विस्तारः (द्रष्टुं नोद्यम्)
१-३ त्रिष्टुप् जगती वा
४-७ अनुष्टुप्
वाजप्रसवीयसप्तान्नहोमः, अभिषेकमन्त्राश्च
भास्करोक्त-विनियोगः
1सप्त वाजप्रसवीयान् जुहोति - वाजस्येति ॥
तत्राद्यास्तिस्रस्त्रिष्टुभः, अन्त्या अनुष्टुभः ।
विश्वास-प्रस्तुतिः ...{Loading}...
वाज॑स्ये॒मम् +++(→सोमं)+++ प्र॑स॒वस् सु॑षुवे॒
अग्रे॒ सोमँ॒ राजा॑न॒म् ओष॑धीष्व् अ॒प्सु ।
ता अ॒स्मभ्य॒म् मधु॑मतीर् भवन्तु
व॒यँ रा॒ष्ट्रे जा॑ग्रियाम पु॒रोहि॑ताः ॥
सर्वाष् टीकाः ...{Loading}...
Keith
The instigation of strength pressed in aforetime
This Soma, the lord in the plants, in the waters;
Be they full of sweetness for us;
May we as Purohitas watch over the kingship.
मूलम्
वाज॑स्ये॒मम्प्र॑स॒वस्सु॑षुवे॒ अग्रे॒ सोमँ॒ राजा॑न॒मोष॑धीष्व॒प्सु ।
ता अ॒स्मभ्य॒म्मधु॑मतीर्भवन्तु व॒यँ रा॒ष्ट्रे जा॑ग्रियाम पु॒रोहि॑ताः ॥
भट्टभास्कर-टीका
वाजस्यान्नस्य प्रसव उत्पत्तिः, उत्पत्तिहेतुर्वा इदं कर्म, देवो वा सविता । इमं सोमं राजानं ओषधीष्वप्सु च सुषुवे उदपीपदत् आधिपत्येन तासु प्रवर्तयामास । अग्रे प्रथममेव ताः तादृश्यः सोमसम्बन्धा ओषधयः आपश्च अस्मभ्यमस्मदर्थं मधुमतीः मधुमत्यः मुधुरसवत्यो वा भवन्तु । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । वयं च तद्वत्तया राष्ट्रे जाग्रियाम प्रबुध्येमहि अप्रमत्ता भवेम । ‘छन्दस्युभयथा ’ इत्युभयभावात् ‘रिङ्शयग्लिङ्क्षु’ सलोपश्च । पुरोहिता धर्मकार्येष्वग्रतः कृताः प्रधानभूता इत्यर्थः । ‘पुरोव्ययम्’ इति गतित्वात् ‘गतिरनन्तरः’ इति पूर्वपदपकृतिस्वरत्वम् ॥
भास्करोक्त-विनियोगः
2अथ द्वितीया -
विश्वास-प्रस्तुतिः ...{Loading}...
वाज॑स्ये॒दम् प्र॑स॒व आ ब॑भूव
+इ॒मा च॒ विश्वा॒ भुव॑नानि स॒र्वतः॑ ।
स वि॒राज॒म् पर्ये॑ति प्रजा॒नन्
प्र॒जाम् पुष्टिव्ँ॑ व॒र्धय॑मानो अ॒स्मे ॥
सर्वाष् टीकाः ...{Loading}...
Keith
The instigation of strength hath pervaded
This (world) and all these worlds on every side;
He goeth around knowing pre-eminence,
Increasing offspring and prosperity for us.
मूलम्
वाज॑स्ये॒दम्प्र॑स॒व आ ब॑भूवे॒मा च॒ विश्वा॒ भुव॑नानि स॒र्वतः॑ ।
स वि॒राज॒म्पर्ये॑ति प्रजा॒नन्प्र॒जाम्पुष्टिव्ँ॑व॒र्धय॑मानो अ॒स्मे ॥
भट्टभास्कर-टीका
वाजस्य प्रसवः प्रसवहेतुः इदं कर्म आ बभूव उदपादि । अनन्तरं चेमानि विश्वानि भुवनानि भूतजातान्या बभूवुः । सर्वतः सर्वेण प्रकारेण । ‘शेश्छन्दसि’ इति शेर्लोपः । स वाजस्य प्रसवः अन्नं वा कर्म वा विराजं प्रजापति कर्मपक्षे अन्नं पर्येति प्राप्नोति । प्रजानन् प्रजानन्निव मयैतत्कर्तव्यमिति विद्वानिव प्रजां पुष्टिञ्च वर्धयमानः वर्धयितुम् । हेतौ शानच्, अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । अस्मे अस्माकं अस्मदर्थम् । ‘सुपां सुलुक्’ इति शे आदेशः, उदात्तनिवृत्तिस्वरेण तस्योदात्तत्वम् ॥
विश्वास-प्रस्तुतिः ...{Loading}...
वाज॑स्ये॒माम् प्र॑स॒वश् शि॑श्रिये॒ दिव॑म्
इ॒मा च॒ विश्वा॒ भुव॑नानि स॒म्राट् ।
अदि॑त्सन्तन् दापयतु प्रजा॒नन्
र॒यिं [40] च॒ न॒स्सर्व॑वीरा॒न् नि य॑च्छतु ॥
सर्वाष् टीकाः ...{Loading}...
Keith
The instigation of strength rested on this sky
And all these worlds as king;
May the wise one make the niggard to be generous,
And may he accord us wealth [1] with all heroes.
मूलम्
वाज॑स्ये॒माम्प्र॑स॒वश्शि॑श्रिये॒ दिव॑मि॒मा च॒ विश्वा॒ भुव॑नानि स॒म्राट् ।
अदि॑त्सन्तन्दापयतु प्रजा॒नन्र॒यिं [40] च॒ न॒स्सर्व॑वीरा॒न्नि य॑च्छतु ॥
भट्टभास्कर-टीका
3अथ तृतीया - वाजस्य प्रसवो यथोक्तस्वरूपः इमां दिवं पृथिवीम् । त्रिष्वपि लोकेषु दिव्शब्दो वर्तते । यथा ‘तृतीयस्यामितो दिवि’ इति । शिश्रिये श्रितवान् इमं लोकं धारयितुम् । अनेन हीहत्यानां स्थितिर्भवति कर्मणा वा वृष्ट्यादिद्वारेण तत इमानि विश्वानि भुवनानि सप्रसवश्शिश्रिये । अन्नेन हि कर्मणा वृष्ट्यादिद्वारेण विश्वेषां भुवनानां स्थितिर्भवति यथा ‘तस्मादीतः प्रदानं देवा उप जविन्ति’ इति । सम्राट् संहतदीप्तिः नोस्मभ्यं अदित्सन्तं दातुमनिच्छन्तं दापयतु । यो हि दित्सन् भवति स हि स्वयमेव ददाति । प्रजानन् प्रज्ञावानिव अस्मद्विषये प्रवर्तताम् । किञ्च - रयिं धनं च सर्ववीरपुरुषान् नियच्छतु नियमयतु ददातु अस्मासु स्थापयतु वा ॥
भास्करोक्त-विनियोगः
4अथ चतुर्थी - अग्न इति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॒ अच्छा॑ वदे॒ह न॒ᳶ
प्रति॑ नस् सु॒मना॑ भव ।
प्र णो॑ यच्छ भुवस्पते
धन॒दा अ॑सि न॒स् त्वम् ॥
सर्वाष् टीकाः ...{Loading}...
Keith
O Agni, speak to us;
To us be thou kindly disposed;
Further us, O lord of the world
Thou art the giver of wealth to us.
मूलम्
अग्ने॒ अच्छा॑ वदे॒ह न॒ᳶ प्रति॑ नस्सु॒मना॑ भव ।
प्र णो॑ यच्छ भुवस्पते धन॒दा अ॑सि न॒स्त्वम् ॥
भट्टभास्कर-टीका
हे अग्ने इहास्मिन् कर्मणि नो ऽस्मान् अस्माकं वा इहास्मिन् कर्मणि अच्छवद आभिमुख्येन वद अस्मद्धितं ब्रूहि ।
किञ्च - नो ऽस्मान् प्रति सुमनाः कल्याणमतिश्च भव मनसा च अस्मद्धितमनुचिन्तयेत्यर्थः । किं वः क्रियतामिति चेत् ; नोस्मभ्यं प्रयच्छ देहि धनमिति गम्यते ; ‘धनदा असि’ इति वक्ष्यमाणत्वात् । ‘उपसर्गाद्बहुलम्’ इति नसो णत्वम् । भुवस्पते पृथिव्याः पते । ‘षष्ठ्य्वाः पतिपुत्र’ इति सत्वम् । धनदाः धनस्य दाता धनं दातुं समर्थः त्वमस्माकमसि । तस्माद्देहीति ॥
भास्करोक्त-विनियोगः
5अथ पञ्चमी - प्र ण इति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
प्र णो॑ यच्छत्व् अर्य॒मा
प्र भग॒ᳶ प्र बृह॒स्पतिः॑ ।
प्र दे॒वाᳶ प्रोत सू॒नृता॒+++(=सु+ऋता)+++
प्र वाग् दे॒वी द॑दातु नः ॥
सर्वाष् टीकाः ...{Loading}...
Keith
May Aryaman further us,
May Bhaga, may Brhaspati,
May the gods, and the bounteous one;
May the goddess speech be bountiful to us.
मूलम्
प्र णो॑ यच्छत्वर्य॒मा प्र भग॒ᳶ प्र बृह॒स्पतिः॑ ।
प्र दे॒वाᳶ प्रोत सू॒नृता॒ प्र वाग्दे॒वी द॑दातु नः ॥
भट्टभास्कर-टीका
नः अस्मभ्यमर्यमा प्रयच्छतु यावद्दातव्यं तत्सर्वं ददातु भगश्च, बृहस्पतिश्च देवाश्च । उत अपि च सूनृता प्रियवाक् यज्ञः वाग्देवी सरस्वती च प्रददातु अस्मभ्यम् । बृहस्पतिशब्दे सुट्स्वरावुक्तौ । शोभना च ऋता च सूनृता पृषोदरादिः ॥
भास्करोक्त-विनियोगः
6षष्ठी - अर्यमणमिति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒र्य॒मण॒म् बृह॒स्पति॒म्
इन्द्र॒न् दाना॑य चोदय ।
वाचव्ँ॒ विष्णुँ॒ सर॑स्वतीँ
सवि॒तार॑म् [41] च वा॒जिन॑म् ॥
सर्वाष् टीकाः ...{Loading}...
Keith
Aryaman, Brhaspati, Indra,
Impel to give us gifts,
Speech, Visnu, Sarasvat!,
And Savitr the strong.
मूलम्
अ॒र्य॒मण॒म्बृह॒स्पति॒मिन्द्र॒न्दाना॑य चोदय ।
वाचव्ँ॒विष्णुँ॒ सर॑स्वतीँ सवि॒तार॑म् [41] च॒ वा॒जिन॑म् ॥
भट्टभास्कर-टीका
हे अग्ने दानाय चोदय अभिमतानि दापय । वाग्ग्रहणं सरस्वतीविशेषणं नदीनिवृत्त्यर्थम् । सवितृविशेषणं वाजिग्रहणम् ॥
भास्करोक्त-विनियोगः
7सप्तमी - सोममिति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
सोमँ॒ राजा॑नव्ँ॒ वरु॑णम्
अ॒ग्निम् अ॒न्वार॑भामहे+++(=आलभामहे)+++ ।
आ॒दि॒त्यान् विष्णुँ॒ सूर्य॑म्
ब्र॒ह्माण॑ञ् च॒ बृह॒स्पति॑म् ॥
सर्वाष् टीकाः ...{Loading}...
Keith
Soma the king, Varuna,
Agni, we grasp,
The Adityas, Visnu, Surya
And Brhaspati, the Brahman (priest).
मूलम्
सोमँ॒ राजा॑नव्ँ॒वरु॑णम॒ग्निम॒न्वार॑भामहे ।
आ॒दि॒त्यान् विष्णुँ॒ सूर्य॑म्ब्र॒ह्माण॑ञ्च॒ बृह॒स्पति॑म् ॥
भट्टभास्कर-टीका
सोमादीनग्निं च त्वामन्वारभामहे . यूयमेव प्रथमं कर्म आरभध्वम्, अभिमतप्रदत्वात् ; वयन्तु युष्मानन्वारभामहे । यद्वा - अन्वारम्भणमवलम्बनम् । अस्मिन् कर्मणि सोमादीनेवावलम्बामह इति । यद्वा - अन्वारम्भणं पश्चादरम्भणम्, रभिश्च याच्ञायाम् । युष्मद्दानानन्तरं पुनःपुनर्युष्मानेव वयं याचामहे, नान्यान्याचिष्महीति । आदित्यानप्येवमिति ॥
दे॒वस्य॑ त्वा - साम्रा॑ज्येना॒भिषि॑ञ्चामि ...{Loading}...
भास्करोक्त-विनियोगः
8-10अभिषेकमन्त्राः - देवस्येत्यादयः ॥
मूलम् (संयुक्तम्)
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॑ऽश्विनो॑र्बा॒हुभ्या॑म्पू॒ष्णो हस्ता॑भ्याँ॒ सर॑स्वत्यै वा॒चो य॒न्तुर्य॒न्त्रेणा॒ग्नेस्त्वा॒ साम्रा॑ज्येना॒भिषि॑ञ्चा॒मीन्द्र॑स्य॒ बृह॒स्पते॑स्त्वा॒ साम्रा॑ज्येना॒भिषि॑ञ्चामि ॥ [42]
देवस्य त्वा सवितुः ...{Loading}...
विश्वास-प्रस्तुतिः
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॒॑+++(=अनुज्ञायां)+++,
+++(देवाध्वर्यू→)+++ ऽश्विनो॑र् बा॒हुभ्या॑म्,
पू॒ष्णो हस्ता॑भ्याम्…
Keith
On the instigation of god Savitr,
with the arms of the Aśvins,
with the hands of Pusan.
मूलम्
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॑ऽश्विनो॑र् बा॒हुभ्या॑म्, पू॒ष्णो हस्ता॑भ्यां॒…
पद-पाठः
दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॒स॒व इति॑ प्र-स॒वे । अ॒श्विनोः॑ । बा॒हुभ्या॒मिति॑ बा॒हु-भ्या॒म् । पू॒ष्णः । हस्ता॑भ्याम् ।
भट्टभास्कर-टीका
सवितुस् सर्वप्रेरकस्य देवस्य प्रसवे प्रेरणायां तेनैव प्रेरितोहं
‘थाथघञ्क्ताजबित्रकाणाम्’ (पा.सू. 6.2.144) इति सूत्रेण प्रसवशब्दोन्तोदात्तः । अश्विनोर्बाहुभ्यां नत्वात्मीयाभ्यामिति स्तुतिः । ‘अश्विनौ हि देवानामध्वर्यू आस्ताम्’ (तै.ब्रा. 3.2.4) । तथा पूष्ण एव हस्ताभ्यां पाणितलाभ्याम् । उदात्तनिवृत्तिस्वरेण षष्ठ्या उदात्तत्वम्॥
सावित्रो व्याख्यातः । सवितुर् देवस्यानुज्ञाने अश्विनोर् एव बाहुभ्यां पूष्ण एव हस्ताभ्याम् । न त्व् आत्मीयाभ्यामिति ॥
तत्र सावित्रो व्याख्यातः ।
सवितुर्देवस्य प्रसवे अनुज्ञायां लब्धायामेव
अश्विनोरेव बाहुम्यां नात्मीयाभ्यां
पूष्णो हस्ताभ्यां
विश्वास-प्रस्तुतिः
सर॑स्वत्यै वा॒चो
य॒न्तुर् य॒न्त्रेण
अग्नेस् त्वा॒ साम्रा॑ज्येना॒भिषि॑ञ्चामि ।
Keith
with the bond of Sarasvati, of speech, the binder, I anoint thee with the lordship of Agni,
मूलम्
सर॑स्वत्यै वा॒चो य॒न्तुर्य॒न्त्रेण अग्नेस्त्वा॒ साम्रा॑ज्येना॒भिषि॑ञ्चामि ।
भट्टभास्कर-टीका
सरस्वत्यै सरस्वत्याः । षष्ठ्यर्थे चतुर्थी ॥ सरस्वत्या वाचस्सम्बन्धिना यन्तुर्यन्त्रेण यन्तुरप्यन्यस्य यन्त्रणेन यमनेन । सामान्येन वा विवक्ष्यते, यन्त्र्याः वाचस्सरस्वत्याः यन्त्रणेन अग्नेश्च साम्राज्येन त्वामभिषिञ्चामि । सङ्गतं राजतीति सम्राट्, ‘मो राजि समः क्वौ’, ‘गुणवचनब्राह्मणादिभ्यः’ इति ष्यञ् ।
विश्वास-प्रस्तुतिः
इन्द्र॑स्य॒ साम्रा॑ज्येना॒भिषि॑ञ्चामि ॥
बृह॒स्पते॑स् त्वा॒ साम्रा॑ज्येना॒भिषि॑ञ्चामि ॥
Keith
with the lordship of Indra, of Brhaspati, I anoint thee.
मूलम्
इन्द्र॑स्य॒ साम्रा॑ज्येना॒भिषि॑ञ्चामि ॥
बृह॒स्पते॑स्त्वा॒ साम्रा॑ज्येना॒भिषि॑ञ्चामि ॥
भट्टभास्कर-टीका
एवं ‘इन्द्रस्य त्वा साम्राज्येन’ ‘बृहस्पतेस्त्वा साम्राज्येन’, इत्येतौ गतौ ॥
इति सप्तमे दशमोनुवाकः ॥