०८ रथारोहणादि

विस्तारः (द्रष्टुं नोद्यम्)

४ गायत्री ९-१० त्रिष्टुप् ११ द्विपदा विराट् गायत्री १२ आस्तारपङ्क्तिः १३ विराट् १४-१५ जगती १६ त्रिष्टुप् प्रजापतिर्ऋषिः
( वाजपेयोपयुक्त) रथारोहण-रथधावनमन्त्राभिधानम्

भास्करोक्त-विनियोगः

1रथमातिष्ठति तमनुमन्त्रयते - देवस्येति यजुषा ॥

विश्वास-प्रस्तुतिः

दे॒वस्या॒हँ स॑वि॒तुᳶ प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वाज॑ञ् जेषम् ।

Keith

On the instigation of the god Savitr, through Brhaspati, winner of the prize, may I win the prize.

मूलम्

दे॒वस्या॒हँ स॑वि॒तुᳶ प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वाज॑ञ्जेषम् ।

भट्टभास्कर-टीका

सवितुः सर्वस्य प्रेरयितुः देवस्याहं प्रसवे अनुज्ञायां अनुज्ञां लब्ध्वैव न स्वातन्त्र्येण बृहस्पतिना ब्रह्मणा साधनभूतेन वाजजिता अन्नं जितवता वशीकृतसर्वान्नेन ; अतस्तेनाहं वाजमन्नं जेषं जयेयम् । लेटि ‘सिब्बहुलं लेटि’ इति सिप्, मिपोडागमः, इतश्च लोपः । बृहस्पतिशब्दे ‘तद्बृहतोः’ इति सुट्, वनस्पत्यादित्वात्पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ॥

भास्करोक्त-विनियोगः

2चात्वाले रथचक्रं निमितं ब्रह्माधिरोहति तमभिमन्त्रयते - देवस्येति ॥

विश्वास-प्रस्तुतिः ...{Loading}...

दे॒वस्या॒हँ स॑वि॒तुᳶ प्र॑स॒वे
बृह॒स्पति॑ना वाज॒जिता॒
वर्षि॑ष्ठ॒न् नाकँ॑ रुहेयम् ।

सर्वाष् टीकाः ...{Loading}...

Keith

On the instigation of the god Savitr, through Brhaspati, winner of the prize, may I mount the highest vault.

मूलम्

दे॒वस्या॒हँ स॑वि॒तुᳶ प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वर्षि॑ष्ठ॒न्नाकँ॑ रुहेयम् ।

भट्टभास्कर-टीका

गतम् । वर्षिष्ठं वृद्धतमं नाकं स्वर्गं स्वर्गस्थनीयं चक्रं रुहेयमारोहामि नाकमेव वानेन निमित्तेनारुहेयम् । ‘लिङ्याशिष्यङ्’ ॥

भास्करोक्त-विनियोगः

3दुन्दुभिं संह्रादयति - इन्द्रायेति ॥

मूलम् (संयुक्तम्)

इन्द्रा॑य॒ वाचव्ँ॑वद॒तेन्द्रव्ँ॒वाज॑ञ्जापय॒तेन्द्रो॒ वाज॑मजयित् ।

विश्वास-प्रस्तुतिः

इन्द्रा॑य॒ वाचव्ँ॑ वदत ।
इन्द्रव्ँ॒ वाज॑ञ् जापयत ।
इन्द्रो॒ वाज॑म् अजयित् ।

Keith

To Indra utter your voices, make Indra win the prize, Indra hath won the prize.

मूलम्

इन्द्रा॑य॒ वाचव्ँ॑ वदत ।
इन्द्रव्ँ॒वाज॑ञ्जापयत ।
इन्द्रो॒ वाज॑मजयित् ।

भट्टभास्कर-टीका

इन्द्रायेन्द्रार्थं सर्वे वाचं वदत तस्य स्वामित्वात् यथेन्द्रो जयति तथा शब्दयत । यजमान एव वा ऐश्वर्ययोगादिन्द्रः ; तस्य शोभनां वाचं वदत । इन्द्रं वाजं जापयत । ‘क्रीङ्जीनां णौ’ इत्यात्वम्, ‘अर्तिह्री’ इत्यादिना पुक् । इन्द्रश्च वाजमन्नमजयित् अजयत् । जयतेश्छान्दसे लङि वर्णयत्ययेन शप इकारः । शपो वा लुकि तिप इडागमः ॥

भास्करोक्त-विनियोगः

4अश्वाजनीं प्रयच्छति - अश्वाजनीति गायत्र्या ॥

विश्वास-प्रस्तुतिः ...{Loading}...

अश्वा॑जनि+++(=कशा)+++ वाजिनि॒
वाजे॑षु वाजिनीव॒ति ।
अश्वा॑न्त् स॒मत्सु॑+++(=सङ्ग्रामेषु)+++ वाजय ॥

सर्वाष् टीकाः ...{Loading}...

Keith

O whip, strong, having strength for the prizes,
Do thou in the contests strengthen the steeds.

मूलम्

अश्वा॑जनि वाजिनि॒ वाजे॑षु वाजिनीव॒ति ।
अश्वा॑न्त्स॒मत्सु॑ वाजय ॥

भट्टभास्कर-टीका

याऽश्वानाजयति गमयति साश्वाजनी कशोच्यते । वाजिनी अन्नवीती यज्ञसाधनद्वारेण । यद्वा - वेगवती ; अश्वानां वेगहेतुत्वात् । वाजेषु अन्नेषु साध्येषु वाजिनीवती वेगवत्या गत्या तद्वती । यद्वा - वेगवत्याश्वपङ्क्त्या तद्वती । सा त्वमश्वान् समत्सु सङ्ग्रामेषु वाजय गमय । सह माद्यन्त्यास्विति समदः ॥

भास्करोक्त-विनियोगः

5-7तयाश्वान् समवक्षिणोति - अर्वासीति ॥

विश्वास-प्रस्तुतिः

अर्वा॑सि ।

Keith

The swift art thou,

मूलम्

अर्वा॑सि ।

भट्टभास्कर-टीका

अर्वा अरणकुशलः । ‘अन्येभ्योपि दृश्यन्ते’ इति वनिप् । तादृशोसीति दक्षिणम् ।

विश्वास-प्रस्तुतिः

सप्ति॑रसि ।

Keith

the runner,

मूलम्

सप्ति॑रसि ।

भट्टभास्कर-टीका

सप्तिः । षप समवाये । सङ्ग्रामेषु सहसा समवैति । तादृशोसीति मध्यमम् ।

विश्वास-प्रस्तुतिः

वा॒ज्य॑सि ।

Keith

the strong.

मूलम्

वा॒ज्य॑सि ।

भट्टभास्कर-टीका

वाजी वेगवान् अन्नवान्वा । तादृशोसीत्युत्तरम् । उक्तमुदात्तयणः परस्यानुदात्तस्य स्वरितत्वम् । अग्निर्वा अर्वा । वायुस्सप्तिः । आदित्यो वजी ।’ इत्यादि ब्राह्मणम् ॥

भास्करोक्त-विनियोगः

8-9अश्वानाजिशिरोभ्यावर्तयति - वाजिन इति द्वाभ्याम् ।

विश्वास-प्रस्तुतिः

वाजि॑नो॒ वाज॑न् धावत ।
म॒रुता॑म् प्रस॒वे ज॑यत ।

Keith

O steeds, hasten for the prize;
conquer on the instigation of the Maruts:

मूलम्

वाजि॑नो॒ वाज॑न्धावत ।
म॒रुता॑म् प्रस॒वे ज॑यत ।

भट्टभास्कर-टीका

तत्राद्या द्विपदा गायत्री ॥ हे वाजिनः अश्वा वाजमन्नं प्रति धावत वाजं साधयितुं शीघ्रं गच्छत । सर्तेर्वेगितायां गतौ धावादेशः ।

मरुतां प्रसवेऽनुज्ञायां जयतान्नम् । ते हि युष्मानाज्ञापयन्ति ; यूयं चास्माकं जयत ।

विश्वास-प्रस्तुतिः ...{Loading}...

वि योज॑ना मिमीध्वम् ।+++(5)+++
अध्व॑नस्स्कभ्नीत [34] ।
काष्ठा॑ङ्गच्छत ।

सर्वाष् टीकाः ...{Loading}...

Keith

measure ye the leagues;
establish the ways [1];
attain the goal.

मूलम्

वि योज॑ना मिमीध्वम् ।
अध्व॑नस्स्कभ्नीत [34] ।
काष्ठा॑ङ्गच्छत ।

भट्टभास्कर-टीका

कथं धावतीति चेत् - वियोजनेति । इयं त्रिपदोपमा प्रतिष्ठा वा ; ‘षट्कसप्तकाष्टकैर्विवर्धमाना । विपरीता प्रतिष्ठा’ इति । ककुद्मती वा, ‘एतस्मिन् पञ्चमे सर्वं छन्दः शङ्कुमती । षट्के ककुद्मती’ । योजना योजनानि विमिमीध्वं बहून्यपि योजनानि मिमीध्वम् । गमनशैघ्र्येण विमितानि परिमितानि अल्पानीव कुरुध्वम् । माङ् माने ।

किञ्च - अध्वनो मार्गान् स्कभ्नीत स्तम्भयत शीघ्रया गत्या हितानि कुरुत ।

काष्ठामध्वसमाप्तिं आजिशिरो गच्छत । गन्तव्यमध्वानं शीघ्रं लङ्घयतेति यावत् ॥

भास्करोक्त-विनियोगः

10अश्वान् धावतोनुमन्त्रयते - वाजेवाज इत्यादिभिश्चतसृभिः । आद्या त्रिष्टुप् ।

०८ वाजेवाजेऽवत वाजिनो ...{Loading}...

वा᳓जेवाजे ऽवत वाजिनो! नो
ध᳓नेषु, विप्रा! अमृता! ऋत-ज्ञाः ।
अस्य᳓ म᳓ध्वः पिबत माद᳓यध्वं
तृप्ता᳓ यात पथि᳓भिर् देव-या᳓नैः ॥

008 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - वाजिनः
  • ऋषिः - वसिष्ठः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

वा᳓जे-वाजे अवत वाजिनो नो
ध᳓नेषु विप्रा अमृता ऋतज्ञाः
अस्य᳓ म᳓ध्वः पिबत माद᳓यध्वं
तृप्ता᳓ यात पथि᳓भिर् देवया᳓नैः

Vedaweb annotation

Strata
Strophic


Pāda-label
genre M
genre M
genre M
genre M


Morph
avata ← √avⁱ- (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

vā́je-vāje ← vā́ja- (nominal stem)
{case:LOC, gender:M, number:SG}

vājinaḥ ← vājín- (nominal stem)
{case:VOC, gender:M, number:PL}

amr̥tāḥ ← amŕ̥ta- (nominal stem)
{case:VOC, gender:M, number:PL}

dháneṣu ← dhána- (nominal stem)
{case:LOC, gender:N, number:PL}

r̥tajñāḥ ← r̥tajñā́- (nominal stem)
{case:VOC, gender:M, number:PL}

viprāḥ ← vípra- (nominal stem)
{case:VOC, gender:M, number:PL}

asyá ← ayám (pronoun)
{case:GEN, gender:M, number:SG}

mādáyadhvam ← √mad- (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:MED}

mádhvaḥ ← mádhu- (nominal stem)
{case:GEN, gender:N, number:SG}

pibata ← √pā- 2 (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}

devayā́naiḥ ← devayā́na- (nominal stem)
{case:INS, gender:M, number:PL}

pathíbhiḥ ← pánthā- ~ path- (nominal stem)
{case:INS, gender:M, number:PL}

tr̥ptā́ḥ ← √tr̥p- (root)
{case:NOM, gender:M, number:PL, non-finite:PPP}

yāta ← √yā- 1 (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}

पद-पाठः

वाजे॑ऽवाजे । अ॒व॒त॒ । वा॒जि॒नः॒ । नः॒ । धने॑षु । वि॒प्राः॒ । अ॒मृ॒ताः॒ । ऋ॒त॒ऽज्ञाः॒ ।
अ॒स्य । मध्वः॑ । पि॒ब॒त॒ । मा॒दय॑ध्वम् । तृ॒प्ताः । या॒त॒ । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ ॥

Hellwig Grammar
  • vājevāja
  • [noun], locative, singular, masculine
  • “prize; Vāja; reward; reward; Ribhus; vigor; strength; contest.”

  • vājevāja
  • [noun], locative, singular, masculine
  • “prize; Vāja; reward; reward; Ribhus; vigor; strength; contest.”

  • ‘vataavataav
  • [verb], plural, Present imperative
  • “support; help; prefer; prefer; like.”

  • vājinovājinaḥvājin
  • [noun], vocative, plural, masculine
  • “horse; bird; seven; hero; achiever; aphrodisiac.”

  • nonaḥmad
  • [noun], accusative, plural
  • “I; mine.”

  • dhaneṣudhana
  • [noun], locative, plural, neuter
  • “wealth; property; money; treasure; prize; dhana [word]; valuable; dhan; capital; fight.”

  • viprāviprāḥvipra
  • [noun], vocative, plural, masculine
  • “Brahmin; poet; singer; priest; guru; Vipra.”

  • amṛtāamṛtāḥamṛta
  • [noun], vocative, plural, masculine
  • “immortal; amṛta; imperishable.”

  • ṛtajñāḥṛta
  • [noun], neuter
  • “truth; order; fixed order; ṛta [word]; law; custom; custom.”

  • ṛtajñāḥjñāḥjña
  • [noun], vocative, plural, masculine
  • “conversant(p); aware(p); wise.”

  • asyaidam
  • [noun], genitive, singular, neuter
  • “this; he,she,it (pers. pron.); here.”

  • madhvaḥmadhu
  • [noun], genitive, singular, neuter
  • “honey; alcohol; sweet; nectar; madhu [word].”

  • pibata
  • [verb], plural, Present imperative
  • “drink; gulp; soak; drink; suck; inhale.”

  • mādayadhvaṃmādayadhvammāday√mad
  • [verb], plural, Present imperative
  • “delight; enjoy; intoxicate.”

  • tṛptātṛptāḥtṛp
  • [verb noun], nominative, plural
  • “satiate; enjoy; delight.”

  • yāta
  • [verb], plural, Present imperative
  • “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”

  • pathibhirpathibhiḥpathin
  • [noun], instrumental, plural, masculine
  • “way; road; path [word]; journey; method.”

  • devayānaiḥdeva
  • [noun], masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • devayānaiḥyānaiḥyāna
  • [noun], instrumental, plural, masculine
  • “vehicle; journey; campaign; carriage; vessel; cart.”

सायण-भाष्यम्

हे वाजिनः एतन्नामका देवाः विप्राः मेधाविनः अमृताः अमरणधर्माणः ऋतज्ञाः सत्यं जानन्त एवंभूताः सन्तो यूयं वाजेवाजे सर्वेषु युद्धेषु नः अस्मान् धनेषु धननिमित्तेषु अवत पालयत । ततो यूयम् अस्य मध्वः मधुरोपेतमिमं सोमं पिबत । सोमपानानन्तरं मादयध्वं यूयं तृप्ता भवत। ततः तृप्ताः यूयं देवयानैः देवगमनसाधनैः पथिभिः मार्गैः यात गच्छत ॥ ॥५॥

भट्टभास्कर-टीका

‘वाजिनो नः’ इति प्रथमपादान्तः ॥ वाजेवाजे अन्नेऽन्ने साध्ये वाजिनः अश्वाः अस्मानवत रक्षत तल्लम्भयित्वा ।

किञ्च - धनेषु अवतेति वनानि चास्मान् लम्भयत । हे विप्रा मेधाविनः यथा तद्रागिणः अमृताः अमरणाः ऋतज्ञाः सत्यज्ञास्सत्यवन्तः अस्य मध्वः मधुसदृशस्य घृतस्य पिबत । पूर्ववत्कर्मणि षष्ठी । नुमभावश्छान्दसः । पीत्वा च मादयध्वं तृप्यत । मद तृप्तियोगे, चुरादिरनुदात्तेत् । तृप्ताश्च यात गच्छत । पथिभिर्मार्गैर्देवयानैः देवा यैर्गच्छन्ति, तैर्मनोहरैः । कृदुत्तरपदप्रकृतिस्वरत्वम् । ‘लिति’ इति प्रत्ययात्पूर्वस्योदात्तत्वम् ॥

Wilson

English translation:

“Wise, immortal Vājins, observers of truth, defend us in every conflict, and for the sake of wealth; drinkof this sweet (Soma), be exhilarated (thereby) and satisfied; proceed by the paths traversed by the gods.”

Jamison Brereton

Help us to every prize, o prizewinners, when the stakes (are set), you truth-knowing, immortal inspired poets.
Drink of this honey here; make yourselves exhilarated. Satisfied, drive along the paths that lead to the gods.

Jamison Brereton Notes

It is appropriate that the vājíns should be the topic in a clause with the āmreḍita loc. absol. vā́je-vāje. The etym. figure would be clearer if the loc. had been tr. “whenever prizes (are at stake)” vel sim.

07-08 ...{Loading}...
Jamison Brereton Notes

These last two vss. concern the vājínaḥ ‘prize-winners’. As indicated in the published introduction, although most (in addition to the usual tr., see Oberlies RdV II.240) take these to be horses, as so often, I instead take the referent of vājín- to be the Maruts. In an All God hymn the default expectation is that gods are the dedicands.

And there are numerous phraseological parallels that support the identification. See esp. nearby VII.36.7, where the Maruts are called vājínaḥ, as well as in the immediately preceding hymn, where VII.35.9 śáṃ no bhavantu marútaḥ svarkā́ḥ is almost identical, save for the expressed subj., to our 7ab śáṃ no bhavantu vājínaḥ … svarkā́ḥ. The stem svarká- occurs only 3 times; besides these two occurrences, the third, in I.88.1, refers to the Maruts’ chariots. The voc. phrase amṛtā ṛtājāḥ in our 8b is found also, addressed to the Maruts, in V.57.8 ámṛtā ṛ́tājāḥ (accented).

Keith

For each prize aid us, O ye steeds,
For the rewards, O ye wise, immortal, righteous ones;
Drink of this mead, rejoice in it;
Delighted go by paths on which the gods go.

Griffith

Deep-skilled in Law eternal, deathless, Singers, O Vajins, help us in each fray for booty.
Drink of this meath, he satisfied, be joyful: then go on paths which Gods are wont to travel.

Geldner

Ihr Streitrosse, steht uns in jedem Streite bei, ihr unsterblichen wahrheitskundigen Redner bei jedem Preisbewerb! Trinket von diesem Süßtrank, berauschet euch! Geht gesättigt auf den gottbefahrenen Wegen nach Hause!

Grassmann

In jeder Schlacht helft uns, o Rosse, in Wettkämpfen, o unsterbliche Priester, ihr opferkundigen; von dieser Süssigkeit trinkt, berauscht euch, befriedigt geht auf den von den Göttern betretnen Pfaden.

Elizarenkova

С каждой наградой помогайте нам, о кони, приносящие награду,
Со (всеми) ставками, о вдохновенные, бессмертные, знатоки закона!
Испейте этой сладости, опьяняйтесь!
Насытившись, отправляйтесь путями, ведущими к богам!

अधिमन्त्रम् (VC)
  • वाजिनः
  • वसिष्ठः
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर विद्वानों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (अमृताः) मृत्युरहित (ऋतज्ञाः) सत्य व्यवहार वा ब्रह्म के जाननेवाले (वाजिनः) बहु विज्ञान अन्न बल और वेगयुक्त (विप्राः) मेधावी सज्जनो ! तुम (धनेषु) धनों में (वाजेवाजे) और संग्राम संग्राम में (नः) हम लोगों की (अवत) रक्षा करो (अस्य) इस (मध्वः) मधुरादि गुणयुक्त रस को (पिबत) पीओ, हम लोगों को (मादयध्वम्) आनन्दित करो और (तृप्ताः) तृप्त होते हुए (देवयानैः) विद्वानों के मार्ग जिन से जाना होता उन (पथिभिः) मार्गों से (यात) जाओ ॥८॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - विद्वानों के प्रति ईश्वर की यह आज्ञा है कि तुम धार्मिक विद्वान् होकर सब की रक्षा निरन्तर करो और आनन्दित तथा बड़ी ओषधियों के रस से नीरोग हुए सब को आनन्दित और तृप्त कर धर्मात्माओं के मार्गों से आप चलते हुए औरों को निरन्तर उन्हीं मार्गों से चलावें ॥८॥ इस सूक्त मे सविता, ऐश्वर्य, विद्वान् और विदुषियों के गुणों का वर्णन होने से इस सूक्त के अर्थ की इससे पूर्व सूक्त के अर्थ के साथ सङ्गति जाननी चाहिये ॥ यह अड़तीसवाँ सूक्त और पाँचवाँ वर्ग समाप्त हुआ ॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे अमृता ऋतज्ञा वाजिनो विप्रा ! यूयं धनेषु वाजेवाजे च नोऽस्मानवत अस्य मध्वः पिबत अस्मान् मादयध्वम् तृप्ताः सन्तो देवयानैः पथिभिर्यात ॥८॥

दयानन्द-सरस्वती (हि) - विषयः

पुनर्विद्वद्भिः किं कर्त्तव्यमित्याह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (वाजेवाजे) संग्रामे संग्रामे (अवत) रक्षत (वाजिनः) बहुविज्ञानान्नबलवेगयुक्ताः (नः) अस्मान् (धनेषु) (विप्राः) मेधाविनः (अमृताः) मृत्युरहिताः (ऋतज्ञाः) य ऋतं सत्यं जानन्ति ते सत्यं व्यवहारं ब्रह्म वा जानन्ति ते (अस्य) (मध्वः) मधुरादिगुणयुक्तस्य (पिबत) (मादयध्वम्) आनन्दयत (तृप्ताः) प्रीणिताः (यात) (पथिभिः) (देवयानैः) विद्वन्मार्गैः ॥८॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - विदुषः प्रतीश्वरस्येयमाज्ञाऽस्ति यूयं विद्वांसो धार्मिका भूत्वा सर्वेषां रक्षां सततं विधत्त स्वयमानन्दिता महौषधरसेनारोगास्सन्तस्सर्वानानन्द्य तर्पयित्वाऽऽप्तमार्गैः स्वयं गच्छन्तोऽन्यान् सततं गमयत ॥८॥ अत्र सवित्रैश्वर्यविद्वद्विदुषीगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इत्यष्टात्रिंशत्तमं सूक्तं पञ्चमो वर्गश्च समाप्तः ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - विद्वानांना ईश्वराची ही आज्ञा आहे की, तुम्ही धार्मिक विद्वान बनून सर्वांचे निरंतर रक्षण करा व महौषधींच्या रसाने निरोगी बनून सर्वांना आनंदित व तृप्त करून धर्मात्म्याच्या मार्गाने स्वतः चालून इतरांनाही निरंतर त्याच मार्गाने चालवा. ॥ ८ ॥

विश्वास-प्रस्तुतिः ...{Loading}...

ते नो॒ अर्व॑न्तो+++(=वेगवन्तो)+++, हवन॒+++(=ह्वान)+++-श्रुतो॒ हवव्ँ॒
विश्वे॑ शृण्वन्तु वा॒जिनः॑ ॥

सर्वाष् टीकाः ...{Loading}...

Keith

May the swift coursers, who hear the call,
All hearken to our cry.

मूलम्

ते नो॒ अर्व॑न्तो हवन॒श्रुतो॒ हवव्ँ॒विश्वे॑ शृण्वन्तु वा॒जिनः॑ ॥

भट्टभास्कर-टीका

11 ते नो अर्वन्त इति द्विपदा विराट् । ‘विराड्जागतगायत्राभ्याम्’ इति ॥ हे अर्वन्तः अरणकुशलाः । अर्तेः ‘अन्येभ्योपि दृश्यन्ते’ इति वनिप् । ‘अर्वणस्त्रसावनयः’ । हवनश्रुतः आह्वानस्य श्रोतारः ते वाजिनोश्वाः अस्माकं हवं आह्वानं शृण्वन्तु विश्वे सर्वेपि । ‘भावेनुपसर्गस्य’ इति अप्, सम्प्रसारणं च ॥

विश्वास-प्रस्तुतिः ...{Loading}...

मि॒त-द्र॑वस् सहस्र॒-सा+++(←सन् दाने)+++ मे॒ध-सा॑ता सनि॒ष्यवः॑ ।
म॒हो ये रत्नँ॑ समि॒थेषु॑+++(=सङ्ग्रामेषु)+++ जभ्रि॒रे ॥

सर्वाष् टीकाः ...{Loading}...

Keith

Strong limbed, winning a thousand,
Eager to gain in the gaining of praise,
The steeds, which have won in the contests great prizes.

मूलम्

मि॒तद्र॑वस्सहस्र॒सा मे॒धसा॑ता सनि॒ष्यवः॑ ।
म॒हो ये रत्नँ॑ समि॒थेषु॑ जभ्रि॒रे ॥

भट्टभास्कर-टीका

12मितद्रव इति परोष्णिक् अस्तारपङ्क्तिर्वा, ‘परौ चेद्द्वादशाक्षरावास्तारपङ्क्तिः’ इति ॥
मितमल्पमिव महान्तमपि पन्थानं द्रवन्ति गच्छन्तीति मितद्रवः । यद्वा - मितं शीघ्रं गच्छन्तीति मितद्रवः ।
‘मितद्व्रादिभ्य उपसङ्ख्यानम्’ इति डुप्रत्ययः, दासीभारादिर्द्रष्टव्यः ।
मितं द्रवणं येषामिति वा बहुव्रीहिः ।

सहस्रसाः सहस्रस्य महतो धनराशेः सनितारः । पूर्ववद्विच्प्रत्यय अकारश्च ।
मेधसाता मेधस्य सननं सम्भजनं मेधसातिः यज्ञप्राप्तिः । तस्मिन्निमित्ते यतमानाः । ‘जनसनखनां सञ्झलोः’ इत्यात्वम्, ‘सुपां सुलुक्’ इति सप्तम्या डादेशः, दासीभारादिः ।
सनिष्यवः सनिस्सननीयं धनं वा संविभजनम् । सनेरिसिप्रत्ययः, तदन्तात् ‘सुप आत्मनः’ इति क्यच् । इप्रत्ययान्ताद्वा क्यचि छान्दसस्सुडागमः ।
किञ्च - ये वाजिनस् समिथेषु सङ्ग्रामेषु । ‘समीणः’ इति ढक्प्रत्ययः । महः महतः महाबलस्य शत्रोः रत्नं धनं जभ्रिरे हरन्ति । छान्दसो लिट् । ‘हृग्रहोर्भः’ इति भत्वम् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

शन् नो॑ भवन्तु वा॒जिनो॒ हवे॑षु
दे॒व-ता॑ता+++(=विस्तारे [यज्ञे])+++ मि॒त-द्र॑वस् स्व्-अ॒र्काः ।
ज॒म्भय॒न्तो ऽहिव्ँ॒ वृकँ॒ रक्षाँ॑सि॒
सने॑म्य्+++(→सदा)+++ अ॒स्मद् यु॑यवन्न्+++(←यु पृथक्करणे)+++ [35] अमी॑वाः+++(=रोगान्)+++ ॥

सर्वाष् टीकाः ...{Loading}...

Keith

May they be propitious to us when we call,
Among the gods, strong limbed, good praisers,
Destroying the serpent, the wolf, the Raksases,
Forever may they remove from us evil [2].

मूलम्

शन्नो॑ भवन्तु वा॒जिनो॒ हवे॑षु
दे॒वता॑ता मि॒तद्र॑वस्स्व॒र्काः ।
ज॒म्भय॒न्तोऽहिव्ँ॒वृकँ॒ ..
रक्षाँ॑सि॒ सने॑म्य॒स्मद्यु॑यवन्न् [35] अमी॑वाः ॥

भट्टभास्कर-टीका

13शं नो भवन्त्विति त्रिष्टुप् । अस्तारपङ्क्तिपक्षे देवतातेत्यादिः त्रिपदा त्रिष्टुप् ॥
नो ऽस्माकं शं भवन्तु सुखहेतवो भवन्तु हवेषु आह्वानेषु । पूर्ववदप् ।
वाजिनो ऽश्वाः देवताता देवास् तायन्ते विस्तार्यन्ते पृथक्पृथग् आराध्यन्ते ऽस्मिन्न् इति देवतातिर् यज्ञः । परमप्यनुनासिकलोपं बाधित्वा व्यत्ययेन ‘अनुनासिकस्य क्विझलोः’ इति पूर्वपदस्य दीर्घत्वम्, तत्रानुनासिकलोपः, पूर्ववत्सप्तम्या डादेशः । दासीभारादिः । मितद्रवः व्याख्यातम् ।
स्वर्काः शोभनगमनाः शोभनस्तुतयो वा । ‘नञ्सूभ्याम्’ इति स्वरः ।
जम्भयन्तः भञ्जयन्तः अहिम् आगत्य हन्तारं वृकं हिंसकं चोरादिकं रक्षांसि च । यद्वा - अहिमागत्य हन्तारं वृकमपहर्तारम् । कुक वृक आदाने, इगुपधात्कः । रक्षांसि धर्मविघ्नकारीणि । सनेमि क्षिप्रम् इत्येके, पुराणम् इत्यन्ये । अस्मदस्मत्तः युयवन् यावयन्तु पृथक्कुर्वन्तु ।

किञ्च - अमीवाः रोगांश्च युयवन्नित्येव । आगत्य हिंसन्तीत्यमीवाः । मीयतेराङ्पूर्वाद्वप्रत्ययः, उपसर्गस्य च ह्रस्वत्वं निपात्यते । यौतेर्लेटि शपश्लुः, ‘छन्दस्युभयथा’ इत्यार्धधातुकत्वात् ङित्त्वाभावे गुणः ॥

भास्करोक्त-विनियोगः

14प्रत्याधावतोनुमन्त्रयते - एष स्य इति जगती ॥

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒ष स्य+++(=स)+++ वा॒जी क्षि॑प॒णिन्+++(=कशां)+++ तु॑रण्यति+++(←तुरण् त्वरायाम्)+++
ग्री॒वाया॑म् ब॒द्धो, अ॑पिक॒क्ष +++(=भुजे)+++ आ॒सनि॑+++(=आस्ये)+++ ।
क्रतु॑न् दधि॒+++(←धा)+++-क्रा+++(←क्रम्)+++ अनु॑ स॒न्तवी॑त्वत्+++(←तु वृद्धौ)+++
प॒थाम् अङ्काँ॒स्य् अन्व् आ॒पनी॑फणत्+++(← फण् गतौ?)+++ ॥

सर्वाष् टीकाः ...{Loading}...

Keith

This steed speedeth his swift course,
Bound at the neck, the shoulder, and the mouth;
Displaying his strength Dadhikra
Springeth along the bends of the ways.

मूलम्

ए॒ष स्य वा॒जी क्षि॑प॒णिन्तु॑रण्यति
ग्री॒वाया॑म्ब॒द्धो अ॑पिक॒क्ष आ॒सनि॑ ।
क्रतु॑न्दधि॒क्रा अनु॑ स॒न्तवी॑त्वत्..
प॒थामङ्काँ॒स्यन्वा॒पनी॑फणत् ॥

भट्टभास्कर-टीका

स्योश्वः सामान्येनोच्यते । एष स्यः स एषः वाजी अश्वः । ‘स्यश्छन्दसि बहुलम्’ इति सुलोपः । क्षिपणिं कशां क्षिप्यतेनयेत्यनिः । तुरण्यति त्वरयन्न् अतीव शीघ्रं प्रस्थापयति । तुरण त्वरायाम्, कण्ड्वादिरन्तर्भावितण्यर्थः । विभक्तिव्यत्ययो वा । क्षिपण्या क्षिपणिप्रहारेण त्वरयते तूर्णं गच्छति । ग्रीवायां बद्धः उरोवङ्घ्रेण अपिकक्षे कक्षेपि कक्ष्यया बद्ध इत्येव । ‘सुप्सुपा’ इति समासः । यद्वा - कक्ष्यायामपीतः अपिकक्षः अवयवविशेषः यत्र कक्ष्यया बद्ध्यते । निरुदकादित्वादुत्तरपदान्तोदात्तत्वम् । आसनि आस्ये च बद्धः खलीनेन । ‘पद्दन्’ इत्यादिना आसन्नादेशः । एवमेषु स्थानेषु बद्धोप्य् एवं शीघ्रो भवतीति अन्यो ह्येषामेकत्रापि बद्धश्चलितुमपि न शक्नोतीति भावः ।

पुनश्च विशेष्यते - क्रतुं सादिनः प्रज्ञाम् अभिप्रायं कर्म वात्मीयं यन् महाश्वानाम् उचितं भवति ;
तत् अनुसन्तवीत्वत् अनुसंवर्धमानः अनुविदधान इति यावत् । अनुक्रमेण वा संवर्धयन् । तु इति वृद्धिकर्मा, ततो यङ्लुकि ‘गुणो यङ्लुकोः’ इति गुणे कृते अभ्यासस्येडागमः, शतरि ‘अभ्यस्तानामादिः’ इत्याद्युदात्तत्वम्, कृदुत्तरपदप्रकृतिस्वरत्वम् ।

दधिक्राः धारकान् पर्वतादीन् क्रामन् दूरस्थान् अपि सहसावक्रामन्निति यावत् । पर्वतादीन् माक्षि वा । ‘जनसन’ इत्यादिना विट्, ‘विड्वनोरनुनासिकस्यात्’ इत्यात्वम् ।

पुनश्च विशेष्यते - पथां मार्गाणां अङ्कांसि लक्ष्मस्थानीयानि कुटिलानि निम्नोन्नतत्वादीनि वा । अकि लक्षणे, असुन् । अन्वापनीफणत् अनुक्रमेण ऋजुत्वं समत्वं च पथाम् आपादयन् । दाधर्त्यादौ निपात्यते, पूर्ववत्स्वरः । एवं कुर्वन् तुरण्यति ॥

०३ उत स्मास्य ...{Loading}...

उत᳓ स्मास्य द्र᳓वतस् तुरण्यतः᳓+++(←तुरण् त्वरायाम्)+++
पर्णं᳓ न᳓ वे᳓र्+++(=पक्षिणः)+++ अ᳓नु वाति प्रगर्धि᳓नः+++(←गृध् काङ्क्षायाम्)+++ ।
श्येन᳓स्येव ध्र᳓जतो+++(←गतौ)+++ +++(मार्ग-)+++अङ्कसं᳓ प᳓रि
दधिक्रा᳓व्णः+++(←धा,क्रम्)+++ सहो᳓र्जा᳓ त᳓रित्रतः+++(←तरणे)+++ ॥

003 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - दधिक्राः
  • ऋषिः - वामदेवो गौतमः
  • छन्दः - जगती
Thomson & Solcum

उत᳓ स्म अस्य द्र᳓वतस् तुरण्यतः᳓
पर्णं᳓ न᳓ वे᳓र् अ᳓नु वाति प्रगर्धि᳓नः
श्येन᳓स्येव ध्र᳓जतो अङ्कस᳓म् प᳓रि
दधिक्रा᳓व्णः सह᳓ ऊर्जा᳓ त᳓रित्रतः

Vedaweb annotation

Strata
Normal


Pāda-label
genre M
genre M
genre M
genre M


Morph
asya ← ayám (pronoun)
{case:GEN, gender:M, number:SG}

drávataḥ ← √dru- (root)
{case:GEN, gender:M, number:SG, tense:PRS, voice:ACT}

sma ← sma (invariable)

turaṇyatáḥ ← √turaṇy- (root)
{case:GEN, gender:M, number:SG, tense:PRS, voice:ACT}

utá ← utá (invariable)

ánu ← ánu (invariable)

ná ← ná (invariable)

parṇám ← parṇá- (nominal stem)
{case:NOM, gender:N, number:SG}

pragardhínaḥ ← pragardhín- (nominal stem)
{case:GEN, number:SG}

vāti ← √vā- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}

véḥ ← ví- (nominal stem)
{case:GEN, gender:M, number:SG}

aṅkasám ← aṅkasá- (nominal stem)
{case:NOM, gender:M, number:SG}

dhrájataḥ ← √dhraj- (root)
{case:GEN, gender:M, number:SG, tense:PRS, voice:ACT}

iva ← iva (invariable)

pári ← pári (invariable)

śyenásya ← śyená- (nominal stem)
{case:GEN, gender:M, number:SG}

dadhikrā́vṇaḥ ← dadhikrā́van- (nominal stem)
{case:GEN, gender:M, number:SG}

sahá ← sahá (invariable)

táritrataḥ ← √tr̥̄- 1 (root)
{case:GEN, gender:M, number:SG, tense:PRS, voice:ACT}

ūrjā́ ← ū́rj- (nominal stem)
{case:INS, gender:F, number:SG}

पद-पाठः

उ॒त । स्म॒ । अ॒स्य॒ । द्रव॑तः । तु॒र॒ण्य॒तः । प॒र्णम् । न । वेः । अनु॑ । वा॒ति॒ । प्र॒ऽग॒र्धिनः॑ ।
श्ये॒नस्य॑ऽइव । ध्रज॑तः । अ॒ङ्क॒सम् । परि॑ । द॒धि॒ऽक्राव्णः॑ । स॒ह । ऊ॒र्जा । तरि॑त्रतः ॥

Hellwig Grammar
  • uta
  • [adverb]
  • “and; besides; uta [indecl.]; similarly; alike; even.”

  • smāsyasma
  • [adverb]

  • smāsyaasyaidam
  • [noun], genitive, singular, masculine
  • “this; he,she,it (pers. pron.); here.”

  • dravatasdravataḥdru
  • [verb noun], genitive, singular
  • “liquefy; melt; melt; flee; run; run; vanish; run; rush; dissolve; dissolve.”

  • turaṇyataḥturaṇy
  • [verb noun], genitive, singular
  • “rush.”

  • parṇaṃparṇamparṇa
  • [noun], accusative, singular, neuter
  • “leaf; feather; parṇa [word]; leaf; wing.”

  • na
  • [adverb]
  • “not; like; no; na [word].”

  • verveḥvi
  • [noun], genitive, singular, masculine
  • “vi; bird; vi.”

  • anu
  • [adverb]
  • “subsequently; behind; along; towards; because.”

  • vāti
  • [verb], singular, Present indikative
  • “blow; blow; emit.”

  • pragardhinaḥpragardhin
  • [noun], genitive, singular, masculine

  • śyenasyevaśyenasyaśyena
  • [noun], genitive, singular, masculine
  • “hawk; bird of prey; falcon; Śyena; eagle; śyena [word]; Śyena.”

  • śyenasyevaiva
  • [adverb]
  • “like; as it were; somehow; just so.”

  • dhrajatodhrajataḥdhraj
  • [verb noun], genitive, singular
  • “rush.”

  • aṅkasamaṅkasa
  • [noun], accusative, singular, masculine

  • pari
  • [adverb]
  • “from; about; around.”

  • dadhikrāvṇaḥdadhikrāvan
  • [noun], genitive, singular, masculine
  • “Dadhikrā.”

  • sahorjāsaha
  • [adverb]
  • “together; together; with; jointly; together; saha [word]; along.”

  • sahorjāūrjāūrj
  • [noun], instrumental, singular, feminine
  • “strength; refreshment; vigor; food; strengthening.”

  • taritrataḥtartar√tṛ
  • [verb noun], genitive, singular

सायण-भाष्यम्

उत स्म अपि च खलु द्रवतः गच्छतः तुरण्यतः त्वरमाणस्य प्रगर्धिनः प्रकर्षेणाभिकाङ्क्षतः अस्य दधिक्राव्णः देवस्य गतिं वेः गन्तुः पक्षिणःपर्णं गमनं पत्रं वा अनुसृत्य यथा वान्त्यन्ये पक्षिणस्तद्वत् अनु वाति सर्वो वेगवान् जनः । सर्वेषामपि शीघ्रगामीत्यर्थः । किंच ध्रजतः गच्छतः तरित्रतः तारयतोऽन्यान् ॥ अन्तर्भावितण्यर्थोऽयम् ॥ श्येनस्येव अङ्कसं पादाधारम् उरःप्रदेशं वा परि परितः ऊर्जा बलेन निमित्तेनान्नार्थं वा सह एकीभूय । संघेन गच्छन्तीति शेषः ॥

भट्टभास्कर-टीका

15उत स्मेत्यादि ॥ स्मेति पादपूरणे । अपि चास्य द्रवतः गच्छतः तुरण्यतः त्वरमाणस्य । ‘शतुरनुमः’ इति षष्ठ्या उदात्तत्वम् ।
अस्येत्य् अन्वादेशानुदात्तत्वम् ।
प्रगर्धिनः गन्तव्याक्रमणाभिकाङ्क्षिणः अस्याश्वस्य +अङ्कसं देहासक्तं चामरादिकं वस्त्रादिकं चास्य लक्षणभूतं तत्सर्वं परितः सर्वस्मिन्न् अपि देहे विद्यमानं अनुवाति गच्छति ।
अङ्कतेर् औणादिकोसिच्प्रत्ययः ।

कस्येव किमिव चेत्यत्राह -
श्येनस्येव वेः पक्षिणः ध्राजतो गच्छतः । ध्रज गतौ । पर्णं न पत्रमिव पत्रार्थं प्रगर्धिनः आमिषार्थिनः । अनेकेवशब्दाद्वाक्यार्थोपमा भवतीति द्वयोर् उपमार्थीययोर् उपादानम् । अश्वो विश्ष्यते - दधिक्राव्णः व्याख्यातः । ऊर्जा बलेन सह तरित्रतः भृशं तरतः । यद्वा - ऊर्जा अन्नेन आमिषादिना सह तरतः श्येनस्येव । वेगवत्त्वातिशय-प्रदर्शनार्थं चेदम् । तरतेर् यङ्लुगन्तस्य तत्रैव निपात्यते, ‘शतुरनुमः’ इत्येतद्बाधित्वा परत्वात् ‘अभ्यस्तानामादिः’ इत्याद्युदात्तत्वं भवति । ‘सावेकाचः’ इत्यूर्जस्तृतीयाया उदात्तत्वम् ॥

Wilson

English translation:

“And after him who is quick-going, hastening, eager (to arrive at his goald, men) follow (as other birds pursue) the flight of a swift (bird) striving together to keep up by the side of Dadhikrāvan. the transporter (of others) as swift as a hawk.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Yajus. 9.15; after him who is: asya dravatas turaṇyataḥ parṇam nādādhāram uraḥ pradeśam vā of Dadhikrāvaṇ, together with strenght, or for the sake of strength together, enabling to cross; aṅkasam pari = a horse’s trappings, the cloth, tail, vastracamarādikam, over all his body, which fly open as the horse gallops, like the wings of a bird, the horse has the speed of a hawk

Jamison Brereton

And (the wind) fans up his “feathers” [=mane], like the feathers of a bird in greedy pursuit, while he runs and rushes headlong,
while he swoops like a falcon around the curving (racecourse), while he keeps advancing with his vigor—Dadhikrāvan.

Jamison Brereton Notes

The imagery of this vs. picks up the ‘flying’ (pataṃgaráḥ) of 2c.

In pāda a drávataḥ both looks back to dravó dravaráḥ in 2c (all derived from the same root and with dravaráḥ metrically identical to and in the same metrical position as drávataḥ) and forward to dhrájataḥ in 3c (same metrical shape and position, rhyming forms).

Most tr. give ánu vāti additive semantics, ‘blows after, blows following’, but elsewhere this lexeme means ‘fan (flames)’ (I.148.4, IV.7.10, VII.3.2, X.142.4). Here I think it’s used figuratively, of the wind ruffling up mane/feathers. The standard tr.

(including mine) supply ‘wind’ as the subj.

As both Geldner and Oldenberg point out, the parṇám ‘wing, feather(s)’ in the simile lacks an overt correspondent in the frame, where we’d expect a body part of the horse. Oldenberg suggests quick feet or (from Ludwig) the mane. I assume the latter, and in fact I think that parṇám can be read with both simile and frame. In the simile parṇám is used as a collective for the bird’s feathers, in the frame metaphorically for a horse’s mane. (A Google search of “feathery mane” produces respectable results, including a snatch of John Keats, “the eagle’s feathery mane” [“Hymn to Apollo”], which shows the metaphor going the opposite direction.) pragardhín- ‘greedy’ is appropriate for both the bird and Dadhikrā, as Geldner also points out: cf. IV.38.3 paḍbhír gṛ́dhyantam.

I follow Schaeffer (Intens. 131) in taking aṅkasám as referring to the curving racetrack rather than, with some, as a curvy part of a horse. Since áṅkāṃsi in the next vs. clearly refers to the racetrack, it’s unlikely that a related word would have an entirely different referent in such close proximity.

03-04 ...{Loading}...
Jamison Brereton Notes

These two vss. revisit the utá sma opening that characterized the middle vss. of IV.38.

There is also a concentration of intensives: 3d táritrataḥ, 4c saṃtā́vīt u vat, 4d āpaniphaṇat – appropriate to the ever-increasing speed and the intense repetitive movements of the horse racing to the finish line.

Griffith

His pinion, rapid runner, fans him m his way, as of a bird that hastens onward to its aim,
And, as it were a falcon’s gliding through the air, strikes Dadhikravan’s side as he speeds on with might.

Keith

After him as he hasteneth in triumphant speed
Bloweth the wind as after the wing of the bird,
Of the impetuous eagle, (after him) Dadhikravan,
As in his might he crosseth the winding ways.

Geldner

Und hinter ihm, dem Laufenden, Vorauseilenden weht der Wind hinterdrein wie hinter dem Flügel eines beutegierigen Vogels, wenn Dadhikravan wie ein Adler sausend mit seiner Kraft den Rank abgewinnt.

Grassmann

Und dieses schnellen Läufers Fittich fliegt dahin, wie eines Vogels, der begehrlich vorwärts eilt, Des Adlers, der im Bogen um den Himmel fliegt, des Dadhikra, der kräftig durch die Lüfte dringt.

Elizarenkova

И еще: вслед за ним, бегущим, рвущимся вперед,
Веет (ветер), как за крылом птицы, жадно бросающейся вперед,
Когда Дадхикраван, мчась, словно сокол,
Благодаря (своей) силе превосходит кривую (противника).

अधिमन्त्रम् (VC)
  • दधिक्रावा
  • वामदेवो गौतमः
  • स्वराट्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को अगले मन्त्र में कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - जो जन (अङ्कसम्) लक्षण का (ध्रजतः) वेग से जाते हुए (प्रगर्धिनः) अत्यन्त लोभी (श्येनस्येव) वाज पक्षी के सदृश (ऊर्जा) पराक्रम से (तरित्रतः) मार्ग के पार उतारने और (दधिक्राव्णः) धारण करनेवाले की धारणा करनेवाले वायु (अस्य, उत) और इस (द्रवतः) दौड़ते तथा (तुरण्यतः) शीघ्र चलते हुए की (पर्णम्) प्रजापालना के (न) सदृश और (वेः) पक्षी के सदृश राजा की प्रजापालना के (स्म) ही (परि) सब प्रकार (अनु, वाति) पीछे चलता है उसके (सह) साथ मन्त्री जन सम्मति करें ॥३॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है । हे मनुष्यो ! जिस राजा की वाज पक्षिणी के सदृश सेना पराक्रमवाली है, वह उसके द्वारा प्रजा का पालन करके डाकू चोरों का निवारण करे ॥३॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: यो जनोऽङ्कसं ध्रजतः प्रगर्धिनः श्येनस्येवोर्जा तरित्रतो दधिक्राव्णोऽस्योत द्रवतस्तुरण्यतः पर्णं न वेर्न राज्ञः पर्णं स्म पर्य्यनुवाति तेन सह सर्वेऽमात्या मन्त्रयन्तु ॥३॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (उत) अपि (स्म) एव (अस्य) (द्रवतः) धावतः (तुरण्यतः) सद्यो गच्छतः (पर्णम्) प्रजापालनम् (न) इव (वेः) पक्षिणः (अनु) (वाति) अनुगच्छति (प्रगर्धिनः) प्रलुब्धस्य (श्येनस्येव) (ध्रजतः) वेगेन धावतः (अङ्कसम्) लक्षणम् (परि) सर्वतः (दधिक्राव्णः) धर्त्तृधरस्य वायोः (सह) (ऊर्जा) पराक्रमेण (तरित्रतः) अध्वनस्तरिता ॥३॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - अत्रोपमालङ्कारः । हे मनुष्या ! यस्य राज्ञः श्येनेव सेना पराक्रमिणी वर्त्तते स तया प्रजापालनं कृत्वा दस्यून्निवारयेत् ॥३॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या मंत्रात उपमालंकार आहे. हे माणसांनो ! ज्या राजाची सेना श्येन पक्षिणीप्रमाणे पराक्रमी असते त्याने त्याद्वारे प्रजेचे पालन करून दुष्ट चोरांचे निवारण करावे. ॥ ३ ॥

भास्करोक्त-विनियोगः

16रथविमोचनीयं जुहोति - आ मा वाजस्येति त्रिष्टुभा ॥

विश्वास-प्रस्तुतिः ...{Loading}...

मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒द्
आ द्यावा॑पृथि॒वी वि॒श्व-श॑म्-भू ।
मा॑ गन्ताम् पि॒तरा॑ [36] मा॒तरा॒
चा ऽऽमा॒ सोमो॑ अमृत॒त्वाय॑ गम्यात्

सर्वाष् टीकाः ...{Loading}...

Keith

May there come to me the instigation of strength;
May there come sky and earth with all healing;
Come to me father [3] and mother;
May Soma come to me for immortality.

मूलम्

आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒दा द्यावा॑पृथि॒वी वि॒श्वश॑म्भू ।
आ मा॑ गन्ताम्पि॒तरा॑ [36] मा॒तरा॒ चाऽऽमा॒ सोमो॑ अमृत॒त्वाय॑ गम्यात् ॥

भट्टभास्कर-टीका

वाजस्यान्नस्य प्रसवः प्रसूतिः उत्पत्तिः मा मां आजगम्यात् आगच्छेत् । लिङि शपश्श्लुः । अन्नं ममोत्पद्यतामित्यर्थः । किङ्च - द्यावापृथिवी द्यावापृथिव्यौ च मामागच्छेताम् । विश्वशम्भू विश्वस्य शं सुखं भावयन्त्यौ । मितद्व्रादित्वाड्डुप्रत्ययः । क्विपि वा द्विवचनस्य पूर्वसवर्णदीर्घत्वम् ।

किञ्च - पितरा मातरा च पिता माता च मामागच्छेताम् । लेटि शपो लुक्, ‘पितरा मातरा च छन्दसि’ इति निपात्यते । यद्वा - उभयत्रापि ‘सुपां सुलुक्’, इति सोराकारः ।
किञ्च - सोमश्च मामृतत्वाय अमरणत्वाय गम्यादागच्छेत् । लिङि शपो लुक् । आशिषि लिङ्वा ॥

भास्करोक्त-विनियोगः

17रथयुजोश्वान्नैवारं चरुमवघ्रापयति - वाजिन इति यजुषा ॥

विश्वास-प्रस्तुतिः

वाजि॑नो वाज-जितो॒
वाजँ॑ सरि॒ष्यन्तो॒
वाज॑ञ् जे॒ष्यन्तो॒
बृह॒स्पते॑र् भा॒गम् अव॑ जिघ्रत

Keith

O ye steeds, prize winning, about to run for the prize, about to win the prize, do ye touch Brhaspati’s portion.

मूलम्

वाजि॑नो वाजजितो॒ वाजँ॑ सरि॒ष्यन्तो॒ वाज॑ञ्जे॒ष्यन्तो॒ बृह॒स्पते॑र्भा॒गमव॑ जिघ्रत ।

भट्टभास्कर-टीका

हे वाजिनः अश्वाः वाजजितः वाजमन्नं जेतुमुद्यताः । ‘विभाषितं विशेषवचने बहुवचनम्’ इति पूर्वस्याविद्यमानवत्त्वाभावः । वाजं वाजहेतुमाजिं सरिष्यन्तस्सर्तुकामाः सृत्वा च वाजमाजिं जेष्यन्तो जेतुकामाः । उभयत्रापि हेतौ शता । सरणार्थं जयार्थं चेत्यर्थः । बृहस्पतेः बार्हस्पत्यस्य चरोर्नैवारस्य भागमवजिघ्रत । बृहस्पतिशब्दे सुट्स्वरावुक्तौ । ‘कर्षात्वतः’ इति भागशब्दोन्तोदात्तः ॥

भास्करोक्त-विनियोगः

18आगतवतोवघ्रापयति ॥

विश्वास-प्रस्तुतिः

वाजि॑नो वाजजितो॒
वाजँ॑ ससृ॒वाँसो॒
वाज॑ञ् जिगि॒वाँसो॒
बृह॒स्पते॑र् भा॒गे नि मृ॑ढ्वम् +++(←मृज् शौचे)+++ ।

Keith

O ye steeds, prize winning, that have run for the prize, that have won the prize, do ye be pure in Brhaspati’s portion.

मूलम्

वाजि॑नो वाजजितो॒ वाजँ॑ ससृ॒वाँसो॒ वाज॑ञ्जिगि॒वाँसो॒ बृह॒स्पते॑र्भा॒गे नि मृ॑ढ्वम् ।

भट्टभास्कर-टीका

हे वाजिनः वाजजितः वाजं ससृवां सः सृतवन्तः वाजं जिगिवांसः जितवन्तः । ‘अभ्यासाच्च’ इति कुत्वम् । बृहस्पतेर्भागे निमृढ्वं निमार्जयध्वं शुद्धा भवत । मृजूष् शौचालङ्कारयोः, चुरादिराधृषीयः अनुदात्तेत् अकर्मकः, ‘बहुलं छन्दसि’ इति शपो लुक् । मार्ष्टेर्वा व्यत्ययेनात्मनेपदम् । आत्मानं शोधयतेति ॥

भास्करोक्त-विनियोगः

19दुन्दुभीन् विमुच्यमानान् अनुमन्त्रयते - इयं व इति यजुषा ॥

विश्वास-प्रस्तुतिः

इ॒यव्ँ व॒स् सा स॒त्या स॒न्धा ऽभू॒त्
याम् इन्द्रे॑ण स॒म्-अध॑ध्व॒म्+++(=कृतवन्तः)+++ ।

Keith

True hath been the compact
That ye did make with Indra.

मूलम्

इ॒यव्ँव॒स्सा स॒त्या स॒न्धाऽभू॒द्
यामिन्द्रे॑ण स॒मध॑ध्व॒म् ।

भट्टभास्कर-टीका

हे दुन्दुभयः इयं वो युष्माकं सा सन्धा सन्धानं सत्या अमोघफलाभूत् ।

केत्याह - यां सन्धां इन्द्रेण समधध्वं इन्द्रेण सह कृतवन्तः ‘इन्द्राय वाचं वदत’ इत्यादिका सा सत्याभूदिति ।

विश्वास-प्रस्तुतिः

अजी॑जिपत वनस्पतय॒ +++(दुन्दुभिरूपाः)+++! इन्द्रव्ँ॒ वाजव्ँ॒, +++(विश्रान्त्यै)+++ विमु॑च्यध्वम् ॥ [37]

Keith

Ye have made Indra win the prize, O trees; now be ye loosed.

मूलम्

अजी॑जिपत वनस्पतय॒! इन्द्रव्ँ॒वाजव्ँ॒विमु॑च्यध्वम् ॥ [37]

भट्टभास्कर-टीका

किञ्च - हे वनस्पतयः । विकारे प्रकृतिशब्दः । वनस्पतिविकारा हि दुन्दुभयः इन्द्रं वाजम् अजीजिपत इन्द्रं वाजस्यान्नस्य जेतारं कृतवन्तः । यथोक्तं पूर्वं ‘इन्द्रं वाजं जापयत’ इति । तच्च तथा कृतवन्तस्थेत्यर्थः । सम्प्रति विमुच्यध्वं विश्राम्यत विमुक्ताः । जयतेर्णौ ‘क्रीङ्जीनां णौ’ इत्यात्त्वम्, वर्णव्यत्ययेन धातोरिकारः । वनस्पतिशत्ब्दः पारस्करादिः ॥

इति सप्तमे अष्टमोनुवाकः ॥