०२ चातुर्मास्येषु वैश्वदेवपर्व

विस्तारः (द्रष्टुं नोद्यम्)

विश्वेदेवा ऋषयः
(चातुर्मास्येषु प्रथमपर्व) वैश्वदेवपर्व-हविरष्टकम् , तद्ब्राह्मणम् (आग्नेयादीन्यष्टौ वैश्वदेवहवींषि)

भास्करोक्त-विनियोगः

1 सन्ति तावद्राजसूयान्तर्भावीनि चातुर्मास्यहवींषि ; तत्र तावद्वैश्वदेवहवींषि विदधाति - आग्नेयमष्टाकपालं निर्वपतीत्यादि ॥

विश्वास-प्रस्तुतिः

आ॒ग्ने॒यम् अ॒ष्टाक॑पाल॒न् निर्व॑पति ।
सौ॒म्यञ् च॒रुम् +++(निर्वपति)+++ ।

सा॑वि॒त्रन् द्वाद॑श-कपालम् +++(निर्वपति)+++ ।
सारस्व॒तञ् च॒रुम् +++(निर्वपति)+++ ।
पौ॒ष्णञ् च॒रुम् +++(निर्वपति)+++ ।

मा॑रु॒तँ स॒प्तक॑पालम् +++(निर्वपति)+++ ।
वैश्वदे॒वीम् आ॒मिक्षा॑म् +++(निर्वपति)+++ ] ।

Keith

He offers to Agni on eight potsherds,
an oblation to Soma,

to Savitr on twelve potsherds,
an oblation to Sarasvati,
an oblation to Pusan,
to the Maruts on seven potsherds,
clotted curds to the All-gods,

मूलम्

आ॒ग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पति सौ॒म्यञ्च॒रुँ सा॑वि॒त्रन्द्वाद॑शकपालँ सारस्व॒तञ्च॒रुम्पौ॒ष्णञ्च॒रुम्मा॑रु॒तँ स॒प्तक॑पालव्ँ वैश्वदे॒वीमा॒मिक्षा॑म्।

भट्टभास्कर-टीका

एतानि यथासमाम्नातमष्टौ हवींषि निर्वपति । अष्टहविष्कोऽयमेको यागः । एषां च पौष्णान्तानि पञ्च सञ्चराणि वरुणप्रघासादिष्वप्युपयोक्ष्यन्ते । ‘वैश्वदेवेन वै प्रजापतिः प्रजा असृजत’ इति ब्राह्मणम्, ‘ते वा एते त्रिस्संवत्सरस्य प्रयुज्यन्ते’ इति च । ‘अग्नेर्ढक्’ । सौम्यम्, पूर्ववट्ट्यण् । तप्ते पयसि दध्यानयति यत्संवर्तते सामिक्षा ।

विश्वास-प्रस्तुतिः

द्यावापृथि॒व्य॑मेक॑कपालम् +++(निर्वपति)+++ ॥ [3]

Keith

and on eleven potsherds to sky and earth.

मूलम्

द्यावापृथि॒व्य॑मेक॑कपालम् +++(निर्वपति)+++ ॥ [3]

भट्टभास्कर-टीका

द्यावापृथिव्यामिति । ‘द्यावापृथिवीशुनासीर’ इति यत् । सर्वेषां यागानामन्त्य एककपालः ॥

इत्यष्टमे द्वितीयोऽनुवाकः ॥