींषि सन्ति, तानि विदधाति - अग्नये गृहपतये इत्यादि ॥ ‘देवसुवामेतानि हवीषि भवन्ति’ इत्यादि ब्राह्मणम् ।

विश्वास-प्रस्तुतिः

अ॒ग्नये॑ गृ॒हप॑तये
पुरो॒डाश॑म् अ॒ष्टाक॑पाल॒न् निर्व॑पति
कृ॒ष्णानाव्ँ॑ व्रीही॒णाम् …

Keith

To Agni, lord of the house, he offers a cake of black rice on eight potsherds;

मूलम्

अ॒ग्नये॑ गृ॒हप॑तये पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पति कृ॒ष्णानाव्ँ॑ व्रीही॒णाँ …

भट्टभास्कर-टीका

देवस्य यजमानस्यानुज्ञातारोग्न्यादयो देवसुवः । गृहाणां पतिस्स्वामी गृहपतिः । ‘पत्यावैश्वर्ये’ इति पूर्वपदप्रकृतिस्वरत्वम् ।

कृष्णव्रीह्यादयो वाक्यशेषात्प्रायशः प्रसिद्धाः कृष्णवर्णाः, कृष्णाः । व्रीहीणामित्यादौ ‘नामन्यतरस्याम्’ इति नाम उदात्तत्वम् ।

विश्वास-प्रस्तुतिः

… सोमा॑य॒ वन॒स्पत॑ये श्यामा॒कञ्च॒रुं …

Keith

to Soma, lord of the forest, an oblation of millet;

मूलम्

कृ॒ष्णाना॑व्व्ँरीही॒णाँ सोमा॑य॒ वन॒स्पत॑ये श्यामा॒कञ्च॒रुम् +++(निर्व॑पति)+++ ।

भट्टभास्कर-टीका

वनानां पतिस्स्वामी वनस्पतिः । पारस्करादित्वात्सुट्, ‘उभे वनस्पत्यादिषु’ इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । श्यामाकाः श्यामाकाख्याः ।

विश्वास-प्रस्तुतिः

स॑वि॒त्रे स॒त्य-प्र॑सवाय पुरो॒डाश॒न् द्वाद॑शकपालम्
आशू॒नाव्ँ व्री॑ही॒णाँ …

Keith

to Savitr, of true instigation, a cake of swift-growing rice on twelve potsherds;

मूलम्

स॑वि॒त्रे स॒त्यप्र॑सवाय पुरो॒डाश॒न्द्वाद॑शकपालम् आशू॒नाव्व्ँरी॑ही॒णाँ …

भट्टभास्कर-टीका

सवित्रे ‘उदात्तयणः’ इति विभक्तिरुदात्ता । सत्यप्रसवायामोघाभ्यनुज्ञाय । आशवष् षाष्टिका इत्येके । त्रिपक्षपच्या इत्यन्ये ।

विश्वास-प्रस्तुतिः

रु॒द्राय॑ पशु॒पत॑ये गावीधु॒कञ्+++(=तृणजन्यं)+++ च॒रुं…

Keith

to Rudra, lord of cattle, an oblation of Gavidhuka;

मूलम्

रु॒द्राय॑ पशु॒पत॑ये गावीधु॒कञ्च॒रुं

भट्टभास्कर-टीका

पशूनां पतिस्स्वमी पशुपतिः । ‘परादिश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । गावीधुकास्तृणतण्डुलाः ।

विश्वास-प्रस्तुतिः

बृह॒स्पत॑ये वा॒चस्पत॑ये नैवा॒रञ् च॒रुम् …

Keith

to Brhaspati, lord of speech, an oblation of wild rice;

मूलम्

बृह॒स्पत॑ये वा॒चस्पत॑ये नैवा॒रञ् च॒रुम्

भट्टभास्कर-टीका

बृहतां पतिः बृहस्पतिः । वनस्पतिवत्सुस्वटरौ । वाचस्पतये । ‘सावेकाचः’ इति षष्ठ्या उदात्तत्वम्, ‘षष्ठ्याः पतिपुत्र’ इति संहितायां सत्वम् । ‘षष्ठीयुक्तच्छन्दसि वा’ इति पत्युर्घित्वम् । नीवाराश्शुष्कजलाशयोत्थिताः ।

विश्वास-प्रस्तुतिः

इन्द्रा॑य ज्ये॒ष्ठाय॑ पुरो॒डाश॒म् एका॑दशकपालम् म॒हाव्री॑हीणाम् …

Keith

to Indra, the noblest, a cake of large rice on eleven potsherds;

मूलम्

इन्द्रा॑य ज्ये॒ष्ठाय॑ पुरो॒डाश॒मेका॑दशकपालम् म॒हाव्री॑हीणाम्

भट्टभास्कर-टीका

ज्येष्ठाय प्रशस्यतमाय ।
महाव्रीहयश्शालय इति केचित् ।
स्वयं विशीर्णव्रीहिभ्यस् स्वयम्-उत्पन्ना व्रीहय इत्यन्ये ।

विश्वास-प्रस्तुतिः

मि॒त्राय॑ स॒त्याया॒ऽऽम्बाना॑ञ् च॒रुं

Keith

to Mitra, the true, an oblation of Amba grain,

मूलम्

मि॒त्राय॑ स॒त्याया॒ऽऽम्बाना॑ञ्च॒रुं

भट्टभास्कर-टीका

सत्यस्वरूपाय मित्राय ।

विश्वास-प्रस्तुतिः

वरु॑णाय॒ धर्म॑पतये यव॒मय॑ञ् च॒रुम्॥

Keith

and to Varuna, lord of right, an oblation made of barley.

मूलम्

वरु॑णाय॒ धर्म॑पतये यव॒मय॑ञ्च॒रुम्॥

भट्टभास्कर-टीका

धर्मपतिः धर्मस्य पाता । पूर्ववत्स्वरः । यवमयं ‘द्व्यचश्छन्दसि ’ मयट् ॥

भास्करोक्त-विनियोगः

12अथ पुरोडाशस्विष्टकृतः पुरस्तात् ब्रह्मा यजमानस्य हस्तं गृह्णाति - सवितेत्यादि ॥

विश्वास-प्रस्तुतिः

स॒वि॒ता त्वा॑ प्रस॒वानाँ॑ सुवताम्
अ॒ग्निर् गृ॒हप॑तीनाँ॒
सोमो॒ वन॒स्पती॑नाँ
रु॒द्रᳶ प॑शू॒नां [18] बृह॒स्पति॑र् वा॒चाम्
इन्द्रो॑ ज्ये॒ष्ठाना॑म्
मि॒त्रस् स॒त्यानाव्ँ॒ वरु॑णो॒ धर्म॑पतीनाम्॥

Keith

May Savitr of instigations instigate thee,
Agni of lords of the house,
Soma of lords of the forest,
Rudra of cattle [1],
Brhaspati of speech,
Indra of nobles,
Mitra of truth,
Varuna of lords of right.

मूलम्

स॒वि॒ता त्वा॑ प्रस॒वानाँ॑ सुवताम्
अ॒ग्निर्गृ॒हप॑तीनाँ॒ सोमो॒ वन॒स्पती॑नाँ रु॒द्रᳶ प॑शू॒नां [18]बृह॒स्पति॑र्वा॒चामिन्द्रो॑ ज्ये॒ष्ठाना॑म्मि॒त्रस्स॒त्यानाव्ँ॒वरु॑णो॒ धर्म॑पतीनाम्॥

भट्टभास्कर-टीका

अत्र प्रसवस्य प्राधान्यात् तृतीयस्सविता प्रथम असीत् । सर्वत्र तादर्थ्ये चतुर्थ्याष्षष्ठी । प्रसवानां प्रसवार्थं सर्वासु प्रवृत्तिष्वनुज्ञानार्थं सविता त्वां सुवतां प्रेरयतु । षू प्रेरणे, प्रेरणमनुज्ञैव । सर्वत्रानुज्ञातो भवेत्यर्यः । थाथादिना प्रसवशब्दोन्तोदात्तः ।

गृहपतीनामिति । भावप्रधानो निर्देशः । यानि गृहपति त्वानि बहुविधानि तदर्थं सुवताम्, सोमस्त्वां वनस्पत्यर्थं सुवताम्, रुद्रः पशूनां पतिः त्वां पश्वर्थं सुवताम्, वागर्थं बृहस्पतिस्सुवताम्, ज्येष्ठानां ज्येष्ठत्वाय इन्द्रस्सुवताम्, सत्यत्वाय मित्रस्सुवताम्, धर्मपतित्वार्थं वरुणस्सुवताम् ।

विश्वास-प्रस्तुतिः

ये दे॑वा देव॒सुव॒स् स्थ
त इ॒मम् आ॑मुष्याय॒णम्
अ॑नमि॒त्राय॑ सुवध्वम्

Keith

O ye gods that instigate the gods,
do ye instigate him, descendant of N. N., to freedom from foes,

मूलम्

ये दे॑वा देव॒सुव॒स्स्थ त इ॒ममा॑मुष्याय॒णम॑नमि॒त्राय॑ सुवध्वम्मह॒ते क्ष॒त्त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्यायै

भट्टभास्कर-टीका

हे देवा अग्न्यादयो वरुणान्ताः ये यूयं देवसुवस्स्थ देवस्य दानादिगुणयुक्तस्य यजमानस्य सवितारः प्रेरकास्स्थ ते यूयं यस्मादेवं प्रसवादीनामनुज्ञातारः तस्मादिममामुष्यायणं सिंहवर्मणः पुत्रं नन्दिवर्माणम् अनमित्रायानमित्रत्वाय अविद्यमानशत्रुत्वाय सुवध्वम् । अनुजानीत अशत्रुमेनं कुरुतेत्यर्थः । इममामुष्यायणमिति सर्वनामद्वयं विशेषार्थमुपादीयते । अमुष्यशब्दान्नडादित्वात्फक् ।

म॒ह॒ते क्ष॒त्त्राय॑ ...{Loading}...
विश्वास-प्रस्तुतिः - यजुः

… म॒ह॒ते क्ष॒त्त्राय॑ मह॒त आधि॑पत्याय
मह॒ते जान॑राज्यायै

Keith

to great lordship, to great overlordship, to great rule over the people.

मूलम्

म॒ह॒ते क्ष॒त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्याय॥

भट्टभास्कर-टीका

किञ्च - महते च क्षत्राय बलाय महते चाधिपत्याय स्वामित्वाय महते अविच्छिन्नाय च जानराज्याय जनानां राजा जनराजः तद्भावाय । उभयत्रापि गुणवचनत्वात् ष्यञ् । इममायुष्यायणं सुवध्वमित्येव । ‘बृहन्महतोरुपसङ्ख्यानम्’ इति महतो विभक्तेरुदात्तत्वम् ॥

भास्करोक्त-विनियोगः

3यजमानायतने तिष्ठन् रत्निभ्यो जानपदेभ्यो ऽध्वर्युर् आवेदयते - एष व इति ॥

ए॒ष वो॑ भरता॒ राजा॑ ...{Loading}...
विश्वास-प्रस्तुतिः - यजुः

ए॒ष वो॑ भरता॒ राजा॑ ।

Keith

This is your king, O Bharatas;

मूलम्

ए॒ष वो॑ भरता॒ राजा॑ ।

भट्टभास्कर-टीका

भरतानां निवासो जनपदो भरताः । ‘जनपदे लुप्’ । भरतानां राजानोपि भरताः । ‘तस्य राजन्यपत्यवत्’ इति ‘जनपदशब्दात् क्षत्रियादञ्’, ‘यञिञोश्च’ इति बहुषु लुक् । हे भरताः एष वो युष्माकं राजा, योयं राजसूयेन यजते । एवमयं व्याख्यातिगतो भवति, राज्यं चास्मिन् प्रतिहितम् । यद्यसौ भरतानामेव राजा तदानीमेवं, नान्यदा । यथाजनपदमिति केचित् ॥

भास्करोक्त-विनियोगः

4बह्मा जपति - सोम इति ॥

विश्वास-प्रस्तुतिः

सोमो॒ऽस्माक॑म् ब्राह्म॒णानाँ॒ राजा॑ ।+++(5)+++

Keith

Soma is the king of us Brahmans.

मूलम्

सोमो॒ऽस्माक॑म्ब्राह्म॒णानाँ॒ राजा॑ ।

भट्टभास्कर-टीका

अस्माकं ब्राह्मणानां सोमो राजा, अधुना अयञ्चेति । सर्वदा सराजका एव वयमित्यभिप्रायः ॥

भास्करोक्त-विनियोगः

5यजमानो मुखं विमृष्टे - प्रति त्यदिति द्वाभ्यां वारुणीभ्यां त्रिष्टुब्भ्याम् ॥ ‘महत ऋतस्य नाम’ इति प्रथमाया अन्तः । द्वे अप्यनवसाने ।

मूलम् (संयुक्तम्)

प्रति॒ त्यन्नाम॑ रा॒ज्यम॑धायि॒ स्वान्त॒नुवव्ँ॒वरु॑णो अशिश्रे॒च्छुचे॑र्मि॒त्रस्य॒ व्रत्या॑ अभू॒माम॑न्महि मह॒त ऋ॒तस्य॒ नाम॒ सर्वे॒ व्राता॒ वरु॑णस्याभूव॒न्वि मि॒त्र एवै॒ररा॑तिमतारी॒दसू॑षुदन्त य॒ज्ञिया॑ ऋ॒तेन॒ व्यु॑ त्रि॒तो ज॑रि॒माण॑न्न आनड्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रति॒ त्यन् नाम॑ रा॒ज्यम् अ॑धायि॒
स्वान् त॒नुवव्ँ॒ वरु॑णो अशिश्रेत्
शुचे॑र् मि॒त्रस्य॒ व्रत्या॑ अभू॒म
+अम॑न्महि मह॒त ऋ॒तस्य॒ नाम॑ ॥

सर्वाष् टीकाः ...{Loading}...

Keith

This kingdom hath verily been conferred,
Varuna hath diffused his own body;
We have become obedient to pure Mitra;
We have magnified the name of the great holy order.

मूलम्

प्रति॒ त्यन्नाम॑ रा॒ज्यम॑धायि॒ स्वान्त॒नुवव्ँ॒वरु॑णो अशिश्रेत् ।
शुचे॑र्मि॒त्रस्य॒ व्रत्या॑ अभू॒माम॑न्महि मह॒त ऋ॒तस्य॒ नाम॑ ॥

भट्टभास्कर-टीका

त्यत् एतद्राज्यं नाम नमनीयं प्रत्यधायि मयि प्रतिहितं प्रतिष्ठितमभूत् । यद्वा - छान्दसो लुङ् । प्रतिधीयताम् । ‘राज्यमेवास्मिन् प्रतीदधाति’ इति ब्राह्मणम् । हेतुमाह - स्वामात्मीयां तनुवं शरीरं अनुज्ञातृस्वभावत्वं यस्माद्वरुणोशिश्रेत् आश्रितवानसीत् मम धर्मपतित्वाभ्यनुज्ञानं कृतवान् । तेन राज्यं प्रत्यधायीति । ‘वरुणसवमेवावरुन्धे’ इत्यादि ब्राह्मणम् । उदाहरणमात्रं वरुणग्रहणं सवित्रादीनां सर्वेषामपि देवसुवां यथा प्रसूतं राज्यं प्रत्यधायीति वेदितव्यम् । श्रयतेर्लुङि ‘बहुलं छन्दसि’ इति शपश्श्लुः ।
किञ्च ; शुचेर्मित्रस्य व्रत्याः कर्मयोग्याः अभूम । ‘तत्र साधुः’ इति यत् । अत एव महत ऋतस्य च सत्यस्य यज्ञस्य वा नाम नमनं अमन्महि ज्ञातवन्तः । मनुतेर्लङि, शपो लुक् । यद्वा - न केवलं मित्रस्य व्रत्या अभूम ; अपि तु ऋतस्य च नामाअमन्महीति ॥

विश्वास-प्रस्तुतिः ...{Loading}...

सर्वे॒ व्राता॒ वरु॑णस्याभूव॒न्
वि मि॒त्र एवै॒र्+++(=आगमनैः)+++ अरा॑तिम् अतारीत्
असू॑षुदन्त+++(←षूद द्रववत् क्षरणे)+++ य॒ज्ञिया॑ ऋ॒तेन॒
व्य् उ॑ त्रि॒तो +++(ऽग्निः)+++ ज॑रि॒माण॑न् न+++(ः)+++ आन॑ट् +++(=प्रापयतु)+++॥

सर्वाष् टीकाः ...{Loading}...

Keith

These have become all the hosts of Varuna,
Mitra in his course hath overcome hostility;
The worshipful ones have taken order according to sacred law:
Trita hath taken possession of our old age.

मूलम्

सर्वे॒ व्राता॒ वरु॑णस्याभूव॒न्वि मि॒त्र एवै॒ररा॑तिमतारीत् ।
असू॑षुदन्त य॒ज्ञिया॑ ऋ॒तेन॒ व्यु॑ त्रि॒तो ज॑रि॒माण॑न्न आन॑ट् ॥

भट्टभास्कर-टीका

6अथ द्वितीया । किम्बहुना सर्वे ऋत्विजः वरुणस्य व्राताः कर्मयोग्या अभूवन् । छान्दसोऽङ् ।
मित्र एवैर् आगमनैः अस्माकमरातिमदानशीलं शत्रुं व्यतारीत् वितारयतु दातारं करोतु । छादसो लुङ् । यदा विपूर्वस्तरतिः विप्लवे वर्तते, विनाशो विप्लवः, चुरादिः, विनाशयत्विर्त्यर्थः । रातेः क्तिचि रातिः, न रातिः अरातिः । यद्वा - अरातिं शत्रुं विशेषेण तारयतु अतिक्रमयतु । किञ्च ; यज्ञियाः यज्ञ-सम्पादनार्हाः ऋत्विजः अस्मान् ऋतेन यज्ञेनासूषुदन्त सूदयन्तु । षूद क्षरणे । रसास्वादनेन सूदयन्तु । ‘यज्ञर्त्विग्भ्यां घखञौ’ ।

किञ्च ; उ इति समुच्चये । त्रितोग्निः त्रिभ्यो लोकेभ्य उत्पन्नः, त्रिभ्यो वातिवातेभ्यः, त्रिभिर्वा ब्राह्मणादिभिः, लौकिकैर्वा कृतप्राप्तिः । स त्रितः अस्माकं जरिमाणं स्तोत्रम् । जीर्यतेरौणादिक इमनिच् । जनित्रशब्दाद्वा भावे छान्दस इमनिच्, ‘तुरिष्ठेमेयस्सु’ इति तृशब्दलोपः । जरिमा स्तोतृत्वं तत् अग्निः, व्यानट् व्याप्नोतु अस्माकं स्तुतिं गृहीत्वा स्तोत्रफलं ददावित्यर्थः । अश्नोतेर्लिङि व्यत्ययेन परस्मैपदं, विकरणव्यत्ययेन श्नम् । नशेर्वा गत्यर्थाल्लुङि ‘मन्त्रे घस’ इति च्लेर्लुक्, ‘छन्दस्यपि दृश्यते’ इत्याडागमः । यद्वा - उक्तं ऋतेनास्मानसूषुदन्तेति तदिदमस्माकं जरिमाणं जरां दीर्घायुष्ट्वं व्यानट् प्रापयतु । अन्तर्भावितण्य्-अर्थाल् लुङ् । कियच्चिरमित्याह - उ इत्यप्यर्थे । त्रितोपि त्रिभ्योपि वयोभ्यः पुरस्तात् जरिमाणं नः प्रापयतु सर्वम् आयुर् जीवयत्व् इत्यर्थः ॥

भास्करोक्त-विनियोगः

7-9त्रीन्विष्णुक्रमान् प्राचः क्रामति - विष्णोः क्रमोसीति ॥ व्याख्यातम् ॥

विष्णोः क्रमः ...{Loading}...
मूलम् (संयुक्तम्)

विष्णो॒ᳵ क्रमो॑ऽसि॒ विष्णोः॑ क्रा॒न्तम॑सि॒ विष्णो॒र्विक्रा॑न्तमसि ।

विश्वास-प्रस्तुतिः

विष्णो॒ᳵ क्रमो॑ऽसि ।

Keith

Thou art the stepping of Visnu,

मूलम्

विष्णो॒ᳵ क्रमो॑ऽसि ।

भट्टभास्कर-टीका

विष्णोर्भगवत एव क्रमोसि गमनसाधनत्वात् । प्रकृष्टस्य विष्णोः क्रमरूपेण स्तूयते रथः विष्णोः क्रमवत् भविष्यसि जयहेतुरिति ।

विश्वास-प्रस्तुतिः

विष्णोः॑ क्रा॒न्तम॑सि ।

Keith

thou art the step of Visnu,

मूलम्

विष्णोः॑ क्रा॒न्तम॑सि ।

भट्टभास्कर-टीका

विष्णोः क्रान्तमसि यत्पूर्वं विष्णुना कृतं क्रमणं, तदेव त्वमसि तद्वज्जयसाधनं भविष्यसि अस्माकम् ।

विश्वास-प्रस्तुतिः

विष्णो॒र्विक्रा॑न्तमसि ।

Keith

thou art the stride of Visnu.

मूलम्

विष्णो॒र्विक्रा॑न्तमसि ।

भट्टभास्कर-टीका

विष्णोर्वीक्रान्तं विजयः, तदेव त्वमसि तद्वद्विजयसाधनत्वात् । पूर्ववद्गतिस्वरः ॥