विस्तारः (द्रष्टुं नोद्यम्)
(सं१.६.३/ ३-७ अनुवाके समाम्नातानां इडानुमन्त्रणमन्त्राणां ब्राह्मणम् )
प्रजापतिर्ऋषिः
इडा
भास्करोक्त-विनियोगः
1अथ दर्शपूर्णमासयोरेव याजमानशेषस्य ब्राह्मणं प्राजापत्यं काण्डम् । तत्रेडाया आह्रियमाणाया अनुमन्त्रणं विधातुमाह - पाकयज्ञमित्यादि ॥
सायणोक्त-विनियोगः
तत्र प्रथमेऽनुवाक इडानुमन्त्रणमुच्यते। तदेतद्विधातुं प्रस्तौति – पाकयज्ञमिति।
विश्वास-प्रस्तुतिः
पाक-यज्ञव्ँ᳓ वा᳓ अ᳓न्वा᳓हिताग्नेᳶ पश᳓व उ᳓प तिष्ठन्ते ।
Keith
Cattle attend the cooked offerings of him who has established a fire
मूलम्
पा॒क॒य॒ज्ञव्ँ वा अन्वाहि॑ताग्नेᳶ प॒शव॒ उप॑ तिष्ठन्ते ।
पद-पाठः
पा॒क॒य॒ज्ञमिति॑पाक-य॒ज्ञम् । वै । अन्विति॑ । आहि॑ताग्ने॒रित्याहि॑त-अ॒ग्नेः॒ । प॒शवः॑ । उपेति॑ । ति॒ष्ठ॒न्ते॒ ।
भट्टभास्कर-टीका
अत्रेदमुक्तम् आचार्येण
‘हुतः प्रहुत आहुतश् शूलगवो बलिहरणं प्रत्यवरोहणम् अष्टकाहोम
इति सप्त पाकयज्ञसंस्थाः ।
अपरिमिता इत्येके ब्रुवते यत् किञ्चान्यत्र विकाराद् +धूयते
सर्वास्ताः पाकयज्ञसंस्थाः’
इति । पक्वमात्रनिर्वर्तिताः पाकयज्ञाः । अन्ये त्वाहुः - ‘अल्पयज्ञाः पाकयज्ञाः’ इति ।
पाकयज्ञम् अनु आहिताग्नेः पशव उपतिष्ठन्ते यजमानमेव श्रयन्ते ।
यद्वा - आहिताग्नेर् इति कर्मणि षष्ठी आहिताग्निं पशव इति । सङ्गतिकरणे आत्मनेपदम् । ‘क्रियाग्रहणं कर्तव्यम्’ इति कर्मणस्सम्प्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । ‘अनुर्लक्षणे’ इत्यनोः कर्मप्रवचनीयत्वम् ।
सायण-टीका
पाकयज्ञस्य स्वरूपमापस्तम्बसूत्रव्याख्यातृभिरुक्तम् - “औपासनहोमो वैश्वदेवं पार्वणमष्टका मासि श्राद्धं सर्पबलिरीसानवलिरिति सप्त पाकयज्ञसंस्थाः” इति।
बौधायनोऽप्याह - “हुतः प्रहुत आहुतः शूलगवो बलिहरणं प्रत्यवरोहणमष्टकाहोम इति सप्त पाकयज्ञसंस्थाः” इति।
अन्ये त्वाहुः— “अल्पयज्ञाः पाकयज्ञाः” इति। आश्वलायनोऽप्याह –त्रयः पाकयज्ञा हुता अग्नौ हूयमाना अनग्नौ प्रहूता ब्राह्मणभोजने ब्रह्मणि हुताः” इति ।
एतेषां मध्ये यं कंचिदप्याहिताग्नेः पाकयज्ञमनु गवाद्याः पशवोऽवस्थिता भवन्ति पाकयज्ञेन लभ्यन्त इत्यर्थः।
विश्वास-प्रस्तुतिः
इ᳓डा+++(-प्राशनं)+++ ख᳓लु वै᳓ पाकयज्ञः᳓ ।
Keith
The cooked offering is the Ida;
मूलम्
इडा॒ खलु॒ वै पा॑कय॒ज्ञः ।
पद-पाठः
इडा॑ । खलु॑ । वै । पा॒क॒य॒ज्ञइति॑पाक-य॒ज्ञः ।
भट्टभास्कर-टीका
इडा खल्वित्यादि । इडायाः प्राशनं पाकयज्ञः ।
सायण-टीका
अत्र त्विडाभक्षणमेव पाकयज्ञो ब्रह्मणि हुतत्वात् । अतोऽनेनापीडाभक्षणेन पशवो लभ्यन्ते ।
विश्वास-प्रस्तुतिः
सै᳓षा᳓ ऽन्तरा᳓ प्रयाजानूयाजा᳓न् य᳓जमानस्य लोके᳓+++(=स्थाने)+++ ऽवहिता ।
Keith
it is placed in the world of the sacrifice between the fore- and the after-offerings-
मूलम्
सैषान्त॒रा प्र॑याजानूया॒जान् यज॑मानस्य लो॒केऽव॑हिता ।
भट्टभास्कर-टीका
सैषेति । ‘अन्तरान्तरेण’ इति द्वितीया । यजमानस्य लोके स्थाने अवहितावस्थिता ।
पद-पाठः
सा । ए॒षा । अ॒न्त॒रा । प्र॒या॒जा॒नू॒या॒जानिति॑प्रयाज-अ॒नू॒या॒जान् । यज॑मानस्य । लो॒के । अव॑हि॒तेत्यव॑-हि॒ता॒ ।
सायण-टीका
तत्रेयमिडा यजमानस्य लोके फलसाधने यज्ञे प्रयाजानुयाजमध्ये व्यावस्थिता । प्रयाजाज्यभागप्रधानस्विष्टकृद्भ्य ऊर्ध्वमनूयाजेभ्यश्च प्रागिडाया अनुष्ठेयत्वात् । एतच्च हौत्रकाण्डे स्विष्टकृद्याज्याया अनूयाजयाज्याश्च मध्य इडोपाह्वानमन्यपाठादवगम्यते ।
विश्वास-प्रस्तुतिः
ता᳓म् आह्रिय᳓माणाम् अभि᳓ मन्त्रयेत -
“सु᳓रूपवर्षवर्ण ए᳓ही᳓“ति ।
Keith
Over it as it is brought up he should say, ‘O thou of fair rain colour, come hither’;
मूलम्
तामा॑ह्रि॒यमा॑णाम॒भि म॑न्त्रयेत ।
सुरू॑पवर्षवर्ण॒ एहीति॑ ।
मूलम् - सात्वलेकरः
म॑न्त्रयते॒
पद-पाठः
ताम् । आ॒ह्रि॒यमा॑णा॒मित्या॑-ह्रि॒यमा॑णाम् । अ॒भीति॑ । म॒न्त्र॒ये॒त॒ ।
सुरू॑पवर्षवर्ण॒इति॒सुरू॑प-व॒र्ष॒व॒र्णे॒ । एति॑ । इ॒हि॒ । इति॑ ।
भट्टभास्कर-टीका
तामित्यादि । पशुसाधनत्वात्ताच्छब्द्यम् ।
सायण-टीका
विधत्ते- तामाह्रियमाणामिति । तामिडामाह्रियमाणामवदाय होतृसमीपमानीयमानाम् । तत्प्रकारमापस्तम्ब आह — “इडापात्रमुपस्तीर्य सर्वेभ्यो हविर्भ्य इडाँ समवद्यति चतुरवत्तां वा पञ्चावत्ताम्” इति । “अभिघार्येडाँ होत्रे प्रदाय” इति च ।
विश्वास-प्रस्तुतिः
पश᳓वो वा᳓ इ᳓डा - पशू᳓न् एवो᳓प ह्वयते ।
Keith
the cattle are the Ida; verily he summons cattle
मूलम्
प॒शवो॒ वा इडा॑ प॒शूने॒वोप॑ ह्वयते ।
पद-पाठः
प॒शवः॑ । वै । इडा॑ । प॒शून् । ए॒व । उपेति॑ । ह्व॒य॒ते॒ ।
भट्टभास्कर-टीका
पशव इडेति । तस्मादिड एहीति पशूनेवोपह्वयते । ‘निसमुपविभ्यो ह्वः’ इत्यात्मनेपदम् ॥
सायण-टीका
इडादेवतायाः पशुसाधनत्वाद्गोरूपत्वाच्च मन्त्रगतेनेहीति पदेन पशूनेवोपह्वयते।
दोहः - उपाख्यानम्
विश्वास-प्रस्तुतिः
यज्ञव्ँ᳓ वै᳓ देवा᳓ अ᳓दुह्रन् +++(←‘वैवावेति च छन्दसि’ इति निघाताभावः ।)+++।
Keith
The gods milked the sacrifice,
मूलम्
य॒ज्ञव्ँ वै दे॒वा अदु॑ह्रन् ।
पद-पाठः
य॒ज्ञम् । वै । दे॒वाः । अ॒दु॒ह्र॒न् ।
भट्टभास्कर-टीका
2यज्ञं वा इत्यादि ॥ दुहेर्लङि ‘बहुलं छन्दसि’ इति रुट् । ‘वैवावेति च छन्दसि’ इति निघाताभावः ।
सायण-टीका
सा मे सत्याऽऽशीरित्येतं मन्त्रभागं व्याख्यातुं प्रस्तौति- यज्ञं वा इति। दोहनं रिक्तीकरणम् । गां दोग्धीत्यत्र तथा दर्शनात् । देवाः प्रथमं यज्ञमदुह्रन्नदुहन्, तद्गतसारफलस्वीकारेण रिक्ती चक्रुः ।
विश्वास-प्रस्तुतिः
यज्ञो᳓ऽसुराँ अदुहत् ।
Keith
the sacrifice milked the Asuras;
मूलम्
य॒ज्ञोऽसु॑राँ अदुहत् ।
पद-पाठः
य॒ज्ञः । असु॑रान् । अ॒दु॒ह॒त् ।
भट्टभास्कर-टीका
अदुहदिति व्यत्ययेन च्लेरङ् ।
सायण-टीका
स च यज्ञोऽसुरानदुहत्तदीयसारापहारेण रिक्ती चकार।
विश्वास-प्रस्तुतिः
ते᳓ऽसुरा यज्ञ᳓-दुग्धाᳶ प᳓राऽभवन् ।
Keith
the Asuras, being milked by the sacrifice, were defeated;
मूलम्
तेऽसु॑रा य॒ज्ञदु॑ग्धा॒ᳶ परा॑ऽभवन् ।
पद-पाठः
ते । असु॑राः । य॒ज्ञदु॑ग्धा॒इति॑य॒ज्ञ-दु॒ग्धाः॒ । परेति॑ । अ॒भ॒व॒न् ।
भट्टभास्कर-टीका
यज्ञेन दुग्धाः यज्ञदुग्धाः । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् ।
पराभवनं विनाशः । दोहनं हि रिक्तीकरणम् । ‘दुह प्रपूरणे’ इति प्रशब्दो हि धात्वर्थनिवृत्तिमाचष्टे प्रस्मरणं प्रस्थानमिति यथा ।
यज्ञस्तु देवैर्दुग्धोपि स्वमहिम्ना पुनःपुनराप्यायते गौरिव ।
सायण-टीका
ततस्ते पराभूताः।
विश्वास-प्रस्तुतिः
यो᳓ वै᳓ यज्ञ᳓स्य दो᳓हव्ँ विद्वा᳓न् य᳓जते,
अ᳓प्य् अन्यय्ँ᳓ य᳓जमानन् दुहे ।
Keith
he, who knowing the milking of the sacrifice [1] sacrifices, milks another sacrificer
मूलम्
यो वै य॒ज्ञस्य॒ दोहव्ँ॑वि॒द्वान् यज॒तेऽप्य॒न्यय्ँयज॑मानन्दुहे ।
पद-पाठः
यः । वै । य॒ज्ञस्य॑ । दोह॑म् । वि॒द्वान् । यज॑ते । अपीति॑ । अ॒न्यम् । यज॑मानम् । दु॒हे॒ ।
भट्टभास्कर-टीका
यो वा इत्यादि ।
सायण-टीका
यो यजमानो देवकर्तृकं यज्ञरिक्तीकरणं यज्ञकर्तृकमसुररिक्तीकरणं च विद्वान्यजते सोऽन्यमपि यजमानं दुहे रिक्ती करोति ।
एतस्य वाक्यस्य मन्त्रप्रशंसारूपत्वादन्यस्य यजमानस्य न काचिद्धानिः ।
विश्वास-प्रस्तुतिः
“सा᳓ मे सत्या᳓ऽऽशी᳓र् अस्य᳓ यज्ञ᳓स्य भूयाद्” इ᳓त्य् आह ।
एष᳓ वै᳓ +++(मन्त्रः)+++ यज्ञ᳓स्य +++(असुराणां)+++ दो᳓ह ।
+++(मन्त्रेण)+++ ते᳓नैवै᳓नन् +++(यजमानान्तरं )+++ दुहे +++(←“लोपस् त आत्मनेपदेषु”)+++।
Keith
‘May the blessing of this sacrifice be fulfilled for me’, he says;
this is the milking of the sacrifice;
verily with it he milks it.
मूलम्
सा मे॑ स॒त्याऽऽशीर॒स्य य॒ज्ञस्य॑ भूया॒दित्या॑ह ।
ए॒ष वै य॒ज्ञस्य॒ दोहः॑ ।
तेनै॒वैन॑न्दुहे ।
पद-पाठः
सा । मे॒ । स॒त्या । आ॒शीरित्या॑-शीः । अ॒स्य । य॒ज्ञस्य॑ । भू॒या॒त् । इति॑ । आ॒ह॒ ।
ए॒षः । वै । य॒ज्ञस्य॑ । दोहः॑ ।
तेन॑ । ए॒व । ए॒न॒म् । दु॒हे॒ ।
भट्टभास्कर-टीका
सा मे सत्याशीरित्यादिवचनं यज्ञस्य दोहः । अनेन मन्त्रेण यज्ञो ऽसुरान् अधुक्षत् ।
दुह इति पूर्ववत् तलोपः ।
सायण-टीका
व्याचष्टे- सा मे सत्येति।
उपहूतोऽयं यजमान उत्तरस्यां देवयज्यायामुपहूत इत्यादिका येयमाशीरुपह्वानमन्त्रगता सेयमस्य यज्ञस्य संबन्धिन्याशीर्मम सत्या भूयादित्येवंरूपो यज्ञदोहस्तेनैवान्यं यजमानं दोग्धि ।
प्रत्ता-दोहः, इडा-दोहः
विश्वास-प्रस्तुतिः
+++(वत्स-लेहनेन)+++ प्र᳓त्ता+++(←प्र+दा+क्त →प्रस्नुत-स्तनी)+++ वै᳓ गौ᳓र् दुहे+++(←“लोपस् त आत्मनेपदेषु”)+++ ।
प्र᳓त्ते᳓डा य᳓जमानाय दुहे +++(←“लोपस् त आत्मनेपदेषु”)+++।
Keith
The cow is milked willingly,
and willingly the Ida is milked for the sacrificer;
मूलम्
प्रत्ता॒ वै गौर् दु॑हे ।
प्रत्तेडा॒ यज॑मानाय दुहे ।
पद-पाठः
प्रत्ता॑ । वै । गौः । दु॒हे॒ ।
प्रत्ता॑ । इडा॑ । यज॑मानाय । दु॒हे॒ ।
भट्टभास्कर-टीका
3प्रत्तेत्यादि ॥ पयः प्रदातुम् आरब्धवती प्रत्ता वत्स-लेहनेन प्रस्नुत-स्तनी गौः । आदिकर्मणि क्तः, ‘अच उपसर्गात्तः’ इति तत्वम् ।
दुहे दुग्धे भूयिष्ठं क्षीरं क्षारयति ।
एवं प्रत्ता होत्रे अध्वर्युणा । प्रदानेन इडा यजमानाय दुग्धे तस्मादिडां प्रददातीति ।
सायण-टीका
वायुध्यानं विधातुं प्रस्तौति- प्रत्ता वा इति। प्रत्ता वत्सलेहनेन प्रस्नुतस्तनी गौर्दुहे पयः क्षारयति तद्वदत्रेडा प्रत्ता सती यजमानस्य फलं दोग्धि।
विश्वास-प्रस्तुतिः
एते᳓ वा᳓ इ᳓डायै स्त᳓नाः →।
“इ᳓डो᳓पहूते᳓“ति +++(वचने)+++, वायु᳓र् वत्सः᳓।
Keith
these are the teats of Ida, ‘Ida is invoked’-Vayu is the calf-
मूलम्
ए॒ते वा इडा॑यै॒ स्तना॒ इडोप॑हू॒तेति॑ वा॒युर्व॒त्सः।
ए॒ते । वै । इडा॑यै । स्तनाः॑ ।
इडा॑ । उप॑हू॒तेत्युप॑-हू॒ता॒ । इति॑ ।
वा॒युः । व॒त्सः ।
भट्टभास्कर-टीका
एते वा इत्यादि । इडोपहूतेत्यादयो मन्त्राः अस्यास्स्तनस्थानीयाः ; दोहनसाधनत्वात्स्तनत्वेन रूप्यन्ते स्तनापेक्षत्वाद्दोहस्य । वायुर्वत्सस्थानीयः प्राणवृत्तिरूपत्वात् ।
सायण-टीका
तस्या इडाया इडोपहूतेत्यादिमन्त्रभागाः स्तनाः। वायुर्वत्सः।
विश्वास-प्रस्तुतिः
य᳓र्हि+++(←अनद्यतने र्हिल्)+++ हो᳓ते᳓डाम् उपह्व᳓येत …
त᳓र्हि य᳓जमानो हो᳓तारम् ई᳓क्षमाणो वायु᳓म् म᳓नसा ध्यायेत् [2] ।
मात्रे᳓ वत्स᳓म् उपा᳓वसृजति ।
Keith
When the Hotr summons the Ida, then the sacrificer looking at the Hotr should in mind reflect on Vayu [2];
verily he lets the calf go to the mother
मूलम्
यर्हि॒ होतेडा॑मुप॒ह्वये॑त …
तर्हि॒ यज॑मानो॒ होता॑र॒मीक्ष॑माणो वा॒युम्मन॑सा ध्यायेत् [2] ।
मा॒त्रे व॒त्समु॒पाव॑सृजति ।
पद-पाठः
यर्हि॑ । होता॑ । इडा॑म् । उ॒प॒ह्वये॒तेत्यु॑प-ह्वये॑त ।
तर्हि॑ । यज॑मानः । होता॑रम् । ईक्ष॑माणः । वा॒युम् । मन॑सा । ध्या॒ये॒त् ।
मा॒त्रे । व॒त्सम् । उ॒पाव॑सृज॒तीत्यु॑प-अव॑सृजति ।
भट्टभास्कर-टीका
यर्हीत्यादि । `अनद्यतने र्हिल् अन्यतरस्याम्’ इति र्हिल् । वायुमित्यादि । किं कृतं भवतीत्याह - मात्र इति । दोहार्थं मातृसकाशं वत्सं प्रापयतीत्यनेन प्रदेशान्तरमृता एतेनेति । [ …न्तरं गता एव ते इति ।]
+++(अत्र कोपि व्यत्यासः वर्तते , परिशीलनीयः)+++ ‘उदात्तयणः’ इति चतुर्थ्या उदात्तत्वम् ॥
सायण-टीका
विधत्ते- यर्हि होतेति । यर्हि यस्मिन्काले ।
इडा मानवी
मूलम् (संयुक्तम्)
सर्वे॑ण॒ वै य॒ज्ञेन॑ दे॒वास्सु॑व॒र्गल्ँ लो॒कमा॑यन्पाकय॒ज्ञेन॒ मनु॑रश्राम्य॒त्सेडा॒ मनु॑मु॒पाव॑र्तत॒ तान्दे॑वासु॒रा व्य॑ह्वयन्त प्र॒तीची॑न्दे॒वाᳶ परा॑ची॒मसु॑रा॒स्सा दे॒वानु॒पाव॑र्तत प॒शवो॒ वै तद्दे॒वान॑वृणत प॒शवोऽसु॑रानजहुः
विश्वास-प्रस्तुतिः
स᳓र्वेण वै᳓ यज्ञे᳓न देवा᳓स् सुवर्गल्ँ᳓ लोक᳓म् आयन् ।
पाकयज्ञे᳓न म᳓नुर् अश्राम्यत् ।
Keith
By the whole sacrifice the gods went to the world of heaven;
Manu laboured with the cooked offering;
मूलम्
सर्वे॑ण॒ वै य॒ज्ञेन॑ दे॒वास्सु॑व॒र्गल्ँ लो॒कमा॑यन् ।
पा॒क॒य॒ज्ञेन॒ मनु॑रश्राम्यत् ।
पद-पाठः
सर्वे॑ण । वै । य॒ज्ञेन॑ । दे॒वाः । सु॒व॒र्गमिति॑सुवः-गम् । लो॒कम् । आ॒य॒न् ।
पा॒क॒य॒ज्ञेनेति॑पाक-य॒ज्ञेन॑ । मनुः॑ । अ॒श्रा॒म्य॒त् ।
भट्टभास्कर-टीका
4सर्वेणेत्यादि ॥ अश्राम्यत् पाकयज्ञमात्रानुष्ठान-तत्परोभवत् ।
सायण-टीका
इडोपहूतेत्यादिमन्त्रभागप्रयोगे हेयोपादेयपक्षौ विधातुं प्रस्तौति- सर्वेणेति। मनुसहिताः सर्वे देवाः कृत्स्नेन दर्शपूर्णमासयागेन स्वर्गलोकं प्राप्तुमुद्यताः । तत्र मनुः पाकयज्ञेन श्रान्तोऽभूत् । “इडा खलु वै पाकयज्ञः” इत्युक्तम्। अतो मनुर्होता सन्निडोपाह्वान एव तात्पर्यवानभूदित्यक्तं भवति ।
विश्वास-प्रस्तुतिः
से᳓डा म᳓नुम् उपा᳓वर्तत । +++(तस्मादियं मानवीत्युच्यते। )+++
Keith
the Ida went to Manu;
मूलम्
सेडा॒ मनु॑मु॒पाव॑र्तत ।
पद-पाठः
सा । इडा॑ । मनु॑म् । उ॒पाव॑र्त॒तेत्यु॑प-आव॑र्तत ।
भट्टभास्कर-टीका
ततस् सेडा मनुमुपावर्तत । तस्मादियं मानवीत्युच्यत इत्यभिप्रायः ।
सायण-टीका
सा चेडा देवता तात्पर्यवन्तं मनुमुपगतवती ।
प्रतीच्याह्वानम्
विश्वास-प्रस्तुतिः
तां᳓ देवासुरा᳓ व्य᳙ह्वयन्त ।
Keith
the gods and the Asuras called severally upon her,
मूलम्
तान्दे॑वासु॒रा व्य॑ह्वयन्त ।
पद-पाठः
ताम् । दे॒वा॒सु॒राइति॑देव-अ॒सु॒राः । वीति॑ । अ॒ह्व॒य॒न्त॒ ।
भट्टभास्कर-टीका
तामित्यादि । व्यह्वयन्त विविधमाह्वयन् । पूर्ववदात्मनेपदम् ।
सायण-टीका
तां दृष्ट्वा देवाश्चासुराश्च परस्परव्यत्ययेनाह्वयन्त।
विश्वास-प्रस्तुतिः
प्रती᳓चीन् देवाः᳓ ।
प᳓राचीम् अ᳓सुराः ।
Keith
the gods directly,
the Asuras indirectly;
मूलम्
प्र॒तीची॑न्दे॒वाः ।
परा॑ची॒मसु॑राः ।
पद-पाठः
प्र॒तीची॑म् । दे॒वाः । परा॑चीम् । असु॑राः ।
भट्टभास्कर-टीका
प्रतीचीं स्वात्माभिमुखावस्थानाम्, पदाभ्यासात् । ‘चौ’ इति पूर्वपदस्य दीर्घत्वमन्तोदात्तत्वं च ।
सायण-टीका
ते देवाः प्रतीचीं संमुखामुपाह्वयन्त। असुराः पराचीनमुखमुपाह्वयन्त।
विश्वास-प्रस्तुतिः
सा᳓ देवा᳓न् उपा᳓वर्तत ।
पश᳓वो वै᳓ त᳓द् देवा᳓न् अवृणत ।
पश᳓वो᳓ ऽसुरान् अजहुः ।
Keith
she went to the gods;
the cattle choose the gods,
cattle deserted the Asuras-
मूलम्
सा दे॒वानु॒पाव॑र्तत ।
प॒शवो॒ वै तद्दे॒वान॑वृणत ।
प॒शवोऽसु॑रानजहुः ।
पद-पाठः
सा । दे॒वान् । उ॒पाव॑र्त॒तेत्यु॑प-आव॑र्तत ।
प॒शवः॑ । वै । तत् । दे॒वान् । अ॒वृ॒ण॒त॒ ।
प॒शवः॑ । असु॑रान् । अ॒ज॒हुः॒ ।
भट्टभास्कर-टीका
पराचीं पराङ्मुखावस्थानाम्, पदाभ्यासाभावात् । ‘अनिगन्तोञ्चतौ’ इति गतेः प्रकृतिस्वरत्वं च ।
केचिदाहुः - ‘इडोपहूतेति प्राची, उपहूतेडेति पराची । पशवो वा इत्यादि । इडायाः प्रतीचीनत्वेन पशव एव देवानवृणत इति वेदितव्यम् ।
पराचीनत्वेनासुरान् पशवोऽजहुरत्यजन् । ‘सिज भ्यस्त इति जुस् ॥
सायण-टीका
इडोपहूतेत्यवमादाविडाशब्दप्रयोगः सांमुख्याम् । उपहूतेडेति पश्चादिडाशब्दप्रयोगो विमुखत्वम् । तत्र संमुखत्वेन तुष्टा सती सा देवानुपावर्तत । पशवो वा इडेत्यन्यात्राऽऽम्नातत्वादिडारूपाः पशवस्तत्तदा देवानवृणत वृतवन्तः प्राप्तवन्तः । विमुखत्वेनेडाया अपरितोषात्तद्रूपाः पशवोऽसुरानजह्रुः संत्यक्तवन्तः।
विश्वास-प्रस्तुतिः
य᳓ङ् काम᳓येतापशु᳓स् स्याद् इ᳓ति, प᳓राचीन् त᳓स्ये᳓डाम् उ᳓पह्वयेत ।
अपशु᳓र् एव᳓ भवति ।
यं᳓ [3] काम᳓येत पशुमा᳓न्त् स्याद् इ᳓ति,
प्रती᳓चीन् त᳓स्ये᳓डाम् उ᳓पह्वयेत।
पशुमा᳓न् एव᳓ भवति ।
Keith
If he desire of a man, ‘May he be without cattle’, he should invoke the Ida indirectly for him; verily he becomes without cattle [3]-
If he desire of a man, ‘May he be rich in cattle’,
he should invoke the Ida directly for him;
verily he becomes rich in cattle-
मूलम्
यङ्का॒मये॑ताप॒शुस्स्या॒दिति॒
परा॑ची॒न्तस्येडा॒मुप॑ह्वयेत ।
अ॒प॒शुरे॒व भ॑वति।
यं [3] का॒मये॑त पशु॒मान्त्स्या॒दिति॑
प्र॒तीची॒न्तस्येडा॒मुप॑ह्वयेत पशु॒माने॒व भ॑वति।
पद-पाठः
यम् । का॒मये॑त । अ॒प॒शुः । स्या॒त् । इति॑ ।
परा॑चीम् । तस्य॑ । इडा॑म् । उपेति॑ । ह्व॒ये॒त॒ । अ॒प॒शुः । ए॒व । भ॒व॒ति॒ ।
यम् । का॒मये॑त । प॒शु॒मानिति॑पशु-मान् । स्या॒त् । इति॑ ।
प्र॒तीची॑म् । तस्य॑ । इडा॑म् । उपेति॑ । ह्व॒ये॒त॒ ।
प॒शु॒मानिति॑पशु-मान् । ए॒व । भ॒व॒ति॒ ।
भट्टभास्कर-टीका
5यमित्यादि । गतम् ॥
सायण-टीका
तत्र हेयपक्षं विधत्ते – यं कामयेतेति।
उपादेयपक्षं विधत्ते – यं कामयेतेति।
सा नᳶ॑ प्रि॒या
विश्वास-प्रस्तुतिः
ब्रह्मवादि᳓नो वदन्ति -
“स᳓ त्वा᳓+++(←तु + वै)+++ इडाम् उ᳓पह्वयेत,
य᳓ इ᳓डाम् उपहू᳓य,
+आत्मा᳓नम् इ᳓डायाम् उपह्व᳓येते᳓“ति ।
Keith
The theologians say,
‘He would invoke the Ida indeed
who in invoking the Ida should invoke himself in the Ida.’
मूलम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
स त्वा इडा॒म् उप॑ह्वयेत॒,
य इडा॑म् उप॒हूया॒त्मान॒म् इडा॑याम् उप॒ह्वये॒तेति॑ ।
पद-पाठः
ब्र॒ह्म॒वा॒दिन॒इति॑ब्रह्म-वा॒दिनः॑ । व॒द॒न्ति॒ ।
सः । तु । वै । इडा॑म् । उपेति॑ । ह्व॒ये॒त॒ । यः । इडा॑म् । उ॒प॒हूयेत्यु॑प-हूय॑ । आ॒त्मान॑म् । इडा॑याम् । उ॒प॒ह्वये॒तेत्यु॑प-ह्वये॑त । इति॑ ।
भट्टभास्कर-टीका
6ब्रह्मवादिन इत्यादि ॥ ब्रह्म वेदः तद्वदितुं शीलं येषामीति ‘ब्रह्मणि वदः’ इति णिनिः ; संहितायां तोरन्त्यलोपश्छान्दसः ।
उक्तं च प्रातिशाख्ये - ‘तुनुपूर्व उदात्तयोर्वकारः’ इति ।
य इडामात्मनि उपहूयात्मानमिडायामुपह्वयते स एवेडामुपह्वातुमर्हतीति ब्रह्मवादिन आहुः ॥
सायण-टीका
सा नः प्रियेति मन्त्रभागं व्याख्यातुं प्रस्तौति- ब्रह्मवादिन इति।
वेदार्थविचारका विद्वांसः परस्परमित्याहुः। किमिति, यो बुद्धिमान् मन्त्रेणेड एह्य् अदित एहीत्यादिनेडाम् उपहूय तस्याम् इडायाम् आत्मानमुपह्वयते योजयति
स एवेडां यथाशास्त्रम् उपह्वयेतेति।
विश्वास-प्रस्तुतिः
“सा᳓ नᳶ प्रिया᳓, सुप्र᳓तूर्तिर्, मघो᳓नी᳓“त्य् आ᳓ह᳓।
इ᳓डाम् एवो᳓पहू᳓याऽऽत्मा᳓नम् इ᳓डायाम् उ᳓प ह्वयते ।
Keith
‘To us be she dear, victorious, bountiful’, he says; verily in invoking the Ida he invokes himself in the Ida-
मूलम्
सा नᳶ॑ प्रि॒या सु॒प्रतू॑र्तिर्म॒घोनीत्याह।
इडा॑मे॒वोप॒हूया॒ऽऽत्मान॒मिडा॑या॒मुप॑ ह्वयते ।
पद-पाठः
सा । नः॒ । प्रि॒या । सु॒प्रतू॑र्ति॒रिति॑सु-प्रतू॑र्तिः । म॒घोनी॑ । इति॑ । आ॒ह॒ ।
इडा॑म् । ए॒व । उ॒प॒हूयेत्यु॑प-हूय॑ । आ॒त्मान॑म् । इडा॑याम् । उपेति॑ । ह्व॒य॒ते॒ ।
भट्टभास्कर-टीका
7सा न इत्यादि ॥ सुप्रतूर्तित्वान्मघवत्त्वाच्च सास्माकं प्रियेति आत्मानमिडायामुपह्वयते ।
सायण-टीका
मन्त्रं व्याचष्टे- सा नः प्रियेति। येयमिडाऽस्माभिरिड एहीत्यादिनोपहूता सेयमिडा त्वं नोऽस्माकं प्रियेत्यनेन वचनेन स्वात्मानमिडायां योजितवान्भवति।
सब्रह्मत्वम्
विश्वास-प्रस्तुतिः
व्य᳙स्तम् इव वा᳓ एत᳓द् यज्ञ᳓स्य य᳓द् इ᳓डा।
सामि᳓+++(=अर्धम्)+++ प्राश्ञ᳓न्ति ।
सामि᳓ मार्जयन्ते ।
Keith
The Ida is as it were a breach in the sacrifice; half they eat [4], half they wipe;
मूलम्
व्य॑स्तमिव॒ वा ए॒तद्य॒ज्ञस्य॒ यदिडा॑।
सा॒मि प्रा॒श्ञन्ति॑।
सा॒मि मा॑र्जयन्ते ।
पद-पाठः
व्य॑स्त॒मिति॒वि-अ॒स्त॒म् । इ॒व॒ । वै । ए॒तत् । य॒ज्ञस्य॑ । यत् । इडा॑ ।
सा॒मि । प्रा॒श्ञन्तीति॑प्र-अ॒श्ञन्ति॑ ।
सा॒मि । मा॒र्ज॒य॒न्ते॒ ।
भट्टभास्कर-टीका
व्यस्तम् इत्यादि । विच्छेद इवैष यज्ञस्य क्रियते यदिडा नाम । कथमित्याह - सामीत्यादि । तत्र हविषो यद् एकदेशं प्राश्नन्ति यजमानपञ्चमा ऋत्विजः, एकदेशं प्रस्तरे माजर्यन्ते, नायं यज्ञो न दक्षिणा व्यय एवायं ; तस्माद्विच्छिद्यते यज्ञ इति ।
‘चादिलोपे विभाषा’ इति प्रथमा, तिङ्विभक्तिर्न निहन्यते, गतिस्वरसमासावुक्तौ ॥
भट्टभास्कर-टीका
8व्यस्तमिति ॥ भावे निष्ठायां व्यत्ययेन गतेः प्रकृतिस्वरत्वम् । ‘उदात्तस्वरितयोर्यणः’ इत्याकारस्स्वर्यते ।
सायण-टीका
मार्जनार्थं मनो ज्योतिरित्यादिकामृचं व्याख्यातुं प्रस्तौति- व्यस्तमिवेति।
इडेति यदेतेन यज्ञस्याङ्गं व्यस्तं विच्छिन्नमिव भवति। तत्कथमिति उच्यते - सामि पुरोडाशस्य लेशमिडाभागरूपमृत्विजः प्राश्नन्ति, साम्युदकलेशं मार्जयन्ते शिरसि सिञ्चन्ति, तदानीं प्रधानयागाः पूर्वमेव हुता अनूयाजादियागा इत ऊर्ध्वं यष्टव्यास्तन्मध्ये त्वेतदिडाभक्षणं मार्जनं च क्रियते,
विश्वास-प्रस्तुतिः
एत᳓त् प्र᳓ति वा᳓ अ᳓सुराणाय्ँ यज्ञो᳓ व्य᳙च्छिद्यत ।
Keith
in this regard the sacrifice of the Asuras was broken;
मूलम्
ए॒तत्प्रति॒ वा असु॑राणाय्ँ य॒ज्ञो व्य॑च्छिद्यत ।
पद-पाठः
ए॒तत् । प्रतीति॑ । वै । असु॑राणाम् । य॒ज्ञः । वीति॑ । अ॒च्छि॒द्य॒त॒ ।
भट्टभास्कर-टीका
एतत्प्रतीति । अत एवैतस्मिन् प्रदेशे असुराणां यज्ञो व्यच्छिद्यत अतः परं लुप्त एवाभवत् । लक्षणादिना प्रतेः कर्मप्रवचनीयत्वम् ।
सायण-टीका
तयोरयागरूपत्वाद्यागविच्छेदकत्वम्। तथा सत्यसुरा यष्टव्याननूयाजादीन्विस्मृतवन्तः। अतोऽसुराणां यज्ञ एतत्प्रति भक्षणमार्जनद्वयं प्रत्येतदीये काले विच्छिन्नोऽभूत्।
विश्वास-प्रस्तुतिः
ब्र᳓ह्मणा देवा᳓स् स᳓मदधुः ।
Keith
the gods united it by the holy power (Brahman)-
मूलम्
ब्रह्म॑णा दे॒वास्सम॑दधुः ।
पद-पाठः
ब्रह्म॑णा । दे॒वाः । समिति॑ । अ॒द॒धुः॒ ।
भट्टभास्कर-टीका
देवास्तु विच्छिन्नं यज्ञं ब्रह्मणि समदधुः संहितमकुर्वन् ।
सायण-टीका
देवास्त्वप्रमत्ताः सन्तो ब्रह्मणा परिवृढेन केनचित्पुरुषेण समदधुस्तयोर्विच्छिन्नयोर्यज्ञभागयोः संधानं कृतवन्तः।
विश्वास-प्रस्तुतिः
“बृ᳓हस्प᳓तिस् तनुताम् इम᳓न् न” इ᳓त्य् आह ।
ब्र᳓ह्म वै᳓ देवा᳓नाम् बृ᳓हस्प᳓तिः ।
ब्र᳓ह्मणैव᳓ यज्ञँ᳓ स᳓न्दधाति ।
“वि᳓च्छिन्नय्ँ यज्ञँ᳓ स᳓म् इम᳓न् दधात्व्” इ᳓त्याह - स᳓न्तत्यै ।
Keith
‘May Brhaspati extend this for us’, he says;
Brhaspati is the holy power (Brahman) of the gods;
verily by the holy power (Brahman) he unites the sacrifice-
‘May he unite this scattered sacrifice’, he says, for continuity-
मूलम्
बृह॒स्पति॑स्तनुतामि॒मन्न॒ इत्या॑ह ।
ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पतिः॑ ।
ब्रह्म॑णै॒व य॒ज्ञँ सन्द॑धाति ।
विच्छि॑न्नय्ँ य॒ज्ञँ समि॒मन्द॑धा॒त्वित्या॑ह॒ सन्त॑त्यै ।
पद-पाठः
बृह॒स्पतिः॑ । त॒नु॒ता॒म् । इ॒मम् । नः॒ । इति॑ । आ॒ह॒ ।
ब्रह्म॑ । वै । दे॒वाना॑म् । बृह॒स्पतिः॑ ।
ब्रह्म॑णा । ए॒व । य॒ज्ञम् । समिति॑ । द॒धा॒ति॒ ।
विच्छि॑न्न॒मिति॒वि-छि॒न्न॒म् । य॒ज्ञम् । समिति॑ । इ॒मम् । द॒धा॒तु॒ । इति॑ । आ॒ह॒ । सन्त॑त्या॒इति॒सम्-त॒त्यै॒ ।
भट्टभास्कर-टीका
तस्मात् ‘बृहस्पतिस्तनुतामिमं नः’ इति मार्जनमन्त्रे वचनं ब्रह्मणि सन्धानप्रतिपादनार्थं, विच्छिन्नमिति वचनं सन्तत्यै । ब्रह्मणा समदधुरित्युक्ते ब्रह्मप्रतिपादनस्याकाङ्क्षितत्वात् तृतीयः पादः प्रथमं व्याख्यातः ।
सायण-टीका
तस्य ऋचस्तृतीयपादं व्याचष्टे- बृहस्पतिरिति। देवगुरुत्वाद्बृहस्पतेः परिवृढत्वम्।
संधातृप्रतिपादकं तृतीयपादं व्याख्याय संधानप्रतिपादकं द्वितीयपादं व्याचष्टे- विच्छिन्नमिति। अविच्छेदायेत्यर्थः।
विश्वे॑ दे॒वा इ॒ह मा॑दयन्ता॒म्
विश्वास-प्रस्तुतिः
“वि᳓श्वे देवा᳓ इह᳓ मादयन्ताम्” इ᳓त्य् आह ।
सन्त᳓त्यैव᳓ यज्ञ᳓न् देवे᳓भ्यो᳓ ऽनु दिशति।
Keith
‘May the All-gods rejoice here’, he says;
verily continuing the sacrifice he indicates it to the gods-
मूलम्
विश्वे॑ दे॒वा इ॒ह मा॑दयन्ता॒मित्या॑ह ।
स॒न्तत्यै॒व य॒ज्ञन्दे॒वेभ्योऽनु॑ दिशति।
पद-पाठः
विश्वे॑ । दे॒वाः । इ॒ह । मा॒द॒य॒न्ता॒म् । इति॑ । आ॒ह॒ ।
स॒न्तत्येति॑सम्-तत्य॑ । ए॒व । य॒ज्ञम् । दे॒वेभ्यः॑ । अन्विति॑ । दि॒श॒ति॒ ।
भट्टभास्कर-टीका
ततो द्वितीयः -** विश्व इति ।** विच्छिन्नं यज्ञं सन्तत्यैव सन्धाय देवेभ्योनुदिशति । इह संहिते यज्ञे देवा माद्यन्तु मोपेक्षां कृषतेति बोधयति ॥
सायण-टीका
तस्य संततस्य यज्ञस्य देवसमर्पणप्रतिपादकं चतुर्थपादं व्याचष्टे-
विश्वे देवा इति।
दक्षिणायां वचनम्
विश्वास-प्रस्तुतिः
याव्ँ᳓ वै᳓ [5] यज्ञे᳓ द᳓क्षिणान् द᳓दाति,
ता᳓म् अस्य पश᳓वो᳓ऽनु स᳓ङ्क्रामन्ति ।
Keith
The [5] sacrificial fee which he gives at the sacrifice his cattle accompany;
मूलम्
याव्ँ वै [5] य॒ज्ञे दक्षि॑णा॒न्ददा॑ति॒, ताम॑स्य प॒शवोऽनु॒ सङ्क्रा॑मन्ति ।
पद-पाठः
याम् । वै । य॒ज्ञे । दक्षि॑णाम् । ददा॑ति । ताम् । अ॒स्य॒ । प॒शवः॑ । अनु॑ । समिति॑ । क्रा॒म॒न्ति॒ ।
भट्टभास्कर-टीका
9यां वा इत्यादि ॥ अत्र ‘ब्रध्न पिन्वस्व’ इति बर्हिषदं पुरोडाशमनुमन्त्रयते, स च ऋत्विग्भ्यो दक्षिणैव दीयते ।
तामधिकृत्येदमुच्यते - दक्षिणां पशवोनुसङ्क्रामन्ति दक्षिणया सह गच्छन्ति ।
सायण-टीका
ब्रध्न पिन्वस्वेत्यादिकं पुरोडाशाभिमन्त्रणमन्त्रं व्याख्यातुं प्रस्तौति- यां वै यज्ञ इति। यजमानेनर्त्विग्भ्यो दीयमानां गवान्वाहार्यादिरूपां दक्षिणां तदीयाः पशवः सर्वेऽप्यनुगच्छन्ति,
विश्वास-प्रस्तुतिः
स᳓ एष᳓ ईजानो᳙ ऽपशु᳓र् भा᳓वुकः ।
Keith
he having sacrificed is like to become without cattle;
मूलम्
स ए॒ष ई॑जा॒नो॑ऽप॒शुर्भावु॑कः ।
पद-पाठः
सः । ए॒षः । ई॒जा॒नः । अ॒प॒शुः । भावु॑कः ।
भट्टभास्कर-टीका
स एष यजमानः ईजानः दक्षिणादानान्तं सर्वं यज्ञं कृतवान् अपशुर्भावुकः भविता । ‘लषपतपद’ इत्युकञ् ।
सायण-टीका
तदा यज्ञानुष्ठाता च पशुरहितो भवति।
विश्वास-प्रस्तुतिः
“य᳓जमानेन ख᳓लु वै᳓ त᳓त् कार्य᳙म्” इ᳓त्य् आहुर् -
“य᳓था देवत्रा᳓ दत्त᳓ङ् कुर्वीत᳓,
+++(तथा)+++ आत्म᳓न् पशू᳓न् रम᳓येते᳓“ति ।
Keith
’the sacrificer must so arrange’, they say, ’that he may place among the gods what is given, but keep his cattle with himself.’
मूलम्
यज॑मानेन॒ खलु॒ वै तत्का॒र्य॑मित्या॑हु॒र्यथा॑ देव॒त्रा द॒त्तङ्कु॑र्वी॒तात्मन्प॒शून्र॒मये॒तेति॑
पद-पाठः
यज॑मानेन । खलु॑ । वै । तत् । का॒र्य॑म् । इति॑ । आ॒हुः॒ ।
यथा॑ । दे॒व॒त्रेति॑देव-त्रा । द॒त्तम् । कु॒र्वी॒त॒ । आ॒त्मन् । प॒शून् । र॒मये॑त । इति॑ ।
भट्टभास्कर-टीका
तस्माद्यजमानेन तादृशं किञ्चित्कर्तव्यं, येन देवत्रा देवेषु ऋत्विक्षु दत्तं पुरोडाशमेव कुर्वीत कर्तुं समर्थस्स्यात्, आत्मन्येव पशून्नमयते । ‘देवमनुष्य’ इति त्राप्रत्ययः ।
सायण-टीका
अतः स्वेन दत्तं दक्षिणाद्रव्यं यथा देवत्रा देवेषु ऋत्विक्ष्ववस्थितं भवति, पशवश्च यथा स्वस्मिन्नेव रमन्ते, तथा यजमानेन कर्तव्यमिति बुद्धिमन्त आहुः।
विश्वास-प्रस्तुतिः
“ब्र᳓ध्न पि᳓न्वस्वे᳓“त्याह ।
यज्ञो᳓ वै᳓ ब्रध्नो᳓,
यज्ञ᳓म् एव᳓ त᳓न् महयति ।
अ᳓थो देवत्रै᳓व᳓ दत्त᳓ङ् कुरुते ।
आत्म᳓न् पशू᳓न् रमयते ।
Keith
‘Swell, O ruddy one’, he says;
the ruddy one is the sacrifice;
verily he magnifies the sacrifice;
thus he places among the gods what is given,
but keeps his cattle with himself-
मूलम्
ब्रध्न॒ पिन्व॒स्वेत्या॑ह ।
य॒ज्ञो वै ब्र॒ध्नो य॒ज्ञमे॒व तन् म॑हयति ।
अथो॑ देव॒त्रैव द॒त्तङ्कु॑रुते ।
आ॒त्मन् प॒शून्र॑मयते ।
पद-पाठः
ब्रध्न॑ । पिन्व॑स्व । इति॑ । आ॒ह॒ ।
य॒ज्ञः । वै । ब्र॒ध्नः । य॒ज्ञम् । ए॒व । तत् । म॒ह॒य॒ति॒ ।
अथो॒इति॑ । दे॒व॒त्रेति॑देव-त्रा । ए॒व । द॒त्तम् । कु॒रु॒ते॒ ।
आ॒त्मन् । प॒शून् । र॒म॒य॒ते॒ ।
भट्टभास्कर-टीका
ब्रध्न पिन्वस्वेत्यादि । महयति महान्तं करोति ; महितं वा करोति । गतमन्यत् ।
इपि सप्तमे प्रथमोनुवाकः ॥
- ऐष्टिकहौत्रब्राह्मणशेषः
सायण-टीका
मन्त्रस्य प्रथमभागं व्याचष्टे- ब्रध्न पिन्वस्वेति। हे यज्ञ प्रीणीहीत्यनेन यज्ञस्य पूजारूपेण प्रोत्साहनेन यथोक्तं प्रयोजनद्वयं संपद्यते।
विश्वास-प्रस्तुतिः
“द᳓दतो मे मा᳓ क्षायी᳓“त्याह।
अ᳓क्षितिम् एवो᳓पैति ।
Keith
‘May (my act) as I give be not destroyed’, he says; verily he avoids destruction;
मूलम्
दद॑तो मे॒ मा क्षा॒यीत्या॑ह।
अक्षि॑तिमे॒वोपै॑ति ।
पद-पाठः
दद॑तः । मे॒ । मा । क्षा॒यि॒ । इति॑ । आ॒ह॒ ।
अक्षि॑तिम् । ए॒व । उपेति॑ । ए॒ति॒ ।
विश्वास-प्रस्तुतिः
“कुर्वतो᳓ मे मो᳓प दसद्” इ᳓त्याह ।
भूमा᳓नम् एवो᳓पैति ॥ [6]
Keith
‘May (my act) as I work not perish’, he says; verily he attains prosperity.
मूलम्
कु॒र्व॒तो मे॒ मोप॑ दस॒दित्या॑ह ।
भू॒मान॑मे॒वोपै॑ति ॥
पद-पाठः
कु॒र्व॒तः । मे॒ । मा । उपेति॑ । द॒स॒त् । इति॑ । आ॒ह॒ । भू॒मान॑म् । ए॒व । उपेति॑ । ए॒ति॒॥
सायण-टीका
द्वितीयं भागं व्याचष्टे- ददतो म इति।
दानप्रयुक्तो द्रव्यक्षयो मा क्षायीति प्रार्थनेन निवारितो भवति।
तृतीयभागं व्याचष्टे- कुर्वतो म इति। उपक्षयनिवारणस्य पूर्वमेव प्रार्थितत्वान्मोपदसदित्यनेनाभिवृद्धिलक्षणं बाहुल्यमेव प्रार्थ्यते भूमानमेवोपैतीति।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे सप्तमप्रपाठके
प्रथमोऽनुवाकः॥१॥