०५.१ ध्रुवाप्यायनादि

ध्रुवाप्यायनाद्यनुमन्त्रण-यजमानभागप्राशन- दिग्व्यूहन-विष्णुक्रममन्त्राः

१ विराट् स्थाना प्रजापतिर्ऋषिः


भास्करोक्त-विनियोगः

1ध्रुवाम् आप्यायमानाम् अनुमन्त्रयते - आ प्यायतामिति ।

विश्वास-प्रस्तुतिः ...{Loading}...

आ प्या॑यतान् ध्रु॒वा घृ॒तेन॑
य॒ज्ञय्ँ य॑ज्ञ॒म् प्रति॑ देव॒यद्भ्यः॑ +++(←कामे क्यच्, ईत्वाभावः)+++ ।
+++(ध्रुवा)+++ सू॒र्याया॒ ऊधो, ऽदि॑त्या उ॒पस्थ॑,
उ॒रु-धा॑रा पृथि॒वी य॒ज्ञे अ॒स्मिन्न् ॥

सर्वाष् टीकाः ...{Loading}...

Keith

Let the Dhruva swell with ghee,
For each sacrifice for the worshippers;
In the udder of the sun maiden, in the lap of Aditi,
Broad streamed be the earth at this sacrifice.

मूलम्

आ प्या॑यतान्ध्रु॒वा घृ॒तेन॑ य॒ज्ञय्ँय॑ज्ञ॒म्प्रति॑ देव॒यद्भ्यः॑ ।
सू॒र्याया॒ ऊधोऽदि॑त्या उ॒पस्थ॑ उ॒रुधा॑रा पृथि॒वी य॒ज्ञे अ॒स्मिन्न् ॥

पद-पाठः

एति॑ । प्या॒य॒ता॒म् । ध्रु॒वा । घृ॒तेन॑ । य॒ज्ञय्यँ॑ज्ञ॒मिति॑ य॒ज्ञम्-य॒ज्ञ॒म् । प्रतीति॑ । दे॒व॒यद्भ्य॒ इति॑ देव॒यत्-भ्यः॒ ॥
सू॒र्यायाः॑ । ऊधः॑ । अदि॑त्याः । उ॒पस्थ॒ इत्यु॒प-स्थे॒ । उ॒रुधा॒रेत्यु॒रु-धा॒रा॒ । पृ॒थि॒वी । य॒ज्ञे । अ॒स्मिन्न् ॥

भट्टभास्कर-टीका

इयं विराट्त्रिष्टुप् ॥ आप्यायतां वर्धतां सदा पूर्यतां घृतेन ध्रुवायज्ञंयज्ञं प्रति सर्वेषु यज्ञेषु । वीप्सायां प्रतेः कर्म-प्रवचनीयत्वम् । देवयद्भ्यः देवानात्मन इच्छद्भ्यः । ‘न छन्दस्य् अपुत्रस्य’ इतीत्वाभावः । देवान् वा देवयद्भ्यः तृप्तान् क्रीडयद्भ्यः ऋत्विग्भ्यः । यथा तेभ्यः पर्याप्तं भवति तथा आप्यायताम् । द्वितीयपक्षे लसार्वधातुकानुदात्तत्वाभावश् छान्दसः । सैव ध्रुवा विशेष्यते - सूर्यायास्सूर्यवत्याः द्योस्तिष्ठद्गोस्थनीयायाः ऊधः अधोगतापीनभाग स्थानीया । ‘सूर्याद्देवतायां चाप्’ । अदित्या अदीनायाः पृथिव्या उत्तानायाः उत्सङ्गस्थाना; सर्वोपजीव्यत्वात् । देवमातुरेव वोपस्थ उत्सङ्गः, देवानामुपलालनस्थानत्वात् ।

किञ्च - उरुधारा महाधारा सन्तत-प्रस्नवनी पृथिवी विस्तीर्णा । यद्वा - उरुधारा पृथिवी महार्थसाधनपृथिवीस्थानीया । तादृशी ध्रुवा ऽस्मिन् यज्ञे सर्वयज्ञार्थमाप्यायतामिति ॥

सायण-टीका

चतुर्थेऽनूयाजादिशेषहोमानुमन्त्रणमुक्तम्। पञ्चमे त्वाप्यायनादिमन्त्रा उच्यन्ते।
आ प्यायतामिति। कल्पः - ‘ध्रुवामाप्यायमानामनुमन्त्रयते - आ प्याययतां ध्रुवा घृतेन यज्ञंयज्ञं प्रति देवयद्भ्यः। सूर्याया ऊधोऽदित्या उपस्थ उरुधारा पृथिवी यज्ञे अस्मिन्निति’ इति।

यज्ञंयज्ञं प्रति तां तामाहुतिं प्रति देवयद्भ्यो देवान्होतुमिच्छद्भ्य ऋत्विग्भ्यः। पर्याप्तेन घृतेनेयं ध्रुवाऽऽप्यायतां पुनः पुनः पूर्यताम्। ऊधःशब्देन पयःपूर्णस्तनसंघोऽभिधीयते। सूर्याशब्देनोषा आदित्यपत्नी विवक्ष्यते। तत्पत्नीत्वं च नक्षत्रेष्टावाम्नायते – ‘उषा वा अकामयत। प्रियाऽऽदित्यस्य सुभगा स्यामिति’ (ब्रा॰ का॰ ३ प्र॰ १ अ॰ ६) इति। इवशब्दोऽत्राध्याहर्तव्यः। यथा सूर्याया गोरूपधारिण्या ऊधः पयःपूर्णं तथा ध्रुवा घृतेनाऽऽप्यायताम्। किंच, अदित्या वेदिरूपायाः पृथिव्या उपस्थ उत्सङ्गे वर्तमाना सेयं ध्रुवोरूधारा महाधारा पुनः पुनः सिच्यमानाभिराज्यधारामिरुपेताऽत एव पृथिवी विस्तीर्णा सत्यस्मिन्सर्वस्मिन्यज्ञे सम्यगाप्यायताम्।


भास्करोक्त-विनियोगः

2यजमानभागं प्राश्नाति - प्रजापतेरिति ॥

मूलम् (संयुक्तम्)

प्र॒जाप॑तेर्वि॒भान्नाम॑ लो॒कस्तस्मिँ॑स्त्वा दधामि स॒ह यज॑मानेन

विश्वास-प्रस्तुतिः

प्र॒जाप॑तेर् वि॒भान् नाम॑ लो॒कः ।

Keith

Prajapati’s is the world called Vibhan.

मूलम्

प्र॒जाप॑तेर्वि॒भान्नाम॑ लो॒कः ।

पद-पाठः

प्र॒जाप॑ते॒रिति॑ प्र॒जा-प॒तेः॒ । वि॒भानिति॑ वि-भान् । नाम॑ । लो॒कः ।

भट्टभास्कर-टीका

प्रजापतेर्लोको विभान् सूर्यादिभिर्यो विविधं भाति, सूर्यादिरहितं स्वतेजसा वा, स पुनरयं लोकः । ‘अयं वै प्रजापतेः’ इत्यादि ब्राह्मणम् ।

सायण-टीका

प्रजापतेरिति। कल्पः - ‘अथ यजमानभागं प्राश्नाति प्रजापतेर्विभान्नाम लोकस्तस्मिँस्त्वा दधामि सह यजमानेनेति’ इति।

यद्यपि स्वर्गादिलोकाः सर्वे प्रजापतिना सृष्टत्वात्तत्संबन्धिनस्तथाऽप्यकर्मभूमित्वेन यजमानान्प्रति विशेषेण न भान्तीति नास्ति एतेषां विभाञ्‍शब्द-वाच्यः।

विश्वास-प्रस्तुतिः

तस्मिँ॑स् त्वा दधामि स॒ह यज॑मानेन ।

Keith

In it I place thee along with the sacrificer.

मूलम्

तस्मिँ॑स्त्वा दधामि स॒ह यज॑मानेन ।

पद-पाठः

तस्मि॑न् । त्वा॒ । द॒धा॒मि॒ । स॒ह । यज॑मानेन ।

भट्टभास्कर-टीका

तस्मिन् लोके त्वां दधामि स्थापयामि यजमानेन मया सह हे यजमानभाग ॥

सायण-टीका

विभान्नामके प्रजापतिसंबन्धिनि तस्मिन्भूलोके हविर्भागभक्षकेण यजमानेन मया सह त्वां स्थापयामि।


भास्करोक्त-विनियोगः

3पूर्णपात्र आनीयमाने यजमानं वाचयति - सदसीत्यादि ॥

मूलम् (संयुक्तम्)

सद॑सि॒ सन्मे॑ भूया॒स्सर्व॑मसि॒ सर्व॑म्मे भूयाᳶ पू॒र्णम॑सि पू॒र्णम्मे॑ भूया॒ अक्षि॑तमसि॒ मा मे॑ क्षेष्ठाः

विश्वास-प्रस्तुतिः

सद् अ॑सि॒, सन् मे॑ भूयाः ।

Keith

Thou art real, be real for me;

मूलम्

सद॑सि॒ सन्मे॑ भूयाः ।

पद-पाठः

सत् । अ॒सि॒ । सत् । मे॒ । भू॒याः॒ ।

भट्टभास्कर-टीका

सत् सत्ताविष्टं यावत्किञ्चित्तत्सर्वं त्वमसि । तस्मात्त्वं सत्ताविष्टं सर्वं मे मम भूयाः भव, सर्वस्य सत्तासाधनं भूयाः, न किञ्चिदप्यसन्मे भूयात् । यद्वा - सत् शोभनमसि; तस्माद्यावत्किञ्चिच्छोभनं नः तत्सर्वं मे भूयाः,

सायण-टीका

सदसीति। कल्पः - ‘पूर्णपात्रे यजमानं वाचयति सादसि सन्मे भूयाः सर्वमसि सर्वं मे भूयाः पूर्णमसि पूर्णं मे भूया अक्षितमसि मा मे क्षेष्ठा इति’ इति।
पूर्णपात्र आनीयमानेऽध्वर्युणेति शेषः। हे पूर्णपात्र त्वं सदसि संयवनादिकार्यकारितया शोभनमसि। अतो मम फलप्रदानेन सद्भूयाः शोभनं भूयाः।

विश्वास-प्रस्तुतिः

सर्व॑म् असि॒, सर्व॑म् मे भूयाः ।

Keith

thou art all, be all for me;

मूलम्

सर्व॑मसि॒ सर्व॑म्मे भूयाः ।

पद-पाठः

सर्व॑म् । अ॒सि॒ । सर्व॑म् । मे॒ । भू॒याः॒ ।

भट्टभास्कर-टीका

सर्वं सर्वात्मकमसि, त्वत्तोन्यन्न किञ्चिदस्ति; तस्मात्सर्वमिष्टं मम त्वं भूयाः,

सायण-टीका

सर्वमसि व्युत्सेकेन वक्ष्यमाणेन प्राच्यादिसर्वदिग्व्याप्तमसि। अतो ममापेक्षितं सर्वं कार्यं कर्तुं क्षमं भूयाः।

विश्वास-प्रस्तुतिः

पू॒र्णम् अ॑सि पू॒र्णम् मे॑ भूयाः ।

Keith

thou art full, be full for me;

मूलम्

पू॒र्णम॑सि पू॒र्णम्मे॑ भूयाः ।

पद-पाठः

पू॒र्णम् । अ॒सि॒ । पू॒र्णम् । मे॒ । भू॒याः॒ ।

भट्टभास्कर-टीका

पूर्णं पर्याप्तं सर्वसमृद्धिभिः आप्यायितमसि । ‘वा दान्तशान्त’ इति निष्ठान्तो निपात्यते । तस्मात्त्वं मम पर्याप्तमभिमतं भूयाः । शोभनं च कृत्स्नं च पर्याप्तं च ममाभिमतं सम्पादयेति भावः ।

सायण-टीका

अद्भिः पूर्णमसि। अतो मम प्रयोजनं संपूर्णं कर्तुमुद्युक्तं भूयाः।

विश्वास-प्रस्तुतिः

अक्षि॑तम् असि॒ - मा मे॑ क्षेष्ठाः ।

Keith

thou art imperishable, perish not for me.

मूलम्

अक्षि॑तमसि॒ मा मे॑ क्षेष्ठाः ।

पद-पाठः

अक्षि॑तम् । अ॒सि॒ । मा । मे॒ । क्षे॒ष्ठाः॒ ।

भट्टभास्कर-टीका

अक्षितमनुपक्षीणमसि; तस्मान्मद्विषये मा क्षेष्ठाः क्षयं मा गाः, मित्रमिव वर्तस्वेति ॥

सायण-टीका

अक्षितमसि पूर्णत्वादेव क्षयरहितमसि। अतो मम कार्यकरणे मा क्षेष्ठाः क्षयं मा प्राप्नुहि।


भास्करोक्त-विनियोगः

4-8दिशो व्युत्सिञ्चति - प्राच्यामित्यादि ॥ अत्र ब्राह्मणम् । ‘सर्वाणि वै भूतानि व्रतमुपयन्तमनूपयन्ति’ इति ।

विश्वास-प्रस्तुतिः

प्राच्या॑न् दि॒शि दे॒वा ऋ॒त्विजो॑ +++(आत्मानं मां च)+++ मार्जयन्ताम्+++(=शोधयन्ताम्)+++ ।

Keith

In the eastern quarter may the gods, the priests, make (me) bright;

मूलम्

प्राच्या॑न्दि॒शि दे॒वा ऋ॒त्विजो॑ मार्जयन्ताम् ।

पद-पाठः

प्राच्या॑म् । दि॒शि । दे॒वाः । ऋ॒त्विजः॑ । मा॒र्ज॒य॒न्ता॒म् ।

भट्टभास्कर-टीका

ततः प्राच्यां दिशि व्यवस्थिताः ये देवा ऋत्विजश्च ते इदानीं मार्जयन्तां आत्मानं मां च शोधयन्ताम् । ‘एष वै दर्शपूणमासयोरवभृथः’ इत्यादि ब्राह्मणम् ।

सायण-टीका

प्राच्यां दिशीति। कल्पः - ‘दिशो व्यूहति प्राच्यां दिशि देवा ऋत्विजो मार्जयन्तां दक्षिणायां दिशि मासाः पितरो मार्जयन्तां प्रतीच्यां दिशि गृहाः पशवो मार्जयन्तामुदीच्यां दिश्याप ओषधयो वनस्पतयो मार्जयन्तामूर्ध्वायां दिशि यज्ञः संवत्सरो यज्ञपतिर्मार्जयन्तामिति’ इति।

ऋत्विग्देवाद्यभिमानिनः सर्वे प्राणिनो यागं द्रष्टुं प्राच्यादिदिक्षु निवसन्ति।
अत एव ब्राह्मणमाम्नायते – ‘सर्वाणि वै भूतानि व्रक्षमुपयन्तमनूपयन्ति’ इति। मासगृहादीनामचेतनत्वेऽपि तदभिमानिनः पुरुषा इह विवक्षिताः। अन्तर्धानादिशक्तियोगादेतेषामदर्शनमविरुद्धम्। त एते देवादयस्तस्यां तस्यां दिशि मार्जयन्तां शोधयन्ताम्।

विश्वास-प्रस्तुतिः

दक्षि॑णायां [15] दि॒शि मासाः॑ पि॒तरो॑ मार्जयन्ताम्।

Keith

in the southern [1] quarter may the months, the fathers, make (me) bright;

मूलम्

दक्षि॑णायां [15] दि॒शि मासाः॑ पि॒तरो॑ मार्जयन्ताम्।

पद-पाठः

दक्षि॑णायाम् । दि॒शि । मासाः॑ । पि॒तरः॑ । मा॒र्ज॒य॒न्ता॒म् ।

भट्टभास्कर-टीका

एतेन दक्षिणायामित्यादयो व्याख्याताः । मासास्त्रिंशदहोरात्रात्मकाः । पितरस्स्वपित्रादयः, सोमपितृमदादयश्च ।

विश्वास-प्रस्तुतिः

प्र॒तीच्या॑न् दि॒शि गृ॒हाᳶ प॒शवो॑ मार्जयन्ताम् ।

Keith

in the western quarter may the houses, the cattle, make (me) bright;

मूलम्

प्र॒तीच्या॑न्दि॒शि गृ॒हाᳶ प॒शवो॑ मार्जयन्ताम् ।

पद-पाठः

प्र॒तीच्या॑म् । दि॒शि । गृ॒हाः । प॒शवः॑ । मा॒र्ज॒य॒न्ता॒म् ।

भट्टभास्कर-टीका

गृहा आवसथाः येषु निवसन्ति जन्तवः । पशवः द्विविधाः ग्राम्या आरण्याश्च द्विचतुष्पदात्मकाः दोहनवहनादिकार्यक्षमाः ।

विश्वास-प्रस्तुतिः

उदी॑च्यान् दि॒श्य् आप॒ ओष॑धयो॒ वन॒स्पत॑यो मार्जयन्ताम्

Keith

in the northern quarter may the waters, the plants, the trees make (me) bright;

मूलम्

उदी॑च्यान्दि॒श्याप॒ ओष॑धयो॒ वन॒स्पत॑यो मार्जयन्ताम्

पद-पाठः

उदी॑च्याम् । दि॒शि । आपः॑ । ओष॑धयः । वन॒स्पत॑यः । मा॒र्ज॒य॒न्ता॒म् ।

विश्वास-प्रस्तुतिः

ऊ॒र्ध्वाया॑न् दि॒शि य॒ज्ञस् सव्ँ॑वत्स॒रो य॒ज्ञप॑तिर् मार्जयन्ताम् ।

Keith

in the zenith may the sacrifice, the year, the lord of the sacrifice make (me) bright.

मूलम्

ऊ॒र्ध्वाया॑न् दि॒शि य॒ज्ञस्सव्ँ॑वत्स॒रो य॒ज्ञप॑तिर्मार्जयन्ताम् ।

पद-पाठः

ऊ॒र्ध्वाया॑म् । दि॒शि । य॒ज्ञः । सव्ँ॒व॒त्स॒र इति॑ सम्-व॒त्स॒रः । य॒ज्ञप॑ति॒रिति॑ य॒ज्ञ-प॒तिः॒ । मा॒र्ज॒य॒न्ता॒म् ।

भट्टभास्कर-टीका

यज्ञो दर्शपूर्णमासादिः । संवत्सरो द्वादशमासात्मकः । यज्ञपतिर्यजमानः, सृष्ट्यादिकृत्प्रजापतिर्वा । शिष्टं स्पष्टम् ॥