०८ देविकादिकर्मषट्कम्

विस्तारः (द्रष्टुं नोद्यम्)

विश्वेदेवा ऋषयः
देविकादिकर्मषट्कम्, तद्धविषां ब्राह्मणम्

भास्करोक्त-विनियोगः

1अथाग्निहोत्रं हुत्वा देविकाहवींषि निर्वपति । तानि विदधाति - धात्र इत्यादि ॥ पञ्चेमानि हवींषि ।

विश्वास-प्रस्तुतिः

धा॒त्रे पु॑रो॒डाश॒न्द्वाद॑शकपाल॒न्निर्व॑प॒त्य्
अनु॑मत्यै च॒रुँ
रा॒कायै॑ च॒रुँ
सि॑नीवा॒ल्यै च॒रुङ्
कु॒ह्वै॑ च॒रुम्।

Keith

He offers a cake on twelve potsherds to Dhatr,
to Anumati an oblation, to Raka an oblation,
to Sinivali an oblation, to Kuhu an oblation;

मूलम्

धा॒त्रे पु॑रो॒डाश॒न्द्वाद॑शकपाल॒न्निर्व॑प॒त्यनु॑मत्यै च॒रुँ रा॒कायै॑ च॒रुँ सि॑नीवा॒ल्यै च॒रुङ्कु॒ह्वै॑ च॒रुम्

भट्टभास्कर-टीका

‘संवत्सरो वै धाता’ इत्यादि ब्राह्मणम् । अनुमत्यादीनि नामानि।
अनुमतिरूनचन्द्रा पञ्चदशी, पूर्णचन्द्रा राकेति।
किञ्चिद्दृष्टचन्द्रा पञ्चदशी सिनवाली, नष्टचन्द्रा कुहूः ।

धात्रे । ‘उदात्तयणः’ इति विभक्त्युदात्तत्वम् ।

अनुमत्यै । ‘तादौ च निति’ इति गतेः प्रकृतिस्वरत्वम् ।

सिनीवाल्यै । पूर्ववद् विभक्त्युदात्तत्वम् । जुहोतेर्ह्वयतेर्वाऽपि कुहूः । ‘नोङ्धात्वोः’ इति विभक्तेरुदात्तत्वे प्रतिषिद्धे ‘उदात्तस्वरितयोर्यणः’ इति विभक्तिस्स्वर्यते ।

विश्वास-प्रस्तुतिः

मि॒थु॒नौ+++(→स्त्रीपुंसौ)+++ गावौ॒ दक्षि॑णा ।

Keith

the sacrificial fee is a pair of cattle.

मूलम्

मि॒थु॒नौ गावौ॒ दक्षि॑णा ।

भट्टभास्कर-टीका

मिथुनौ स्त्रीपुंसौ गावौ दक्षिणा ॥

भास्करोक्त-विनियोगः

2अथ त्रिहविष्काणि त्रीणि कर्माणि भवन्ति, तानि विदधाति - आग्नावैष्णवमेकादशकपालं निर्वपतीत्यादि ॥

विश्वास-प्रस्तुतिः

आ॒ग्ना॒वै॒ष्ण॒वम् एका॑दश-कपाल॒न् निर्व॑पत्य्,
ऐन्द्रावैष्ण॒वम् एका॑दशकपालव्ँ
वैष्ण॒वन् त्रि॑कपा॒लम्।

Keith

To Agni and Visnu he offers on eleven potsherds, to Indra and Visnu on eleven potsherds, to Visnu on three potsherds;

मूलम्

आग्नावैष्णव॒मेका॑दशकपाल॒न्निर्व॑पत्यैन्द्रावैष्ण॒वमेका॑दशकपालव्ँ वैष्ण॒वन्त्रि॑कपा॒लम्

भट्टभास्कर-टीका

आग्नावैष्णवमैन्द्रावैष्णवमिति ‘देवताद्वन्द्वे च’ इत्यानङ्, उभयपदवृद्धिश्च ।
वैष्णवस्त्रिकपालस्तृतीयः । ‘वीर्यं वा अग्निः’ इत्यादि ब्राह्मणम् ।

विश्वास-प्रस्तुतिः

वा॑म॒नो व॒ही दक्षि॑णा ।

Keith

the sacrificial fee is a dwarf beast of burden.

मूलम्

वा॑म॒नो व॒ही दक्षि॑णा ।

भट्टभास्कर-टीका

अत्र वामनो वही दक्षिणा अनुब्राह्मणवशात् ऋषभ इति गम्यते ॥

भास्करोक्त-विनियोगः

3अथ द्वितीयम् - अग्नीषोमीयमित्यादि ॥

विश्वास-प्रस्तुतिः

अ॒ग्नी॒षो॒मीय॒म् एका॑दशकपाल॒न् निर्व॑पति +
इन्द्रासो॒मीय॒म् एका॑दशकपालँ
सौ॒म्यञ् च॒रुम्।
ब॒भ्रुर् दक्षि॑णा॥

Keith

To Agni and Soma he offers on eleven potsherds, to Indra and Soma on eleven potsherds, to Soma an oblation; the sacrificial fee is a brown (animal).

मूलम्

अ॒ग्नी॒षो॒मीय॒मेका॑दशकपाल॒न्निर्व॑पतीन्द्रासो॒मीय॒मेका॑दशकपालँ सौ॒म्यञ्च॒रुम्ब॒भ्रुर्दक्षि॑णा

भट्टभास्कर-टीका

‘ईदग्नेस्सोमवरुणयोः’ इतीकारः, ‘अग्नेस्तुत्स्तोमसोमाः’ इति षत्वम्, ‘द्यावापृथिवीशुनासीर’ इति छः । इन्द्रासोमीयम् । छान्दसश्छः, पूर्ववदानङ् । सौम्यश्चरुस्तृतीयः । ‘सोमाट्ट्यण्’ । ‘अग्निः प्रजानां प्रजनयिता’ इत्यादि ब्राह्मणम् । बभ्रुः श्यामकपिलो गौर्दक्षिणा ॥

भास्करोक्त-विनियोगः

4अथ तृतीयम् - सोमापौष्णमित्यादि ॥

विश्वास-प्रस्तुतिः

सो॒मा॒पौ॒ष्णञ् च॒रुन् निर्व॑पत्य्
ऐन्द्रापौ॒ष्णञ् च॒रुम्
पौ॒ष्णञ् च॒रुम्।
श्या॒मो दक्षि॑णा ॥

Keith

To Soma and Pusan he offers an oblation, to Indra and Pusan an oblation, to Pusan an oblation; the sacrificial fee is a dark (animal).

मूलम्

सो॒मा॒पौ॒ष्णञ्च॒रुन्निर्व॑पत्यैन्द्रापौ॒ष्णञ्च॒रुम्पौ॒ष्णञ्च॒रुँ श्या॒मो दक्षि॑णा

भट्टभास्कर-टीका

पूर्ववदानङ्, उभयपदवृद्धिश्च । पौष्णश्चरुस्तृतीयः । अत्र श्यामो गौर्दक्षिणा ॥

भास्करोक्त-विनियोगः

5अथ तदानीमेव कर्तव्यं यागं विदधाति - वैश्वानरं द्वादशकपालमिति ॥

विश्वास-प्रस्तुतिः

वै॒श्वा॒न॒रन् द्वाद॑शकपाल॒न् निर्व॑पति ।

हिर॑ण्य॒न् दक्षि॑णा ।

Keith

To (Agni) Vaiśvanara he offers on twelve potsherds; the sacrificial fee is gold.

मूलम्

वै॒श्वा॒न॒रन्द्वाद॑शकपाल॒न्निर्व॑पति ।

हिर॑ण्य॒न्दक्षि॑णा ।

भट्टभास्कर-टीका

तत्र हिरण्यं दक्षिणा ॥

भास्करोक्त-विनियोगः

6अथ तदानीमेव वारुणं यवमयं चरुं निर्वपति ।

विश्वास-प्रस्तुतिः

वा॒रु॒णय्ँ य॑व॒मय॑ञ् च॒रुम् +++(निर्व॑प॒ति)+++ ।

अश्वो॒ दक्षि॑णा ॥ [14]

Keith

To Varuna (he offers) an oblation made of barley; the sacrificial fee is a horse.

मूलम्

वा॒रु॒णय्ँय॑व॒मय॑ञ्च॒रुम् +++(निर्व॑प॒ति)+++ ।

अश्वो॒ दक्षि॑णा ॥ [14]

भट्टभास्कर-टीका

अत्राश्वो दक्षिणा ॥

इत्यष्टमे अष्टमोनुवाकः ॥