०२ इडोपाह्वानब्राह्मणम्

विस्तारः (द्रष्टुं नोद्यम्)

(इडोपाह्वानब्राह्मणम् ) सँश्रव-स्तुमिञ्जयोः प्रश्नोत्तराभ्याम् इडाप्रशंसा

प्रजापतिर्ऋषिः

सायण-टीका

इडाद्य् अनुमन्त्रण-मन्त्राः प्रथमे व्याख्याताः। ताम् इडां द्वितीये द्वयोर् मुन्योः प्रश्नोत्तराभ्यां प्रशंसति। तत्र प्रश्नम् अवतारयति- सँश्रवा इति।

विश्वास-प्रस्तुतिः

सँ᳓श्रवा ह सौवर्चनस᳓स् तु᳓मिञ्जम् औ᳓पोदितिम् उवाच
“य᳓त् सत्रि᳓णाँ हो᳓ता᳓ ऽभूᳵ
का᳓म् इ᳓डाम् उ᳓पाह्वथा” इ᳓ति ।

Keith

Samśravas Sauvarcanasa said to Tumiñja Aupoditi:
‘When thou hast been a Hotr of Sattrins, what Ida hast thou invoked?’

मूलम्

सँश्र॑वा ह सौवर्चन॒सस्तुमि॑ञ्ज॒मौपो॑दितिमुवाच॒
यत्स॒त्रिणाँ॒ होताऽभू॒ᳵ कामिडा॒मुपा॑ह्वथा॒ इति॑ ।

पद-पाठः

सँश्र॑वा॒ इति॒ सम्-श्र॒वाः॒ । ह॒ । सौ॒व॒र्च॒न॒सः । तुमि॑ञ्जम् । औपो॑दिति॒मित्यौप॑-उ॒दि॒ति॒म् । उ॒वा॒च॒ । यत् । स॒त्त्रिणा॑म् । होता॑ । अ॒भूः॒ । काम् । इडा॑म् । उपेति॑ । अ॒ह्व॒थाः॒ । इति॑ ।

भट्टभास्कर-टीका

1संश्रवा इत्यादि प्रासङ्गिकं हौत्रम् । सुवर्चनसोपत्यं संश्रवा नाम उपोदितस्यापत्यं तुमिञ्जन्नामोवाच ।

यदित्यादि । यत् यदा । उपाह्वथाः - ‘निसमुपविभ्यो ह्वः’ इत्यात्मनेपदम्, ‘लिपि सिचि ह्वश्च’ इत्यङ् ।

सायण-टीका

संश्रवा इत्य् ऋषेर् नामधेयम्। स च सुवर्चनसः पुत्रः। तुमिञ्ज इत्य् ऋष्यन्तरस्य नामधेयम्। स चोपोदितस्य पुत्रः।

संश्रवसः प्रश्नं दर्शयति- यत् सत्रिणाम् इति। यद् यदा, तदेत्य् अध्याहारः। कां किंगुणकाम्।

विश्वास-प्रस्तुतिः

“ता᳓म् उ᳓पाह्व” इ᳓ति होवाच
“या᳓ प्राणे᳓न देवा᳓न् दाधा᳓र,
व्याने᳓न मनुष्या᳙न्,
अपाने᳓न पितॄ᳓न्” इ᳓ति।

Keith

‘Her I have invoked’, he said, ‘who supports the gods by her expiration, men by her cross-breathing, and the Pitrs by her inspiration.’

मूलम्

तामुपा॑ह्व॒ इति॑ होवाच॒ या प्रा॒णेन॑ दे॒वान्दा॒धार॑ व्या॒नेन॑ मनु॒ष्या॑नपा॒नेन॑ पि॒तॄनिति॑।

पद-पाठः

ताम् । उपेति॑ । अ॒ह्वे॒ । इति॑ । ह॒ । उ॒वा॒च॒ ।
या । प्रा॒णेनेति॑ प्र-अ॒नेन॑ । दे॒वान् । दा॒धार॑ ।
व्या॒नेनेति॑ वि-अ॒नेन॑ । म॒नु॒ष्या॑न् ।
अ॒पा॒नेनेत्य॑प-अ॒नेन॑ । पि॒तृन् । इति॑ ।

भट्टभास्कर-टीका

एवं संश्रवसा पृष्टे तामित्युत्तरमुवाच तुमिञ्जः । येत्यादि ।
या प्राणेन उत्तमवृत्त्या दक्षिणात्वेन देवान्धारयति, व्यानेन मध्यमवृत्त्या मनुष्योपजीव्यत्वेन मनुष्यान् धारयति, अपानेनाधमवृत्त्या मरणेन पितॄन्धारयति, तादृशीमहमुपाह्वे, सन्ध्या [सेयं] अन्या वास्त्विति ॥

सायण-टीका

“ताम् उपाह्व इति।” प्राणादि-वृत्तिभिर् इडाया देवादि-धारणम् उत्तरत्र स्पष्टीकरिष्यते। तां देवादि-धारण-गुणकाम् इडाम् उपहूतवान् अस्मि।

विश्वास-प्रस्तुतिः

“छिन᳓त्ति सा᳓ न᳓ छिनत्ती᳓३"ति ।
“छिन᳓त्ती᳓“ति होवाच ।

Keith

‘Does she divide, or does she not divide’ (he asked). ‘She divides’, he replied.

मूलम्

छि॒नत्ति॒ सा न छि॑न॒त्ती३ति॑ ।
“छि॒नत्ती"ति॑ होवाच ।

पद-पाठः

छि॒नत्ति॑ । सा । न । छि॒न॒त्ती(३) । इति॑ ।
छि॒नत्ति॑ । इति॑ । ह॒ । उ॒वा॒च॒ ।

भट्टभास्कर-टीका

2अथ संश्रवाः - छिनत्तीत्यादिकम् । प्रतिग्रहादिषु प्रजा अनर्थेन योजयति उत नेति । प्रश्नान्ते प्लुतः । छान्दसं तिङ उदात्तत्वम्, विश्वजनादित्वात्तुगभावः ।

अथ छिनत्तीत्युवाच तुमिञ्जः । समानवाक्ये पदात्परत्वाभावान्न निहन्यते ।सर्वस्य श्रुतस्य पाक्षिकत्वादाख्यातलक्षणप्लुताभावः ॥

सायण-टीका

पुनः प्रश्नं दर्शयति- छिनत्तीति। त्वयोपहूता सेयम् इडा गो-रूपा सती दक्षिणात्वेन प्रतिग्रहीतॄन् किं छिनत्ति प्रतिग्रह-दोषेण विनाशयत्य् अथवा न च्छिनत्तीति विचारार्थो लुप्तः।

उत्तरं दर्शयति - छिन्नत्तीति।

विश्वास-प्रस्तुतिः

“श᳓रीरव्ँ वा᳓ अस्यै त᳓द् उ᳓पाह्वथा” इ᳓ति होवाच,
“गौ᳓र् वा᳓ [7] +अस्यै श᳓रीरम् ।”

Keith

‘Her body then hast thou invoked’, he said. Her body is the cow [1];

मूलम्

“शरी॑रव्ँ॒ वा अ॑स्यै॒ तद् उपा॑ह्वथा॒” इति॑ होवाच॒,
“गौर्वै [7] +अ॑स्यै॒ शरी॑रम् ।”

पद-पाठः

शरी॑रम् । वै । अ॒स्यै॒ । तत् । उपेति॑ । अ॒ह्व॒थाः॒ । इति॑ । ह॒ । उ॒वा॒च॒ ।
गौः । वै । अ॒स्यै॒ । शरी॑रम् ।

भट्टभास्कर-टीका

3संश्रवा उवाच - शरीरमित्यादि ॥ किं पुनस्तच्छरीरमित्याकाङ्क्षायां गौर्वा इत्यादि वेदात्मा वदति गोरूपा इडा भवतीति ।

सायण-टीका

एवं तर्हि न एवं मुख्येडेति प्रश्नवादिनोक्तं दूषणं दर्शयति- शरीरम् इति।
अस्या इडा-देवतायाः शरीरम् एव त्वयोपहूतं न तु सा देवता।

इदानीम् आख्यायिकातो ऽपसृत्य श्रुतिः स्वयम् एवाऽऽह-
गौर् वा इति। गौर् एवास्या इडायाः शरीरम्। एतत् च “मानवी घृत-पदी मैत्रावरुणी” इत्य् एतस्य हौत्रस्येडोपाह्वान-मन्त्रस्य ब्राह्मणे “मनुः पृथिव्या” इत्य् आद्य् अनुवाके प्रसिद्धम्।

विश्वास-प्रस्तुतिः

गाव्ँ᳓ वा᳓व᳓ तौ᳓ त᳓त् प᳓र्यवदताम् ।

Keith

of the cow were they two talking.

मूलम्

गाव्ँ वाव तौ तत्पर्य॑वदताम् ।

पद-पाठः

गाम् । वाव । तौ । तत् । परीति॑ । अ॒व॒द॒ता॒म् ।

भट्टभास्कर-टीका

अथ सः असहमान इवाह - गामित्यादि । तत् तदानीं तौ संश्रवस्तुमिञ्जौ एवं गां पर्यवदताम्, अन्यप्रारब्धमन्यत्फलितमिच्छति वेतृ [त्फलितमित्यतिवक्तृ] त्वाभ्युपगमां निन्दा ॥

सायण-टीका

अत इडायाः शरीर-भूतां गाम् एव ज्ञातवन्तौ तदानीं छिनत्तीत्य् एतादृशाभ्यां प्रश्नोत्तराभ्याम् अनिन्दताम्।

विश्वास-प्रस्तुतिः

या᳓ यज्ञे᳓ दीय᳓ते,
सा᳓ प्राणे᳓न देवा᳓न् दाधार,

य᳓या मनुष्या᳙ जी᳓वन्ति,
सा᳓ व्याने᳓न मनुष्या᳙न्,

या᳓म् पितृ᳓भ्यो घ्न᳓न्ति
सा᳓ ऽपाने᳓न पितॄ᳓न्।

Keith

She who is given in the sacrifice supports the gods with her expiration;
she by whom men live (supports) men by her cross-breathing;
she whom they slay for the Fathers (supports) the Fathers by her inspiration;

मूलम्

या य॒ज्ञे दी॒यते॒ सा प्रा॒णेन॑ दे॒वान्दा॑धार॒
यया॑ मनु॒ष्या॑ जीव॑न्ति॒ सा व्या॒नेन॑ मनु॒ष्या॑न्।
याम्पि॒तृभ्यो॒ घ्नन्ति॒ साऽपा॒नेन॑ पि॒तॄन्

पद-पाठः

या । य॒ज्ञे । दी॒यते॑ । सा । प्रा॒णेनेति॑ प्र-अ॒नेन॑ । दे॒वान् । दा॒धा॒र॒ ।
यया॑ । म॒नु॒ष्याः॑ । जीव॑न्ति । सा । व्या॒नेनेति॑ वि-अ॒नेन॑ । म॒नु॒ष्या॑न् ।
याम् । पि॒तृभ्य॒ इति॑ पि॒तृ-भ्यः॒ । घ्नन्ति॑ । सा । अ॒पा॒नेनेत्य॑प-अ॒नेन॑ । पि॒तृन् ।

भट्टभास्कर-टीका

4अथ यदुक्तं संश्रवसा अस्याश्शरीरं त्वमुपाह्वथा इति तत्समर्थनार्थं प्राणादिवृत्तिभिर्देवादीनां धारकत्वं वेदात्मैव गौराह – या यज्ञ इत्यादि ॥ तस्मात्सम्यगभिहितं संश्रवसेति ।

सायण-टीका

इदानीं देवादि-धारणं स्पष्टीकरोति- या यज्ञ इति। यज्ञे दक्षिणा-रूपेण दत्तया गवा देवास् तूष्णीम् एव तुष्यन्ति न तु तां दुहन्ति नापि घ्नन्ति। अतः प्राणेन प्रकृष्ट-चेष्टयोत्तमया वृत्त्या देवान् धारयति। मनुष्यास् तु गां दुग्ध्वा जीवन्ति, तदा नात्यन्तम् अहानि। क्षीरस्य हीनत्वात्। नाप्य् अत्यन्तं हानिः। शरीरस्य वधाभावात्। अतः प्राणापान-मध्य-वर्तिन्या व्यान-समानया मध्यम-वृत्त्या मनुष्यान् धारयति। अष्टकाश्राद्धे गां पितृभ्यो घ्नन्ति।

तथा चाऽऽपस्तम्बः —

श्वो भूते दर्भेण गाम् उपाकरोति पितृभ्यस् त्वा जुष्टाम् उपाकरोमि

इति।

सेयं गौर् अपानेनाधम-वृत्त्या मारण-रूपया पितॄन् धारयति।

विश्वास-प्रस्तुतिः

य᳓ एवव्ँ᳓ वे᳓द -
पशुमा᳓न् भवति ।

Keith

he who knows thus becomes rich in cattle.

मूलम्

य ए॒वव्ँ वेद॑ पशु॒मान्भ॑वति ।

पद-पाठः

यः । ए॒वम् । वेद॑ । प॒शु॒मानिति॑ पशु-मान् । भ॒व॒ति॒ ।

भट्टभास्कर-टीका

य एवमित्यादि । गतम् ॥

विश्वास-प्रस्तुतिः

“अ᳓थ वै᳓ ता᳓म् उ᳓पाह्व” इ᳓ति होवाच
“या᳓ प्रजाᳶ᳓ प्रभ᳓वन्तीᳶ प्र᳓त्याभ᳓वती᳓“ति ।

Keith

‘Her too I have invoked’, he said, ‘who is available to people as they increase.’

मूलम्

अथ॒ वैतामुपा॑ह्व॒ इति॑ होवाच॒
या प्र॒जाᳶ प्र॒भव॑न्ती॒ᳶ प्रत्या॒भव॒तीति॑ ।

पद-पाठः

अथ॑ । वै । ताम् । उपेति॑ । अ॒ह्वे॒ । इति॑ । ह॒ । उ॒वा॒च॒ ।
या । प्र॒जा इति॑ प्र-जाः । प्र॒भव॑न्ती॒रिति॑ प्र-भव॑न्तीः । प्रतीति॑ । आ॒भव॒तीत्या॑-भव॑ति । इति॑ ।

भट्टभास्कर-टीका

5अथ तुमिञ्ज उवाच - अथ वैतामित्यादि ॥

लक्षणं चाचष्टे - येत्यादि । या प्रभवन्तीः प्रभुत्ववतीः प्रजाः प्रत्याभवति प्रत्यक्षाभिमुख्येन भजति ॥

सायण-टीका

उक्तस्य देवादि-धारणस्य वेदनं प्रशंसति-

अथ तुमिञ्जः स्वेनोपहूताया इडाया मुख्यत्वं संपादयितुं गुणान्तरेण इडाम् विशिनष्टीति दर्शयति- अथ वेति। पक्षान्तर-द्योतनाय “अथ वा” इति पद-द्वयम्। येयम् इडा प्रभुत्वोपेताः प्रजाः प्रत्याभिमुख्येन वर्तते तादृशीम् इडाम् उपहूतवान् अस्मि।

विश्वास-प्रस्तुतिः

“अ᳓न्नव्ँ वा᳓ अस्यै त᳓द् उ᳓पाह्वथा” इ᳓ति होवाच ।

Keith

‘Her food then [2] hast thou invoked’, he replied.

मूलम्

अन्नव्ँ॒ वा अ॑स्यै॒ तद् उपा॑ह्वथा॒ इति॑ होवाच ।

पद-पाठः

अन्न॑म् । वै । अ॒स्यै॒ । तत् । उपेति॑ । अ॒ह्व॒थाः॒ । इति॑ । ह॒ । उ॒वा॒च॒ ।

भट्टभास्कर-टीका

6अथ संश्रवा उवाच - अन्नमित्यादि ॥

सायण-टीका

संश्रवा एतस्या अपीडाया मुख्यत्वं वारयतीति दर्शयति- अन्नं वा इति। अस्या इडायाः संबन्धि यद् अन्नं तद् एवोपहूतवान् असि न तु मुख्याम् इडाम्।

विश्वास-प्रस्तुतिः

ओ᳓षधयो वा᳓ अस्या अ᳓न्नम् ।
ओ᳓षधयो वै᳓ प्रजाᳶ᳓ प्रभ᳓वन्तीᳶ,
प्र᳓त्या᳓ भवन्ति ।
य᳓ एवव्ँ᳓ वे᳓दान्नादो᳓ भवति ।

Keith

This food is plants, plants are available to people as they increase;
he who knows thus becomes an eater of food.

मूलम्

ओष॑धयो॒ वा अ॑स्या॒ अन्न॑म् ।
ओष॑धयो॒ वै प्र॒जाᳶ प्र॒भव॑न्ती॒ᳶ प्रत्या भ॑वन्ति ।
य ए॒वव्ँ वेदा॑न्ना॒दो भ॑वति ।

पद-पाठः

ओष॑धयः । वै । अ॒स्याः॒ । अन्न॑म् ।
ओष॑धयः । वै । प्र॒जा इति॑ प्र-जाः । प्र॒भव॑न्ती॒रिति॑ प्र-भव॑न्तीः । प्रति॑ । एति॑ । भ॒व॒न्ति॒ ।
यः । ए॒वम् । वेद॑ । अ॒न्ना॒द इत्य॑न्न-अ॒दः । भ॒व॒ति॒ ।

भट्टभास्कर-टीका

तत्समर्थयते वेदात्मा पुरुषः - ओषधय इत्यादि । अस्या ‘गोरन्नमोषधयः, ताभिः प्रजाः प्रभवन्त्यो भवन्तीति ॥

सायण-टीका

तद् एतद् वेद उपपादयति- ओषधय इति। ओषधीनां गवाम् अन्नत्वं प्रसिद्धम्। प्रभुत्वोपेतानां च प्रजानां गृहेषु बहु-जन-भोजनाय व्रीह्याद्योषधय आगत्य वर्तन्ते।

एतद्-वेदनं प्रशंसति - य एवम् इति।

विश्वास-प्रस्तुतिः

“अ᳓थ वै᳓ ता᳓म् उ᳓पाह्व” इ᳓ति होवाच “या᳓ प्रजाᳶ᳓ पराभ᳓वन्तीर् अनुगृह्णा᳓ति
प्र᳓त्याभ᳓वन्तीर् गृह्णा᳓ती᳓“ति ।

Keith

‘Her too I have invoked’, he said,
‘who supports people in distress and succours them as they improve.’

मूलम्

अथ॒ वै तामुपा॑ह्व॒ इति॑ होवाच॒ या प्र॒जाᳶ प॑रा॒भव॑न्तीरनुगृ॒ह्णाति॒ प्रत्या॒भव॑न्तीर्गृ॒ह्णातीति॑ ।

पद-पाठः

अथ॑ । वै । ताम् । उपेति॑ । अ॒ह्वे॒ । इति॑ । ह॒ । उ॒वा॒च॒ ।
या । प्र॒जा इति॑ प्र-जाः । प॒रा॒भव॑न्ती॒रिति॑ परा-भव॑न्तीः । अ॒नु॒गृ॒ह्णातीत्य॑नु-गृ॒ह्णाति॑ ।
प्रतीति॑ । आ॒भव॑न्ती॒रित्या॑-भव॑न्तीः । गृ॒ह्णाति॑ । इति॑ ।

भट्टभास्कर-टीका

7पुनरपि तुमिञ्ज उवाच - अथेति ॥

लक्षणं च ब्रूते - येत्यादि । या पराभवन्तीः विद्यमानाः प्रजाः अनुगृह्णाति पुष्ट्यादिप्रदानेन धारयति ।

प्रत्याभवन्तीः आत्मानं भजमानाः प्रजाः गृह्णाति प्रतिष्ठिताः करोतीति ॥

सायण-टीका

पुनर् अपि तुमिञ्जस्य गुणान्तरोक्तिम् इडाया मुख्यत्व-संपादिकाम् उदाहरति-
अथवा इति।
येयम् इडा व्याध्यादिभिः पराभूयमानाः प्रजाः स्वस्याम् अवस्थाप्य् अनुगृह्णाति, पराभूयमानाः प्रजास् तत्तद्-अपेक्षित-स्थान-प्रदानेन स्वीकरोति।

विश्वास-प्रस्तुतिः

“प्रतिष्ठाव्ँ᳓ वा᳓ अस्यै
त᳓द् उ᳓पाह्वथा” इ᳓ति होवाच ।

Keith

Her support then hast thou invoked’, he replied.

मूलम्

प्र॒ति॒ष्ठाव्ँ वा अ॑स्यै॒ तदुपा॑ह्वथा॒ इति॑ होवाच ।

पद-पाठः

प्र॒ति॒ष्ठामिति॑ प्रति-स्थाम् । वै । अ॒स्यै॒ । तत् । उपेति॑ । अ॒ह्व॒थाः॒ । इति॑ । ह॒ । उ॒वा॒च॒ ।

भट्टभास्कर-टीका

8अथ संश्रवा उवाच - प्रतिष्ठामित्यादि ॥

सायण-टीका

अस्या अपीडाया मुख्यत्व-निराकरणोक्तिं दर्शयति- प्रतिष्ठाम् इति। प्रतितिष्ठत्य् अस्याम् इडा गोरूपेति प्रतिष्ठा भूमिस् ताम् एवोपहूतवान् असि न मुख्याम् इडाम्।

विश्वास-प्रस्तुतिः

इयव्ँ᳓ +++(भूर्)+++ वा᳓ अस्यै प्रतिष्ठा᳓ [9] ।
इयव्ँ᳓ वै᳓ प्रजाᳶ᳓ पराभ᳓वन्तीर् अ᳓नुगृह्णाति, प्रत्याभ᳓वन्तीर् गृह्णाति ।
य᳓ एवव्ँ᳓ वे᳓द प्र᳓त्य् एव᳓ तिष्ठति ।

Keith

Her support is this (earth) [3],
this (earth) supports people in distress
and succours them as they improve;
he who knows thus finds support.

मूलम्

इ॒यव्ँ वा अ॑स्यै प्रति॒ष्ठा [9] ।
इ॒यव्ँ वै प्र॒जाᳶ प॑रा॒भव॑न्ती॒रनु॑गृह्णाति प्रत्या॒भव॑न्तीर्गृह्णाति ।
य ए॒वव्ँ वेद॒ प्रत्ये॒व ति॑ष्ठति ।

पद-पाठः

इ॒यम् । वै । अ॒स्यै॒ । प्र॒ति॒ष्ठेति॑ प्रति-स्था ।

इ॒यम् । वै । प्र॒जा इति॑ प्र-जाः । प॒रा॒भव॑न्ती॒रिति॑ परा-भव॑न्तीः । अन्विति॑ । गृ॒ह्णा॒ति॒ । प्रतीति॑ । आ॒भव॑न्ती॒रित्या॑-भव॑न्तीः । गृ॒ह्णा॒ति॒ ।

यः । ए॒वम् । वेद॑ । प्रतीति॑ । ए॒व । ति॒ष्ठ॒ति॒ ।

भट्टभास्कर-टीका

तदुपपादयति वेदात्मा - इयमित्यादि ॥

सायण-टीका

तद् एतद् वेद उपपादयति- इयं वा इति।

वेदनं प्रशंसति- य एवमिति।

विश्वास-प्रस्तुतिः

“अ᳓थ वै᳓ ता᳓म् उ᳓पाह्व” इ᳓ति होवाच
“य᳓स्यै निक्र᳓मणे घृत᳓म् प्रजा᳓स् सञ्जी᳓वन्तीᳶ पि᳓बन्ती᳓“ति ।

Keith

‘Her too I have invoked’, he said, ‘in whose step people drink the ghee they live upon.’

मूलम्

अथ॒ वै तामुपा॑ह्व॒ इति॑ होवाच॒
यस्यै॑ नि॒क्रम॑णे घृ॒तम्प्र॒जास्स॒ञ्जीव॑न्ती॒ᳶ पिब॒न्तीति॑ ।

पद-पाठः

अथ॑ । वै । ताम् । उपेति॑ । अ॒ह्वे॒ । इति॑ । ह॒ । उ॒वा॒च॒ ।

यस्यै॑ । नि॒क्रम॑ण॒ इति॑ नि-क्रम॑णे । घृ॒तम् । प्र॒जा इति॑ प्र-जाः । स॒ञ्जीव॑न्ती॒रिति॑ सम्-जीव॑न्तीः । पिब॑न्ति । इति॑ ।

भट्टभास्कर-टीका

9अथ तुमिञ्ज उवाच - अथेति ॥ लक्षणं चाभिधत्ते - यस्या इत्यादि । यस्या निक्रमणे न्यक्पतने सर्वाः प्रजास्सञ्जीवन्त्यः घृतमुदकं पिबन्ति ।
ब्राह्मणान्तरं च भवति ‘सा यत्र यत्र न्यक्रामत्ततो घृतमपीड्यत’ इति ॥

सायण-टीका

मुख्यत्व-संपादनाय गुणान्तरोक्तिं दर्शयति- अथ वा इति। यस्या वृष्टि-रूपाया इडाया निष्क्रमणे न्यग्-भावेन पतने सति यद् घृतं क्षरद् उदकं तज् जीवन-अर्थिन्यः प्रजा उपजीवन्ति तादृशीम् इडाम् उपहूतवान् अस्मि।

विश्वास-प्रस्तुतिः

“छिन᳓त्ति सा᳓ न᳓ छिनत्ती᳓३"ति ।

Keith

‘Does she divide, or does she not divide?’ (he asked).

मूलम्

“छि॒नत्ति॒ सा न छि॑न॒त्ती३"ति॑ ।

पद-पाठः

छि॒नत्ति॑ । सा । न । छि॒न॒त्ती(३) । इति॑ ।

भट्टभास्कर-टीका

10अथ संश्रवा उवाच - छिनत्तीत्यादि ॥ व्याख्यातम् ॥

सायण-टीका

संश्रवा अस्यामिडायां पूर्ववद्दोषाभावौ पृच्छति- छिनत्तीति।

विश्वास-प्रस्तुतिः

“न᳓ छिनत्ती᳓ति” होवाच
“प्र᳓ तु᳓ जनयती᳓“ति ।

Keith

‘She does not divide’, he said, ‘but she propagates.’

मूलम्

न छि॑न॒त्तीति॑ होवाच ।
प्र तु ज॑नय॒तीति॑ ।

पद-पाठः

न । छि॒न॒त्ति॒ । इति॑ । ह॒ । उ॒वा॒च॒ । प्रेति॑ । तु । ज॒न॒य॒ति॒ । इति॑ ।

भट्टभास्कर-टीका

11अथ तुमिञ्जः प्रत्युवाच - न छिनत्ति, अपितु प्रजनयत्येव प्रजा इति ॥

सायण-टीका

वृष्टेर् गवान्न-भूमीनाम् इव प्रतिग्राह्य-द्रव्यत्वाभावात् तुमिञ्जस्य प्रतिग्राह्यदोषाभावोक्तिं गुणान्तरोक्तिं च दर्शयति- “न छिनत्तीति।” वृष्टि-रूपेयम् इडा कम् अपि पुरुषं न च्छिनत्ति न दूषयति किंतु प्रकर्षेण सस्यादिकं जनयति।

विश्वास-प्रस्तुतिः

“एष᳓ वा᳓ इ᳓डाम् उ᳓पाह्वथा” इ᳓ति होवाच ।

Keith

‘Indeed hast thou invoked the Ida herself ‘, he replied.

मूलम्

ए॒ष वा इडा॒मुपा॑ह्वथा॒ इति॑ होवाच ।

पद-पाठः

ए॒षः । वै । इडा॑म् । उपेति॑ । अ॒ह्व॒थाः॒ । इति॑ । ह॒ । उ॒वा॒च॒ ।

भट्टभास्कर-टीका

12अथ संश्रवा उवाच - एष वा इडामित्यादि॥ एष त्वमिडामुपह्वथाः यस्त्वं घृतपदीमह्वथा इति ।

सायण-टीका

“एष वा इति।” एष वृष्टिरूपेडावादी त्वम् एव मुख्याम् इडाम् उपहूतवान् असि।

विश्वास-प्रस्तुतिः

वृ᳓ष्टिर् वा᳓ इ᳓डा।
वृ᳓ष्ट्यै वै᳓ निक्र᳓मणे घृत᳓म् प्रजा᳓स् सञ्जी᳓वन्तीᳶ पिबन्ति ।

Keith

The Ida is rain; in the step of rain people drink the ghee they live upon;

मूलम्

वृष्टि॒र्वा इडा॑।
वृष्ट्यै॒ वै नि॒क्रम॑णे घृ॒तम्प्र॒जास्स॒ञ्जीव॑न्तीᳶ पिबन्ति ।

पद-पाठः

वृष्टिः॑ । वै । इडा॑ ।
वृष्ट्यै॑ । वै । नि॒क्रम॑ण॒ इति॑ नि-क्रम॑णे । घृ॒तम् । प्र॒जा इति॑ प्र-जाः । स॒ञ्जीव॑न्ती॒रिति॑ सम्-जीव॑न्तीः । पि॒ब॒न्ति॒ ।

भट्टभास्कर-टीका

तदेतत्समर्थयते वेदात्मा - वृष्टिर्वा इत्यादि । तत्साधनत्वात्ताच्छब्द्यम् ।

सायण-टीका

“एतस्याम् उक्तायाम् इडायां पूर्वोक्त-लक्षणं वेदो दर्शयति-
वृष्टिर् वा इति।
“तद् एवम् अस्मिन् अनुवाके सर्वप्राण्युपकारिभिर् गवान्न-भूमि-वृष्टि-रूपैर् इयम् इडा प्रशस्ता॥”

इति श्रीमत्-सायणाचार्य-विरचिते माधवीये वेदार्थ-प्रकाशे कृष्ण-यजुर्वेदीय-तैत्तिरीय-संहिता-भाष्ये प्रथम-काण्डे सप्तम-प्रपाठके द्वितीयो ऽनुवाकः॥२॥

विश्वास-प्रस्तुतिः

य᳓ एवव्ँ᳓ वे᳓द
प्रै᳓व᳓ जायते,
अन्नादो᳓ भवति ॥ [10]

Keith

he who knows thus is propagated with offspring; he becomes an eater of food.

मूलम्

य ए॒वव्ँ वेद॒ । प्रैव जा॑यतेऽन्ना॒दो भ॑वति ॥ [10]

पद-पाठः

यः । ए॒वम् । वेद॑ ।
प्रेति॑ । ए॒व । जा॒य॒ते॒ ।
अ॒न्ना॒द इत्य॑न्न-अ॒दः । भ॒व॒ति॒ ॥

भट्टभास्कर-टीका

एवं वेदिता होता प्रकरणाद्वा यजमानः वृष्टिलाभेन प्रजावान् भवति अन्नस्य चात्ता ॥

इति सप्तमे द्वितीयोनुवाकः ॥