विस्तारः (द्रष्टुं नोद्यम्)
विश्वेदेवा ऋषयः
रत्निहविर्ब्राह्मणम्, अध्वर्युजपमन्त्रः १३, अभिषेचनीयदीक्षिणीयाविधायकं ब्राह्मणम्
मूलम् (संयुक्तम्)
बा॒र्ह॒स्प॒त्यञ्च॒रुन्निर्व॑पति ब्र॒ह्मणो॑ गृ॒हे शि॑तिपृ॒ष्ठो दक्षि॑णै॒न्द्रमेका॑दशकपालँ राज॒न्य॑स्य गृ॒ह ऋ॑ष॒भो दक्षि॑णा ऽऽदि॒त्यञ्च॒रुम्महि॑ष्यै गृ॒हे धे॒नुर्दक्षि॑णा
भास्करोक्त-विनियोगः
1अथ रत्निनां हवींषि द्वादश भवन्ति
अन्वहं कर्तव्यानि,
तानि विदधाति ‘रत्निनामेतानि हवींषि भवन्ति’ इत्यादि ब्राह्मणम् ।
विश्वास-प्रस्तुतिः
बा॒र्ह॒स्प॒त्यञ् च॒रुन् निर्व॑पति,
ब्र॒ह्मणो॑ गृ॒हे।
शि॑ति+++(=श्वेत)+++-पृ॒ष्ठो दक्षि॑णा ।
Keith
To Brhaspati he offers an oblation in the house of the Brahman (priest); the sacrificial fee is a white-backed (animal).
मूलम्
बा॒र्ह॒स्प॒त्यञ्च॒रुन्निर्व॑पति
ब्र॒ह्मणो॑ गृ॒हे
शि॑तिपृ॒ष्ठो दक्षि॑णा ।
भट्टभास्कर-टीका
अग्नीन् समारोप्य ब्रह्मणो महर्त्विजो गृहं गत्वा बार्हस्पत्यं चरुं निर्वपति । पत्युत्तरपदलक्षणो ण्यः । तत्र शितिपृष्ठः श्वेतपृष्ठो गौर्दक्षिणा ॥
विश्वास-प्रस्तुतिः
ऐ॒न्द्रम् एका॑दशकपालम् +++(निर्व॑प॒ति)+++
रा॒ज॒न्य॑स्य गृ॒हे।
ऋ॑ष॒भो दक्षि॑णा ।
Keith
(He offers) to Indra on eleven potsherds in the house of a Rajanya; the sacrificial fee is a bull.
मूलम्
ऐ॒न्द्रमेका॑दशकपालं
रा॒ज॒न्य॑स्य गृ॒हे।
ऋ॑ष॒भो दक्षि॑णा ।
भट्टभास्कर-टीका
2श्वो भूते राजन्यस्य गृहं गत्वा तत्रैन्द्रमेकादशकपालं निर्वपति । तत्र ऋषभो दक्षीणा ॥
विश्वास-प्रस्तुतिः
आ॒दि॒त्यञ्च॒रुम्
म॒हि॑ष्यै गृ॒हे +++(निर्व॑प॒ति)+++।
धे॒नुर्दक्षि॑णा ।
Keith
To Aditya (he offers) an oblation in the house of the chief wife; the sacrificial fee is a cow.
मूलम्
आदि॒त्यञ्च॒रुम्
महि॑ष्यै गृ॒हे +++(निर्व॑प॒ति)+++।
धे॒नुर्दक्षि॑णा ।
भट्टभास्कर-टीका
3श्वो भूते महिष्याः प्रथमाया राज्ञः पत्न्या गृहं गत्वा तत्रादित्यं चरुं निर्वपति । अङ्गुष्ठमात्रः पुरोडाशः इत्येके ॥
विश्वास-प्रस्तुतिः
नै॒र्ऋ॒तञ् च॒रुम्
प॑रिवृ॒क्त्यै॑ +++(→उपेक्षित-पत्न्याः)+++ गृ॒हे
कृ॒ष्णानाव्ँ॑ व्रीही॒णान् न॒ख-नि॑र्भिन्नम् +++(निर्व॑प॒ति)+++।
कृ॒ष्णा कू॒टा+++(=भग्नशृङ्गा)+++ दक्षि॑णा ।
Keith
To Nirrti (he offers) an oblation in the house of the neglected wife, made up of rice broken by the nails; the sacrificial fee is a black hornless (cow).
मूलम्
नै॒र्ऋ॒तञ्च॒रुम्
प॑रिवृ॒क्त्यै॑ गृ॒हे
कृ॒ष्णाना॑व्व्ँरीही॒णान्न॒खनि॑र्भिन्नम् ।
कृ॒ष्णा कू॒टा दक्षि॑णा ।
भट्टभास्कर-टीका
4श्वो भूते परिवृक्त्या राज्ञो मध्यमपत्न्याः । परिपूर्वात् वृणक्तेः ‘क्तिचि क्तौ च संज्ञायाम्’ इति क्तिच्, ‘उदात्तयणः’ इति विभक्तेरुदात्तत्वं बाधित्वा ‘उदात्तस्वरितयोर्यणः’ इति व्यत्ययेन स्वरितत्वम् । कृष्णानां व्रीहीणां पत्न्या नखैर्निर्भिन्नं नखनिर्भिन्नं तण्डुलैश्चरुं कुर्यात् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । नखेषूलूखलधर्मान् मुसलधर्मांश्च करोति ।
तत्र कृष्णा कूटा भग्नशृङ्गा गौर्दक्षिणा ॥
विश्वास-प्रस्तुतिः
आ॒ग्ने॒यम् अ॒ष्टाक॑पालम्
से॒ना॒न्यो॑ गृ॒हे +++(निर्व॑प॒ति)+++।
हिर॑ण्य॒न् दक्षि॑णा ।
Keith
To Agni (he offers) on eight potsherds in the house of the leader of the host; the sacrificial fee is gold.
मूलम्
आ॒ग्ने॒यम॒ष्टाक॑पालम् +++(निर्व॑प॒ति)+++ ।
से॒ना॒न्यो॑ गृ॒हे +++(निर्व॑प॒ति)+++।
हिर॑ण्य॒न्दक्षि॑णा ।
भट्टभास्कर-टीका
5श्वो भूते सेनान्यः सेनापतेः गृहं गत्वा तत्राग्नेयमष्टाकपालं निर्वपति । ‘नोङ्धात्वोः’ इति विभक्तेरुदात्तत्वे प्रतिषिद्धे पूर्ववत्स्वरितत्वम् । तत्र हिरण्यं दक्षिणा ॥
विश्वास-प्रस्तुतिः
वा॒रु॒णन् दश॑कपालं
सू॒तस्य॑ गृ॒हे +++(निर्व॑प॒ति)+++।
म॒हा-नि॑रष्टो॒+++(=निर्वृषणो)+++ दक्षि॑णा ।
Keith
To Varuna (he offers) on ten potsherds in the house of the minstrel; the sacrificial fee is a great castrated (ox).
मूलम्
वा॒रु॒णन्दश॑कपालम् +++(निर्व॑प॒ति)+++ ।
सू॒तस्य॑ गृ॒हे +++(निर्व॑प॒ति)+++।
म॒हानि॑रष्टो॒ दक्षि॑णा ।
भट्टभास्कर-टीका
6श्वो भूते सूतस्य सारथेः । ब्राह्मण्यां क्षत्रियेण जातस्येत्येके । तस्य गृहं गत्वा वारुणं दशकपालं निर्वपति । महानिरष्टः पीडितवृषणो गौर्दक्षिणा देया । अश्नोतेर्निष्ठायां ‘यस्य विभाषा’ इतीट्प्रतिषेधः, महांश्चासौ निरष्टश्च । वृषण-पीडनेन महानभूत् । दासीभारादिर्द्रष्टव्यः, बहुव्रीहिर्वा ॥
विश्वास-प्रस्तुतिः
मा॒रु॒तँ स॒प्तक॑पालम्
ग्राम॒ण्यो॑ गृ॒हे +++(निर्व॑प॒ति)+++।
पृश्ञि॒र् दक्षि॑णा ।
Keith
To the Maruts (he offers) on seven potsherds in the house of the village headman; the sacrificial fee is a dappled (cow).
मूलम्
मा॒रु॒तँ स॒प्तक॑पालम्
ग्राम॒ण्यो॑ गृ॒हे +++(निर्व॑प॒ति)+++।
पृश्ञि॒र्दक्षि॑णा ।
भट्टभास्कर-टीका
7श्वो भूते ग्रामण्यः ग्रामस्य यो नेता तस्य गृहे मारुतं सप्तकपालं निर्वपति । तत्र पृश्निः शुक्लो गौर्दक्षिणा । कुरटाख्यो गोविशेष इत्यन्ये ॥
विश्वास-प्रस्तुतिः
सा॒वि॒त्रन् द्वाद॑शकपालं [15]
क्ष॒त्तुर्+++(=दासिपुत्रस्य)+++ गृ॒हे +++(निर्व॑प॒ति)+++।
उ॑पध्व॒स्तो+++(=परिभूतनिजवर्णो)+++ दक्षि॑णा ।
Keith
To Savitr (he offers) on twelve potsherds [1] in the house of the carver; the sacrificial fee is a speckled (ox).
मूलम्
सा॒वि॒त्रन्द्वाद॑शकपालम् +++(निर्व॑प॒ति)+++ । [15]
क्ष॒त्तुर्गृ॒हे +++(निर्व॑प॒ति)+++।
उ॑पध्व॒स्तो दक्षि॑णा ।
भट्टभास्कर-टीका
8श्वो भूते क्षत्तुर्मन्त्रिणः । अन्तःपुराध्यक्षस्येत्येके । तस्य गृहं गत्वा तत्र सावित्रं द्वादशकपालं निर्वपति । तत्र उपध्वस्तोन्येन वर्णेन परिभूतनिजवर्णो गौर्दक्षिणा । ‘संज्ञायामनाचितादीनाम्’ इत्युत्तरपदाद्युदात्तत्वम् ॥
विश्वास-प्रस्तुतिः
आ॒श्वि॒नन् द्वि॑कपा॒लं
सङ्ग्रही॒तुर् गृ॒हे +++(निर्व॑प॒ति)+++।
स॒वा॒त्यौ॑+++(=सोदर्यौ)+++ दक्षि॑णा ।
Keith
To the Aśvins (he offers) on two potsherds in the house of the charioteer; the sacrificial fee is two born of one mother.
मूलम्
आ॒श्वि॒नन्द्वि॑कपा॒लम् +++(निर्व॑प॒ति)+++ ।
स॒ङ्ग्र॒ही॒तुर्गृ॒हे +++(निर्व॑प॒ति)+++।
स॒वा॒त्यौ॑ दक्षि॑णा ।
भट्टभास्कर-टीका
9श्वो भूते सङ्गहीतुस्सारथेः रश्मिग्राहिणो गृहं गत्वा आश्विनं द्विकपालं निर्वपति । रज्जुभिर्नियन्ता कुमाराध्यक्ष इत्यन्ये । सवात्यौ समानमातृकवत्सौ समाने वाते भवौ सवात्यौ सोदर्यौ । ‘भवे छन्दसि’ इति यः । वत्सान्तरेण दोह्या मृतवत्सा च तदीया च मातेत्यन्ये ॥
विश्वास-प्रस्तुतिः
पौ॒ष्णञ्च॒रुम्
भागदु॒घस्य॑ गृ॒हे +++(निर्व॑प॒ति)+++।
श्या॒मो दक्षि॑णा ।
Keith
To Pusan (he offers) an oblation in the house of the divider; the sacrificial fee is a black (ox).
मूलम्
पौ॒ष्णञ्च॒रुम् +++(निर्व॑प॒ति)+++ ।
भा॒ग॒दु॒घस्य॑ गृ॒हे +++(निर्व॑प॒ति)+++।
श्या॒मो दक्षि॑णा ।
भट्टभास्कर-टीका
10श्वो भूते भागदुघस्य यो राज्ञष्षड्भागं गृह्णाति तस्य गृहं गृत्वा पौष्णं चरुं निर्वपति । ‘दुह कब्घश्च’ इति कप्, ‘छान्दसमन्तोदात्तत्वम् । तत्र श्यामो गौर्दकिष्णा ॥
विश्वास-प्रस्तुतिः
रौ॒द्रङ् गा॑वीधु॒कञ् च॒रुम्
अक्षावा॒पस्य॑ गृ॒हे +++(निर्व॑प॒ति)+++।
श॒बल॒ उद्वा॑र+++(=उद्वाल)+++ दक्षि॑णा ।
Keith
To Rudra (he offers) an oblation of Gavidhuka in the house of the thrower of the dice; the sacrificial fee is a speckled (ox) with raised tail.
मूलम्
रौ॒द्रङ् गा॑वीधु॒कञ् +++(=गावीधुक-तृणजम्)+++ च॒रुम्
अ॒क्षा॒वा॒पस्य॑ गृ॒हे +++(निर्व॑प॒ति)+++।
श॒बल॒ उद्वा॑र दक्षि॑णा ।
भट्टभास्कर-टीका
11श्वो भूते अक्षावापस्य, यस्सहायो द्यूतकर्मणि अक्षावापनस्य कर्ता तस्य गृहं गत्वा रौद्रं गावीधुकं चरुं निर्वपति । तत्र शबलः उद्वारः उद्गतवालो गौर्दकिष्णा । केचित् पौष्णरौद्रयोर्मध्ये तक्षरथकारयोर्गृहे वैष्णवं त्रिकपालं सर्वायसदक्षिणमाहुः ॥
विश्वास-प्रस्तुतिः
इन्द्रा॑य सु॒-त्राम्णे॑ पुरो॒डाश॒म् एका॑दशकपाल॒म् प्रति॒ निर्व॑प॒ति+
इन्द्रा॑याँहो॒मुचे॒ +++(चानेन मन्त्रेण - )+++
+++(केचिदृषभं दक्षिणामाहुः ॥)+++
Keith
To Indra, the good protector, he offers a cake on eleven potsherds and to Indra, who frees from distress, (with the words),
मूलम्
इन्द्रा॑य सु॒त्राम्णे॑ पुरो॒डाश॒मेका॑दशकपाल॒म्प्रति॒ निर्व॑प॒तीन्द्रा॑याँहो॒मुचे
भट्टभास्कर-टीका
12अथ रत्निनां हविष्षु संस्थितेषु अग्नीन् परिसमारोप्य यजमानस्य गृहं गत्वा ऐन्द्रं कर्म द्विहविष्कं करोति, तद्विदधाति - इन्द्राय सुत्राम्णे पुरोडाशमेकादशकपालं प्रति निर्वपति इन्द्रायां होमुचे पुरोडाशमेकादशकपालं प्रति निर्वपति । प्रतिनिर्वाप्ये एते । केचिदृषभं दक्षिणामाहुः ॥
विश्वास-प्रस्तुतिः
अ॒यन्नो॒ राजा॑ +++(एव)+++ वृत्र॒हा -
राजा॑ भू॒त्वा वृ॒त्रव्ँ व॑ध्यात् ।
Keith
May the king, the slayer of Vrtra,
Be our king and slay the foe.
मूलम्
अ॒यन्नो॒ राजा॑ वृत्र॒हा राजा॑ भू॒त्वा वृ॒त्रव्ँव॑ध्यात् ।
भट्टभास्कर-टीका
13पुरस्तात्स्विष्टकृतोध्वर्युर्जपति - अयं न इति ॥ रत्निनां गृहेभ्यः प्रव्रजतोनुमन्त्रणमनेनेति केचिदाहुः । अयं नोस्माकं राजा वृत्रहा शत्रुहा भूत्वा राजा दीप्यमानश्च भूत्वा वृत्रं शत्रून् वध्यात् नाशयेदित्याशास्महे । जातावेकवचनम् । यद्वा - वृत्रहा राजा इन्द्रः यो वृत्रं हत्वा अधिकार्थं राजा स एव भूत्वा वृत्रं वध्यादिति ॥
भास्करोक्त-विनियोगः
14अथैन्द्रकर्मणि समाप्ते श्वो भूते अभिषेचनीयोक्थ्ये प्रक्रान्ते द्विहविष्कां दीक्षणीयामिष्टिं विदधाति - मैत्राबार्हस्पत्यं भवतीति ॥
विश्वास-प्रस्तुतिः
मै॒त्रा॒बा॒र्ह॒स्प॒त्यम् भ॑वति +++(हविर्-द्वयम्)+++ …
Keith
There is (an offering) to Mitra and Brhaspati;
मूलम्
मै॒त्रा॒बा॒र्ह॒स्प॒त्यम्भ॑वति …
भट्टभास्कर-टीका
मैत्रश्च बार्हस्पत्यश्च मैत्राबार्हस्पत्यं, समाहारद्वन्द्वः ।
मैत्रश्च बार्हस्पत्यश्च द्वौ चरू कर्तव्यौ भवत इत्यर्थः । समासान्तोदात्तत्वं, छान्दस आनर्ङ् । तत्र बार्हस्पत्यस्य प्राथम्येपि अल्पाच्तरत्वान्मैत्रशब्दस्य पूर्वनिपातः ।
विश्वास-प्रस्तुतिः
… श्वे॒तायै॑ श्वे॒तव॑त्सायै दु॒ग्धे +++(बार्हस्पत्यः कर्तव्यः)+++,
+++(मैत्रस् तु -)+++ स्व॑यम्+++(तञ्चनतो)+++-मू॒र्ते
+++(बदरादि-संयोगेन)+++ स्व॑यम्-मथि॒त
+++(आतपे स्थापनेन स्वयं विलीनय्)+++ आज्ये॒ …
Keith
in the milk of a white (cow) with a white calf which has curdled itself, and in butter which has churned itself,
मूलम्
श्वे॒तायै॑ श्वे॒तव॑त्सायै दु॒ग्धे स्व॑यम्-मू॒र्ते स्व॑यम्मथि॒त आज्ये॒
भट्टभास्कर-टीका
अधुना तयोर् बार्हस्पत्यस्य लक्षणमाह -
श्वेताया इति षष्ठ्यर्थे चतुर्थी ।
श्वेतायाश् श्श्वेतवत्साया गोर् दुग्धे बार्हस्पत्यः कर्तव्यः ।
मैत्रस्याह - स्वयम्मूर्त इत्यादि ।
तामेव श्वेतवत्सां गां आस्त्ये [आम्रस्य ?] दृतौ दुहन्ति दोग्धि,
तत्-स्वयम् एवानातक्तमेव मूर्तं कठिनं भवति । ‘स्वयंक्तेन’ इति स्मासः । तदेव मूर्तं बदला[रा]दिसंयोगेन परिबद्धं दृतिस्थमेव स्वयम्मथितं भवति ।
तन्नवनीतं दृतेर् उद्धृत्य
आतपे स्थापितं तत् स्वयं-विलीनम् आज्यं भवति । आज्य इत्यत्रापि स्वयमित्यपेक्ष्यते । ईदृश आज्ये मैत्रः कर्तव्य इत्यर्थः ।
विश्वास-प्रस्तुतिः
आश्व॑त्थे॒ [16] पात्रे॒
चतु॑स्-स्रक्तौ+++(=चतुर्-अश्रे)+++ स्वयम्-अवप॒न्नायै॒ शाखा॑यै ।
Keith
in a dish of Aśvattha wood [2] with four corners (made) of a branch which has fallen of itself,
मूलम्
आश्व॑त्थे॒ [16] पात्रे॒ चतु॑स्स्रक्तौ स्वयमवप॒न्नायै॒ शाखा॑यै ।
भट्टभास्कर-टीका
अधुना मैत्रपात्रस्य लक्षणमाह - आश्वत्थ इत्यादि ।
स्वयमवपन्नायास् स्वयमेव भग्नायाः अश्वत्थ-शाखाया
एकदेशेन कॢप्ते आश्वत्थे अश्वत्थविकारे पात्रे
चतुस्स्रक्तौ चतुरश्रे मैत्रश् चरुः कर्तव्यः । अश्वत्थशत्ब्दात् ‘अनुदात्तादेरञ्’ इत्यञ्प्रत्ययः ॥
भास्करोक्त-विनियोगः
15अधुना तयोर्विधानान्तरं विदधाति - कर्णांश्चेति ॥
विश्वास-प्रस्तुतिः
क॒र्णाँश् चाक॑र्णाँश्+++(=निष्फलीकृताः)+++ च तण्डु॒लान् वि चि॑नुयात् ।
विस्तारः (द्रष्टुं नोद्यम्)
he should scatter husked and unhusked rice grains;
मूलम्
क॒र्णाँश्चाक॑र्णाँश्च तण्डु॒लान् वि चि॑नुयात् ।
भट्टभास्कर-टीका
कर्णाश् छिद्राश् छिन्नाः अकर्णाः निष्फलीकृताः तन्डुलाः । कर्णांश्चाकर्णांश्च विचिनुयात् ‘यथाभागं व्यावर्तेथाम्’ इति मन्त्रेण पृथक्कुर्यात् ।
विश्वास-प्रस्तुतिः
ये क॒र्णास् स पय॑सि बार्हस्प॒त्यः ।
येऽक॑र्णा॒स्स आज्ये॑ मै॒त्रः ।
Keith
the husked ones in the milk are Brhaspati’s, the unhusked in the butter are Mitra’s;
मूलम्
ये क॒र्णास्स पय॑सि बार्हस्प॒त्यः ।
येऽक॑र्णा॒स्स आज्ये॑ मै॒त्रः ।
भट्टभास्कर-टीका
ततः किमित्याह - ये इत्यादि । तत्र ये कर्णाः छिन्नाः, स पयसि पूर्वोक्ते बार्हस्पत्यश्चरुः कार्यः । ये त्वकर्णाः स आज्ये पूर्वोर्क्ते मैत्रश्चरुः कार्यः ॥
विश्वास-प्रस्तुतिः
स्व॑यङ्कृ॒ता वेदि॑र् भवति
स्वयन्-दि॒नम् ब॒र्हिस्,
स्व॑यङ्-कृ॒त इ॒ध्मस्,
सैव श्वे॒ता श्वे॒त-व॑त्सा॒ दक्षि॑णा ॥
+++(एषु समन्त्रकसंस्कारो न क्रियते च।)+++
Keith
the Vedi must be self-made, the strew self-cut, the kindling-stick self-made; the sacrificial fee is the white (cow) with a white calf.
मूलम्
स्व॑यङ्कृ॒ता वेदि॑र्भवति स्वयन्दि॒नम्ब॒र्हिस्स्व॑यङ्कृ॒त इ॒ध्मस्सैव श्वे॒ता श्वे॒तव॑त्सा॒ दक्षि॑णा ॥
भट्टभास्कर-टीका
16अत्र स्वयङ्कृता वेदिर्भवति ।
‘देवस्य त्वा’ इति स्फ्यादानादि ‘धा असि’ इत्यन्तं न क्रियते ।
तथा स्वयन्दिनं स्वयमेव लूनं बर्हिर् भवति असिदादिना न छिनत्ति स्वयम्भग्नाम् दर्भानाहरति । दा प्लवने, इत्वनत्वे छान्दसे ।
तथा स्वयङ्कृत इध्मः, न वृश्चति ।
उभयत्र सन्नहनादिकर्म न क्रियते ।
अत्र यस्या दुग्धे आज्ये चरुः क्लृप्तः सैव श्वेता श्वेतवत्सा दक्षिणा देया । अथ शितिपृष्ठो गौर्बार्हस्पत्यस्य दक्षिणा, मैत्रस्याश्व इत्यन्ये अनुब्राह्मण्दर्शनादिच्छन्ति पूर्वोक्तञ्च ॥
इत्यष्टमे नवमोनुवाकः ॥