विस्तारः (द्रष्टुं नोद्यम्)
- शुनासीरीयहवींषि १, इन्द्रतुरीयहवींषि २, पञ्चध्मीयहोमेे मन्त्राः ३-१३ , तत्र दक्षिणाविधिः१४, अपामार्गसक्तुहोमे मन्त्राः १५-१७, तत्र दक्षिणाविधिः १८
विश्वेदेवा ऋषयः
(चातुर्मास्येषु) शुनासीर्यपर्वहविषां ब्राह्मणम्, इन्द्रतुरीयहविषां ब्राह्मणम्,
भास्करोक्त-विनियोगः
1अथ शुनासीरीयं हविर्विदधाति - ऐन्द्राग्नं द्वादशकपालमिति ॥
विश्वास-प्रस्तुतिः
ऐ॒न्द्रा॒ग्नन् द्वाद॑शकपालव्ँ, वैश्वदे॒वञ् च॒रुम् …
Keith
(He I offers) to Indra and Agni on twelve potsherds, an oblation to the All-gods,
मूलम्
ऐ॒न्द्रा॒ग्नन्द्वाद॑शकपालव्ँ वैश्वदे॒वञ्च॒रुम् …
मूलम् (संयुक्तम्)
ऐ॒न्द्रा॒ग्नन्द्वाद॑शकपालव्ँ वैश्वदे॒वञ्च॒रुमिन्द्रा॑य॒ शुना॒सीरा॑य पुरो॒डाश॒न्द्वाद॑शकपालव्ँवाय॒व्य॑म्पय॑स्सौ॒र्यमेक॑कपालन्द्वादशग॒वँ सीर॒न्दक्षि॑णाऽऽग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पति रौ॒द्रङ्गा॑वीधु॒कञ्च॒रुमै॒न्द्रन्दधि॑ वारु॒णय्ँय॑व॒मय॑ञ्च॒रुव्ँव॒हिनी॑ धे॒नुर्दक्षि॑णा
भट्टभास्कर-टीका
तानि पञ्च हवींषि पञ्चसञ्चरव्यतिरिक्तानि, तेन दश हवींषीति केचित् । अन्ये तु ‘एतद्ब्राह्मणान्येव पञ्च हवींषि’ इत्युक्त्वा ‘अथेन्द्राय शुनसीराय’ इति त्रयाणामनुब्राह्मणे विधानादष्टावित्याहुः । तदानीमैन्द्राग्नवैश्वदेवयोर्विकल्पार्थमाम्नानम् ।
विश्वास-प्रस्तुतिः
इन्द्रा॑य शुना॒सीरा॑य पुरो॒डाश॒न् द्वाद॑शकपालम् +++(निर्वपति)+++ ।
Keith
a cake on twelve potsherds to Indra Śunasira,
मूलम्
इन्द्रा॑य शुना॒सीरा॑य पुरो॒डाश॒न्द्वाद॑शकपालम् +++(निर्वपति)+++ ।
भट्टभास्कर-टीका
शुनो वायुः, सीर आदित्यः, ’ तद्वानिन्द्र इहोच्यते, अभेदात्मत्वात् । मत्वर्थीयो वा लुप्यते । ‘देवताद्वन्द्वे च’ इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ।
विश्वास-प्रस्तुतिः
वा॒य॒व्य॑म् पय॑स्, सौ॒र्यम् एक॑कपालम् +++(निर्वपति)+++
द्वादशग॒वँ सीर॒न्+++(=हलम्)+++ दक्षि॑णा।
Keith
milk to Vayu, to Sarya on one potsherd;
the sacrificial fee is a plough for twelve oxen.
मूलम्
वा॒य॒व्य॑म्पय॑स्सौ॒र्यमेक॑कपालम् +++(निर्वपति)+++
द्वादशग॒वँ सीर॒न्दक्षि॑णा।
भट्टभास्कर-टीका
वायव्यम् । ‘वाय्वृतुपित्रुषसो यत्’ इति यत् । एवं सर्वे एककपालानां यागाः । द्वादशगवं द्वादश गावस्समाहृताः, तद्युक्तं सीरं लाङ्गलं च दक्षिणा । ‘गोरतद्धितलुकि’ इति अच् । राजसूयान्तर्भाविताश्चातुर्मास्ययागास्समाप्ताः ॥
भास्करोक्त-विनियोगः
2एवं संवत्सरमिष्ट्वा,
तदन्ते आगामिन्यां पौर्णमास्याम् इन्द्रतुरीयेण चतुर्हविषा यजेत, तं विदधाति - आग्नेयमष्टाकपालं निर्वपतीत्यादि ॥
विश्वास-प्रस्तुतिः
आग्ने॒यम् अ॒ष्टाक॑पाल॒न् निर्व॑पति ।
Keith
To Agni he offers on eight potsherds,
मूलम्
आग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पति ।
विश्वास-प्रस्तुतिः
रौ॒द्रङ् गा॑वीधु॒कञ्+++(=तृण-तण्डुलं)+++ च॒रुम् +++(निर्वपति)+++ ।
Keith
to Rudra an oblation of Gavidhuka,
मूलम्
रौ॒द्रङ्गा॑वीधु॒कञ्च॒रुम् +++(निर्वपति)+++ ।
भट्टभास्कर-टीका
गावीधुको रौद्रश् चरुर्द्वितीयः । गवीधुकाः तृण-तण्डुलाः ।
विश्वास-प्रस्तुतिः
ऐ॒न्द्रन् दधि॑ ।
Keith
to Indra curds,
मूलम्
ऐ॒न्द्रन्दधि॑ ।
भट्टभास्कर-टीका
ऐन्द्रं दधि तृतीयम् ।
विश्वास-प्रस्तुतिः
वारु॒णय्ँ य॑व॒मय॑ञ् च॒रुम् +++(निर्वपति)+++ ।
व॒हिनी॑ धे॒नुर् दक्षि॑णा ।
Keith
to Varuna an oblation made of barley;
the sacrificial fee is a cow for draught purposes.
मूलम्
वारु॒णय्ँय॑व॒मय॑ञ्च॒रुम् +++(निर्वपति)+++ ।
व॒हिनी॑ धे॒नुर्दक्षि॑णा ।
भट्टभास्कर-टीका
वारुणो यवमयश्चरुश्चतुर्थः । ‘द्व्यचश्छन्दसि’ इति मयट् । तत्र वहिनी धेनुर्दक्षिणा । गतम् ।
‘देवासुरास्संयत्ता आसन् । ते देवा अग्निमब्रुवन् । त्वया वीरेणासुरानभिभवामेति । सोब्रवीत् । त्रेधाहमात्मानम्’ इत्यादि ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
3-7यस्मिन्न् अहनीन्द्र-तुरीयं कर्म क्रियते
तस्यां रात्र्यां पञ्चेध्मीयेन यजेत,
आहवनीय-धिष्ण्य एव चतुर्धा ऽऽहवनीयं प्रतिदिशं व्युद्धृत्य
मध्ये पञ्चमं कृत्वा
पञ्च-गृहीतेनाज्यने यथालिङ्गं जुहोति ।
आज्येनैतान् व्याघारयतीति केचित् - ये देवाः पुरस्सद इत्यादिभिः ॥
तत्र ये देवा इति पदद्वयं रक्षोहण इत्यादि च पूर्वत्र परत्र च पञ्चस्वप्य् अनुषज्यते ।
ये दे॒वाᳶ पु॑र॒स्-सदो॒ ...{Loading}...
विश्वास-प्रस्तुतिः
ये दे॒वाᳶ पु॑र॒स्-सदो॒ऽग्नि-ने॑त्राः [रक्षो॒-हण॒स्,
ते नᳶ॑ पान्तु॒,
ते नो॑ऽवन्तु॒,
तेभ्यो॒ नम॒स्,
तेभ्य॒स् स्वाहा॑ ]
Keith
The gods that sit in the east, led by Agni;
मूलम्
ये दे॒वाᳶ पु॑र॒स्सदो॒ऽग्निने॑त्राः [रक्षो॒हण॒स्ते नᳶ॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॑ नम॒स्तेभ्य॒स्स्वाहा॑ ]
मूलम् (संयुक्तम्)
ये दे॒वाᳶ पु॑र॒स्सदो॒ऽग्निने॑त्रा दक्षिण॒सदो॑ य॒मने॑त्राᳶ पश्चा॒त्सद॑स्सवि॒तृने॑त्रा उत्तर॒सदो॒ वरु॑णनेत्रा उपरि॒षदो॒ बृह॒स्पति॑नेत्रा रक्षो॒हण॒स्ते नᳶ॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यः॑ [12] स्वाहा
भट्टभास्कर-टीका
ये देवाः पुरस्सदः पूर्वस्यां दिशि सीदन्तीति । ‘पूर्वापराधराणाम्’ इत्यसिप्रत्ययः ।
अग्निनेत्राः अग्निप्रधानाः । ‘छन्दसि नेतुरुपसङ्ख्यानम्’ इत्यप्रत्ययः, ‘ऋतश्छन्दसि’ इति कबभावः ।
रक्षोहणः रक्षसां हन्तारः, ते नो ऽस्मान्पान्तु, ते नोस्मानवन्तु प्रीणयन्तु, तेभ्यो नमः नमस्कुर्मः, तेभ्यस्स्वाहा स्वाहुतमस्तु ।
विश्वास-प्रस्तुतिः
[ये दे॒वाः] दक्षिण॒-सदो॑ य॒म-ने॑त्राः [रक्षो॒-हण॒स्,
ते नᳶ॑ पान्तु॒,
ते नो॑ऽवन्तु॒,
तेभ्यो॒ नम॒स्,
तेभ्य॒स् स्वाहा॑ ]
Keith
that sit in the south, led by Yama;
मूलम्
[ये दे॒वाः] दक्षिण॒सदो॑ य॒मने॑त्राः [रक्षो॒हण॒स्ते नᳶ॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॑ नम॒स्तेभ्य॒स्स्वाहा॑ ]
भट्टभास्कर-टीका
एवं ये देवाः दक्षिणसदः यमनेत्रा रक्षोहणः ते नः पान्तु ते नोवन्त्वित्यादि ।
विश्वास-प्रस्तुतिः
[ये दे॒वाः] पश्चा॒थ्-सद॑स् सवि॒तृ-ने॑त्राः [रक्षो॒-हण॒स्,
ते नᳶ॑ पान्तु॒,
ते नो॑ऽवन्तु॒,
तेभ्यो॒ नम॒स्,
तेभ्य॒स् स्वाहा॑ ]
Keith
that sit in the west, led by Savitr;
मूलम्
[ये दे॒वाः] पश्चा॒त्सद॑स्सवि॒तृने॑त्राः [रक्षो॒हण॒स्ते नᳶ॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॒ नम॒स्तेभ्य॒स्स्वाहा॑]
भट्टभास्कर-टीका
तथा ये देवाः पश्चात्सदः सवितृनेत्राः रक्षोहण इत्यादि ।
विश्वास-प्रस्तुतिः
[ये दे॒वाः] उत्तर॒-सदो॒ वरु॑ण-नेत्राः [रक्षो॒-हण॒स्,
ते नᳶ॑ पान्तु॒,
ते नो॑ऽवन्तु॒,
तेभ्यो॒ नम॒स्,
तेभ्य॒स् स्वाहा॑ ]
Keith
that sit in the north, led by Varuna;
मूलम्
[ये दे॒वाः] उत्तर॒सदो॒ वरु॑णनेत्राः [रक्षो॒हण॒स्ते नᳶ॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॑ नम॒स्तेभ्य॒स्स्वाहा॑ ]
भट्टभास्कर-टीका
ये देवा उत्तरसदो वरुणनेत्राः रक्षोहण इत्यादि ।
विश्वास-प्रस्तुतिः
[ये दे॒वाः] उपरि॒-षदो॒ बृह॒स्-पति॑-नेत्राः रक्षो॒-हण॒स्,
ते नᳶ॑ पान्तु॒,
ते नो॑ऽवन्तु॒,
तेभ्यो॒ नम॒स्,
तेभ्य॒स् स्वाहा॑ ॥
Keith
that sit above, led by Brhaspati; that slay the Raksases; may they protect us, may they help us; to them homage; to them hail! [1]
मूलम्
[ये दे॒वाः] उपरि॒षदो॒ बृह॒स्पति॑नेत्राः रक्षो॒हण॒स्ते नᳶ॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॒ नम॒स्तेभ्य॒स्स्वाहा॥
भट्टभास्कर-टीका
ये देवा उपरिषदो बृहस्पतिनेत्राः ।
रक्षोहण इत्यादि । वनस्पत्यादित्वात् बृहस्पतिशब्दे पूर्वोत्तरयोः पदयोर्युगपत्प्रकृतिस्वरत्वम् ॥
भास्करोक्त-विनियोगः
8उदवेषेण सर्वान् आहवनीयाङ्गारान्
मध्ये एकयोपसमूहति - समूढमिति ॥
विश्वास-प्रस्तुतिः
समू॑ढँ॒ रक्षः॑ ।
सन्द॑ग्धँ॒ रक्षः॑ ।
Keith
The Raksases are collected, the Raksases are burnt up;
मूलम्
समू॑ढँ॒ रक्षः॑ ।
सन्द॑ग्धँ॒ रक्षः॑ ।
मूलम् (संयुक्तम्)
समू॑ढँ॒ रक्ष॒स्सन्द॑ग्धँ॒ रक्ष॑ इ॒दम॒हँ रक्षो॒ऽभि सन्द॑हामि
भट्टभास्कर-टीका
समूढमेकीकृत्य नाशितमस्तु रक्षः अनेनाङ्गारसमूहेन, तथा सन्दग्धं एकीकृत्य दग्धमस्तु । उभयत्रापि पूर्वपदप्रकृतिस्वरत्वं ‘गतिरनन्तरः’ इति ।
विश्वास-प्रस्तुतिः
इ॒दम॒हँ रक्षो॒ऽभि सन्द॑हामि ।
Keith
here do I burn up the Raksases.
मूलम्
इ॒दम॒हँ रक्षो॒ऽभि सन्द॑हामि ।
भट्टभास्कर-टीका
तस्मादहं रक्षः इदमहमाभिसन्दहामि आभिमुख्येन चैकीकृत्य चानेन दहामि । इदमिति क्रियाविशेषणम् ॥
भास्करोक्त-विनियोगः
9-13अपरं पञ्चगृहीतं गृहीत्वा पञ्च स्रुवाहुतीरभिजुहोति - अग्नये रक्षोघ्ने स्वाहेति ॥ यमादिष्वपि चतुर्ष्वनुषज्यते ।
अ॒ग्नये॑ रक्षो॒घ्ने 5 ...{Loading}...
विश्वास-प्रस्तुतिः
अ॒ग्नये॑ रक्षो॒घ्ने स्वाहा॑ ।
य॒माय॑ [रक्षो॒घ्ने स्वाहा॑] ।
Keith
To Agni, slayer of Raksases, hail! To Yama,
मूलम्
अ॒ग्नये॑ रक्षो॒घ्ने स्वाहा॑ ।
य॒माय॑ [रक्षो॒घ्ने स्वाहा॑] ।
मूलम् (संयुक्तम्)
अ॒ग्नये॑ रक्षो॒घ्ने स्वाहा॑ य॒माय॑ सवि॒त्रे वरु॑णाय॒ बृह॒स्पत॑ये॒ दुव॑स्वते रक्षो॒घ्ने स्वाहा॑
विश्वास-प्रस्तुतिः
स॒वि॒त्रे [रक्षो॒घ्ने स्वाहा॑] ।
वरु॑णाय [रक्षो॒घ्ने स्वाहा॑] ।
बृह॒स्पत॑ये [रक्षो॒घ्ने स्वाहा॑] ।
दुव॑स्वते रक्षो॒घ्ने स्वाहा॑ ।
Keith
Savitr, Varuna, Brhaspati, the worshipful, the slayer of Raksases, hail!
मूलम्
स॒वि॒त्रे [रक्षो॒घ्ने स्वाहा॑] ।
वरु॑णाय [रक्षो॒घ्ने स्वाहा॑] ।
बृह॒स्पत॑ये॒ दुव॑स्वते +++(=परिचर्यावते)+++ रक्षो॒घ्ने स्वाहा॑ ।
भट्टभास्कर-टीका
दुवस्वते इति विकल्पार्थ इति केचित् ।
बृहस्पति-विशेषणमित्यन्ये ।
दुवस्वते परिचर्यावते बृहस्पतय इति । सर्वे निगदसिद्धाः ।
रक्षोघ्ने रक्षसां हन्त्रे । उदात्तनिवृत्तिस्वरेण चतुर्थ्या उदात्तत्वम् ।
सवित्रे इति ‘उदात्तयणः’ इति विभक्त्य्-उदात्तत्वम् । बृहस्पतिरुक्तस्वरः ॥
विश्वास-प्रस्तुतिः
प्रष्टि+++(=त्र्यश्व)+++-वा॒ही रथो॒ दक्षि॑णा ।
Keith
The sacrificial fee is a chariot with three horses.
मूलम्
प्रष्टिवा॒ही रथो॒ दक्षि॑णा ।
भट्टभास्कर-टीका
अत्र प्रष्टिवाही रथो दक्षिणा ।
प्रष्टिः त्रिपादाधारविशेषः ।
यो रथस्त्रिभिरश्वैर्युक्तः प्रष्टिवद्वहति स प्रष्टिवाही ।
‘उपमानं शब्दार्थप्रकृतावेव’ इति नियमात् पूर्वपदाद्युदात्तत्वाभावे कृदुत्तरपदप्रकृतिस्वरत्वमेव प्रवर्तते ।
‘प्रजापतिर् अग्निम् असृजत ।
तं सृष्टं रक्षांस्य् अजिघांसन् ।
स एताः प्रजापतिर् आत्मनो देवता निरमिमीत’
इत्यादि ब्राह्मणम् ॥
यो रक्षोभ्यो बिभीयात् पिशाचेभ्यो वा
सो ऽनेन यजेतेत्य् अयज्ञसंयुक्तं केचिदाहुः ॥
भास्करोक्त-विनियोगः
14अथ व्युष्टायां पुनर[पुरा]ग्निहोत्रात् अपामार्गसक्तून् जुहोति - देवस्येति ॥
देवस्य त्वा सवितुः ...{Loading}...
विश्वास-प्रस्तुतिः
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॒॑+++(=अनुज्ञायां)+++,
+++(देवाध्वर्यू→)+++ ऽश्विनो॑र् बा॒हुभ्या॑म्,
पू॒ष्णो हस्ता॑भ्याम्…
Keith
On the instigation of god Savitr,
with the arms of the Aśvins,
with the hands of Pusan.
मूलम्
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॑ऽश्विनो॑र् बा॒हुभ्या॑म्, पू॒ष्णो हस्ता॑भ्यां॒…
पद-पाठः
दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॒स॒व इति॑ प्र-स॒वे । अ॒श्विनोः॑ । बा॒हुभ्या॒मिति॑ बा॒हु-भ्या॒म् । पू॒ष्णः । हस्ता॑भ्याम् ।
भट्टभास्कर-टीका
सवितुस् सर्वप्रेरकस्य देवस्य प्रसवे प्रेरणायां तेनैव प्रेरितोहं
‘थाथघञ्क्ताजबित्रकाणाम्’ (पा.सू. 6.2.144) इति सूत्रेण प्रसवशब्दोन्तोदात्तः । अश्विनोर्बाहुभ्यां नत्वात्मीयाभ्यामिति स्तुतिः । ‘अश्विनौ हि देवानामध्वर्यू आस्ताम्’ (तै.ब्रा. 3.2.4) । तथा पूष्ण एव हस्ताभ्यां पाणितलाभ्याम् । उदात्तनिवृत्तिस्वरेण षष्ठ्या उदात्तत्वम्॥
सावित्रो व्याख्यातः । सवितुर् देवस्यानुज्ञाने अश्विनोर् एव बाहुभ्यां पूष्ण एव हस्ताभ्याम् । न त्व् आत्मीयाभ्यामिति ॥
तत्र सावित्रो व्याख्यातः ।
सवितुर्देवस्य प्रसवे अनुज्ञायां लब्धायामेव
अश्विनोरेव बाहुम्यां नात्मीयाभ्यां
पूष्णो हस्ताभ्यां
विश्वास-प्रस्तुतिः
… रक्ष॑सो व॒धञ्जु॑होमि ।
Keith
I offer (for) the death of the Raksases;
मूलम्
… रक्ष॑सो व॒धञ्जु॑होमि ।
भट्टभास्कर-टीका
व्याख्यातम् । रक्षसो वधं वधहेतूनिमान् जुहोमीति ॥
भास्करोक्त-विनियोगः
15स्रुवं प्रहरति - हतं रक्ष इति ॥
विश्वास-प्रस्तुतिः
ह॒तँ रक्षः॑ ।
Keith
the Raksases are slain
मूलम्
ह॒तँ रक्षः॑ ।
भास्करोक्त-विनियोगः
16उत्तिष्ठति - अवधिष्म रक्ष इति ॥
विश्वास-प्रस्तुतिः
अव॑धिष्म॒ रक्षः॑ ।
Keith
we have killed the Raksases.
मूलम्
अव॑धिष्म॒ रक्षः॑ ।
भट्टभास्कर-टीका
हतवन्तो वयं रक्षः, तत्किमिदानीमास्म इत्युत्तिष्ठति ॥
विश्वास-प्रस्तुतिः
यद् वस्ते॒+++(=परिधत्ते)+++ तद् दक्षि॑णा ॥ [13]
भास्करोक्त-विनियोगः
The sacrificial fee is what he wears.
मूलम्
यद्वस्ते॒ तद्दक्षि॑णा ॥ [13]
भट्टभास्कर-टीका
17अत्र राजा यद् वस्ते परिधत्ते तद् दक्षिणा अध्वर्यवे वस्त्रं देयम् ॥
इत्यष्टमे सप्तमोनुवाकः ॥