प्रणयन-यज्ञायुधसम्भराणादिविधिः
प्रजापतिर्ऋषिः
प्रणयनम्
भास्करोक्त-विनियोगः
1अपां प्रणयनं विधातुमाह - यो वा इत्यादि ॥
विश्वास-प्रस्तुतिः
यो वै श्र॒द्धाम् अना॑रभ्य य॒ज्ञेन॒ यज॑ते॒ - नास्ये॒ष्टाय॒ +++(देव-मनु॒ष्या)+++ श्रद्-द॑धते।
अ॒पᳶ प्र ण॑यति।
श्र॒द्धा वा आप॑श्, श्र॒द्धाम् ए॒वाऽऽरभ्य॑ य॒ज्ञेन॑ यजते।
उ॒भये॑ ऽस्य देव-मनु॒ष्या इ॒ष्टाय॒ श्रद्द॑धते।
Keith
He who offers sacrifice without faith, they place not faith in his sacrifice. He brings waters forward, the waters are faith; verily with faith he offers sacrifice, and both gods and men place faith in his sacrifice.
मूलम्
यो वै श्र॒द्धामना॑रभ्य य॒ज्ञेन॒ यज॑ते ।
नास्ये॒ष्टाय॒ श्रद्द॑धते ।
अ॒पᳶ प्र ण॑यति ।
श्र॒द्धा वा आपः॑ ।
श्र॒द्धामे॒वाऽऽरभ्य॑ य॒ज्ञेन॑ यजते ।
उ॒भये॑ऽस्य देवमनु॒ष्या इ॒ष्टाय॒ श्रद्द॑धते
पद-पाठः
यः । वै । श्र॒द्धामिति॑ श्रत्-धाम् । अना॑र॒भ्येत्यना॑-र॒भ्य॒ । य॒ज्ञेन॑ । यज॑ते ।
न । अ॒स्य॒ । इ॒ष्टाय॑ । श्रत् । द॒ध॒ते॒ ।
अ॒पः । प्रेति॑ । न॒य॒ति॒ ।
श्र॒द्धेति॑ श्रत्-धा । वै । आपः॑ ।
श्र॒द्धामिति॑ श्रत्-धाम् । ए॒व । आ॒रभ्येत्या॑-रभ्य॑ । य॒ज्ञेन॑ । य॒ज॒ते॒ ।
उ॒भये॑ । अ॒स्य॒ । दे॒व॒म॒नु॒ष्या इति॑ देव-म॒नु॒ष्याः । इ॒ष्टाय॑ । श्रत् । द॒ध॒ते॒ ।
भट्टभास्कर-टीका
‘श्रदन्तरोरुपसर्गवद्वृत्तिः’ इति दधातेः ‘आतश्चोपसर्गे’ इत्यङ् । अनारभ्यासन्निधाष्य न श्रद्दधते देवा मनुष्याश्च । विशिष्टदेशमन्त्रक्रमपाठसाधनं प्रणयनम् । ‘श्रद्धा वा आपः’ इति शोधकत्वेन श्रद्धाजनकत्वात् ।
सायण-टीका
सप्तमे देवतापरिग्रहादिरुक्तः। अष्टमे यज्ञायुधसंभृतिरुच्यते।
तत्र प्रथमं तावदपां प्रणयनं विधातुं प्रस्तौति-
यो वै श्रद्धामिति। यो यजमानो मनसि देवतादिविषयां श्रद्धामसंनिधाप्य यष्टुं प्रयुङ्क्ते तदीयमिष्टं देवा ऋत्विजश्च न विश्वसन्ति।
विधत्ते- अपः प्रेति।
अपां श्रद्धाहेतुत्वमैतरेयिणः समामनन्ति - “आपो ह्यस्मै श्रद्धां संनमन्ते पुण्याय कर्मणे” इति। प्रत्यक्षं चैतत्स्नानाचमनादियुक्तस्य देवपूजादावैकाग्न्यातिशयदर्शनात्। अतोऽपां प्रणयनेन श्रद्धाया उपस्थापितत्वाद्देवानामृत्विजां चैतदीये यज्ञे विश्वासो युक्तः। यद्यपि पौरोडाशिककाण्डेऽध्वर्युकर्तृकमिदं प्रणयनं विहितं तथाऽपि शाखाभेदादपुनरुक्तिः। शाखाभेदश्चाऽऽपस्तम्बेन तत्रत्यमन्त्राणां साकल्येनानुवादाद्विधिपुनरुक्तिबाहुल्याच्चावगन्तव्यः।
विश्वास-प्रस्तुतिः
तद् आ॑हु॒र् - “अति॒ वा ए॒ता +++(आपो)+++ वर्त्र॑न्+++(=रोधं)+++ नेदन्ति+++(=यन्ति)+++, अति॒ वाच॑म्।
मनो॒ वावैता नाति॑ नेद॒न्ती"ति॑ ।
Keith
They say, ‘They foam over the barrier, they foam over speech, but over mind they do not foam.’
मूलम्
तदा॑हु॒रति॒ वा ए॒ता वर्त्र॑म्
नेद॒न्त्य् अति॒ वाच॑म् ।
मनो॒ वावैताः ।
नाति॑ नेद॒न्तीति॑ ।
पद-पाठः
तत् । आ॒हुः॒ ।
अतीति॑ । वै । ए॒ताः । वर्त्र॑म् ।
ने॒द॒न्ति॒ । अतीति॑ । वाच॑म् ।
मनः॑ । वाव । ए॒ताः ।
न । अतीति॑ । ने॒द॒न्ति॒ । इति॑ ।
भट्टभास्कर-टीका
तदाहुरित्यादि । वर्त्रं शरीरेन्द्रियवृत्तिः । एता आपस् तद् अतिनेदन्ति अतिगछन्ति अतिव्याप्य वर्तन्ते । णिदृ णेदृ गतादिषु ।
वागिन्द्रियं चातिनेदन्ति, मनइन्द्रियं तु नातिनेदन्ति नातिवर्तन्ते।
सायण-टीका
पृथिवीं च मनसा ध्यायतीति सूत्रकारेण प्रणयनकाले ध्यानमुक्तं, तदिदं विधातुं विधत्ते -
तदाहुरिति। तत्तत्रापां प्रणयने केचिदभिज्ञा इत्याहुः। किमिति। एता आपो वर्त्रं शरीरस्य वृत्तिमतिनेदन्ति अतिक्रामन्ति, वाचमप्यतिक्रामन्ति, न खलु प्रवहन्तीनां नद्यादिगतानामपां निवारणं शरीरेण वाचा वा कर्तुं शक्यते। मन एवैकमेता आपो नातिक्रामन्तीति। तदुत्तरत्र स्पष्टी करिष्यते।
विश्वास-प्रस्तुतिः
मन॑सा॒ प्र ण॑यति ।
Keith
He brings them forward with mind;
मूलम्
मन॑सा॒ प्र ण॑यति ।
पद-पाठः
मन॑सा । प्रेति॑ । न॒य॒ति॒ ।
भट्टभास्कर-टीका
तस्मान्मनसा प्रणयतीत्याहुः ।
सायण-टीका
विधत्ते -
मनसेति। पृथिवीं ध्यायन्निति शेषः। ब्राह्मणान्तरमनुसृत्य सूत्रकारेणोक्तत्वात्।
विश्वास-प्रस्तुतिः
+++(मनसो व्यापकत्वात्)+++ इ॒यव्ँ +++(पृथ्वी)+++ वै मनः॑ [25] - अ॒नयै॒वैना॒ᳶ प्र ण॑यति ।
Keith
mind is this (earth) [1]; verily with this (earth) he brings them forward.
मूलम्
इ॒यव्ँ वै मनः॑ [25] ।
अ॒नयै॒वैना॒ᳶ प्र ण॑यति ।
पद-पाठः
इ॒यम् । वै । मनः॑ ।
अ॒नया॑ । ए॒व । ए॒नाः॒ । प्रेति॑ । न॒य॒ति॒ ।
भट्टभास्कर-टीका
इयं वा इत्यादि । मनसो व्यापकत्वात् ।
सायण-टीका
अनतिक्रमणमुपपादयति-
इयं वा इति। मनसाः पृथिवीवद्व्याप्तुं शक्यत्वात्पृथिवीत्वम्। न हि नद्यादिगता आपः पृथिव्या अतिक्रमणे शक्ताः।
विश्वास-प्रस्तुतिः
अस्क॑न्न-हविर् भवति॒ य ए॒वव्ँ वेद॑ ।
Keith
The sacrifice of him who knows thus does not spill.
मूलम्
अस्क॑न्नहविर्भवति॒ य ए॒वव्ँ वेद॑ ।
पद-पाठः
अस्क॑न्नहवि॒रित्यस्क॑न्न-ह॒विः॒ । भ॒व॒ति॒ ।
यः । ए॒वम् । वेद॑ ।
भट्टभास्कर-टीका
अस्कन्नहविरिति । पृथिव्यात्मना व्यापकेन मनसा धृतत्वाद् अपाम् ॥
सायण-टीका
मनसा प्रणयनस्य वेदनं प्रशंसति - अस्कन्नहविरिति।
यज्ञायुधसम्भराणादि
मूलम् (संयुक्तम्)
यज्ञायु॒धानि॒ सम्भ॑रति य॒ज्ञो वै य॑ज्ञायु॒धानि॑ य॒ज्ञमे॒व तत्सम्भ॑रति यदेक॑मेकँ स॒म्भरे॑त्पितृदेव॒त्या॑नि स्युः यत् स॒ह सर्वा॑णि मानु॒षाणि॒ द्वेद्वे॒ सम्भ॑रति याज्यानुवा॒क्य॑योरे॒व रू॒पङ्क॑रो॒ति
विश्वास-प्रस्तुतिः
य॒ज्ञा॒यु॒धानि॒ सम्भ॑रति ।
य॒ज्ञो वै य॑ज्ञायु॒धानि॑ ।
य॒ज्ञम् ए॒व तत् सम्भ॑रति ।
यद् एक॑म् एकँ स॒म्भरे॑त् - पितृ-देव॒त्या॑नि स्युः ।
यत् स॒ह सर्वा॑णि - मानु॒षाणि॑।
द्वे-द्वे॒ सम्भ॑रति -
या॒ज्या॒नु॒वा॒क्य॑योर् ए॒व रू॒पङ् क॑रो॒त्य् अथो॑ मिथु॒नम् ए॒व ।
Keith
He collects the weapons of the sacrifice;
the weapons of the sacrifice are the sacrifice;
verily he collects the sacrifice.
If he were to collect them one by one,
they would have the Pitrs as their divinity;
if all together, (they would have) men as their divinity.
He collects them in pairs, and so he makes the form of the Yajya and the Anuvakya,
and thus there is a pair.
मूलम्
य॒ज्ञा॒यु॒धानि॒ सम्भ॑रति ।
य॒ज्ञो वै य॑ज्ञायु॒धानि॑ ।
य॒ज्ञमे॒व तत्सम्भ॑रति ।
यदेक॑मेकँ स॒म्भरे॑त्पितृदेव॒त्या॑नि स्युः ।
यत् स॒ह सर्वा॑णि मानु॒षाणि॒, द्वेद्वे॒ सम्भ॑रति -
या॒ज्या॒नु॒वा॒क्य॑योरे॒व रू॒पङ्क॑रो॒त्यथो॑ मिथु॒नमे॒व ।
पद-पाठः
य॒ज्ञा॒यु॒धानीति॑ यज्ञ-आ॒यु॒धानि॑ । समिति॑ । भ॒र॒ति॒ ।
य॒ज्ञः । वै । य॒ज्ञा॒यु॒धानीति॑ यज्ञ-आ॒यु॒धानि॑ ।
य॒ज्ञम् । ए॒व । तत् । समिति॑ । भ॒र॒ति॒ ।
यत् । एक॑मेक॒मित्येक॑म्-ए॒क॒म् । स॒म्भरे॒दिति॑ सम्-भरे॑त् । पि॒तृ॒दे॒व॒त्या॑नीति॑ पितृ-दे॒व॒त्या॑नि । स्युः॒ ।
यत् । स॒ह । सर्वा॑णि । मा॒नु॒षाणि॑ ।
द्वेद्वे॒ इति॒ द्वे-द्वे॒ । समिति॑ । भ॒र॒ति॒ ।
या॒ज्या॒नु॒वा॒क्य॑यो॒रिति॑ याज्या-अ॒नु॒वा॒क्य॑योः । ए॒व । रू॒पम् । क॒रो॒ति॒ ।
अथो॒ इति॑ । मि॒थु॒नम् । ए॒व ।
भट्टभास्कर-टीका
2यज्ञायुधानीत्यादि ॥ तदधीनत्वाद्यज्ञनिवृत्तेस्ताच्छब्द्यम् । एकैकप्रयोगे पितृदेवत्यानि पात्राणि स्युः । सर्वेषां सह प्रयोगे मानुषाणि स्युः । तस्माद्द्वेद्वे प्रयुनक्ति । द्वित्वान्वयाद्याज्यानुवाक्यारूपलाभः ।
अथो अपि च । द्वित्वान्वयेन मिथुनत्वमेव सम्पद्यते ।
सायण-टीका
विधत्ते -
यज्ञायुधानीति। वक्ष्यमाणानि स्फ्यकपालादीनि यज्ञस्य साधनत्वादायुधानीत्युच्यन्ते। तान्यध्वर्युः संपादयेत्। साध्यसाधनयोरभेदोपचाराद्यज्ञस्यैव तदायुधत्वम्। तत्तेनाऽऽयुधसंपादनेन यज्ञमेव संपादयति।
अत्रऽऽयुधानां प्रयोगस्त्रिविधः। एकैकस्य प्रयोगः सर्वेषां सह प्रयोगो द्वयो-र्द्वयोः प्रयोगश्चेति।
तत्र तृतीयं विधातुमितरपक्षौ निन्दति -
यदेकमेकमिति। ईदृशौ पैतृकमानुषपात्रप्रयोगौ गृह्यकारेण दर्शितौ - द्वंद्वं व्यञ्चि पात्राणि प्रयुनक्ति देवसंयुक्तानि सकृदेव मनुष्यसंयुक्तान्येकैकशः पितृसंयुक्तानीति।
विधत्ते -
द्वेद्वे इति। द्वित्वसाम्येन याज्यानुवाक्यारूपत्वं स्रीपुरुषात्मकमिथुनत्वं च।
विश्वास-प्रस्तुतिः
यो वै दश॑ यज्ञायु॒धानि॒ वेद॑ -
मुख॒तो॑ऽस्य य॒ज्ञᳵ क॑ल्पते ।
Keith
If a man knows the ten weapons of the sacrifice, his sacrifice is in order at the beginning.
मूलम्
यो वै दश॑ यज्ञायु॒धानि॒ वेद॑ मुख॒तो॑ऽस्य य॒ज्ञᳵ क॑ल्पते ।
पद-पाठः
यः । वै । दश॑ । य॒ज्ञा॒यु॒धानीति॑ यज्ञ-आ॒यु॒धानि॑ । वेद॑ ।
मु॒ख॒तः । अ॒स्य॒ । य॒ज्ञः । क॒ल्प॒ते॒ ।
भट्टभास्कर-टीका
यो वै दशेत्यादि । स्फ्यादयो दश । यज्ञायुधानि यागारम्भे यो वेद, अस्य यज्ञारम्भ एव यज्ञस्सम्पद्यते; तदात्मकत्वाद्यज्ञस्य । ‘आद्यादिभ्यस्तसिः’ ।
सायण-टीका
संपादयनीयानां यज्ञायुधानां स्वरूपविशेषं विधातुं तद्वेदनं प्रशंसति -
यो वै दशेति। यो यजमानो मुखतो यज्ञारम्भे दशैतानि संपादनीयानीत्यनुसंधत्तेऽस्य यज्ञो निर्विघ्नेनानुष्ठानक्षमो भवति।
विश्वास-प्रस्तुतिः
स्फ्यश् [26] च॑ क॒पाला॑नि चाग्निहोत्र॒हव॑णी च ..
.
Keith
The wooden sword [2], the potsherds, the offering-spoon,
मूलम्
स्फ्यश् [26] च॑ क॒पाला॑नि चाग्निहोत्र॒हव॑णी च . ..
पद-पाठः
स्फ्यः । च॒ । क॒पाला॑नि । च॒ । अ॒ग्नि॒हो॒त्र॒हव॒णीत्य॑ग्निहोत्र-हव॑नी । च॒ ।
भट्टभास्कर-टीका
कानि पुनस्तनीत्याह - स्फ्यश्छेदनादिकृत् । कपालानि हविरधिश्रयणार्थानि । अग्निहोत्रहवणी हविर्निर्वपणाद्यथा ।
सायण-टीका
आयुधविशेषस्वरूपाणि विधत्ते-
स्फ्यश्चेति। स्फ्यो नाम बाहुमात्रः खड्गाकारः काष्ठविशेषः । कपालानि भाण्डलेशसदृशानि। अग्निहोत्रहवणीलक्षणं सूत्रकार आह - वैकङ्कत्यग्निहोत्रहवणी बाहुमात्र्यरत्निमात्री वा प्रसृताकृतिरिति।
विश्वास-प्रस्तुतिः
शूर्प॑ञ्च कृष्णाजि॒नञ् च॒ ..
Keith
the basket, the black antelope skin,
मूलम्
शूर्प॑ञ्च कृष्णाजि॒नञ् च॒ ..
पद-पाठः
शूर्प॑म् । च॒ । कृ॒ष्णा॒जि॒नमिति॑ कृष्ण-अ॒जि॒नम् । च॒ ।
भट्टभास्कर-टीका
शूर्पं परावपनार्थम् । कृष्णाजिनं कृष्णमृगचर्म उलूखलाद्यधिकरणम् ।
विश्वास-प्रस्तुतिः
शम्या॑ चो॒लूख॑लञ्च॒ मुस॑लञ् च दृ॒षच् चोप॑ला च …
Keith
the pin, the mortar and pestle, the lower and upper millstones,
मूलम्
शम्या॑ चो॒लूख॑लञ्च॒ मुस॑लञ्च दृ॒षच्चोप॑ला च …
पद-पाठः
शम्या॑ । च॒ । उ॒लूख॑लम् । च॒ । मुस॑लम् । च॒ । दृ॒षत् । च॒ । उप॑ला । च॒ ।
भट्टभास्कर-टीका
शम्या समाहननाद्यर्था । उलूखलमवहन्तव्याधिकरणम् ।
मुसलुमवहननकृत् ।
दृषत्पेष्णाधिकराम् । उपला पेषणी ॥
सायण-टीका
शम्या बाहुमात्रो गदाकृतिः काष्ठविशेषः। शिष्टानि शूर्पादीनि लोकप्रसिद्धानि। पुनरपि दशायुधवेदनप्रशंसनमुपसंहारार्थम्। चकाराः परस्परसमुच्चयार्था अनुक्तदशायुधसमुच्छयार्था वा।
तानि सर्वाण्यापस्तम्बो दर्शयति-
“उत्तरेण गार्हपत्याहवनीयौ दर्भान्सँस्तीर्य द्वंद्वं न्यञ्चि पात्राणि प्रयुनक्ति दशापराणि दश पूर्वाणि स्फ्यश्च कपालानि चेति यथासमाम्नातपराणि प्रयुज्य स्रुवं जुहुमुपभृतं ध्रुवां वेदं पात्रीमाज्यस्थालीं प्राशित्रहरणमिडापात्रं प्रणीताप्रणयनमिति पूर्वाणि तान्युत्तरेणावशिष्टान्यन्वाहार्यस्थालीमश्मानमुपवेषं प्रातर्दोहपात्राणि” इति।
विश्वास-प्रस्तुतिः
ए॒तानि॒ वै दश॑ यज्ञायु॒धानि॑ ।
य ए॒वव्ँ वेद॑ मुख॒तो॑ ऽस्य य॒ज्ञᳵ क॑ल्पते ।
Keith
these are the ten weapons of the sacrifice; the sacrifice of him who knows thus is in order at the beginning.
मूलम्
ए॒तानि॒ वै दश॑ यज्ञायु॒धानि॑ ।
य ए॒वव्ँ वेद॑ मुख॒तो॑ऽस्य य॒ज्ञᳵ क॑ल्पते ।
पद-पाठः
ए॒तानि॑ । वै । दश॑ । य॒ज्ञा॒यु॒धानीति॑ यज्ञ-आ॒यु॒धानि॑ ।
यः । ए॒वम् । वेद॑ ।
मु॒ख॒तः । अ॒स्य॒ । य॒ज्ञः । क॒ल्प॒ते॒ ।
हविर्-निर्वापः
भास्करोक्त-विनियोगः
3अथ हविर्निर्वपणे कञ्चिद्विशेषमाह - यो वा इत्यादि ॥
मूलम् (संयुक्तम्)
यो वै दे॒वेभ्यᳶ॑ प्रति॒प्रोच्य॑ य॒ज्ञेन॒ यज॑ते जु॒षन्ते॑ऽस्य दे॒वा ह॒व्यँ ह॒विर्नि॑रु॒प्यमा॑णम॒भि म॑न्त्रयेता॒ग्निँ होता॑रमि॒ह तँ हु॑व॒ इति॑ [27]दे॒वेभ्य॑ ए॒व प्र॑ति॒प्रोच्य॑ य॒ज्ञेन॑ यजते जु॒षन्ते॑ऽस्य दे॒वा ह॒व्यम्।
विश्वास-प्रस्तुतिः
यो वै दे॒वेभ्यᳶ॑ प्रति॒प्रोच्य॑ य॒ज्ञेन॒ यज॑ते -
जु॒षन्ते॑ऽस्य दे॒वा ह॒व्यम् ।
ह॒विर् नि॑रु॒प्यमा॑णम् अ॒भि म॑न्त्रयेत - “अ॒ग्निँ होता॑रम् इ॒ह तँ हु॑व॒” इति॑ ।
दे॒वेभ्य॑ ए॒व प्र॑ति॒प्रोच्य॑ य॒ज्ञेन॑ यजते ।
जु॒षन्ते॑ऽस्य दे॒वा ह॒व्यम् ।
Keith
If a man sacrifices after announcing the sacrifice to the gods,
they delight in his sacrifice.
He should as the oblation is being offered recite (the words),
‘Agni, the priest, him I summon hither’ [3].
Thus he announces the sacrifice to the gods and sacrifices,
and the gods delight in his sacrifice.
मूलम्
यो वै दे॒वेभ्यᳶ॑ प्रति॒प्रोच्य॑ य॒ज्ञेन॒ यज॑ते -
जु॒षन्ते॑ऽस्य दे॒वा ह॒व्यम् ।
ह॒विर्नि॑रु॒प्यमा॑णम॒भि म॑न्त्रयेत ।
अ॒ग्निँ होता॑रमि॒ह तँ हु॑व॒ इति॑ ।
दे॒वेभ्य॑ ए॒व प्र॑ति॒प्रोच्य॑ य॒ज्ञेन॑ यजते ।
जु॒षन्ते॑ऽस्य दे॒वा ह॒व्यम् ।
पद-पाठः
यः । वै । दे॒वेभ्यः॑ । प्र॒ति॒प्रोच्येति॑ प्रति-प्रोच्य॑ । य॒ज्ञेन॑ । यज॑ते ।
जु॒षन्ते॑ । अ॒स्य॒ । दे॒वाः । ह॒व्यम् ।
ह॒विः । नि॒रु॒प्यमा॑ण॒मिति॑ निः-उ॒प्यमा॑नम् । अ॒भीति॑ । म॒न्त्र॒ये॒त॒ ।
अ॒ग्निम् । होता॑रम् । इ॒ह । तम् । हु॒वे॒ । इति॑ ।
दे॒वेभ्यः॑ । ए॒व । प्र॒ति॒प्रोच्येति॑ प्रति-प्रोच्य॑ । य॒ज्ञेन॑ । य॒ज॒ते॒ ।
जु॒षन्ते॑ । अ॒स्य॒ । दे॒वाः । ह॒व्यम् ।
भट्टभास्कर-टीका
प्रतिप्रोच्य प्रत्यावेद्य जुषन्ते सेवन्ते अस्य हव्यं देवाः । हविर्निरुप्यमाणमित्यादि ।
सायण-टीका
यजमानस्याभिमन्त्रणं विधातुं प्रस्तौति-
यो वै देवेभ्य इति। प्रतिप्रोच्य होष्यामीति प्रतिश्रुत्य।
विधत्ते-
हविर्निरुप्यमाणमिति। अग्निँ होतारमित्यादिमन्त्रः पूर्वप्रपाठके मम नामेत्यनुवाके समाम्नातो व्याख्यातश्च। देवानामाह्वातारं तमग्निमिह यज्ञेऽहमाह्वयामि। आ यन्तु देवाः सुमनस्यमाना वियन्तु देवा हविषो मे अस्येत्यस्मिन्नुत्तरार्धे देवेभ्यः प्रतिश्रवणं विस्पष्टम्। अस्य हविषो वियन्तु इदं हविरश्नन्त्वित्यर्थः।
विश्वास-प्रस्तुतिः
ए॒ष वै य॒ज्ञस्य॒ ग्रहो॑ - गृही॒त्वैव य॒ज्ञेन॑ यजते ।
Keith
This is the taking of the sacrifice and so after taking the sacrifice he sacrifices.
मूलम्
ए॒ष वै य॒ज्ञस्य॒ ग्रहो॑ गृही॒त्वैव य॒ज्ञेन॑ यजते ।
पद-पाठः
ए॒षः । वै । य॒ज्ञस्य॑ । ग्रहः॑ । गृ॒ही॒त्वा । ए॒व । य॒ज्ञेन॑ । य॒ज॒ते॒ ।
भट्टभास्कर-टीका
एष वा इत्यादि । एष मन्त्रो यज्ञस्य ग्रहः गृह्यतेनेन यज्ञ इति । तस्माद्गृहीत्वैव यज्ञमनेनाभिमन्त्रणेन; ततो यागमारभते ।
सायण-टीका
इदमभिमन्त्रणं पुनः प्रशंसति-
एष वा इति। एष मन्त्रप्रयोगो यज्ञस्वीकाररूपः। हविषो वियन्त्वित्यनेन देवतामुद्दिश्य द्रव्यत्यागस्य सूचितत्वात्।
वाग्दानम्
विश्वास-प्रस्तुतिः
तद् उ॑दि॒त्वा वाचय्ँ॑ यच्छति - य॒ज्ञस्य॒ धृत्यै॑ ।
Keith
After speaking he remains silent, to support the sacrifice.
मूलम्
तदु॑दि॒त्वा वाचय्ँ॑यच्छति य॒ज्ञस्य॒ धृत्यै॑ ।
पद-पाठः
तत् । उ॒दि॒त्वा । वाच॑म् । य॒च्छ॒ति॒ । य॒ज्ञस्य॑ । धृत्यै॑ ।
भट्टभास्कर-टीका
तदुदित्वा तद्वचनानन्तरं वाचं यच्छत्यवचनो भवति यज्ञस्य धृत्यै गृहीतस्य यज्ञस्याविस्रंसनाय ।
सायण-टीका
यजमानस्य मौनं विधत्ते -
तदुदित्वेति। तदभिमन्त्रणमन्त्रवाक्यम्। मौनेन यज्ञो बहिरप्रकाशितत्वाद्धृतो भवति।
विश्वास-प्रस्तुतिः
अथो॒ मन॑सा॒ वै प्र॒जाप॑तिर् य॒ज्ञम् अ॑तनुत ।
मन॑सै॒व तद् य॒ज्ञन् त॑नुते॒
रक्ष॑सा॒म् अन्-अ॑न्व्-अवचाराय ।
Keith
Now Prajapati performed the sacrifice with mind; verily he performs the sacrifice with mind to prevent the Raksases following.
मूलम्
अथो॒ मन॑सा॒ वै प्र॒जाप॑तिर्य॒ज्ञम॑तनुत ।
मन॑सै॒व तद्य॒ज्ञन्त॑नुते॒ रक्ष॑सा॒मन॑न्ववचाराय ।
पद-पाठः
अथो॒ इति॑ । मन॑सा । वै । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । य॒ज्ञम् । अ॒त॒नु॒त॒ ।
मन॑सा । ए॒व । तत् । य॒ज्ञम् । त॒नु॒ते॒ । रक्ष॑साम् । अन॑न्ववचारा॒येत्यन॑नु-अ॒व॒चा॒रा॒य॒ ।
भट्टभास्कर-टीका
अथो अपि च प्रजापतिरिव मनसैवायं यज्ञं तनितुमर्हति किं वाचा । एवं हि क्रियमाणं रक्षसाम् अनन्ववचारायाननुप्रवेशाय भवति ॥
सायण-टीका
पुनरपि मौनं प्रशंसति -
अथो मनसेति। सति वाग्व्यापारे विवक्षितशब्दविशेषतदर्थचिन्तया तत्प्रसक्तानुप्रसक्तचिन्तया च विक्षिप्तं मनः प्रकृताद्यज्ञात्स्खलति। अतः प्रजापतिरविक्षेपाय मनसैव यज्ञमकरोत्। तद्वद्यजमानोऽपि तत्तेन मैनेन यज्ञं तनुते। तथा सति स्खलनाभावाद्रक्षसामत्र प्रचारो न भवति।
यज्ञयोगः
भास्करोक्त-विनियोगः
4अथ यज्ञयोगं विदधाति - यो वा इत्यादि ॥
विश्वास-प्रस्तुतिः
यो वै य॒ज्ञय्ँ
योग॒ आग॑ते यु॒नक्ति॑ -
यु॒ङ्क्ते यु॑ञ्जा॒नेषु॑ ।
Keith
He who yokes the sacrifice when the yoking (time) arrives yokes it indeed among the yokers.
मूलम्
यो वै य॒ज्ञय्ँयोग॒ आग॑ते यु॒नक्ति॑ यु॒ङ्क्ते यु॑ञ्जा॒नेषु॑ ।
पद-पाठः
यः । वै । य॒ज्ञम् । योगे॑ । आग॑त॒ इत्या-ग॒ते॒ । यु॒नक्ति॑ । यु॒ङ्क्ते । यु॒ञ्जा॒नेषु॑ ।
भट्टभास्कर-टीका
योगे यागकाल आगते यज्ञं यो युनक्ति बध्नाति, अयमेव युञ्जानेषु यजमानेषु मध्ये युङ्क्ते युङ्क्त इति व्यपदेशमर्हति । यद्वा - युञ्जानेष्वात्मानं योजयति ।
सायण-टीका
यज्ञयोगविधिमनुन्नेतुं प्रस्तौति-
यो वै यज्ञमिति। यो यजमानो यज्ञयोगकाले समागते सत्यप्रमत्तो यज्ञं युनक्ति स एव युञ्जानेषु यजमानेषु युङ्क्त इति व्यपदेशमर्हति। अकाले तु योगः कृतोऽप्यकृत एव स्यात्।
विश्वास-प्रस्तुतिः
“कस् त्वा॑ युनक्ति॒
स त्वा॑ युन॒क्त्व्” इत्य् आ॑ह ।
प्र॒जाप॑ति॒र् वै कः,
प्र॒जाप॑तिनै॒वैनय्ँ॑ युनक्ति,
यु॒ङ्क्ते यु॑ञ्जा॒नेषु॑ ॥ [28]
Keith
‘Who (ka) yoketh thee? Let him yoke thee’, he says. Ka is Prajapati–verily by Prajapati he yokes it; he yokes indeed among the yokers.
मूलम्
कस्त्वा॑ युनक्ति॒ स त्वा॑ युन॒क्त्वित्या॑ह ।
प्र॒जाप॑ति॒र्वै कः …
प्र॒जाप॑तिनै॒वैनय्ँ॑युनक्ति यु॒ङ्क्ते यु॑ञ्जा॒नेषु॑ ॥ [28]
पद-पाठः
कः । त्वा॒ । यु॒न॒क्ति॒ ।
सः । त्वा॒ । यु॒न॒क्तु॒ । इति॑ । आ॒ह॒ ।
प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । वै । कः । प्
र॒जाप॑ति॒नेति॑ प्र॒जा-प॒ति॒ना॒ । ए॒व । ए॒न॒म् । यु॒न॒क्ति॒ । यु॒ङ्क्ते । यु॒ञ्जा॒नेषु॑ ॥
भट्टभास्कर-टीका
मन्त्रपदमिदनीं व्याचष्टे - कस्त्वेति । गतम् ॥
इति षष्ठेष्टमोनुवाकः ॥
सायण-टीका
योगविध्युन्नयनमभिप्रेत्य तत्र करणभूतं मन्त्रमुदाहृत्य व्याचष्टे-
कस्त्वा युनक्तीति। अयमपि मन्त्रः पूर्वप्रपाठके समाम्नातः। यः प्रजापतिः सर्वदा सर्वेषां यजमानानां यज्ञं युनक्ति स एवाद्य मदीयं यज्ञं युनक्तु रथेऽश्वमिव मयि यज्ञं संबध्नातु। अनेन मन्त्रेण यज्ञं युञ्ज्यादित्युन्नीतो विधिः।
इति षष्ठेष्टमोनुवाकः ॥