विस्तारः (द्रष्टुं नोद्यम्)
७ पङ्क्तिः
९ अनुष्टुप्
११ त्रिष्टुप्
सोमऋषिः
भास्करोक्त-विनियोगः
1पञ्चैन्द्रान् अतिग्राह्यान् ग्रहान् गृह्णाति - उपयामगृहीतोसीत्यादिभिः ॥
उपयामगृहीतः ...{Loading}...
विश्वास-प्रस्तुतिः
उ॒प॒या॒म-गृ॑हीतो ऽसि।
Keith
Thou art taken with a support/ foundation.
मूलम्
उ॒प॒या॒मगृ॑हीतोऽसि।
भट्टभास्कर-टीका
उपयम्यन्ते स्वात्मन्येव नियम्यन्ते भूतजातान्यस्मिन् अभिन्नेधिकरणे इत्युपयामः पृथ्वी । ‘इयं वा उपयामः’ इति ब्राह्मणम् । ‘हलश्च’ इति घञ्, थाथादिस्वरेणान्तोदात्तत्वम् । तेन गृहीतस्त्वमसि ; कोन्यस्त्वां गृहीतुं क्षम इति भावः ; पृथिव्यापो गृहीष्यामीतिवत् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - उपयामार्थं पृथिव्यर्थं गृहीतोसीति ; हे सोम ।
ननु ‘स्वाहा त्वा सुभवस्सूर्याय’ इति मन्त्रवर्णनात् सूर्यदेवत्यः कथं पृथिवीदेवत्यः स्यात् ? नैतद्देवताभिधानं ; पृथिवीवासिनां प्रजानां यागद्वारेण स्थित्यर्थं गृहीतोसीति स्तूयते । यद्वा - पृथिव्यपि देवतैवास्य ‘उपयामगृहीतोसीत्याहादितिदेवत्यास्तेन’ इति, अदितिः पृथ्वी । ‘चतुर्थी’ इति योगविभागात्समासः । ‘क्ते च’ इति पूर्वपदप्रकृतिस्वरत्वम् । ‘इयं वा उपयामस्तस्मादिमां प्रजा अनु प्रजायन्ते’ इति ब्राह्मणम् ॥
उपयामगृहीतोसीति व्याख्यातम् । ‘इयं वा उपयामः’ तयैव गृहीतोसीति ।
विश्वास-प्रस्तुतिः
नृ॒षद॑न् त्वा द्रु॒+++(=द्रुम)+++-षद॑म् भुवन॒-सद॒म्
इन्द्रा॑य॒ जुष्ट॑ङ् गृह्णामि ।
Keith
(Thou art taken ) thee that sittest among men, that sittest in the wood, that sittest in the world, I take acceptable to Indra
मूलम्
नृ॒षद॑न्त्वा द्रु॒षद॑म्भुवन॒सद॒मिन्द्रा॑य॒ जुष्ट॑ङ्गृह्णामि ।
भट्टभास्कर-टीका
हे ग्रह त्वा त्वां नृषदं नृषु प्रजासु सीदति स्थित्यर्थं तेषां नृषत् । एवमुत्तरत्र । सुषामादित्वात्षत्वम्, ‘सन्दिरप्रतेः’ इति वा सर्वविषयं द्रष्टव्यम् । द्रुषदं ‘वनस्पतयो वै द्रु’ । भुवनसदं भुवनं सर्वभूतजातम् । इन्द्राय जुष्टं प्रियं गृह्णामीति व्याख्यातप्रायम् ॥
एष ते योनीः ...{Loading}...
भास्करोक्त-विनियोगः
2गृहीत्वा यथायतनं सादयति -
विश्वास-प्रस्तुतिः
ए॒ष ते॒ योनि॒र्, इन्द्रा॑य त्वा +++(सादयामि)+++।
Keith
this is thy birthplace; to Indra thee!
मूलम्
ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा ।
भट्टभास्कर-टीका
एष ते योनिः कारणं इन्द्राय त्वा सादयामि । व्याख्यातमेव ॥
भास्करोक्त-विनियोगः
3-4द्वितीयम् - उपयामगृहीतोसीति ॥
उपयामगृहीतः ...{Loading}...
विश्वास-प्रस्तुतिः
उ॒प॒या॒म-गृ॑हीतो ऽसि।
Keith
Thou art taken with a support/ foundation.
मूलम्
उ॒प॒या॒मगृ॑हीतोऽसि।
भट्टभास्कर-टीका
उपयम्यन्ते स्वात्मन्येव नियम्यन्ते भूतजातान्यस्मिन् अभिन्नेधिकरणे इत्युपयामः पृथ्वी । ‘इयं वा उपयामः’ इति ब्राह्मणम् । ‘हलश्च’ इति घञ्, थाथादिस्वरेणान्तोदात्तत्वम् । तेन गृहीतस्त्वमसि ; कोन्यस्त्वां गृहीतुं क्षम इति भावः ; पृथिव्यापो गृहीष्यामीतिवत् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - उपयामार्थं पृथिव्यर्थं गृहीतोसीति ; हे सोम ।
ननु ‘स्वाहा त्वा सुभवस्सूर्याय’ इति मन्त्रवर्णनात् सूर्यदेवत्यः कथं पृथिवीदेवत्यः स्यात् ? नैतद्देवताभिधानं ; पृथिवीवासिनां प्रजानां यागद्वारेण स्थित्यर्थं गृहीतोसीति स्तूयते । यद्वा - पृथिव्यपि देवतैवास्य ‘उपयामगृहीतोसीत्याहादितिदेवत्यास्तेन’ इति, अदितिः पृथ्वी । ‘चतुर्थी’ इति योगविभागात्समासः । ‘क्ते च’ इति पूर्वपदप्रकृतिस्वरत्वम् । ‘इयं वा उपयामस्तस्मादिमां प्रजा अनु प्रजायन्ते’ इति ब्राह्मणम् ॥
उपयामगृहीतोसीति व्याख्यातम् । ‘इयं वा उपयामः’ तयैव गृहीतोसीति ।
विश्वास-प्रस्तुतिः
अ॒प्सु॒-षद॑न्त्वा घृत॒-सदव्ँ॑ व्योम॒-सद॒म्
इन्द्रा॑य॒ जुष्ट॑ङ् गृह्णामि ।
Keith
thee that sittest in the waters, that sittest in the ghee, that sittest in the sky, I take acceptable to Indra;
मूलम्
अ॒प्सु॒षद॑न्त्वा घृत॒सद॑व्व्ँयोम॒सद॒मिन्द्रा॑य॒ जुष्ट॑ङ्गृह्णामि ।
भट्टभास्कर-टीका
त्वा त्वामप्सुषदम् । ‘तत्पुरुषे कृतिबहुलम्’ इत्यलुक् । अन्नादीनामुत्पादकतया तत्र सीदतीति । अग्नौ प्रास्ताहुतिस्सम्यक्’ इत्यादि ।
एष ते योनीः ...{Loading}...
भास्करोक्त-विनियोगः
2गृहीत्वा यथायतनं सादयति -
विश्वास-प्रस्तुतिः
ए॒ष ते॒ योनि॒र्, इन्द्रा॑य त्वा +++(सादयामि)+++।
Keith
this is thy birthplace; to Indra thee!
मूलम्
ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा ।
भट्टभास्कर-टीका
एष ते योनिः कारणं इन्द्राय त्वा सादयामि । व्याख्यातमेव ॥
भट्टभास्कर-टीका
शेषं समानम् ॥
भास्करोक्त-विनियोगः
5-6अथ तृतीयम् - उपयामगृहीतोसीति ॥
उपयामगृहीतः ...{Loading}...
विश्वास-प्रस्तुतिः
उ॒प॒या॒म-गृ॑हीतो ऽसि।
Keith
Thou art taken with a support/ foundation.
मूलम्
उ॒प॒या॒मगृ॑हीतोऽसि।
भट्टभास्कर-टीका
उपयम्यन्ते स्वात्मन्येव नियम्यन्ते भूतजातान्यस्मिन् अभिन्नेधिकरणे इत्युपयामः पृथ्वी । ‘इयं वा उपयामः’ इति ब्राह्मणम् । ‘हलश्च’ इति घञ्, थाथादिस्वरेणान्तोदात्तत्वम् । तेन गृहीतस्त्वमसि ; कोन्यस्त्वां गृहीतुं क्षम इति भावः ; पृथिव्यापो गृहीष्यामीतिवत् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - उपयामार्थं पृथिव्यर्थं गृहीतोसीति ; हे सोम ।
ननु ‘स्वाहा त्वा सुभवस्सूर्याय’ इति मन्त्रवर्णनात् सूर्यदेवत्यः कथं पृथिवीदेवत्यः स्यात् ? नैतद्देवताभिधानं ; पृथिवीवासिनां प्रजानां यागद्वारेण स्थित्यर्थं गृहीतोसीति स्तूयते । यद्वा - पृथिव्यपि देवतैवास्य ‘उपयामगृहीतोसीत्याहादितिदेवत्यास्तेन’ इति, अदितिः पृथ्वी । ‘चतुर्थी’ इति योगविभागात्समासः । ‘क्ते च’ इति पूर्वपदप्रकृतिस्वरत्वम् । ‘इयं वा उपयामस्तस्मादिमां प्रजा अनु प्रजायन्ते’ इति ब्राह्मणम् ॥
उपयामगृहीतोसीति व्याख्यातम् । ‘इयं वा उपयामः’ तयैव गृहीतोसीति ।
विश्वास-प्रस्तुतिः
पृ॒थि॒वि॒षद॑न् त्वा
अन्तरिक्ष॒-सद॑न्
नाक॒सद॒म्
इन्द्रा॑य॒ जुष्ट॑ङ्गृह्णामि ।
Keith
thee that sittest on the earth, that sittest on the atmosphere, that sittest on the vault, I take acceptable to Indra;
मूलम्
पृ॒थि॒वि॒षद॑न् त्वा अन्तरिक्ष॒सद॑न्नाक॒सद॒मिन्द्रा॑य॒ जुष्ट॑ङ्गृह्णामि ।
भट्टभास्कर-टीका
पृथिविषदम् । ‘ङ्यापोस्संज्ञाच्छन्दसोः’ इति ह्रस्वत्वम् । पूर्ववद्भूतिहेतुत्वेन पृथिव्यादिषु सदनम् । गतमन्यत् ।
एष ते योनीः ...{Loading}...
भास्करोक्त-विनियोगः
2गृहीत्वा यथायतनं सादयति -
विश्वास-प्रस्तुतिः
ए॒ष ते॒ योनि॒र्, इन्द्रा॑य त्वा +++(सादयामि)+++।
Keith
this is thy birthplace; to Indra thee!
मूलम्
ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा ।
भट्टभास्कर-टीका
एष ते योनिः कारणं इन्द्राय त्वा सादयामि । व्याख्यातमेव ॥
भास्करोक्त-विनियोगः
7अथ चतुर्थम् - ये ग्रहा इति पञ्चपदया पङ्क्त्या ॥
विश्वास-प्रस्तुतिः ...{Loading}...
ये ग्रहाः॑ पञ्चज॒नीना॒
येषा॑न् ति॒स्रᳶ प॑रम॒जाः ।
दैव्य॒ᳵ कोशः॒ [45] समु॑ब्जितः+++(=अधोमुखः)+++ ।
तेषाव्ँ॒ विशि॑-प्रियाणा॒म्
इष॒म् ऊर्जँ॒ सम॑ग्रभीम्+++(←स्वरः??)+++ ।
सर्वाष् टीकाः ...{Loading}...
Keith
The cups of the five folk,
Of which three are of highest birth,
(And for which) the divine cask [1] has been forced out
Of these that have no handles
The food and strength have I seized;
मूलम्
ये ग्रहाः॑ पञ्चज॒नीना॒ येषा॑न्ति॒स्रᳶ प॑रम॒जाः ।
दैव्य॒ᳵ कोशः॒ [45] समु॑ब्जितः ।
तेषाव्ँ॒विशि॑प्रियाणा॒म् इष॒मूर्जँ॒ सम॑ग्रभीम् ।
भट्टभास्कर-टीका
ये ग्रहाः पञ्चजनीनाः पञ्चजनेभ्यो देवादिभ्यो वा हिताः । ‘पञ्चजनादुपसङ्ख्यानम्’ इति खः । सर्वेप्यतिग्राह्याः पञ्चजनीनाः येषां मध्ये तिस्रः परमजाः प्रकृतयः परमायां प्रकृत्यवस्थायां जाताः समाम्नाताः परमजाः आग्नेयैन्द्रसौर्याः ; प्रकृतिरूपेण विवक्षितत्वात् । ग्रहेष्वपि वर्तमानस्त्रिलिङ्गो भवति । ‘तिसृभ्यो जसः’ इत्युदात्तत्वम् ।
किञ्च - येषां प्रभावेन दैव्यः दिवि भवः कोशः मेघः समुब्जितः अधोमुखः जलस्रावणायै आर्जवमासादितः वर्षाभिमुखः कृत इत्यर्थः । जलूकवद्रक्तस्रावणायै । उब्ज आर्जवे ।
तेषां तेभ्यः । तादर्थ्यचतुर्थ्याष्षष्ठी । विशिप्रियाणां विविधहनुपर्यन्तानां इषमन्नमूर्जं रसं च समग्रभीं सङ्गृह्णामि । उपयामगृहीतोसीति गृह्णाति । छान्दसे लुङि ‘अमो मश्’ ‘हृग्रहोर्भः’ ॥
एष ते योनीः ...{Loading}...
भास्करोक्त-विनियोगः
2गृहीत्वा यथायतनं सादयति -
विश्वास-प्रस्तुतिः
ए॒ष ते॒ योनि॒र्, इन्द्रा॑य त्वा +++(सादयामि)+++।
Keith
this is thy birthplace; to Indra thee!
मूलम्
ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा ।
भट्टभास्कर-टीका
एष ते योनिः कारणं इन्द्राय त्वा सादयामि । व्याख्यातमेव ॥
भट्टभास्कर-टीका
8एष ते इत्यादि ॥ गतम् ॥
भास्करोक्त-विनियोगः
9-10अथ पञ्चमम् - अपां रसमित्यनुष्टुप् ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒पाँ रस॒म्, उद्-व॑यसँ॒+++(=उज्जीवनम्)+++,
सूर्य॑-रश्मिँ स॒माभृ॑तम् ।
अ॒पाँ रस॑स्य॒ यो रस॒स्
तव्ँ वो॑ गृह्णाम्य् उत्त॒मम् ॥
सर्वाष् टीकाः ...{Loading}...
Keith
The sap of the waters, the vigorous,
The ray of the sun that has been gathered,
The sap of the sap of the waters,
That of you I take which is the best;
मूलम्
अ॒पाँ रस॒मुद्व॑यसँ॒ सूर्य॑रश्मिँ स॒माभृ॑तम् ।
अ॒पाँ रस॑स्य॒ यो रस॒स्तव्ँवो॑ गृह्णाम्युत्त॒मम् ॥
भट्टभास्कर-टीका
अपां रसं सारं उद्वयसं उद्भूतान्नं उद्भूतजीवनं वा । सूर्यरश्मिं पावकरश्मिम् । यद्वा - सूर्यो रश्मिस्थानीयो यस्य । यद्वा - तृतीयबहुवचनस्य स्थाने व्यत्ययेन द्वितीयैकवचनम् । सूर्यरश्मिभिस्समाभृतं सम्यक्समन्ताच्च घृतं सम्यगाहृतं वा । ‘हृग्रहोर्भः’ ।
किञ्च – तस्यापां रसस्य यो रसः अन्नं तदुत्तमं तस्मादुत्तमाय प्रशस्ताय जलरसायान्नाय च वो युष्मान्गृह्णामीति ।
उपयामगृहीतोसीति गृह्णाति । क्रियाविशेषणं वा, उत्तमं गृह्णामीति । तादर्थ्यात्ताच्छब्द्यम् । उत्तमशब्द उञ्छादिः । ‘ऊडिदम्’ इत्यद्भ्यष्षष्ठ्या उदात्तत्वम् ।
एष ते योनीः ...{Loading}...
भास्करोक्त-विनियोगः
2गृहीत्वा यथायतनं सादयति -
विश्वास-प्रस्तुतिः
ए॒ष ते॒ योनि॒र्, इन्द्रा॑य त्वा +++(सादयामि)+++।
Keith
this is thy birthplace; to Indra thee!
मूलम्
ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा ।
भट्टभास्कर-टीका
एष ते योनिः कारणं इन्द्राय त्वा सादयामि । व्याख्यातमेव ॥
भट्टभास्कर-टीका
गतमन्यत् ॥
भास्करोक्त-विनियोगः
11-12सुराग्रहान् गृह्णाति - अया विष्ठा इति त्रिष्टुभा यजुरन्तया ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒या+++(=अनया)+++ वि॒-ष्ठा ज॒नय॒न् कर्व॑राणि॒+++(=कर्माणि)+++
स हि घृणि॑र्+++(←घृ सेके छादने वा)+++ उ॒रुर् वरा॑य गा॒तुः+++(=मार्गः)+++ ।
स प्रत्य्-उदै॑द् ध॒रुणो॒ मध्वो॒ अग्रँ॒
स्वायाय्ँ॒ यत् त॒नुवा॑न् +++(काम् अपि)+++ त॒नूम् ऐर॑यत ।
सर्वाष् टीकाः ...{Loading}...
Keith
By this shape producing mighty deeds,
He is dread, a broad way for gain,
He hath come to the top, bearing sweetness,
What time he moved a body in his own body.
मूलम्
अ॒या वि॒ष्ठा ज॒नय॒न्कर्व॑राणि॒ स हि घृणि॑रु॒रुर्वरा॑य गा॒तुः ।
स प्रत्युदै॑द्ध॒रुणो॒ मध्वो॒ अग्रँ॒ स्वायाय्ँ॒यत्त॒नुवा॑न्त॒नूमैर॑यत ।
भट्टभास्कर-टीका
अया अनेन ग्रहणेन । इदमस्तृतीयाया याजादेशः ‘हलि लोपः’ । यद्वा - अया अस्मिन् जगति
विष्ठाः । सप्तम्या याजादेशः । विष्ठाः विविधं तीष्ठन्तीति । ‘क्विप्च’ इति क्विप् । सर्वात्मतया स्थित इत्यर्थः ।
जनयन्न् उत्पादयन्
कर्वराणि कर्माणि कार्यजातानि वा
य एवं करोति प्रजापतिः स हि घृणिः दीप्यमानः । घृणि दीप्तौ ‘इन् सर्वधातुभ्यः’ इतीन् । हेतौ हिः ।
घृणिमान्वा घृणिः, मत्वर्थीयो लुप्यते ।
उरुर् महान् वराय वरिष्ठाय फलाय गातुर् मार्गः प्राप्तेः पुरुषार्थप्राप्तिरित्यर्थः । तादर्थ्ये चतुर्थी । स तादृशः प्रत्युदैत् प्रत्युद्गच्छतु । छान्दसो लुङ् । किम् ? मध्वः उदकस्य अग्रं सारम् । नुमभावच्छान्दसः, ‘जसादिषु वा वचनं प्राङ्णौ चङ्युपधायाः’ इति गुणाभावः । धरुणो धारयिता स तादृशः मदुनोग्रं प्राप्नोतु । यद्यस्मात्स्वायामात्मीयायां तनुवां शरीरभूतेस्मिन् ग्रहे तनुं स्वशरीरमैरयत प्रेरयति ; तस्मादेतद्ग्रहात्मा अस्मदभिमतं साधयत्विति ।
उपयामगृहीतः ...{Loading}...
विश्वास-प्रस्तुतिः
उ॒प॒या॒म-गृ॑हीतो ऽसि।
Keith
Thou art taken with a support/ foundation.
मूलम्
उ॒प॒या॒मगृ॑हीतोऽसि।
भट्टभास्कर-टीका
उपयम्यन्ते स्वात्मन्येव नियम्यन्ते भूतजातान्यस्मिन् अभिन्नेधिकरणे इत्युपयामः पृथ्वी । ‘इयं वा उपयामः’ इति ब्राह्मणम् । ‘हलश्च’ इति घञ्, थाथादिस्वरेणान्तोदात्तत्वम् । तेन गृहीतस्त्वमसि ; कोन्यस्त्वां गृहीतुं क्षम इति भावः ; पृथिव्यापो गृहीष्यामीतिवत् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - उपयामार्थं पृथिव्यर्थं गृहीतोसीति ; हे सोम ।
ननु ‘स्वाहा त्वा सुभवस्सूर्याय’ इति मन्त्रवर्णनात् सूर्यदेवत्यः कथं पृथिवीदेवत्यः स्यात् ? नैतद्देवताभिधानं ; पृथिवीवासिनां प्रजानां यागद्वारेण स्थित्यर्थं गृहीतोसीति स्तूयते । यद्वा - पृथिव्यपि देवतैवास्य ‘उपयामगृहीतोसीत्याहादितिदेवत्यास्तेन’ इति, अदितिः पृथ्वी । ‘चतुर्थी’ इति योगविभागात्समासः । ‘क्ते च’ इति पूर्वपदप्रकृतिस्वरत्वम् । ‘इयं वा उपयामस्तस्मादिमां प्रजा अनु प्रजायन्ते’ इति ब्राह्मणम् ॥
उपयामगृहीतोसीति व्याख्यातम् । ‘इयं वा उपयामः’ तयैव गृहीतोसीति ।
प्रजापतये त्वा ...{Loading}...
विश्वास-प्रस्तुतिः
प्र॒जाप॑तये त्वा॒ जुष्ट॑ङ्गृह्णामि ।
Keith
agreeable to Prajapati I take thee
मूलम्
प्र॒जाप॑तये त्वा॒ जुष्ट॑ङ्गृह्णामि ।
भट्टभास्कर-टीका
प्रजापतये जुष्टं प्रियं गृह्णामि । गृहीत्वा यथायतनं सादयति एष ते योनिः कारणं प्रजापतये सादयामि
प्रजापतिशब्दे ‘पत्यावैश्वर्ये’ इति पूर्वपदप्रकृतिस्वरत्वम् ।
भास्करोक्त-विनियोगः
3अनेन गृहीत्वा परिमृज्य सादयति - एष ते योनिः प्रजापतये त्वेत्यादि ॥
विश्वास-प्रस्तुतिः
ए॒ष ते॒ योनि॑ᳶ प्र॒जाप॑तये त्वा ॥ [46]
Keith
this is thy birthplace; to Prajapati thee!
मूलम्
ए॒ष ते॒ योनि॑ᳶ प्र॒जाप॑तये त्वा ॥ [46]
भट्टभास्कर-टीका
‘पत्यावैश्वर्ये’ इति पूर्वपदप्रकृतिस्वरत्वम् ॥
भट्टभास्कर-टीका
वाजपेयमन्त्रास्समाप्ताः ॥ इसि सप्तमे द्वादशोनुवाकः ॥