अनूयाजादीनाम् अनुमन्त्रणमन्त्राः , उज्झितमन्त्राः, स्रुग्व्यूहन-यज्ञदोह-प्रह्रियमाण-प्रस्तरानुमन्त्रण-विमुच्यमानपरिध्यनुमन्त्रण-शंयुवाकानुमन्त्रण-पत्नीसंयाजाद्यनुमन्त्रणमन्त्राः
१२-१३ अनुष्टुप्
१४ पुर उष्णिक्
१८ त्रिष्टुप्
प्रजापतिर्ऋषिः
अनूयाजाः
भास्करोक्त-विनियोगः
1अनूयाजान् क्रमेणानुमन्त्रयते - बर्हिष इति ॥
विश्वास-प्रस्तुतिः
ब॒र्हिषो॒ ऽहन् दे॑वय॒ज्यया॑ प्र॒जावा॑न् भूयासम् ।
Keith
By sacrifice to the divine straw, may I be possessed of children.
मूलम्
ब॒र्हिषो॒ऽहन्दे॑वय॒ज्यया॑ प्र॒जावा॑न्भूयासम् ।
पद-पाठः
ब॒र्हिषः॑ । अ॒हम् । दे॒व॒य॒ज्ययेति॑ देव-य॒ज्यया॑ । प्र॒जावा॒निति॑ प्र॒जा-वा॒न् । भू॒या॒स॒म् ।
भट्टभास्कर-टीका
बर्हिषो देवताया देवयज्यया देवार्हेण यागेनाहं प्रजावान् बह्वपत्यो जीवदपत्यश्च भूयासम् ॥
सायण-टीका
तृतीये भक्ष्यस्येडादिभागस्यानुमन्त्रणमुक्तम्। चतुर्थे शेषाहुतीनामनुयाजा-दीनामनुमन्त्रणमुच्यते।
बर्हिषोऽहमिति। कल्पः - ‘अनूयाजानामिष्टमिष्टमनुमन्त्रयते बर्हिषोऽहं देवयज्यया प्रजावान्भूयासं नराशँसस्याहं देवयज्यया पशुमान् भूयासमग्नेः स्विष्टकृतोऽहं देवयज्ययाऽऽयुष्मान्यज्ञेन प्रतिष्ठां गमेयमिति’ इति।
बर्हिर्नराशंसस्विष्टकृच्छब्दा अनुयाजदेवानामग्निविशेषाणां वाचकाः।
विश्वास-प्रस्तुतिः
न॒रा॒शँस॑स्या॒हन् दे॑वय॒ज्यया॑ पशु॒मान् भू॑यासम् ।
Keith
By sacrifice to the god Naraśansa, may I be possessed of cattle.
मूलम्
न॒रा॒शँस॑स्या॒हन्दे॑वय॒ज्यया॑ पशु॒मान्भू॑यासम् ।
पद-पाठः
नरा॒शँस॑स्य । अ॒हम् । दे॒व॒य॒ज्ययेति॑ देव-य॒ज्यया॑ । प॒शु॒मानिति॑ पशु-मान् । भू॒या॒स॒म् ।
भट्टभास्कर-टीका
2 नराशंसस्य नरैश् शंसनीयस्य । गतम् । पशुमान् बहुपशुः । ‘ह्रस्वनुड्भ्यां मतुप्’ इति मतुप उदात्तत्वम् ॥
सायण-टीका
बर्हिर्नराशंसयागाभ्यां प्रजापतिः क्रमेण प्रजाः पशूंश्च ससर्जेति यजमानस्य तत्तत्प्रर्थना युक्ता। स्विष्टकृन्मन्त्रस्तु व्याख्यातः’
कल्पः - ‘अथ यत्र होतुरभिजानात्यग्निरिदं हविजुषतेति तद्यजमानमुज्जि-तीर्वाचयति अग्नेरहमुज्जतिमनूज्जेषमिति यथेष्टम्’ इति।
विश्वास-प्रस्तुतिः
अ॒ग्नेस् स्वि॑ष्ट॒कृतो॒ ऽहन् दे॑वय॒ज्यया
ऽऽयु॑ष्मान्, य॒ज्ञेन॑ प्रति॒ष्ठाङ् ग॑मेयम् ।
Keith
By sacrifice to the god Agni Svistakrt, may I attain security through the sacrifice, having long life.
मूलम्
अ॒ग्नेस्स्वि॑ष्ट॒कृतो॒ऽहन्दे॑वय॒ज्ययाऽऽयु॑ष्मान् य॒ज्ञेन॑ प्रति॒ष्ठाङ्ग॑मेयम् ।
पद-पाठः
अ॒ग्नेः । स्वि॒ष्ट॒कृत॒ इति॑ स्विष्ट-कृतः॑ । अ॒हम् । दे॒व॒य॒ज्ययेति॑ देव-य॒ज्यया॑ । आयु॑ष्मान् । य॒ज्ञेन॑ । प्र॒ति॒ष्ठामिति॑ प्रति-स्थाम् । ग॒मे॒य॒म् ।
भट्टभास्कर-टीका
3अग्नेस्स्विष्टकृत इति ॥ व्याख्यातमेव ॥
- [ स्विष्टकृतः - अग्नेस्स्विष्टकृत इति ॥ स्विष्टं करोर्तीति स्विष्टकृत्, तस्य देवयज्ययाहमायुष्मान्भूत्वा यज्ञेन प्रतिष्ठां गमेयम् । यज्ञेन या प्रतिष्ठा भवति ‘यो यतो यज्ञं प्रयुङ्क्ते । तदेनं प्रतिष्ठापयतीति । प्रति तिष्ठति प्रजया पशुभिर्यजमानः’ इति तामपि प्रतिष्ठां गमेयम् । ‘लिङ्याशिष्यङ्’ ॥]
उज्झितिमन्त्राः
भास्करोक्त-विनियोगः
4-11सूक्तवाके ‘अग्निरिदं हविरजुषत’ इत्यादिक्रमेण उज्जितीर्वाचयति - अग्नेरहमित्याद्याः ॥ दर्शपूर्णमासाभ्यां पूर्ववद् देवता इष्ट्वा, तयोर् उज्जितिम् उच्छ्रितम् ऊर्ध्वलोक-विषयं वा जयं नः अनूदजयन् तद्धेतुकाम् उज्जितिम् अलभन्त । ‘दर्शपूर्णर्मासयोर् वै देवाः’ इत्यादि ब्राह्मणम् ।
मूलम् (संयुक्तम्)
अ॒ग्नेर॒हमुज्जि॑ति॒मनूज्जे॑षँ॒ सोम॑स्या॒हमुज्जि॑ति॒मनूज्जे॑षम॒ग्नेर॒हमुज्जि॑ति॒मनूज्जे॑षम॒ग्नीषोम॑योर॒हमुज्जि॑ति॒मनूज्जे॑षमिन्द्राग्नि॒योर॒हमुज्जि॑ति॒मनूज्जे॑ष॒मिन्द्र॑स्या॒हम् [11]उज्जि॑ति॒मनूज्जे॑षम्महे॒न्द्रस्या॒हमुज्जि॑ति॒मनूज्जे॑षम॒ग्नेस्स्वि॑ष्ट॒कृतो॒ऽहमुज्जि॑ति॒मनूज्जे॑षम्
विश्वास-प्रस्तुतिः
अ॒ग्नेर् अ॒हम् उज्जि॑ति॒म् अनूज्जे॑षम् ।
सोम॑स्या॒हम् उज्जि॑ति॒म् अनूज्जे॑षम् ।
अ॒ग्नेर् अ॒हम् उज्जि॑ति॒म् अनूज्जे॑षम् ।
अ॒ग्नीषोम॑योर् अ॒हम् उज्जि॑ति॒म् अनूज्जे॑षम् ।
इ॒न्द्रा॒ग्नि॒योर्+++(→ग्न्योर् इति स्वरः)+++ अ॒हम् उज्जि॑ति॒म् अनूज्जे॑षम् ।
इन्द्र॑स्या॒हम् उज्जि॑ति॒म् अनूज्जे॑षम् ।
म॒हे॒न्द्रस्या॒हम् उज्जि॑ति॒म् अनूज्जे॑षम् ।
अ॒ग्नेस् स्वि॑ष्ट॒कृतो॒ ऽहम् उज्जि॑ति॒म् अनूज्जे॑षम् ।
Keith
May I be victorious through the victory of Agni.
May I be victorious through the victory of Soma.
May I be victorious through the victory of Agni.
May I be victorious through the victory of Agni and Soma.
May I be victorious through the victory of Indra and Agni.
May I be victorious through the victory of Indra [1].
May I be victorious through the victory of Mahendra.
I May I be victorious through the victory of Agni Svistakrt.
मूलम्
अ॒ग्नेर॒हमुज्जि॑ति॒मनूज्जे॑षम् ।
सोम॑स्या॒हमुज्जि॑ति॒मनूज्जे॑षम् ।
अ॒ग्नेर॒हमुज्जि॑ति॒मनूज्जे॑षम् ।
अ॒ग्नीषोम॑योर॒हमुज्जि॑ति॒मनूज्जे॑षम् ।
इ॒न्द्रा॒ग्नि॒योर॒हमुज्जि॑ति॒मनूज्जे॑षम् ।
इन्द्र॑स्या॒हमुज्जि॑ति॒मनूज्जे॑षम् ।
म॒हे॒न्द्रस्या॒हमुज्जि॑ति॒मनूज्जे॑षम् ।
अ॒ग्नेस्स्वि॑ष्ट॒कृतो॒ऽहमुज्जि॑ति॒मनूज्जे॑षम् ।
पद-पाठः
अ॒ग्नेः । अ॒हम् । उज्जि॑ति॒मित्युत्-जि॒ति॒म् । अनु॑ । उदिति॑ । जे॒ष॒म् ।
सोम॑स्य । अ॒हम् । उज्जि॑ति॒मित्युत्-जि॒ति॒म् । अनु॑ । उदिति॑ । जे॒ष॒म् ।
अ॒ग्नेः । अ॒हम् । उज्जि॑ति॒मित्युत्-जि॒ति॒म् । अनु॑ । उदिति॑ । जे॒ष॒म् ।
अ॒ग्नीषोम॑यो॒रित्य॒ग्नी-सोम॑योः । अ॒हम् । उज्जि॑ति॒मित्युत्-जि॒ति॒म् । अनु॑ । उदिति॑ । जे॒ष॒म् ।
इ॒न्द्रा॒ग्नि॒योरिती॑न्द्र-अ॒ग्नि॒योः । अ॒हम् । उज्जि॑ति॒मित्युत्-जि॒ति॒म् । अनु॑ । उदिति॑ । जे॒ष॒म् ।
इन्द्र॑स्य । अ॒हम् । उज्जि॑ति॒मित्युत्-जि॒ति॒म् । अनु॑ । उदिति॑ । जे॒ष॒म् ।
म॒हे॒न्द्रस्येति॑ महा-इ॒न्द्रस्य॑ । अ॒हम् । उज्जि॑ति॒मित्युत्-जि॒ति॒म् । अनु॑ । उदिति॑ । जे॒ष॒म् ।
अ॒ग्नेः । स्वि॒ष्ट॒कृत॒ इति॑ स्विष्ट-कृतः॑ । अ॒हम् । उज्जि॑ति॒मित्युत्-जि॒ति॒म् । अनु॑ । उदिति॑ । जे॒ष॒म् ।
भट्टभास्कर-टीका
तत्राग्नेर् या उज्जितिरभूत् पूर्वं तामहमनूज्जेषम्; यथाग्निरुदजयत, तद्वदहमप्यनेनाग्नेर्यागेन उज्जेषमुज्जयेयं तादृशमैश्वर्यम्ममामुत्र भूयादिति । ‘दर्शपूर्णमासयोरेव देवतानां यजमान उज्जितिमनूज्ज यति’ इत्यादि ब्राह्मणम् । जयतेर्लेटि ‘सिब्बहुलं लेटि’ अडागमः, ‘इतश्च लोपः’ शपो लुक्, ‘तादौ च’ इत्युज्जितिशब्दे गतेः प्रकृतिस्वरत्वं, लक्षणेऽनोः कर्मप्रवचनीयत्वम् । एतेन सर्वा उज्जितयो व्याख्याताः ॥
सायण-टीका
यस्मिन्काले होता सूक्तवाकं पठन्नग्निरिदँ हविरजुषतेत्यादीनि तत्तद्देवता-स्मारकाणि वाक्यानि पठति तस्मिन्कालेऽध्वर्युर्यजमानं तत्तद्देवताविषयाण्युज्जितिवाक्यानि वाचयेत्। अमावास्यायां पौर्णामास्यां वा यां देवतां यजति तदिष्टमनतिक्रम्य तदनुसारेण सूक्तवाकभागा उज्जितिभागाश्च प्रयोक्तव्याः।
पाठस्तु -
अग्नेहरमिति। आज्यभागदेवोऽग्निर्हविः सेवित्वा तेन हविषा पुष्टो यज्ञविरोधिनोऽसुरादीनभिभवन्नुत्कृष्टं जयं प्राप्तवान्। तदीयां तामुज्जितिमनु यजमानोऽहं पापरूपं वैरिणमभिभवन्नुत्कृष्टं जयं प्राप्तोऽस्मि। एवं सर्वत्र योज्यम्।
स्रुग्-व्यूहनम्
भास्करोक्त-विनियोगः
11-13स्रुग्-व्यूहन-मन्त्रौ वाजस्येत्यनुष्टुभौ ॥ व्याख्याते चैते ।
वाजस्य मा ...{Loading}...
भास्करोक्त-विनियोगः
1स्रुचौ व्यूहति - वाजस्येत्यनुष्टुब्भ्यां चतुष्पदाभ्याम् ॥
विश्वास-प्रस्तुतिः - ऋक्
वाज॑स्य+++(=अन्नस्य)+++ मा प्रस॒वेन॑+++(=योनिना)++++उद्ग्रा॒भेण+++(=ग्रहेण [जुह्वा])+++ +उद॑ग्रभीत् ।
Keith
With the impulse of strength,
With elevation he hath lifted me up;
मूलम्
वाज॑स्य मा प्रस॒वेनो॑द्ग्रा॒भेणोद॑ग्रभीत् ।
पद-पाठः
वाज॑स्य । मा॒ । प्र॒स॒वेनेति॑ प्र-स॒वेन॑ । उ॒द्ग्रा॒भेणेत्यु॑त्-ग्रा॒भेण॑ । उदिति॑ । अ॒ग्र॒भी॒त् ॥
भट्टभास्कर-टीका
वाजस्य अन्नस्य प्रसवेन उत्पत्तिहेतुना । थाथादिस्वरेणान्तोदात्तत्वम् (पा.सू. 6.2.144) । उद्ग्राभेणानेन जुह्वा ऊर्ध्वग्रहेण मामुदग्रभीत् । ‘छन्दसि लुङ्लङ्लिटः’ (पा.सू. 3.4.6) इति लुङ् । उद्गृह्णातु उपरि स्थापयतु । कः? - इन्द्रः, अर्धर्चान्तरे श्रुतत्वात् । ‘छन्दस्युत्पूर्वादपीष्यते स्रुगुद्यमननिपतनयोः’ (पा.सू. 3.3.35,36 वा 1) इति ग्रहेः घञ्प्रत्ययः, ‘हृग्रहोर्भश्छन्दसि’ (पा.सू. 8.2.32 वा 1) इति भत्वम्, स एव स्वरः ॥
वाजस्यान्नस्य प्रसूतिनिमित्तेन स्रुच उद्ग्रहणेन मामुदग्रहीदिन्द्रः ।
सायण-टीका
कल्पः - ‘उक्तं वाजवत्योर्व्यूहनम्’ इति।
वाजशब्दोऽस्ति ययोचोस्ते ऋचौ वाजवत्यौ, तयोचोर्यजमानेन जप्यमानयोरध्वर्युर्जुहूपभृतौ द्वे स्रुचौ व्यूहेत्परस्परविपर्यासेनापसारयेत् तत्प्रकारस्त्वस्माभिराध्वर्यवकाण्डे दर्शित इत्यर्थः।
पाठस्तु-
वाजस्य मेति। इन्द्रो वाजस्यान्नस्य प्रसूतिनिमित्तेन स्रुच ऊर्ध्वग्रहणेन मामुग्रभीदुत्कर्षं प्रापितवात्।
भास्करोक्त-विनियोगः
2एवमनेनार्धर्चेन दक्षिणेन जुहूमुद्गृह्य अर्धर्चान्तरेण सव्येनोपभृतं निगृह्णाति
विश्वास-प्रस्तुतिः
अथा॑ स॒पत्नाँ॒ इन्द्रो॑ मे
निग्रा॒भेणाध॑राँ अकः+++(=करोतु)+++ ॥
Keith
Then Indra hath made my enemies
Humble by depression.
मूलम्
अथा॑ स॒पत्नाँ॒ इन्द्रो॑ मे निग्रा॒भेणाध॑राँ अकः ॥
पद-पाठः
अथ॑ । स॒पत्ना॑न् । इन्द्रः॑ । मे॒ । नि॒ग्रा॒भेणेति॑ नि-ग्रा॒भेण॑ । अध॑रान् । अ॒कः॒ ॥
भट्टभास्कर-टीका
अथानन्तरं निग्राभेण सव्येनोपभृतो नीचैर्ग्रहणेन मे मम सपत्नान् शत्रून् इन्द्रः अधरान्निकृष्टान्, अकः करोतु ।
तेनैव लुङ्, ‘मन्त्रे घसह्वर’ (पा.सू. 2.4.80) इत्यादिना च्लेर्लुक्, गुणहल्ङ्यादिलोपौ (पा.सू. 7.3.86), (पा.सू. 6.1.68) । संहितायां ‘निपातस्य च’ (पा.सू. 6.3.136) इत्यथशब्दस्य दीर्घः । ‘व्यन् सपत्ने’ (पा.सू. 4.1.145) इति सपत्नीव सपत्न इत्युपमायामकारः, निपातनात्, ‘परादिश्छन्दसि बहुलम्’ (पा.सू. 6.2.199) इत्युत्तरपदाद्युदात्तत्वम् । द्वितीयाबहुवचनसम्बन्धिनो नकारस्य ‘दीर्घादटि समानपादे’ (पा.सू. 8.3.9) इति रुत्वम्, ‘आतोऽटि नित्यम्’ (पा.सू. 8.3.3) इति पूर्वस्यानुनासिकत्वं, ‘भो भगो अघो’ (पा.सू. 8.3.17) इति यत्वम् । ‘अनुनासिकात्परोऽनुस्वारः’ (पा.सू. 8.3.4) इति केचित् ॥
अथ मे सपत्नान् स्रुचो निग्राभेण अधरानकार्षीत्।
सायण-टीका
अथ स्रुचो न्यक्कारेण मम सपत्नानधरान्न्यक्कृतानकरोत्।
भास्करोक्त-विनियोगः
3एवं जुहूपभृतोः उद्ग्रहणनिग्रहणे कृत्वा प्राचीं जुहूं व्यूहति - उद्ग्राभं च निग्राभं च देवा इहागताः अवीवृधन्वर्धयन्तु ।
विश्वास-प्रस्तुतिः - ऋक्
+++(जुहूः)+++ उ॒द्ग्रा॒भञ् च॑ +++(उपभृत्)+++ निग्रा॒भञ् च॒ ब्रह्म॑+++(=परिवृढम्)+++ दे॒वा अ॑वीवृधन्+++(=वर्धयन्तु)+++ ।
+++( ‘अथ स्रुचावनुष्टुग्भ्यां वाजवतीभ्याम्’ (तै.ब्रा. 3.3.9) इत्यादि ब्राह्मणम् ॥)+++
Keith
The gods have increased my prayer.
What is elevation and depression;
मूलम्
उ॒द्ग्रा॒भञ्च॑ निग्रा॒भञ्च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन् ।
पद-पाठः
उ॒द्ग्रा॒भमित्यु॑त्-ग्रा॒भम् । च॒ । नि॒ग्रा॒भमिति॑ नि-ग्रा॒भम् । च॒ । ब्रह्म॑ । दे॒वाः । अ॒वी॒वृ॒ध॒न् ॥
भट्टभास्कर-टीका
‘नित्यं छन्दसि’ (पा.सू. 7.4.8) इति णौ चङ्युपधाया ह्रस्वः ऋकारः ।
ब्रह्म परिबृढं इष्टसाधनसमर्थम् उद्ग्राभं च निग्राभं च । यद्वा - परं वस्तु देवाश्चान्ये वर्धयन्तु इदमुभयमिति ॥
तस्माद् उद्ग्राभं निग्राभं च ब्रह्म परिबृढं कर्म देवा वर्धयन्तु ।
सायण-टीका
देवा ब्रह्म परिवृढं स्रुचोरुद्ग्राहनिग्राहरूपं कर्मद्वयमवर्धयन्।
भास्करोक्त-विनियोगः
4एवं च प्रतीचीमुपभृतं प्रत्यूहति - अथेति ॥
विश्वास-प्रस्तुतिः
अथा॑ स॒पत्ना॑न् इन्द्रा॒ग्नी
मे॑ विषू॒चीना॒न्+++(=विष्वग्-गतान्)+++ व्य॑स्यताम् ॥
Keith
Then do ye, O Indra and Agni,
Scatter my foes on every side.
मूलम्
अथा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒चीना॒न्व्य॑स्यताम् ॥
पद-पाठः
अथ॑ । स॒पत्ना॑न् । इ॒न्द्रा॒ग्नी इती॑न्द्र-अ॒ग्नी । मे॒ । वि॒षू॒चीना॑न् । वीति॑ । अ॒स्य॒ता॒म् ॥
भट्टभास्कर-टीका
अथ अनन्तरं इन्द्राग्नी मे मम सपत्नान् विषूचीनान् विष्वग्गतान् व्यस्यतां स्वस्थानादितश्चेतश्च विगमयताम् ।
विषु नाना अञ्चतीति ऋत्विगादिना (पा.सू. 3.2.59) क्विन्प्रत्ययः, ‘विभाषाऽञ्चेरदिक्स्त्रियाम्’ (पा.सू. 5.4.8) इति खप्रत्ययस्स्वार्थिकः, अनुनासिकलोपः, ‘अचः’ (पा.सू. 6.4.138) इत्यकारलोपः, ‘चौ’ (पा.सू. 6.3.138) इति दीर्घत्वम् । इन्द्रश्चाग्निश्च । ‘देवताद्वन्द्वे च’ (पा.सू. 6.2.141) इति पूर्वोत्तरपदप्रकृतिस्वरत्वे ‘नोत्तरपदेऽनुदात्तादौ’ (पा.सू. 6.2.142) इति विप्रतिषिद्धे समासान्तोदात्तत्वम् । ‘अथ स्रुचावनुष्टुग्भ्यां वाजवतीभ्याम्’ (तै.ब्रा. 3.3.9) इत्यादि ब्राह्मणम् ॥
अथ मम सपत्नानिन्द्राग्नी विषूचीनान् विष्वग्गतीन् व्यस्यतां विनाशयतामिति ॥
सायण-टीका
अथेन्द्राग्नी मम सपत्नान्विषूचीनान्सर्वतः पलायमानान्व्यस्यतां विनाशयेताम्।
दोहः
भास्करोक्त-विनियोगः
14यज्ञस्य दोहं वाचयति - एमा इति ।
मूलम् (संयुक्तम्)
एमा अ॑ग्मन्ना॒शिषो॒ दोह॑कामा॒ इन्द्र॑वन्तः [12]व॒ना॒म॒हे॒ धु॒क्षी॒महि॑ प्र॒जामिष॑म् ॥
विश्वास-प्रस्तुतिः ...{Loading}...
आ+इ॒मा अ॑ग्मन्न् आ॒शिषो॒ दोह॑-कामा
इन्द्र॑वन्तो व॒ना॒म॒हे ।
धु॒क्षी॒महि॑ प्र॒जाम् इष॑म् ॥
सर्वाष् टीकाः ...{Loading}...
Keith
Hither these blessings have come, fain for milking,
Possessing Indra [2], may we win,
May we milk offspring and food.
मूलम्
एमा अ॑ग्मन्ना॒शिषो॒ दोह॑कामा
इन्द्र॑वन्तो वनामहे ।
धु॒क्षी॒महि॑ प्र॒जामिष॑म् ॥
पद-पाठः
एति॑ । इ॒माः । अ॒ग्म॒न् । आ॒शिष॒ इत्या॑-शिषः॑ । दोह॑कामा॒ इति॒ दोह॑-का॒माः॒ । इन्द्र॑वन्त॒ इतीन्द्र॑-व॒न्तः॒ । व॒ना॒म॒हे॒ । धु॒क्षी॒महि॑ । प्र॒जामिति॑ प्र-जाम् । इष॑म् ॥
भट्टभास्कर-टीका
इयं पुरउष्णिक्, प्रथमस्य द्वादशाक्षरत्वात् ॥ अत्र ‘यर्हि होता यजमानस्य नाम गृह्णीयात् तर्हि ब्रूयादेमा अग्मन्नाशिषो दोहकामाः’ इति ब्राह्मण दर्शनात् । ‘आशास्तेयं यजमानोसौ’ इत्यत्र यजमानेनाशासनीयाः ‘आयुराशास्ते’ इत्यायुरादय इमा आशिष उच्यन्ते । इमा आशिष आग्मन्नागच्छन्तु । छान्दसे लुङि ‘मन्त्रे घस’ इत्यादिना च्लेर्लुक्, ‘गमहन’ इत्युपधालोपः । लङि वा शपो लुक् । दोहकामाः मया दुह्यमानं कामयमानाः । ‘शीलिकामिभिक्षाचरिभ्यो णः पूर्वपदप्रकृतिस्वरत्वं च’ इत्यणोपवादो णः । अत आगता वयमपीन्द्रवन्तः इन्द्रेण स्वामिना सहिता वनामहे । वन षण सम्भक्तौ, व्यत्ययेनात्मनेपदम् । यद्वा - वनु याचने, अनुदात्तेत् तानादिकः, विकरणव्यत्ययेन शप् । इन्द्रवन्तो वयं याचामहे प्रजामिषमन्नं च वो धुक्षीमहि । यद्वा - दोहकामा वयं वनामहे प्रजामिषं च धुक्षीमहीति । ‘लिङ्सिचावात्मनेपदेषु’ इति सिचः कित्त्वम् । पादादित्वान्न निहन्यते ॥
प्रदीपसिंहः
+++(अत्र मन्त्रविभागः विचारणीयः भाष्ये द्वादशाक्षरत्वमुक्तम् । अत्र एकादशाक्षराणि)+++
सायण-टीका
एमा अग्मन्निति। कल्पः - “अथ यत्र होतुरभिजानात्याशास्तेऽयं यजमा-नोऽसाविति तद्यजमानं यज्ञस्य दोहं वाचयत्येमा अग्मन्नाशिषो दोहकामा इन्द्रवन्तो वनामहे धुक्षीमहि प्रजामिषमिति” इति।
यस्मिन्काले होता सूक्तवाकं पठन्नाशास्तेऽयमित्यादिवाक्यामुच्चारयति तस्मिन्कालेऽध्वर्युर्यजमानमेमा अग्मन्नित्यादियज्ञदोहमन्त्रं वाचयति। सूक्तवाक आयुराशास्ते सुप्रजास्त्वमाशास्त इत्यादय आयुराद्याशिषः समाम्नाताः। इमा आशिषोऽग्मन्मां प्रत्यागच्छन्तु। वयमप्यायुरादिदोहं कामयमानास्तत्फलप्रदेनेन्द्रेण युक्तत्वादिन्द्रवन्तस्तमिन्द्रं वनामहे भजामहे। तेन भजनेन पुत्रपौत्रादिप्रजामिष-मिष्यमाणमन्नायुरादिकं धुक्षीमहि कामधेनुसदृशीमिन्द्रदेवतां दुह्यास्म।
प्रस्तरप्रहारे
भास्करोक्त-विनियोगः
15-17प्रस्तरं प्रह्रियमाणमनुमन्त्रयते - रोहितेनेति ॥
मूलम् (संयुक्तम्)
रोहि॑तेन त्वा॒ऽग्निर्दे॒वता॑ङ्गमयतु॒ हरि॑भ्या॒न्त्वेन्द्रो॑ दे॒वता॑ङ्गमय॒त्वेत॑शेन त्वा॒ सूर्यो॑ दे॒वता॑ङ्गमयतु
विश्वास-प्रस्तुतिः
रोहि॑तेन त्वा॒ ऽग्निर् दे॒वता॑ङ् गमयतु ।
Keith
With the red steed may Agni convey thee to the god;
मूलम्
रोहि॑तेन त्वा॒ऽग्निर्दे॒वता॑ङ्गमयतु ।
पद-पाठः
रोहि॑तेन । त्वा॒ । अ॒ग्निः । दे॒वता॑म् । ग॒म॒य॒तु॒ ।
भट्टभास्कर-टीका
देवतामित्यादि अग्न्यादीनां सामान्येन अभिधानम् । अग्निस्त्वमात्मीयेन रोहितेनाश्वेन देवतां गमयतु । याभ्यस्त्वं हूयसे ता अग्न्यादिदेवता गमयत्वित्यर्थः ।
सायण-टीका
रोहितेनेति। कल्पः - “प्रस्तरं प्रह्रियमाणमनुमन्त्रयते रोहितेन त्वाऽग्निर्देवतां गमयतु हरिभ्यां त्वेन्द्रो देवतां गमयत्वेतशेन त्वा सूर्यो देवतां गमयत्विति” इति।
रोहितहर्येतशब्दा अग्नीन्द्रसूर्याणामश्वानभिदधते। हे प्रस्तर तैरश्वैरग्न्यादयस्त्वां सूक्तवाकोक्तां देवतां गमयन्तु।
विश्वास-प्रस्तुतिः
हरि॑भ्या॒न् त्वेन्द्रो॑ दे॒वता॑ङ् गमय॒तु ।
Keith
with the tawny ones may Indra convey thee to the god;
मूलम्
हरि॑भ्या॒न्त्वेन्द्रो॑ दे॒वता॑ङ्गमय॒तु ।
पद-पाठः
हरि॑भ्या॒मिति॒ हरि॑-भ्या॒म् । त्वा॒ । इन्द्रः॑ । दे॒वता॑म् । ग॒म॒य॒तु॒ ।
भट्टभास्कर-टीका
हरिभ्यामात्मीयाभ्यामश्वाभ्यामिन्द्रसवां देवानां सकाशं प्रापयतु ।
विश्वास-प्रस्तुतिः
एत॑शेन त्वा॒ सूर्यो॑ दे॒वता॑ङ् गमयतु ।
Keith
with Etaśa may Sarya convey thee to the god.
मूलम्
एत॑शेन त्वा॒ सूर्यो॑ दे॒वता॑ङ्गमयतु ।
पद-पाठः
एत॑शेन । त्वा॒ । सूर्यः॑ । दे॒वता॑म् । ग॒म॒य॒तु॒ ।
भट्टभास्कर-टीका
सूर्यश्चात्मीयेनैतशेनाश्वेन त्वां देवतापार्श्वं प्रापयतु । रोहितादयोग्न्यादीनामश्वाः, ‘एते वै देवाश्वाः’ इति च ब्राह्मणम् ॥
विमुच्यमानपरिध्यनुमन्त्रणम्
भास्करोक्त-विनियोगः
18परिधीन् विमुच्यमानान् अनुमन्त्रयते - वि ते मुञ्चामीति त्रिष्टुभा ॥
मूलम् (संयुक्तम्)
वि ते॑ मुञ्चामि रश॒ना वि र॒श्मीन् वि योक्त्रा॒ यानि॑ परि॒चर्त॑नानि ध॒त्ताद॒स्मासु॒ द्रवि॑णय्ँ॒यच्च॑ भ॒द्रम्प्र णो॑ ब्रूताद्भाग॒धान्दे॒वता॑सु ॥
विश्वास-प्रस्तुतिः ...{Loading}...
+++(अश्वीकृताग्ने!)+++ वि ते॑ मुञ्चामि रश॒ना, वि र॒श्मीन्,
वि योक्त्रा॒, यानि॑ परि॒चर्त॑नानि+++(←चृती हिंसादौ)+++ ।
ध॒त्ताद् अ॒स्मासु॒ द्रवि॑णय्ँ॒ यच् च॑ भ॒द्रम्,
+++(तेषु)+++ प्र णो॑ ब्रूताद् भाग॒-धान् दे॒वता॑सु ॥
सर्वाष् टीकाः ...{Loading}...
Keith
I unyoke thy head ropes, thy reins,
Thy yokings, thy harness;
Bestow upon us wealth and what is good;
Proclaim us sharers among the gods.
मूलम्
वि ते॑ मुञ्चामि रश॒ना वि र॒श्मीन् वि योक्त्रा॒ यानि॑ परि॒चर्त॑नानि ।
ध॒त्ताद् अ॒स्मासु॒ द्रवि॑णय्ँ॒यच्च॑ भ॒द्रम्प्र णो॑ ब्रूताद्भाग॒धान्दे॒वता॑सु ॥
पद-पाठः
वीति॑ । ते॒ । मु॒ञ्चा॒मि॒ । र॒श॒नाः । वीति॑ । र॒श्मीन् । वीति॑ । योक्त्रा॑ । यानि॑ । प॒रि॒चर्त॑ना॒नीति॑ परि-चर्त॑नानि । ध॒त्तात् । अ॒स्मासु॑ । द्रवि॑णम् । यत् । च॒ । भ॒द्रम् । प्रेति॑ । नः॒ । ब्रू॒ता॒त् । भा॒ग॒धानिति॑ भाग-धान् । दे॒वता॑सु ॥
भट्टभास्कर-टीका
अश्वत्वेनाग्निस्स्तूयते । हे अग्ने अनेन परिधिविमोकेन ते तव यानि यन्त्रणानि तानि सर्वाण्यपि विमुञ्चामीति प्रतिपाद्यते । तत्रैकश्येनाहं रशनास् तव विमुञ्चामि । रशना व्यापिकाः । ‘अशेरुट्च’ इति युच् । कक्ष्यावस्थिताश्शरीरपरिकर्मविशेषा उच्यन्ते ।
रश्मीन् प्रग्रहांश्च विमुञ्चामि, योक्त्राणि योजनोपयुक्ता रज्जुविशेषाः तानि विमुञ्चामि । यानि चान्यानि तव परिचर्तनानि उरोवधरादीनि परितो देहस्य पीडनानि । चृती हिंसादौ । तानि च मुञ्चामि यथाऽश्व एतैर्युक्तः कार्यं करोति, तथा त्वं परिधिभिः परिहित एतैरेव युक्तः कार्यमकार्षीः ।
अधुना कार्ये समाप्ते परिधिविमोकेन एतैरेव विमुक्तो निर्यन्त्रणो भव यथाऽश्वः कार्यसमाप्तौ विमुक्तरशनादिकस्स्वैरं धावति । ततश्च त्वमस्मासु द्रविणं धनं यच्चान्यद्भद्रं कल्याणमभीष्टं तत्तत्सर्वं धत्तात् धेहि स्थापय ।
किञ्च - नः अस्मान्देवतासु प्रब्रूतात्प्रब्रूहि । भागधान्भगस्य धातृन् दातॄन् युष्मभ्यमेतैर्भागा दत्ता भुङ्ध्वमिति देवतासु ख्यापयेति । ‘उपसर्गाद्बहुलम्’ इति नसो णत्वम् ॥
सायण-टीका
वि ते मुञ्चामीति। कल्पः - “परिधीन्विमुच्यमानाननुमन्त्रयते वि ते मुञ्चामि रशना वि रश्मीन्वि योक्त्रा यानि परिचर्तनानि। धत्तादस्मासु द्रविणं यच्च भद्रं प्र णो ब्रूताद्भागधान्देवतास्विति” इति।
लोके ह्यारुरुक्षुरारोहणीयमश्वं रशनादिभिः सर्वतो बध्नाति। तत्र रशनाशब्देन पल्ययनदार्ढ्यायोदरे बध्यमाना तन्तुमयी चर्ममयी वा कक्ष्याऽभिधीयते। रश्मिशब्देनाश्वमुखे संलग्नो हस्तेनाश्वनियमनार्थो रज्जु-विशेष उच्यते। योक्त्रशब्देनाश्वं स्तम्भे बद्धु(न्धु)मुपयुक्तो रज्जुविशेषः। पल्ययनस्य पुरतः पृष्ठतश्चापसरणं वारयितुमुरःपुच्छादौ बन्धनोपयुक्ता रज्जुविशेषाः परिचर्तनशब्देनोच्यन्ते। अश्ववदग्नेश्च रशनादिस्थानीयाः परिधयः। हेऽग्ने तव बन्धनहेतून्परिधिरूपान्रशनादीन्विमुञ्चामि। तद्विमोकेन संतुष्टस्त्वमस्मासु द्रविणं धेहि। यच्चान्यद्भद्रमन्नपानादिकं तदप्यस्मासु धेहि। अस्मदीयहविर्भुक्षु देवतासु भागधान्हविष्प्रदानस्मान्प्रकर्षेण ब्रूहि।
शंयुवाकानुमन्त्रणम्
भास्करोक्त-विनियोगः
19शंयुवाकम् उक्तम् अनुमन्त्रयते - विष्णोरिति ॥
विश्वास-प्रस्तुतिः
विष्णोः॑ शय्ँ॒-योर्+++(←यु पृथक्करणे)+++ अ॒हन् दे॑वय॒ज्यया॑ य॒ज्ञेन॑
प्रति॒ष्ठाङ् ग॑मेयम् ।
Keith
By sacrifice to the god Visnu, by the sacrifice, may I attain health and wealth, and security.
मूलम्
विष्णोः॑ शय्ँ॒योर॒हन्दे॑वय॒ज्यया॑ य॒ज्ञेन॑ प्रति॒ष्ठाङ्ग॑मेयम् ।
पद-पाठः
विष्णोः॑ । शय्ँ॒योरिति॑ शम्-योः । अ॒हम् । दे॒व॒य॒ज्ययेति॑ देव-य॒ज्यया॑ । य॒ज्ञेन॑ । प्र॒ति॒ष्ठामिति॑ प्रति-स्थाम् । ग॒मे॒य॒म् ।
भट्टभास्कर-टीका
विष्णुर् व्यापनवान् शमन-यावन-कृद् रोग-भयानाम् । शाम्यति-यौतिभ्यां गुणाभावश्छान्दसः । ‘कम्शम्भ्याम्’ इति वा मत्वर्थीयो युस्प्रत्ययः । बृहस्पतेः पुत्र उच्यते । ‘देवा वै यज्ञस्य स्वगाकर्तारं नाविन्दन्ते शं युं बार्हस्पत्यम्’ इत्यादि ब्राह्मणम् । विष्णुत्वेन वा बार्हस्पत्यस्स्तूयते । ‘यज्ञो वै विष्णुः’ आ इति ब्राह्मणम् । तस्याहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयम् । गतम् ॥
सायण-टीका
विष्णोः शंयोरिति। कल्पः - ‘शंयुवाकमुक्तमनुमन्त्रयते विष्णोः शंयोरहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयमिति’ इति।
शंयुशब्दः सुखमिश्रं बृहस्पतिपुत्रं ब्रूते। ते शंयुं बार्हस्पत्यमिति ब्राह्मणोक्तेः। स च बहुषु कार्येषु व्याप्नुवन्विष्णुरित्युच्यते। तस्य परितोषहेतुत्वात्परिधिप्र-हरणं तदीया देवयज्या तथा यजमानोऽहं कृत्स्नयज्ञेन निष्पन्नां प्रतिष्ठां फलं गमेयं प्राप्नुयाम्।
पत्नीसंयाजानुमन्त्रणम्
भास्करोक्त-विनियोगः
20-21पत्नीसंयाजाननुमन्त्रयते - सोमस्याहमित्यादिभिः ॥
विश्वास-प्रस्तुतिः
सोम॑स्या॒हन् दे॑व-य॒ज्यया॑
सु॒रेता॒ रेतो॑ धिषीय ।
Keith
By sacrifice to the god Soma [3], possessing good seed, may I impregnate seed.
मूलम्
सोम॑स्या॒हन्दे॑वय॒ज्यया॑ [13] सु॒रेता॒ रेतो॑ धिषीय ।
पद-पाठः
सोम॑स्य । अ॒हम् । दे॒व॒य॒ज्ययेति॑ देव-य॒ज्यया॑ । सु॒रेता॒ इति॑ सु-रेताः॑ । रेतः॑ । धि॒षी॒य॒ ।
भट्टभास्कर-टीका
सुरेता अमोघबीजः । ‘सोर्मनसी इत्युत्तरपदाद्युदात्तत्वम् । रेतो धिषीयात्मनि धारयेयम् । ‘सुधितवसुधित’ इत्यादौ दधातेरिकारांशो निपात्यते । ‘सोमो वै रेतोधाः’ इत्यादि ब्राह्मणम् ।
सायण-टीका
सोमस्याहमिति। कल्पः - ‘पत्नीसंयाजानामिष्टमनुमन्त्रयते सोमस्याहं देवयज्यया सुरेता रेतो धिषीय त्वष्टुरहं देवयज्यया पशूनाँ रूपं पुषेयमिति’ इति। ‘अथेतरावुपसमस्यति देवानां पत्नीरग्निर्गृहपतिर्यज्ञस्य मिथुनं तयोरहं दवेयज्यया मिथुनेन प्र भूयासमिति’ इति।
चतुर्णां पत्नीसंयाजानां क्रमेण सोमस्त्वष्टा देवपत्न्यो गृहपत्यग्निरिति चतस्रो देवताः। तत्र सोमस्य रेतोधारणाभिमानित्वात्तदीययागेनाहं रेतो घिषीय धारयेयम्। द्विविधं रेतो वन्ध्यमुत्यादकं च। तत्र वन्ध्यव्यावृत्तये सुरेता इति विशेष्यते।
विश्वास-प्रस्तुतिः
त्वष्टु॑र् अ॒हन् दे॑व-य॒ज्यया॑
पशू॒नाँ रू॒पम् पु॑षेयम् ।
Keith
By sacrifice to the god Tvastr, may I prosper the form of cattle.
मूलम्
त्वष्टु॑र॒हन्दे॑वय॒ज्यया॑ पशू॒नाँ रू॒पम्पु॑षेयम् ।
पद-पाठः
त्वष्टुः॑ । अ॒हम् । दे॒व॒य॒ज्ययेति॑ देव-य॒ज्यया॑ । प॒शू॒नाम् । रू॒पम् । पु॒षे॒य॒म् ।
भट्टभास्कर-टीका
त्वष्टुरहमिति । ‘त्वष्टा वै पशूनां मिथुनानां रूपकृत्’ इति ब्राह्मणम् । पशूनां रूपं पुषेयं पोषयेयम् । ‘लिङ्याशिष्यङ्’ ‘नामन्यतरस्याम्’ इति नाम उदात्तत्वम् ॥
सायण-टीका
त्वष्टा तु निषिक्तं रेतः पश्वादिरूपेण विकारयति। अतस्तद्यागेन पशुरूपं पुषेयं पुष्यासम्।
भास्करोक्त-विनियोगः
22अथान्ययोस् सहानुमन्त्रणम् - देवानामिति ॥
मूलम् (संयुक्तम्)
दे॒वाना॒म्पत्नी॑र॒ग्निर्गृ॒हप॑तिर्य॒ज्ञस्य॑ मिथु॒नम्
विश्वास-प्रस्तुतिः
दे॒वाना॒म् पत्नी॑र्
अ॒ग्निर् गृ॒ह-प॑तिर् +++(इति)+++
य॒ज्ञस्य॑ मिथु॒नम् ।
Keith
The wives of the gods, Agni lord of the house, are the pair of the sacrifice;
मूलम्
दे॒वाना॒म्पत्नी॑र् ..
अ॒ग्निर्गृ॒हप॑तिर्य॒ज्ञस्य॑ मिथु॒नम्।
पद-पाठः
दे॒वाना॑म् । पत्नीः॑ । अ॒ग्निः । गृ॒हप॑ति॒रिति॑ गृ॒ह-प॒तिः॒ । य॒ज्ञस्य॑ । मि॒थु॒नम् ।
भट्टभास्कर-टीका
देवानां पत्नीः पत्न्यः अग्निश् च गृहपतिर् इति यज्ञस्य मिथुनमेव तत् ।
सायण-टीका
मिथुनत्वसिद्ध्यर्थमेकस्मिन्नेव मन्त्रे तृतीयचतुर्थदेवते समस्येते। या देवपत्न्यो यश्च गृहपतिरग्निस्तदुभयं मिलित्वा यज्ञसंबन्धि मिथुनम्।
विश्वास-प्रस्तुतिः
तयो॑र् अ॒हन् दे॑व-य॒ज्यया॑
मिथु॒नेन॒ प्र भू॑यासम् ।
Keith
by sacrifice to these deities, may I be propagated with a pair.
मूलम्
तयो॑र॒हन्दे॑वय॒ज्यया॑ मिथु॒नेन॒ प्र भू॑यासम् ।
पद-पाठः
तयोः॑ । अ॒हम् । दे॒व॒य॒ज्ययेति॑ देव-य॒ज्यया॑ । मि॒थु॒नेन॑ । प्रेति॑ । भू॒या॒स॒म् ।
भट्टभास्कर-टीका
तयोरहं देवयज्यया मिथुनेन पुत्रादिमिथुनेन प्रभूयासं प्रकर्षेण युक्तो भूयासम् । मिथुनापेक्षया तयोरिति द्विवचनम् । ‘एतस्माद्वै मिथुनात्प्रजापतिः’ इत्यादि ब्राह्मणम् ॥
सायण-टीका
तदीययागेनाहमपि मिथुनेत पुत्रपुत्रीरूपेण प्रकृष्टो भूयासम्।
वेदे निधीयमाने
भास्करोक्त-विनियोगः
23वेदेन्तर्वेदि निधीयमाने यजमानं वाचयति - वेदोसीति षट्पदया शक्वर्या ॥
मूलम् (संयुक्तम्)
वे॒दो॑ऽसि॒ वित्ति॑रसि वि॒देय॒ कर्मा॑सि क॒रुण॑मसि क्रि॒यासँ॑ स॒निर॑सि सनि॒तासि॑ स॒नेय॑ङ्घृ॒तव॑न्तङ्कुला॒यिनँ॑ रा॒यस्पोषँ॑ सह॒स्रिणव्ँ॑वे॒दो द॑दातु वा॒जिन॑म् ॥
विश्वास-प्रस्तुतिः
वे॒दो॑ऽसि॒, वित्ति॑र् असि। वि॒देय॑।
Keith
Thou art the bundle, thou art gain, may I gain.
मूलम्
वे॒दो॑ऽसि॒ वित्ति॑रसि वि॒देय॑ ।
पद-पाठः
वे॒दः । अ॒सि॒ । वित्तिः॑ । अ॒सि॒ । वि॒देय॑ ।
भट्टभास्कर-टीका
विदेय क्रियासं सनेयमिति त्रयाणां पादानामन्ताः; एते च तिङः परत्वान्न निहन्यन्ते । हे वेद वेदोसि यद्वित्तं वेद्यात्मकं वेत्तव्यं लब्धव्यं धनं तदेव त्वमसि; तल्लाभहेतुत्वात् । ‘वेदेन वै देवा असुराणां वित्तं वेद्यम्’ इत्यादि ब्राह्मणम् । विन्दतेः कर्मणि घञ् । वित्तिर्लाभः, लाभसाधनं वा त्वमसि धनस्य । तस्मादेव भावे करणे वा क्तिन् । तादृशेन त्वयाऽहं विदेयाभिमतं धनं लप्सीय । विन्दतिस्स्वरितेत्, ‘लिङ्याशिष्यङ्’ ।
सायण-टीका
कल्पः - ‘वेदे यजमानं वाचयति वेदोऽसि वित्तिरसि विदेयेत्याऽन्तादनुवाकस्य’ इति।
वेदे निहिते सतीति शेषः। अन्तर्वेदि वेदं निधायेति सूत्रान्तरे दर्शनात्।
पाठस्तु-
वेदोऽसीति। वेदोऽसीत्यस्य वाक्यस्यार्थो वित्तिरसीत्यनेन स्पष्टी क्रियते। हे दर्भमय त्वं वेदनामाऽसि। तस्य नाम्नोऽयमर्थः - वित्तिर्द्रव्यलाभसाधनमित्यतस्तत्प्रसादेनाहं धनं विदेय लभेय। तथैवोपरि व्याख्येयम्।
विश्वास-प्रस्तुतिः
कर्मा॑सि, क॒रुण॑म् असि। क्रि॒यास॑म्।
Keith
Thou art action, thou art making, may I make.
मूलम्
कर्मा॑सि, क॒रुण॑म् असि। क्रि॒यास॑म्।
पद-पाठः
कर्म॑ । अ॒सि॒ । क॒रुण॑म् । अ॒सि॒ । क्रि॒यास॑म् ।
भट्टभास्कर-टीका
कर्म अनुष्ठानं त्वमसि; त्वदधीनत्वात् । करुणमनुष्ठापकश्चासि । करोतेरुनन्प्रत्ययः । तादृशेन त्वयाहं क्रियासं कर्ता भूयासम् ।
सायण-टीका
कर्मासि कर्मनामकम(कोऽ)सि। तस्य व्याख्यानं करुणमसीति। क्रियतेऽनेनेति करुणं वेदिसंमार्जनभस्माध्यूहनादिसाधनमित्यर्थः। अतस्त्वयाऽहं संमार्जनादिकं क्रियासम्।
विश्वास-प्रस्तुतिः
स॒निर् अ॑सि, सनि॒तासि॑। स॒नेय॑म्।
Keith
Thou art winning, thou art the winner, may I win.
मूलम्
स॒निर् अ॑सि, सनि॒तासि॑। स॒नेय॑म्।
पद-पाठः
स॒निः । अ॒सि॒ । स॒नि॒ता । अ॒सि॒ । स॒नेय॑म् ।
भट्टभास्कर-टीका
सनिस् संविभागः त्वमसि सनितासि संविभक्ता चासि, तादृशेन त्वयाहं सनेयं विन्देयं सांविभजेयम् ।
सायण-टीका
तथा त्वं सनिरसि सनिनामाऽसि। तद्व्याख्यानं सनिताऽसीति। धनस्य दाताऽसीत्यर्थः। अतस्त्वत्प्रसादेन सनेयं धनमृत्विगादिभ्यो देयासम्।
विश्वास-प्रस्तुतिः ...{Loading}...
घृ॒तव॑न्तङ् कुला॒यिनं॑+++(=नीडवन्तं)+++
रा॒यस्पोषँ॑ सह॒स्रिणं॑
वे॒दो द॑दातु वा॒जिन॑म् ॥
सर्वाष् टीकाः ...{Loading}...
Keith
May the bundle bestow increase of wealth,
Rich in ghee, rich in houses,
A thousandfold, strong.
मूलम्
घृ॒तव॑न्तङ् कुला॒यिनं॑
रा॒यस्पोषँ॑ सह॒स्रिणं॑
वे॒दो द॑दातु वा॒जिन॑म् ॥
पद-पाठः
घृ॒तव॑न्त॒मिति॑ घृ॒त-व॒न्त॒म् । कु॒ला॒यिन॑म् । रा॒यः । पोष॑म् । स॒ह॒स्रिण॑म् । वे॒दः । द॒दा॒तु॒ । वा॒जिन॑म् ॥
भट्टभास्कर-टीका
अधुना परोक्षम् उच्यते -
घृतवन्तम् आज्यवन्तं कुलायिनं नीडवन्तं गृहवन्तं सहस्रिणं सहस्रवन्तं भूयिष्ठवन्तं पुत्रपश्वादिभिः, वाजिनम् अन्नवन्तं रायस्पोषं क्षेत्रपश्वादेर्धनस्य पुष्टिमस्मभ्यं वेदो ददातु रायस्पोषं धनवृद्धिं वाजिनमन्नं च ददातु ॥
इति षष्ठे चतुर्थोनुवाकः ॥
सायण-टीका
किंच वेदो भवान्मह्यं रायस्पोषं धनं पुष्टिं ददाति। कीदृशं रायस्पोषं, घृतवन्तं घृतादिभोजनसाधनसमृद्धम्। कुलायिनं निवासहेतुबहुगृहोपेतम्। सहस्रिणं सहस्रलक्षादिसंख्योपेतम्। वाजिनं भोज्यान्नसमृद्धम्।