विस्तारः (द्रष्टुं नोद्यम्)
सौम्यं वाजपेयकाण्डम्
वाजपेयाध्वर्यवे रथसंस्काराः
रथोपावहरण-विषय-मन्त्राभिधानम्
सावित्रहोममन्त्रः
- वाजपेयसङ्गता आध्वर्यवा मन्त्राः
१ महासतो बृहती २ द्विपदा गायत्री ३ अतिजगती ४ पुरउष्णिक् ५ अनुष्टुप् ६ उष्णिक् सोमऋषिः
भास्करोक्त-विनियोगः
1अथ वाजपेयकाण्डं सौम्यम् । तत्र सावित्रं जुहोति - देवसवितरिति जगत्या ॥
‘सावित्रं जुहोति कर्मणःकर्मणः पुरस्तात्’ इत्यादि ब्राह्मणम् ।
विश्वास-प्रस्तुतिः ...{Loading}...
देव॑ सवित॒ᳶ प्रसु॑व, य॒ज्ञम् प्रसु॑व,
य॒ज्ञप॑ति॒म् भगा॑य, दि॒व्यो ग॑न्ध॒र्वः +++(यो ऽसि)+++।
के॒त॒+++(=ज्ञान)+++-पूᳵ केत॑न् नᳶ पुनातु
वा॒चस्पति॒र् वाच॑म्, +++(यो)+++ अ॒द्य स्व॑दाति+++(←स्वद्)+++ नः ॥
सर्वाष् टीकाः ...{Loading}...
Keith
O god Savitr, instigate the sacrifice, instigate the lord of the sacrifice for good luck; may the divine Gandharva who purifieth thoughts purify our thought; may the lord of speech to-day make sweet our utterance.
मूलम्
देव॑ सवित॒ᳶ प्रसु॑व य॒ज्ञम्प्रसु॑व य॒ज्ञप॑ति॒म्भगा॑य दि॒व्यो ग॑न्ध॒र्वः ।
के॒त॒पूᳵ केत॑न्नᳶ पुनातु वा॒चस्पति॒र्वाच॑म॒द्य स्व॑दाति नः ॥
भट्टभास्कर-टीका
हे देव सवितः सर्वस्य प्रसवितः प्रसुव प्रेरय प्रवर्तय यज्ञं वाजपेयं उदयादिभिः । यज्ञपतिं यजमानं च प्रसुव भगाय ऐश्वर्याय अनुष्ठानसामर्थ्याय अन्नाय वा । अन्नेन हि यागस्समाप्यते । दिव्यः दिवमर्हति ‘छन्दसि च’ इति यः । गन्धर्वः गामुदकं धारयिता वृष्टिद्वारेण यागस्य प्रवर्तयितेति । एवम् ईदृशस्त्वं प्रसुवेति ।
केतपूः केतस्यान्नस्य ज्ञानस्य वा प्रजाया वा शोधयिता वायुः सोस्माकं केतं पुनातु पवमानः वाचस्पतिर् देवः प्रजापतिर् मनो वा । सोपि नो ऽस्माकं वाचं अद्यास्मिन् कर्मणि स्वदाति स्वदयतु सुमतिं श्रवणीयां करोतु । लेट्याडागमः ॥
भास्करोक्त-विनियोगः
2रथम् उपावहरति - इन्द्रस्येति यजुषा ॥
इन्द्र॑स्य॒ वज्रो॑ऽसि॒ ...{Loading}...
इन्द्र॑स्य॒ वज्रो॑ऽसि॒ ...{Loading}...
विश्वास-प्रस्तुतिः
इन्द्र॑स्य॒ वज्रो॑ऽसि॒,
वार्त्र॑घ्नः ।
Keith
Thou art the thunderbolt of Indra,
slaying obstructions,
Thou art the bolt of Indra [2] slaying foes;
मूलम्
इन्द्र॑स्य॒ वज्रो॑ऽसि॒
वार्त्र॑घ्नः ।
भट्टभास्कर-टीका
इन्द्रस्य यो वज्रस्स एव त्वमसि । अमित्रवधसाधनत्वसामर्थ्यात् भाव [तद्भाव?] उपचर्यते । यद्वा - वजित्वा गतो [वज गतौ] वज्रः । औणादिको रः [रन्] । रथ उच्यते । इन्द्रस्य रथोसि [सीति] स्तूयते । इन्द्रस्य रथो विशेष्यते - वार्त्रघ्नः वृत्रघ्नोयं वार्त्रघ्नः । उत्सादित्वादञ् । यं रथमारुह्य वृत्रमसुरमिन्द्रो हतवान् स एव रथस्त्वमसीति ।
यो वृत्रं हतवान् तस्येन्द्रस्य वज्रो वृत्रवधसाधनभूतो रथमसि ॥
विश्वास-प्रस्तुतिः
त्वया॒ ऽयव्ँ वृ॒त्रव्ँ व॑ध्यात् ॥
Keith
with thee may this one smite Vrtra.
with thee may he slay his foe.
मूलम्
त्वया॒ऽयव्ँवृ॒त्रव्ँव॑ध्यात् ॥
भट्टभास्कर-टीका
तस्मात् त्वयाऽयं यजमानो वृत्रं वारकं छादयितारममित्रं वध्यात् । आशिषि लिङ् । ‘हनो वध लिङि’ इति वधादेशः ॥
तस्मात्तादृशेन त्वयाऽयं यजमानो वृत्रं वध्याद् इति ॥
भास्करोक्त-विनियोगः
2अन्तर्वेद्य् अभ्यावर्तयति - वाजस्येति जगत्या ॥
विश्वास-प्रस्तुतिः ...{Loading}...
वाज॑स्य॒ नु प्र॑स॒वे - मा॒तर॑म् म॒हीम्
अदि॑ति॒न् नाम॒ वच॑सा करामहे ।
यस्या॑म् इ॒दव्ँ विश्व॒म् भुव॑नम् आवि॒वेश॒,
तस्या॑न् नो दे॒वस् स॑वि॒ता +++(रथस्य)+++ धर्म॑ साविषत्+++(←षू प्रसवे)+++ ॥
सर्वाष् टीकाः ...{Loading}...
Keith
On the instigation of strength, the mother, the mighty one,
We shall proclaim with our speech, Aditi, by name,
Into whom all this world hath entered;
In her may the god Savitr instigate right for us.
मूलम्
वाज॑स्य॒ नु प्र॑स॒वे मा॒तर॑म्म॒हीमदि॑ति॒न्नाम॒ वच॑सा करामहे ।
यस्या॑मि॒दव्ँविश्व॒म्भुव॑नमावि॒वेश॒ तस्या॑न्नो दे॒वस्स॑वि॒ता धर्म॑ साविषत् ॥
भट्टभास्कर-टीका
वाजस्य +अन्नस्य प्रसवे उत्पत्तौ उत्पत्त्यर्थम् ।
थाथादिनोत्तरपदान्तोदात्तत्वम् ।
मातरं अन्नस्य निर्मातारं महीं पृथिवीं अदितिं नाम । अदितिर् अदीना ऽखण्डना वा । एवं स्वभाववन् नामधेयां वचसा स्तुत्या करामहे कुर्महे । अदितिस्वभावामेनामन्नप्रसवनार्थं स्तुम इत्यर्थः । व्यत्ययेन शप् ।
किञ्च - यस्याम् इदं विश्वं भुवनं भूतजातं आविवेश उपरि सुखेन वर्तते । तस्याम् अस्यां नो ऽस्माकं धर्म धारणं रथस्य देवस् सविता साविषत् अनुजानातु । सुवतेर्लेटि ‘सिब्बहुलं लेटि’ इति सिब्विकरणस्य लुक्, इतश्च लोपः, गुणे कृते छान्दसं दीर्घत्वम् । यद्वा - छान्दसो लुङ्, सिचि वृद्धिः, ईटोपवादोडागमः ‘अमाङ्योगेपि’ इति धातोरडभावः ॥
मूलम् (संयुक्तम्)
अ॒प्सु [32]अ॒न्तर॒मृत॑म॒प्सु भे॑ष॒जम॒पामु॒त प्रश॑स्ति॒ष्वश्वा॑ भवथ वाजिनः ॥
भास्करोक्त-विनियोगः
4अश्वानप्सु स्नापयति - अप्स्वन्तरिति पुरउष्णिहा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒प्स्व् अ॑न्तर् अ॒मृत॑म्, अ॒प्सु भे॑ष॒जम्,
अ॒पाम् उ॒त प्रश॑स्ति॒षु … ।
अश्वा॑! भवथ वाजिनः! ॥
सर्वाष् टीकाः ...{Loading}...
Keith
In the waters [1] is ambrosia, in the waters is medicine;
Through the guidance of the waters
Be ye steeds, O ye that are strong.
मूलम्
अ॒प्स्व॑न्तर॒मृत॑म॒प्सु भे॑ष॒जम॒पामु॒त प्रश॑स्ति॒षु ।
अश्वा॑ भवथ वाजिनः ॥
भट्टभास्कर-टीका
अप्स्व् अन्तर् अममृतं वर्तते अमरणत्वम् ।
अप्स्व् एव भेषजं अमृतत्वस्य साधनम् । ‘ऊडिदम्’ इति सप्तम्या उदात्तत्वम् । पूर्वत्र ‘उदात्तस्वरितयोः’ इति संहितायां स्वरितत्वम् । अमृतस्य स्वर उक्तः ।
तस्माद् या अन्या अप्य् अपां प्रशस्तयः प्रशस्तगुणाः तासु सर्वास्वपि हे अश्वा भवथ तत्सम्बन्धाद्यूयमपि तत्स्वभावा भवथ । हे वाजिनः अन्नवन्तः ।
अत्र पादादित्वाद् अश्वा इति न निहन्यते । षाष्ठिकमामन्त्रिताद्युदात्तत्वम् ; तस्य च व्यत्ययेन विद्यमानवत्त्वाभावः । यद्वा - नाश्वा इत्यामन्त्रितम् । अपां प्रशस्तिष्वश्वा व्याप्तिमन्तो भवथ हे वाजिन इति । सर्वमिष्टं सिद्धम् । ‘तादौ च निति’ इति गतेः प्रकृतिस्वरत्वम् ॥
भास्करोक्त-विनियोगः
5 प्रष्टि-वाहिनं रथं युनक्ति - वायुर् वा त्वेत्यनुष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
वा॒युर् वा॑ त्वा॒, मनु॑र् वा त्वा,
गन्ध॒र्वास् स॒प्त-विँ॑शतिः +++(खे नक्षत्राणि)+++।
ते अग्रे॒ +++(सौरम्)+++ अश्व॑म् आयुञ्ज॒न्
ते अ॑स्मिञ् ज॒वम् आद॑धुः ॥
सर्वाष् टीकाः ...{Loading}...
Keith
Or Vayu thee, or Manu thee,
The seven and twenty Gandharvas;
They first yoked the steed;
They placed swiftness in it.
मूलम्
वा॒युर्वा॑ त्वा॒ मनु॑र्वा त्वा गन्ध॒र्वास्स॒प्तविँ॑शतिः ।
ते अग्रे॒ अश्व॑मायुञ्ज॒न्ते अ॑स्मिञ्ज॒वमाद॑धुः ॥
भट्टभास्कर-टीका
वा-शब्दस् समुच्चये, विकल्पासम्भवात् ।
प्राणो मनुः । तद्वानित्येके । प्रसिद्धा [सिद्ध] एवेत्यन्ये । वायुश् च मनुश् च गन्धर्वाश् च ।
कति पुनस् ते? पञ्चविंशतिर् इति ब्रूमः ।
यद् आहुः - सप्तविंशतिस् त इति ।
सर्वे सम्भूय वायु-मनुभ्यां सह सप्तविंशतिसङ्ख्यास्त इत्यर्थः ।
ते सर्वेपि अग्रं प्रथमम् अस्मत्तः पूर्वम् अश्वं व्याप्नुवन्तं आयुञ्जन् अयुञ्जत ।
ततोहं युनज्मीति ।
छान्दसे लङि छान्दस आडागमः । अटि वा वर्णव्यत्ययेन दीर्घत्वम् ।
किञ्च - ते वाय्वादयोस्मिंस्त्वयि जवं वेगं चादधुः आदधतु । छान्दसो लिट् । वायुश्च त्वां मनुश्च त्वां गन्धर्वाश्च त्वामिति प्रत्येकं योगसम्बधख्यापनाय युष्मच्छब्दावृत्तिः ॥
भास्करोक्त-विनियोगः
अश्व आमन्त्र्यते -
मूलम् (संयुक्तम्)
अपा॑न्नपादाशुहेम॒न्य ऊ॒र्मिᳵ क॒कुद्मा॒न्प्रतू॑र्तिर्वाज॒सात॑म॒स्तेना॒यव्ँवाजँ॑ सेत् ॥
विश्वास-प्रस्तुतिः ...{Loading}...
+++(अश्व!)+++ अपा॑न्नपाद्! आशुहेम॒न्! य ऊ॒र्मिᳵ …
क॒कुद्मा॒न्, प्रतू॑र्तिर्, वाज॒सात॑मः ।
तेना॒यव्ँ वाजँ॑ सेत्+++(←सिध्)+++ ॥
सर्वाष् टीकाः ...{Loading}...
Keith
Child of the waters, swift one,
the towering on rushing wave most fain to win the prize,
with it may he win the prize.
मूलम्
अपा॑न्नपादाशुहेम॒न् य ऊ॒र्मिᳵ …
क॒कुद्मा॒न्प्रतू॑र्तिर्वाज॒सात॑मः ।
तेना॒यव्ँवाजँ॑ सेत् ॥
भट्टभास्कर-टीका
द्वितीयस्य द्वादशाक्षरत्वात्, ऊर्मिरिति प्रथमपादान्तः ।
अश्व आमन्त्र्यते - हे अपान्नपात् अपां नप्तश्चतुर्थः । यथा - ‘अद्भ्यः पृथिवी पृथिव्या ओषधयः ओषधीभ्योन्नमन्नादश्वः’ इति । हे आशुहेमन् आशुगन्तः । हि गतौ, ‘अन्येभ्योपि दृश्यते’ इति मनिन् । ‘सुबामन्त्रिते’ इति पराङ्गवद्भावात् षष्ठ्यामन्त्रितसस्मुदायस्य षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । तस्य ‘नामन्त्रिते समानाधिकरणे’ इत्यविद्यमानत्त्वनिषेधात्परं न निहन्यते । ऊर्मिश्छादयिता अरणशीलो वा यस्तरङ्गः ककुद्मान् प्रधानभूतः ककुत्सम्बन्धी वा प्रतूर्तिः त्वयि प्रतीर्णः त्वामभिगतः । नसत्तनिषत्तादौ निष्ठायां निपातितं निष्ठावद्भावात्क्तिनोपि भवति, ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् । वाजसातमः अन्नस्य सम्भक्तृतमः दातृतमः । ‘जनसनखन’ इति विट्, ‘विड्वनोः’ इत्यात्वम् । तेन तादृशेनायं वाजमन्नं सेत् साधय यजमानस्य हे अश्व । लिङ्लेटोरन्यतरः, विकरणस्य लुक् । यद्वा - अयं यजमानः तेन त्वदीयेन वाजं सेत्साधयतु बध्नातु वा । षिञ् बन्धने ॥
भास्करोक्त-विनियोगः
7विष्णुक्रमान् क्रमते, रथं यजमानोभ्येति - विष्णोरिति ॥
विष्णोः क्रमः ...{Loading}...
मूलम् (संयुक्तम्)
विष्णो॒ᳵ क्रमो॑ऽसि॒ विष्णोः॑ क्रा॒न्तम॑सि॒ विष्णो॒र्विक्रा॑न्तमसि ।
विश्वास-प्रस्तुतिः
विष्णो॒ᳵ क्रमो॑ऽसि ।
Keith
Thou art the stepping of Visnu,
मूलम्
विष्णो॒ᳵ क्रमो॑ऽसि ।
भट्टभास्कर-टीका
विष्णोर्भगवत एव क्रमोसि गमनसाधनत्वात् । प्रकृष्टस्य विष्णोः क्रमरूपेण स्तूयते रथः विष्णोः क्रमवत् भविष्यसि जयहेतुरिति ।
विश्वास-प्रस्तुतिः
विष्णोः॑ क्रा॒न्तम॑सि ।
Keith
thou art the step of Visnu,
मूलम्
विष्णोः॑ क्रा॒न्तम॑सि ।
भट्टभास्कर-टीका
विष्णोः क्रान्तमसि यत्पूर्वं विष्णुना कृतं क्रमणं, तदेव त्वमसि तद्वज्जयसाधनं भविष्यसि अस्माकम् ।
विश्वास-प्रस्तुतिः
विष्णो॒र्विक्रा॑न्तमसि ।
Keith
thou art the stride of Visnu.
मूलम्
विष्णो॒र्विक्रा॑न्तमसि ।
भट्टभास्कर-टीका
विष्णोर्वीक्रान्तं विजयः, तदेव त्वमसि तद्वद्विजयसाधनत्वात् । पूर्ववद्गतिस्वरः ॥
भास्करोक्त-विनियोगः
8रथस्य चक्रे पक्षसी वाभिमृशति - अङ्काविति त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ङ्कौ+++(=लक्षणभूतौ)+++ न्य॒ङ्काव्+++(←नि+अञ्च्)+++ अ॒भितो॒ रथय्ँ॒ यौ +++(चक्रौ/ पक्षौ)+++
ध्वा॒न्तव्ँ+++(←ध्वन्)+++ वा॑ता॒ग्रम् अनु॑ स॒ञ्चर॑न्तौ ।
दू॒रे-हे॑तिर् इन्द्रि॒यावा॑न् पत॒त्री
ते नो॒ ऽग्नय॒ᳶ पप्र॑यᳶ पारयन्तु ॥ [33]
सर्वाष् टीकाः ...{Loading}...
Keith
May the two Ankas, the two Nyankas, which are on either side of the chariot, Speeding on with the rushing wind,
The far-darting, powerful one, the winged one,
The fires which are furtherers, further us.
मूलम्
अ॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथय्ँ॒यौ
ध्वा॒न्तव्ँवा॑ता॒ग्रमनु॑ स॒ञ्चर॑न्तौ ।
दू॒रेहे॑तिरिन्द्रि॒यावा॑न्पत॒त्री
ते नो॒ऽग्नय॒ᳶ पप्र॑यᳶ पारयन्तु ॥ [33]
भट्टभास्कर-टीका
अङ्कौ लक्षणभूतौ रथस्य । अकि लक्षणे, करणे घञ् । अञ्चतेर्वा । याभ्यां रथोञ्चति गच्छति तादृशौ । उञ्छादिर्द्रष्टव्यः ।
न्यङ्कौ नियतगमनौ निश्चितगमनौ वा ।
क्व? अभितो रथं रथस्य पार्श्वयोः यौ नियतगमनौ । ‘नेरनिधाने’ इत्युत्तरपदान्तोदात्तत्वम् । ध्वान्तं शब्दितं शब्दवत् । णिचि व्यत्ययेनेडभावः । वाताग्रं वातस्य पूर्वभागं अनुसञ्चरन्तौ शीघ्रतया वातमतिलङ्घ्य चरन्तौ तावङ्कौ । दूरेहेतिः, इन्द्रियावान्, पतत्रीत्येतन्नामानस्त्रयो नोस्माकमग्नयः पप्रयः पूरयितारः कर्मणाम् । एतावङ्कौ पारयन्तु कर्मणि समर्थौ कुर्वन्तु । यद्वा - नोस्माकं पप्रयः अस्मद्धितार्थं तौ पारयन्तु । प्रा पूरणे, छान्दसस्य लिटः ‘आदृगमहन’ इति किन्प्रत्ययः । ते इति वा लिङ्गव्यत्ययः ; तावित्यर्थः । पक्षसी वा विशेष्येते ; ‘अङ्कसाधने ते पक्षसी पारयन्त्विति । पार तीर कर्मसमाप्तौ ॥
- टीका 2कल्पः - ‘अङ्कौ न्यङ्काविति रथचक्रे अभिमृशति’ इति । अङ्क इति दक्षिणचक्रस्य नाम, न्यङ्क इत्युत्तरचक्रस्य । रथमभितः रथस्य पार्श्वयोर्यावङ्कौ यौ च न्यङ्कौ विद्येते । एकैकस्मिन्पार्श्वे चक्रद्वयं रथस्य चक्रचतुष्टयोपेतत्वात् । अथवाऽङ्कशब्दश्चक्रवाची । न्यङ्कशब्दश्चक्रयुक्तपक्षवाची । यावङ्कौ तौ यौ च न्यङ्कौ तौ धवन्तं ध्वनियुक्तं वाताग्रं वायोः पूर्वभागमनुसंचरन्तौ वायोरपि शीघ्रवेगेन गच्छत इत्यर्थः । दूरे हेतिरित्यादिभिस्त्रिभिः शब्दैस्त्रयोऽग्निविशेषा उच्यन्ते । ते त्रयोऽप्यग्नयः पप्रयः गमनं पूरयन्तो नोऽस्मान्पारयन्तु गमनसमाप्तिं प्रापयन्तु ॥
इति सप्तमे सप्तमोनुवाकः ॥