११ उज्झितिमन्त्राभिधानम्

विस्तारः (द्रष्टुं नोद्यम्)

सोमऋषिः
वाजपेयीय-सप्तदश-उज्झितिमन्त्राभिधानम्

भास्करोक्त-विनियोगः

1उज्जितीस्सप्तदश यजमानं वाचयति - अग्निरित्याद्याः ॥

विश्वास-प्रस्तुतिः

अ॒ग्निर् एका॑क्षरेण॒ वाच॒म् उद॑जयत्।

Keith

Agni with one syllable won speech;

मूलम्

अ॒ग्निरेका॑क्षरेण॒ वाच॒मुद॑जयत्।

भट्टभास्कर-टीका

एकमक्षरं यस्य तेनैकाक्षरेण छन्दसाग्निर्वाचमुदजयत् उज्जितवान्, तद्वदहमप्येकाक्षरेण वाचमुज्जीयासमिति । सर्वत्रैवमुक्तादीन्यष्ट्यन्तानि द्रष्टव्यानि, सप्तदश छन्दांसि स्तूयन्ते । केचिदाहुः - ‘आश्रावयेति चतुरक्षरमस्तु श्रौषडिति चतुरक्षरं यजेति द्व्यक्षरं ये यजामह इति पञ्चाक्षरं द्व्यक्षरो वषट्कार एष वै सप्तदशः प्रजापतिः’ इत्यस्यैकाक्षरादारभ्योच्यन्ते, इति । तेषां बहुव्रीहिस्वरो नोपपद्यते । ‘ता वा एता उज्जितयो व्याख्यायन्ते । यज्ञस्य सर्वत्वाय । देवतानामनिर्भागाय’ । इत्यादि ब्राह्मणम् ॥

मूलम् (संयुक्तम्)

अ॒श्विनौ॒ द्व्य॑क्षरेण प्राणापा॒नावुद॑जयताव्ँ॒विष्णु॒स्त्र्य॑क्षरेण॒ त्रील्ँ लो॒कानुद॑जय॒त् सोम॒श्चतु॑रक्षरेण॒ चतु॑ष्पदᳶ प॒शूनुद॑जयत्पू॒षा पञ्चा॑क्षरेण प॒ङ्क्तिमुद॑जयद्धा॒ता षड॑क्षरेण॒ षडृ॒तूनुद॑जयन्म॒रुत॑स्स॒प्ताक्ष॑रेण स॒प्तप॑दाँ॒ शक्व॑री॒मुद॑जय॒न्बृह॒स्पति॑र॒ष्टाक्ष॑रेण गाय॒त्रीमुद॑जयन्मि॒त्रो नवा॑क्षरेण त्रि॒वृतँ॒ स्तोम॒मुद॑जयत् [43]वरु॑णो॒ दशा॑क्षरेण वि॒राज॒मुद॑जय॒दिन्द्र॒ एका॑दशाक्षरेण त्रि॒ष्टुभ॒मुद॑जय॒द्विश्वे॑ दे॒वा द्वाद॑शाक्षरेण॒ जग॑ती॒मुद॑जय॒न्वस॑व॒स्त्रयो॑दशाक्षरेण त्रयोद॒शँ स्तोम॒मुद॑जयन् रु॒द्राश्चतु॑र्दशाक्षरेण चतुर्द॒शँ स्तोम॒मुद॑जयन्नादि॒त्याᳶ पञ्च॑दशाक्षरेण पञ्चद॒शँ स्तोम॒मुद॑जय॒न्नदि॑ति॒ष्षोड॑शाक्षरेण षोड॒शँ स्तोम॒मुद॑जयत्प्र॒जाप॑तिस्स॒प्तद॑शाक्षरेण सप्तद॒शँ स्तोम॒मुद॑जयत् ॥ [44]

विश्वास-प्रस्तुतिः

अ॒श्विनौ॒ द्व्य॑क्षरेण प्राणापा॒नाव् उद॑जयताम् ।
विष्णु॒स्त्र्य॑क्षरेण॒ त्रील्ँ लो॒कानुद॑जय॒त्।
सोम॒श् चतु॑रक्षरेण॒ चतु॑ष्पदᳶ प॒शून् उद॑जयत्।

Keith

the Aśvins with two syllables won expiration and inspiration; Visnu with three syllables won the three worlds; Soma with four syllables won four-footed cattle;

मूलम्

अ॒श्विनौ॒ द्व्य॑क्षरेण प्राणापा॒नावुद॑जयताम् ।
विष्णु॒स्त्र्य॑क्षरेण॒ त्रील्ँ लो॒कानुद॑जय॒त्।
सोम॒श्चतु॑रक्षरेण॒ चतु॑ष्पदᳶ प॒शूनुद॑जयत्।

भट्टभास्कर-टीका

2-17अश्विनावित्यादयो निगदसिद्धाः । चतुष्पदः चत्वारः पादा येषाम् । ‘सङ्ख्यासुपूर्वस्य’ इति पादस्य लोपे ‘पादः पत्’ इति पद्भावः ।

विश्वास-प्रस्तुतिः

पू॒षा पञ्चा॑क्षरेण प॒ङ्क्तिमुद॑जयत् ।

Keith

Pusan with five syllables won the Pankti;

मूलम्

पू॒षा पञ्चा॑क्षरेण प॒ङ्क्तिमुद॑जयत् ।

भट्टभास्कर-टीका

पङ्क्तिः पञ्चपदा । सप्तपदा । ‘टाबृचि’ इति टाप् ।

विश्वास-प्रस्तुतिः

धा॒ता षड॑क्षरेण॒ षडृ॒तूनुद॑जयन् ।
म॒रुत॑स्स॒प्ताक्ष॑रेण स॒प्तप॑दाँ॒ शक्व॑री॒मुद॑जयन्।
बृह॒स्पति॑र॒ष्टाक्ष॑रेण गाय॒त्रीमुद॑जयन् ।

Keith

Dhatr with six syllables won the six seasons;
the Maruts with seven syllables won the seven-footed Śakvari;
Brhaspati with eight syllables won the Gayatri;

मूलम्

धा॒ता षड॑क्षरेण॒ षडृ॒तूनुद॑जयन् ।
म॒रुत॑स्स॒प्ताक्ष॑रेण स॒प्तप॑दाँ॒ शक्व॑री॒मुद॑जयन्।
बृह॒स्पति॑र॒ष्टाक्ष॑रेण गाय॒त्रीमुद॑जयन् ।

भट्टभास्कर-टीका

बृहस्पतिर्व्याख्यातः +++(पञ्चमप्रपाठके)+++ ।

(बृहस्पतिशब्दश्च पारस्करादिः, वनस्पत्यादिश्च । तेन सुडागमः, पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वं च ॥)

विश्वास-प्रस्तुतिः

मि॒त्रो नवा॑क्षरेण त्रि॒वृतँ॒ स्तोम॒म् उद॑जयत् [43]।

Keith

Mitra with nine syllables won the threefold Stoma [1];

मूलम्

मि॒त्रो नवा॑क्षरेण त्रि॒वृतँ॒ स्तोम॒मुद॑जयत् [43]।

भट्टभास्कर-टीका

त्रिवृतमिति । अवयवेषु अवयविनि च तिस्रो वृत्तयो यस्य इति बहुव्रीहौ त्रिचक्रादित्वादुत्तरपदान्तोदात्तत्वम् । नवस्तोत्रीयस्तोमस्त्रिवृत् ।

विश्वास-प्रस्तुतिः

वरु॑णो॒ दशा॑क्षरेण वि॒राज॒मुद॑जयत् ।

Keith

Varuna with ten syllables won the Viraj;

मूलम्

वरु॑णो॒ दशा॑क्षरेण वि॒राज॒मुद॑जयत् ।

भट्टभास्कर-टीका

विराट् दशाक्षरा, अन्नं चोच्यते ।

विश्वास-प्रस्तुतिः

इन्द्र॒ एका॑दशाक्षरेण त्रि॒ष्टुभ॒म् उद॑जय॒त् ।
विश्वे॑ दे॒वा द्वाद॑शाक्षरेण॒ जग॑ती॒म् उद॑जय॒न् ।

Keith

Indra with eleven syllables won the Tristubh; the All-gods with twelve syllables won the Jagati;

मूलम्

इन्द्र॒ एका॑दशाक्षरेण त्रि॒ष्टुभ॒मुद॑जय॒त् ।
विश्वे॑ दे॒वा द्वाद॑शाक्षरेण॒ जग॑ती॒मुद॑जय॒न् ।

विश्वास-प्रस्तुतिः

वस॑व॒स् त्रयो॑दशाक्षरेण त्रयोद॒शँ स्तोम॒म् उद॑जयन् ।
रु॒द्राश् चतु॑र्दशाक्षरेण चतुर्द॒शँ स्तोम॒म् उद॑जयन् ।
आ॒दि॒त्याᳶ पञ्च॑दशाक्षरेण पञ्चद॒शँ स्तोम॒म् उद॑जयन् ।
अदि॑ति॒ष् षोड॑शाक्षरेण षोड॒शँ स्तोम॒म् उद॑जयत् ।
प्र॒जाप॑तिस् स॒प्तद॑शाक्षरेण सप्तद॒शँ स्तोम॒म् उद॑जयत् ॥

Keith

the Vasus with thirteen syllables won the thirteenfold Stoma; the Rudras with fourteen syllables won the fourteenfold Stoma; the Adityas with fifteen syllables won the fifteenfold Stoma; Aditi with sixteen syllables won the sixteen fold Stoma; Prajapati with seventeen syllables won the seventeenfold Stoma.

मूलम्

वस॑व॒स्त्रयो॑दशाक्षरेण त्रयोद॒शँ स्तोम॒मुद॑जयन् ।
रु॒द्राश्चतु॑र्दशाक्षरेण चतुर्द॒शँ स्तोम॒मुद॑जयन् ।
आ॒दि॒त्याᳶ पञ्च॑दशाक्षरेण पञ्चद॒शँ स्तोम॒मुद॑जयन् ।
अदि॑ति॒ष्षोड॑शाक्षरेण षोड॒शँ स्तोम॒मुद॑जयत् ।
प्र॒जाप॑तिस्स॒प्तद॑शाक्षरेण सप्तद॒शँ स्तोम॒मुद॑जयत् ॥

भट्टभास्कर-टीका

त्रयोदश स्तोमा यथासम्भवं द्रष्टव्याः ।
यथा द्वाभ्यां पञ्चकाभ्याम् एकेन च त्रिकेण त्रयोदशेत्यादि ।
तत्र त्रयोदश स्तोत्रीयाः परिमाणम् अस्येति । ‘स्तोमे डविधिः पञ्चदशाद्यर्थम्’ इति डः । एवं सर्वत्र ।
त्रयोदश-षोडशानां चास्तित्वे इदम् एव प्रमाणम् ॥

इति सप्तमे एकादशोनुवाकः ॥