विस्तारः (द्रष्टुं नोद्यम्)
विश्वेदेवा ऋषयः
आनुमतनैर्ऋतादयो यागाः ,आनुमताद्यष्टेष्टिब्राह्मणम्, नैर्ऋतहोमाङ्गमन्त्राः
भट्टभास्कर-टीका
प्रस्तावना
1 अथ राजसूयब्राह्मणं वैश्वदेवं काण्डम् । ऋचो यजूंषि चात्र भवन्ति, प्रायिकत्वाद्ब्राह्मणमुच्यते । द्विविधं ब्राह्मणं, कर्म-ब्राह्मणं कल्प-ब्राह्मणं चेति । तत्र कर्म-ब्राह्मणं, यत्केवलानि कर्माणि विधत्ते, मन्त्नान्विनियुङ्क्ते, न प्रशंसां करोति न निन्दाम्, यथेदमेव - ‘अनुमत्यै पुरोडाशमष्टाकपालं निर्वपति धेनुर्दक्षिणा’ इत्यादि ।
कल्प-ब्राह्मणं भवति यथा - ‘संवत्सरमेतद्व्रतं चरेत् । द्वौ वा मासौ’ इत्यादि ।
कृतयः ‘प्रजापतिः प्रजा असृजत’ इत्यादयः, तदपि कल्प-ब्राह्मणम् । गाधा इतिहासाः पुराकल्पाश्च ब्राह्मणान्येव । गाधा वैदिकाश्श्लोकाः अर्थ-प्रधानाः न प्रशंसा-निन्दा-पराः ‘स्मृतिः प्रत्यक्षमैतिह्यम् । अनुमानश्चतुष्टयम्’ इत्याद्याः ।
इतिहासाः पर-कृतयः मनुष्य-कृतयः ‘विश्वरूपो वै त्वाष्ट्रः’ इत्येवमादयः ।
पुराकल्पाः प्रजापत्यादि-कृतयः ‘प्रजापतिः प्रजा असृजत’ इत्येवमादयः । सर्वाण्येतानि ब्राह्मणान्युच्यन्ते ।
एतदुक्तं भवति - कर्ममन्त्रचोदना ब्राह्मणम् । तत्त्वविषयमर्थवादादियुक्तं कर्म-विधानं कल्पं ब्राह्मणमित्युच्यते । अतत्त्व-विषयं कर्म-विधानं कल्प-ब्राह्मणमेव यथा, ‘सावित्रं जुहोति प्रसूत्यै’ इत्यादि । आहुश्च -
क्वचिद्विधिः प्रशंसा च केषु चिद्विधिरेव हि ।
केषु चित्स्तुतिरेव स्यात् एवं निन्दा-निषेधयोः ॥ इति ।
तत्रास्मिन् प्रश्ने कर्माणि विधीयन्ते मन्त्राश्च केवलमाम्नायन्ते, न विनियुज्यन्ते । औपानुवाक्ये तु कर्माणि च विधीयन्ते मन्त्राश्चाम्नायन्ते तदानीमेव च ते विनियुज्यन्ते इति विशेषः ।
विश्वास-प्रस्तुतिः
अनु॑मत्यै पुरो॒डाश॑म् अ॒ष्टाक॑पाल॒न् निर्व॑पति ।
Keith
Anumati he offers a cake on eight potsherds;
मूलम्
अनु॑मत्यै पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पति ।
भट्टभास्कर-टीका
तत्र राजसूये पवित्रेऽग्निष्टोमे पञ्चम्यां संस्थिते षष्ठीमारभ्यान्वहमनुमत्यादयोऽष्टौ यागास्सन्ति, तान्विदधाति - अनुमत्यै पुरोडाशमष्टाकपालं निर्वपतीत्यादि ॥ अनुब्राह्मणं च भवति - ‘अष्टावेतानि हवींषि भवन्ति’ इति । तत्र षष्ठ्यामानुमतमष्टाकपालं निर्वपति । या[यया] सर्वं क्रियते [साऽनुमतिः ।] अनुमतिरिति ‘इयमेवास्मै राज्यमनुमन्यते’ इत्यनुमत्यभिमानिनी वा काचिद्देवता पृथिवीत्वेन रूप्यते । ‘तादौ च निति’ इति गतेः प्रकृति-स्वरत्वम् । तस्यै पुरोडाशमष्टाकपालं निर्वपति तदुद्देशेन पृथक्करोति । अष्टसु कपालेषु संस्कृत इति तद्धितार्थे द्विगुः, ‘द्विगोर्लुगनपत्ये’ इति प्राग्दीव्यतीयस्य लुक्, ‘अष्टनः कपाले हविष्युपसङ्ख्यानम्’ इति पूर्वपदस्यात्वम्, ‘इगन्त-काल-कपाल’ इति पूर्वपदप्रकृतिस्वरत्वम् ।
विश्वास-प्रस्तुतिः
धे॒नुर् दक्षि॑णा ।
Keith
the sacrificial fee is a cow.
मूलम्
धे॒नुर्दक्षि॑णा ।
भट्टभास्कर-टीका
तत्र धेनुः प्रत्यग्रप्रसवा गौर्दक्षिणा देया । ‘दक्षिणस्या दिगाख्यायाम्’ इत्याद्युदात्तत्वम् ॥
भास्करोक्त-विनियोगः
2 तथास्मिन्नेव नैरृतं विधातुमाह - ये प्रत्यञ्च इत्यादि ॥
अत्र ‘नैरृतेन पूर्वेण प्रचरति’ इत्य् अनुब्राह्मण-दर्शनाद्
आनुमतात् पूर्वम् एव
नैरृतेन प्रचरितव्यं,
तत्रानुमतस्य प्रथमाम्नान-सामर्थ्यात्
प्रथमम् आनुमतम् आसाद्यते ।
प्रचरणन् तु - नैरृत-यागात् पश्चाद् इति विवेकः ।
विश्वास-प्रस्तुतिः
+++(आनुमत-पेषणे)+++
ये प्र॒त्यञ्च॒श्+++(=पश्चिमं)+++ शम्या॑या अव॒-शीय॑न्ते॒+++(=पतन्ति)+++
तं+ नैर्ऋ॒तम् एक॑-कपालङ् +++(निर्वपेत्)+++,
कृ॒ष्णव्ँ वासः॑ कृ॒ष्ण-तू॑ष॒न्+++(=दशान्तं)+++ दक्षि॑णा ।
Keith
The (grains) which are thrown down to the west of the support he (offers) on one potsherd to Nirrti; the sacrificial fee is a black garment with a black fringe.
मूलम्
ये प्र॒त्यञ्च॒श्शम्या॑या अव॒शीय॑न्ते॒+++(=अवपतन्ति)+++
तन्नै॑र्ऋ॒तमेक॑कपालङ्कृ॒ष्णव्ँवासः॑ कृ॒ष्णतू॑ष॒न्दक्षि॑णा ।
भट्टभास्कर-टीका
तत्रानुमतं पिषन्,
पश्चाद् उत्तरतश् च व्यवशातयति तण्डुलान्,
तत्र ये शम्यायाः प्रत्यञ्चः प्रत्यग्-गताः अवशीर्य(य?)न्ते अवपतन्ति
तान् नैरृतम् एककपालं निर्वपेत्,
निर्वपतीति प्रकृतत्वात् ।
निर्वपतिस्तु तूष्णीमुपचारादित्याहुः ।
निर्वपतिर्वा धात्वर्थसामान्ये करोत्यर्थे वर्तते ।
तान् प्रतीचीनांस्तण्डुलान् नैरृतं कुर्यादित्यर्थः ।
तम् इत्येककपालापेक्षयैकवचनम् । पूर्ववत्समासादिः । विबाधन-पृथिव्येव निरृतिः, पृथिव्येव विश्वमनुगृह्णाति निगृह्णाति च । ब्राह्मणं च भवति । ‘इयं निरृतिः’ इति । देवतान्तरं वा पूर्ववत् ।
तत्र कृष्णं वासः कृष्णतूषं कृष्णदशान्तं दक्षिणा ॥
भास्करोक्त-विनियोगः
3 तत्र नैरृतेन प्रचरितुं
दक्षिणम् अपरम् अवान्तरदेशं गमिष्यन्
गार्हपत्ये जुहोति - वीहीति ॥
विश्वास-प्रस्तुतिः
“वीहि॒” स्वाहा “ऽऽहु॑तिञ् जुषा॒णः” ।
Keith
Go away, hail! rejoicing in the oblation.
मूलम्
+++(हे गार्हपत्य!)+++ वीहि॒ स्वाहाऽऽहु॑तिञ् जुषा॒णः ।
भट्टभास्कर-टीका
वीहि विगच्छ विगच्छद्भिरस्माभिः विश्लिष्टो भव मास्माननूत्थाय बाधिष्ट ।
हे गार्हपत्य तुभ्यं स्वाहा स्वाहुतं करोमीदमाज्यम् ।
तस्मादिमामाहुतिं जुषाणस्सेवमानः शान्तो भूत्वा इहैवास्स्वेत्यर्थः । स्वाहाकृतामिमामाहुतिं जुषाण इति वा । ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् । जुषेश्शानचि ‘बहुलं छन्दसि’ इति शपो लुक्, व्यत्ययेन सार्वधातुकत्वादनुदात्तत्वाभावः, ताच्छीलिको वा चानश् । ‘यदहुत्वा गार्हपत्य ईयुः’ इत्यादि ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
4 नैरृतं सर्वं जुहोति - एष त इति गायत्री । यजुरिति केचित् ॥
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒ष ते॑ निर्ऋते भा॒गो,
भूते॑! ह॒विष्म॑त्य् असि।
मु॒ञ्चेमम् अँह॑सः॥
सर्वाष् टीकाः ...{Loading}...
Keith
This is thy share, O Nirrti;
O thou who hast prospered, thou art rich in oblation;
Free him from evil. Hail!
मूलम्
ए॒ष ते॑ निर्ऋते भा॒गो भूते॑ ह॒विष्म॑त्यसि मु॒ञ्चेममँह॑सः
भट्टभास्कर-टीका
मुञ्चेति तिङः परत्वात् पादादित्वान् न निहन्यते ।
हे निरृते एष ते भागः, त्वयेदं हविर्भुज्यताम् । कर्मणि घञ्, ‘कर्षात्वतः’ इत्यन्तोदात्तत्वम् ।
हे भूते भूतरूपे निरृतिभूते वा । यद्वा - सर्वेषां भूतिहेतो । ब्राह्मणं च भवति ‘भूतिम् एवोपावर्तते’ इति । पादादित्वान् न निहन्यते ।
यस्मादनेन हविषा हविष्मती त्वम् असि, तस्माद् इमं हविषोऽस्य दातारं यजमानं अंहसः पापान्मुञ्चेति । ‘अंहस एवैनं मुञ्चति’ इति ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
5 पुनरेत्य गार्हपत्ये जुहोति -
विश्वास-प्रस्तुतिः
स्वाहा॒ नमो॒ य इ॒दञ्च॒कार
Keith
Honour to him who hath done this.
मूलम्
स्वाहा॒ नमो॒ य इ॒दञ्च॒कार
भट्टभास्कर-टीका
स्वाहा स्वाहुतमिदमाज्यमस्तु, नमः नमस्कारश्चास्तु । (कतमस्मै) कस्मै? यो हवा इदमस्मत्प्रार्थितं चकार तथैव कृतवान्, निरृतिं यष्टुं गच्छतोऽस्मान् सोढ्वा अननूत्थाय अत्रैव शान्तोऽवस्थित इति यावत् । यद्वा - इदं विश्वं चराचरं जगच्चकार ॥
भास्करोक्त-विनियोगः
6 श्वो भूते आदित्यं चरुं निर्वपति -
विश्वास-प्रस्तुतिः
आ॒दि॒त्य॒ञ् च॒रुन् निर्व॑पति॒, वरो॒ +++(→ वृषः)+++ दक्षि॑णा ।
Keith
He offers an oblation to Aditya; the sacrificial fee is a choice (ox).
मूलम्
आ॒दि॒त्य॒ञ्च॒रुन्निर्व॑पति॒ वरो॒ दक्षि॑णा ।
भट्टभास्कर-टीका
अदितिः देवमाता पृथिवी वा, सा देवतास्य आदित्यः । ‘दित्यदिति’ इति ण्यः । ‘उभयीष्वेव प्रजासु’ इत्यादि ब्राह्मणम् । तत्र वरो दक्षिणा, गौर्वरः ॥
भास्करोक्त-विनियोगः
7 श्वो भूते आग्नावैष्णवमेकादशकपालं निर्वपति -
विश्वास-प्रस्तुतिः
आ॒ग्ना॒वै॒ष्ण॒वम् एका॑दश-कपालम् +++(निर्वपति)+++ ॥
वा॒म॒नो व॒ही+++(=वाहकपशुः)+++ दक्षि॑णा।
Keith
(He offers) to Agni and Visnu on eleven potsherds; the sacrificial fee is a dwarf beast of burden.
मूलम्
आ॒ग्ना॒वै॒ष्ण॒वमेका॑दशकपालम् +++(निर्वपति)+++ ॥
वाम॒नो व॒ही दक्षि॑णा।
भट्टभास्कर-टीका
‘अग्निस्सर्वा देवताः’ इत्यादि ब्राह्मणम् । अत्र वामनो वही दक्षिणा । वामनो ह्रस्वाङ्गः, वही वहन-देशवान् । ‘यद्वही । तेनाग्नेयः’ इत्यादि ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
8 श्वो भूते अग्नीषोमीयमेकादशकपालं निर्वपति - अग्नीषोमाभ्यां वा इन्द्रः’ इत्यादि ब्राह्मणम् ।
विश्वास-प्रस्तुतिः
अ॒ग्नी॒षो॒मीय॑म् [1]एका॑दशकपालम् +++(निर्वपति)+++ ।
हिर॑ण्य॒न् दक्षि॑णा।
Keith
(He offers) to Agni and Soma [1] on eleven potsherds; the sacrificial fee is gold.
मूलम्
अ॒ग्नी॒षो॒मीय॑म् [1]एका॑दशकपालम् +++(निर्वपति)+++ ।
हिर॑ण्य॒न्दक्षि॑णा।
भट्टभास्कर-टीका
‘द्यावापृथिवीशुनासीर’ इति छः । तत्र हिरण्यं दक्षिणा ‘हिरण्यं दक्षिणा समृद्ध्यै’ भवति ॥
भास्करोक्त-विनियोगः
9 श्वो भूते ऐन्द्रमेकादशकपालं निर्वपति - ‘इन्द्रो वृत्रं हत्वा’ इति ब्राह्मणम् ।
विश्वास-प्रस्तुतिः
ऐ॒न्द्रम् एका॑दशकपालम् +++(निर्वपति)+++ ।
ऋ॒ष॒भो+++(=वृषभः)+++ व॒ही दक्षि॑णा ।
Keith
(He offers) to Indra on eleven potsherds; the sacrificial fee is a bull as a beast of burden.
मूलम्
ऐ॒न्द्रमेका॑दशकपालम् +++(निर्वपति)+++ ।
ऋ॒ष॒भो व॒ही दक्षि॑णा ।
भट्टभास्कर-टीका
तत्र ऋषभो वही दक्षिणा । ऋषभस् सेक्ता खेलगतिर्वा । अत्रायं पञ्चम ऐन्द्रो विधीयते, अनुब्राह्मणे तु ऐन्द्राग्नः, अत्र कथं भाव्यमिति भाव्यं ; विकल्पो वा तुल्यबलत्वात् ॥
भास्करोक्त-विनियोगः
10 श्वो भूते आग्नेयमष्टाकपालं निर्वपति, ऐन्द्रं च दधि - द्विहविष्कोऽयं यागः । ‘अग्निर्वै यज्ञमुखम्’ इत्यादि ब्राह्मणम् ।
विश्वास-प्रस्तुतिः
आ॒ग्ने॒यम् अ॒ष्टाक॑पालम् +++(निर्वपति)+++ ।
ऐ॒न्द्रन् दधि॑ ।
ऋ॒ष॒भो+++(=वृषभो)+++ व॒ही दक्षि॑णा।
Keith
(He offers) to Agni on eight potsherds, and curds to Indra; the sacrificial fee is a bull as a beast of burden.
मूलम्
आ॒ग्ने॒यम॒ष्टाक॑पालम् +++(निर्वपति)+++ ।
ऐ॒न्द्रन्दधि॑ ।
ऋ॒ष॒भो व॒ही दक्षि॑णा।
भट्टभास्कर-टीका
ऋषभो वही दक्षिणा ॥
भास्करोक्त-विनियोगः
11 श्वो भूते ऐन्द्राग्नं द्वादशकपालं निर्वपति, वैश्वदेवं चरुं निर्वपति - ‘देवा वा ओषधीश्वाजिमयुः’ इत्यादि ब्राह्मणम् ।
विश्वास-प्रस्तुतिः
ऐ॒न्द्रा॒ग्नन् द्वाद॑शकपालव्ँ, वैश्वदे॒वञ् च॒रुम् +++(निर्वपति)+++ ।
प्र॒थ॒म॒जो व॒त्सो दक्षि॑णा ।
Keith
(He offers) to Indra and Agni on twelve potsherds, and an oblation (caru) to the All-gods; the sacrificial fee is a first-born calf.
मूलम्
ऐ॒न्द्रा॒ग्नन्द्वाद॑शकपालव्ँ वैश्वदे॒वञ्च॒रुम् +++(निर्वपति)+++ ।
प्र॒थ॒म॒जो व॒त्सो दक्षि॑णा ।
भट्टभास्कर-टीका
अत्र प्रथमजः प्रथमजातो वत्सो दक्षिणा ।
भास्करोक्त-विनियोगः
अस्मिन् यागे सौम्यं श्यामाकं चरुं निर्वपति - ‘सोमो वा अकृष्टपच्यस्य राजा’ इत्यादि ब्राह्मणम् ।
विश्वास-प्रस्तुतिः
सौ॒म्यँ श्या॑मा॒कञ् च॒रुम् +++(निर्वपति)+++ ।
वासो॒ दक्षि॑णा ।
Keith
(He offers) an oblation of millet to Soma; the sacrificial fee is a garment.
मूलम्
सौ॒म्यँ श्या॑मा॒कञ्च॒रुम् +++(निर्वपति)+++ ।
वासो॒ दक्षि॑णा ।
भट्टभास्कर-टीका
श्यामाकशब्दाद्विकारे ‘कोपधाच्च’ इत्यण् । तत्र वासो दक्षिणा । ‘सौम्यं हि देवतया वासः’ । त्रिहविष्कोऽयं यागः । `अष्टावेतानि हवींषि’ इति ब्राह्मणानुसारेण व्याख्यायते वत्सवाससी दक्षिणा इति ॥
भास्करोक्त-विनियोगः
12 श्वो भूते सरस्वत्यै चरुं निर्वपति, सरस्वते चरुम् - स्त्रीपुंसात्मके द्वे देवते ।
मूलम् (संयुक्तम्)
सर॑स्वत्यै च॒रुँ सर॑स्वते च॒रुम्मि॑थु॒नौ गावौ॒ दक्षि॑णा
विश्वास-प्रस्तुतिः
सर॑स्वत्यै च॒रुम् +++(निर्वपति)+++ ।
सर॑स्वते च॒रुम् +++(निर्वपति)+++ ।
मि॒थु॒नौ गावौ॒ दक्षि॑णा ॥ [2]
Keith
(He offers) an oblation to Sarasvati, and an oblation to Sarasvant; the sacrificial fee is a pair of oxen.
मूलम्
सर॑स्वत्यै च॒रुम् +++(निर्वपति)+++ ।
सर॑स्वते च॒रुम् +++(निर्वपति)+++ ।
मि॒थु॒नौ गावौ॒ दक्षि॑णा ॥ [2]
भट्टभास्कर-टीका
अयमपि द्विहविष्कः । मिथुनौ स्त्रीपुंसौ गावौ दक्षिणा ॥
इत्यष्टमे प्रथमोऽनुवाकः ॥।