०३ चातुर्मास्येषु वरुणप्रघासपर्व

विस्तारः (द्रष्टुं नोद्यम्)

२ गायत्री ३ विराट् स्थाना ४ महापङ्क्तिः ५ अनुष्टुप् विश्वेदेवा ऋषयः
(चातुर्मास्येषु द्वितीयपर्व) वरुणप्रघासपर्व-हविषां ब्राह्मणं पत्न्युुदानयनादि(२-५)करम्भहोममन्त्राश्च

भास्करोक्त-विनियोगः

1अथ वरुणप्रघासहवींषि विदधाति - ऐन्द्राग्नमित्यादि ॥ एतानि चत्वारि हवींषि पञ्चसञ्चरातिरिक्तानि । ‘एतद्ब्राह्मणान्येव पञ्च हवींषि । ‘अथैष ऐन्द्राग्नो भवति’ इत्यादि ब्राह्मणम् । तेन सञ्चरैस्सह नव भवन्ति ।

विश्वास-प्रस्तुतिः

ऐ॒न्द्रा॒ग्नम् एका॑दशकपालम् +++(निर्वपति)+++ ।
मा॒रु॒तीम् आ॒मिक्षा॑म् ।
वा॒रु॒णीम् आ॒मिक्षा॑म् ।
का॒यम्+++(←कः प्रजापतिः)+++ एक॑कपालम् ।

Keith

He offers on eleven potsherds to Indra and Agni,
clotted curds to the Maruts,
clotted curds to Varuna,
and on one potsherd to Ka.

मूलम्

ऐ॒न्द्रा॒ग्नमेका॑दशकपालम् +++(निर्वपति)+++ ।
मा॒रु॒तीमा॒मिक्षा॑म् ।
वा॒रु॒णीमा॒मिक्षा॑म् ।
का॒यमेक॑कपालम् ।

भट्टभास्कर-टीका

को देवता अस्य कायम् । ‘कस्येत्’ इतीत्वम् । कः प्रजापतिः ॥

मूलम् (संयुक्तम्)

प्रघा॒स्या॑न् हवामहे म॒रुतो॑ य॒ज्ञवा॑हसᳵ कर॒म्भेण॑ स॒जोष॑सः ॥

भास्करोक्त-विनियोगः

2गृहीत-करम्भ-पात्रां पत्नीम् उदानयित्वा वाचयति प्रतिप्रस्थाता - प्रघास्यानिति ।

विश्वास-प्रस्तुतिः ...{Loading}...

+++(वरुण-)+++प्र॒घा॒स्या॑न् हवामहे
म॒रुतो॑ य॒ज्ञ-वा॑हसः ।
क॒र॒म्भेण॑+++(=दधि-सर्पिर्-मिश्रास् सक्तवः)+++ स॒जोष॑सः ॥

सर्वाष् टीकाः ...{Loading}...

Keith

The voracious we invoke,
The Maruts who bear the sacrifice,
Rejoicing in the mush.

मूलम्

प्र॒घा॒स्या॑न् हवामहे म॒रुतो॑ य॒ज्ञवा॑हसः ।
कर॒म्भेण॑ स॒जोष॑सः ॥

भट्टभास्कर-टीका

इयं गायत्री ॥ पूर्वपदलोपोत्र द्रष्टव्यः ।
यथा - देवदत्तो दत्तः, सत्यभामा भामेति । एवं वरुणप्रघासाः प्रघासाः ; तत्र भवास्तेषां सम्बन्धिनो मरुतः प्रघास्याः । ‘भवे छन्दसि’ इति यः । मरुद्विशेषा वा प्रघास्यास् तान् हवामहे आह्वयामः यजामहे वा । ‘बहुलं छन्दसि’ इति सम्प्रसारणम् । [यज्ञं वहन्तीति यज्ञवाहसः] ‘वहिहाधाञ्भ्यश्छन्दसि’ इति विधीयमानोसुन् ‘गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च’ इति कारकपूर्वादपि भवति, णिदिति तत्रानुवृत्तेर्वृद्धिः ।

दधि-सर्पिर्-मिश्रास् सक्तवः करम्भाः । जातावेकवचनम् । तद्योगात्ताच्छब्द्यम् । करम्भपात्रैर्हेतुभिः सजोषसस्समानप्रीतीन् परस्परमस्माभिर्वा सप्रीतीन् । ‘परादिश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् ॥

भास्करोक्त-विनियोगः

3यजमानः पुरोनुवाक्यामन्वाह - मो षूण इति ।

विश्वास-प्रस्तुतिः ...{Loading}...

मो षू+++(←सु+उ)+++ ण॑+++(ः)+++ इन्द्र पृ॒त्सु देव +
+अस्तु॑ स्म +++(पराजितिः)+++ ते शुष्मिन्न् अव॒या+++(=ऊत्या)+++ ।
म॒ही ह्य् अ॑स्य मी॒ढुषो॑ य॒व्या +++(←यु पृथक्करणे, →वन्दते)+++ ,
ह॒विष्म॑तो म॒रुतो॒ +++(→मरुद्वतः)+++ वन्द॑ते॒ गीः ॥

सर्वाष् टीकाः ...{Loading}...

Keith

Be not against us in battles, O god Indra
Let there be expiation to satisfy thee, O impetuous one;
For great is the barley heap of this bountiful one;
Rich in oblation are the Maruts whom our song praises.

मूलम्

मो षू ण॑ इन्द्र पृ॒त्सु दे॒वास्तु॑ स्म ते शुष्मिन्नव॒या । म॒ही ह्य॑स्य मी॒ढुषो॑ य॒व्या ।
ह॒विष्म॑तो म॒रुतो॒ वन्द॑ते॒ गीः ॥

भट्टभास्कर-टीका

पङ्क्ति-प्रकारो ऽयम् । पादादित्वाद् अस्त्व् इति न निहन्यते ।

मो इति प्रतिषेधे । निपात-समुदायो वा ।
सामर्थ्याल् लभ्या क्रिया ; तस्या एव निषेध-सम्भवात्, अस्त्व् इति वक्ष्यमाणत्वाच् च ।

हे इन्द्र देवनादि-गुणक
अस्माकं पृत्सु सङ्ग्रामेषु प्रवृत्तिः
(सु) मो मा भूदिति ।
सु सुष्ठु समीचीनम् एव, सुष्ठु मा भूदिति वा ।
अस्मान् पृत्सु मा कार्षीः - शोभनम् एतद् इति ।
‘सुञः’ इति सोष्षत्वम्, ‘अन्येषामपि दृश्यते’ इति दीर्घत्वम् । ‘नश्च धातुस्थोरुषुभ्यः’ इति नसो णत्वम् ।

किञ्च - हे शुष्मिन् बलवन् ते तव प्रसादात् अवया करम्भपात्रयागो ऽस्तु - अवयजनम् अवया
‘अवे यजः’ इति ण्विः, छान्दसोन्त्यविकारः । सोर्वा डादेशः ।
वरुणपाशानाम् अवयजनं विनाशहेतुर् अस्त्व् इति यावत् ।

कः पुनरस्य विशेष इति चेद् ब्रूमः -
हे इन्द्र अस्य तव मीढुषः सेक्तुः
सम्बन्धिनीयम् इष्टिः मही पृथ्वी
यस्माद् यव्या यव-मात्र-सदृशी अतिस्वल्पेति यावत् ।
शाखादित्वाद् इवार्थे यः
यद्वा - इयम् एवेष्टिः तव प्रसादान् महती यव्या यावयित्री वरुणपाशानां पृथक्-करण-समर्थेति यावत् ।
छान्दसो यः । अन्वादेशत्वाद् अस्येति निहन्यते । दाश्वानादौ मीढ्वान् इति निपातितः ।

किञ्च - हविष्मतश् चरुमतो मम गीर् वन्दते स्तौति ॥

भास्करोक्त-विनियोगः

4दम्पती याज्यां ब्रूतः - यद्ग्राम इति ।

मूलम् (संयुक्तम्)

यद्ग्रामे॒ यदर॑ण्ये॒ यत् स॒भायाय्ँ॒यदि॑न्द्रि॒ये । यच्छू॒द्रे यद॒र्य॑ एन॑श्चकृ॒मा व॒यम् । यदेक॒स्याधि॒ धर्म॑णि॒ तस्या॑व॒यज॑नमसि॒ स्वाहा॑ ॥

विश्वास-प्रस्तुतिः ...{Loading}...

यद् ग्रामे॒ यद् अर॑ण्ये॒ ..
यत् स॒भायाय्ँ॒, यद् इ॑न्द्रि॒ये ।
यच् छू॒द्रे यद् अ॒र्ये॑ ..
एन॑श् चकृ॒मा व॒यम् ।
यद् एक॒स्याधि॒ धर्म॑णि॒
तस्या॑व॒यज॑नम् असि॒ स्वाहा॑ ॥

सर्वाष् टीकाः ...{Loading}...

Keith

The wrong we have done in village or wild,
In the assembly, in our members,
The wrong to Śudra or Aryan,
The wrong contrary to the law of either,
Of that thou art the expiation; hail!

मूलम्

यद्ग्रामे॒ यदर॑ण्ये॒ ..
यत् स॒भायाय्ँ॒यदि॑न्द्रि॒ये ।
यच्छू॒द्रे यद॒र्ये॑ ..
एन॑श्चकृ॒मा व॒यम् ।
यदेक॒स्याधि॒ धर्म॑णि॒ ..
तस्या॑व॒यज॑नमसि॒ स्वाहा॑ ॥

भट्टभास्कर-टीका

षट्पदा जगतीयम् ॥ ग्रामे जनपदे गूढे प्रदेशे सभायां गृहे इन्द्रिये चक्षुरादिके वागादिके च शूद्रे चतुर्थे । निकृष्टोपलक्षणम् । ‘अर्यस्स्वामिवैश्ययोः’ इति निपात्यते, निपातनसामर्थ्यादेवाभिमतस्य सिद्धिः । एषु ग्रामादिष्वाधारेषु एतेषु वा निमित्तेषु वयं यदेनः पापं चकृम बुद्धिपूर्वमबुद्धिपूर्वं वा सह कृतवन्तः । सांहितिकं दीर्घत्वम् । ‘अस्मदो द्वयोश्च’ इति द्वयोर्बहुवचनं वयमिति । यच्च आवयोरेकस्यान्यतरस्य एनः पृथगेवानया मया वा कृतम्, अधिधर्मणि स्थानासनादिके क्रियमाणे तन्निमित्तं वा कृतं तस्य सर्वस्यावयजनं नाशनमसि हे करम्भपात्राणि । सामान्यविवक्षायामेकवचनं, करम्भेण चेति प्रक्रान्तत्वात् । स्वाहाकरोमि त्वामिति । ‘यजमानदेवत्यो वा आहवनीयः’ इत्यादि ब्राह्मणम् ॥

भास्करोक्त-विनियोगः

5पृथग् गच्छन्ताव् अनुमन्त्रयेते पत्नीय-जमानौ - अक्रन्निति ।

विश्वास-प्रस्तुतिः ...{Loading}...

अक्र॒न् कर्म॑ कर्म॒-कृत॑स्
स॒ह वा॒चा म॑यो-भु॒वा ।
दे॒वेभ्य॒ᳵ कर्म॑ कृ॒त्वा
ऽस्त॒म् प्रेत॑ सु-दानवः ॥ [4]

सर्वाष् टीकाः ...{Loading}...

Keith

The doers of the deed have performed the deed,
With wondrous speech;
Having done the deed to the gods go ye
To your home, ye bounteous ones.

मूलम्

अक्र॒न्कर्म॑ कर्म॒कृत॑स्स॒ह वा॒चा म॑योभु॒वा ।
दे॒वेभ्य॒ᳵ कर्म॑ कृ॒त्वाऽस्त॒म्प्रेत॑ सुदानवः ॥ [4]

भट्टभास्कर-टीका

अनुष्टुबेषा ॥ अक्रन् कृतवन्तः । बहुवचनेन द्वावुच्येते । कर्म करम्भपात्रहोमलक्षणं कृतवन्तः । ‘मन्त्रे घस’ इति च्लेर्लुक्, पुरुषव्यत्ययः, अकार्ष्मेति मध्यमतया विपरिणतिः, ‘अस्तं प्रेत’ इत्येकवाक्यत्वात् । कर्मकृतः एतस्य कर्मणः कर्तारः एतदेवाक्रन् । ‘सुकर्मपाप’ इति क्विप् । सह वाचा मन्त्रात्मिकया मयोभुवा मयसस्सुखस्य भावयित्र्या मन्त्रवदेव कर्म कृतवन्तः । भवतेर्ण्यन्तात्क्विप्, ‘बहुलमन्यत्रापि’ इति णिलुक्, उपपदसमासः । ‘अन्तोदात्तादुत्तरपदात्’ इति तृतीयाया उदात्तत्वं व्यत्ययेन नित्यसमासेपि । यद्वा - मयसां भूर्मयोभूरिति षष्ठीसमासः । ‘सावेकाचः’ इति वाचस्तृतीयाया उदात्तत्वम् । देवेभ्यो देवार्थं देवर्णनिरवदानार्थम् । ते यूयं सम्प्रति कर्म यथोक्तं कृत्वा अस्तं प्रेत स्वंस्वं स्थानं वियुक्ता गच्छत । हे सुदानवः कल्याणदानाः । कर्मसमाप्तिं वा अस्तमयत देवाः । ‘देवानृणं निरवदाय’ इत्यादि ब्राह्मणम् ॥

इत्यष्टमे तृतीयोनुवाकः ॥