विस्तारः (द्रष्टुं नोद्यम्)
प्रवासोपस्थानम्
प्रवत्स्यत यजमानस्यः अग्न्युपस्थानमन्त्राः (१-६ मन्त्राः)
१,२,६,९ त्रिष्टुप्
३ विपरीता बृहती
४ शङ्कुमत्यनुष्टुप्
५,७,११ अनुष्टुप्
१२ विराट् स्थाना
८ द्विपदा
प्रजापतिर्ऋषिः
भास्करोक्त-विनियोगः
1अग्निभ्यः प्रवत्स्यन्नाहवनीयमुपतिष्ठते - मम नामेति त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
मम॒ नाम॑ प्रथ॒मञ् जा॑तवेदᳶ!
पि॒ता मा॒ता च॑ दधतु॒र् यद् अग्रे॑ ।
तत् त्वम् बि॑भृहि॒ पुन॒र् आ मद्-आ+एतो॒स्
तवा॒हन् नाम॑ बिभराण्य् अग्ने॥
सर्वाष् टीकाः ...{Loading}...
Keith
The name that first, O all-knower,
My father and my mother bestowed upon me aforetime,
Do thou bear it until I return;
O Agni, may I bear thy name.
मूलम्
मम॒ नाम॑ प्रथ॒मञ्जा॑तवेदᳶ पि॒ता मा॒ता च॑ दधतु॒र्यदग्रे॑ ।
तत्त्वम्बि॑भृहि॒ पुन॒रा मदैतो॒स्तवा॒हन्नाम॑ बिभराण्यग्ने॥
पद-पाठः
मम॑ । नाम॑ । प्र॒थ॒मम् । जा॒त॒वे॒द॒ इति॑ जात-वे॒दः॒ । पि॒ता । मा॒ता । च॒ । द॒ध॒तुः॒ । यत् । अग्रे॑ ॥ तत् । त्वम् । बि॒भृ॒हि॒ । पुनः॑ । एति॑ । मत् । ऐतो॒रित्या-ए॒तोः॒ । तव॑ । अ॒हम् । नाम॑ । बि॒भ॒रा॒णि॒ । अ॒ग्ने॒ ॥
भट्टभास्कर-टीका
हे अग्ने जातवेदः जातानां वेदितः, यद्वा - जातधनादिक । मम यत्प्रथममाद्यं गुह्यं; ‘तस्माद्द्विनामा ब्राह्मणोर्धुकः’ इति द्विनामत्वाद्विशेष्यते । किम्पुनस्तदित्याह - पिता माता चाग्रे जन्मकाले यद्दधतुः नाम मम चक्रतुः । सत्यपि यद्वृत्ते व्यत्ययेन निहन्यते । यद्वा - मम प्रथमं नाम माता च पिता च दधतुः तस्मादेवं नाम विशिष्टम् ।
ततः किम्पुनस्तद् इत्याह - यद् अग्रे यज् जन्म-काले एव ममाभूत् । प्रथमस्य नाम्नो द्वौ गुणौ - मातापितृ-कर्तृकत्वं, अग्रे कृतत्वं च । ततो विशिष्टं मदीयं नाम त्वं बिभृहि । कुत इत्यत आह - मत् मम । सुपां सुलुक्’ इति षष्ठ्या लुक् ।
कुतः? आ पुनरेतोः आपुनरागमनात् । ‘भावलक्षणे स्थेण्’ इति तोसुन्प्रत्ययः, कृदुत्तरपदप्रकृतिस्वरत्वं बाधित्वा ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् । यद्वा - आभिमुख्ये आङ्स्वीकर्तव्यः । कर्तरि तोसुन् । मदिति पञ्चम्येव । आ गन्तोः मत्, यावदहमागन्तास्मि तावदित्यर्थः । तव च नामाहं बिभराणि । तावन्तं कालं नामभरणं चावश्यकार्यप्रतिलम्भार्थम् ।
एतदुक्तं भवति - मयि प्रोषित उपसन्निहितस्त्वमहं भूत्वा मया कर्तव्यं सर्वं कुरु, यथात्र न किञ्चित्परिहास्यते । अहमप्यन्यत्र त्वं भूत्वा त्वया कर्तव्यं करिष्यामि, यथा बहिर्न किञ्चित्परिहास्यते । एवमाभ्यां परस्परस्योपकुर्वद्भ्यां वर्तितव्यमिति ॥
सायण-टीका
दशमानुवाकस्य पूर्वभागे प्रवत्स्यतो यजमानस्याग्न्युपस्थानमन्त्रा उत्तरभागे केचिद्दर्शपूर्णमासाङ्गमन्त्राश्चाभिधीयन्ते। कल्पे —
“प्रवसथमेष्यन्नाहाग्नी-न्समाधेहीति ज्वलत उपतिष्ठते” इत्युपक्रम्योक्तं “पशून्मे शँस्य पाहि तान्मे तान्मे गोपायास्माकं पुनरागमादित्याहवनीयं मम नाम प्रथमं जातवेद इति च” इति।
तत्र पशूनित्यादिमन्त्रः शाखान्तरगतः। मन्त्रान्तरपाठस्तु -
मम नाम प्रथममिति। ब्राह्मणस्य नामद्वयं विद्यते देवदत्तयज्ञदत्तादिकमेकमुपाध्यायदीक्षितादिकमपरम्। अथ एव श्रूयते —
“तस्माद्द्विनामा ब्राह्मणोऽर्धुकः” इति। तत्राध्यापनादेरूर्ध्वं प्रवृत्तत्वादुपाध्यायादिकं चरमम्। अग्ने जन्मकाले मातापितृभ्यां कृतत्वाद्देवदत्तादिकं प्रथमम्। हे जातवेदो मम यत्प्रथमं नाम तत्त्वं धारय। कियन्तं कालम्। पुनरा मदैतोः। आ मदीयपुरागमनात्। अहमपि तव नाम धारयाणि। त्वमत्र वैकल्यं निर्हरन्मदीयं कार्यं कुरु। त्वन्नामधारिणो मम गन्तव्यदेशे वैकल्यमेव न संभवतीत्यर्थः।
भास्करोक्त-विनियोगः
2आगत्य प्रवासात्पुनस्तमुपतिष्ठते - मम नाम तव चेति ।
विश्वास-प्रस्तुतिः ...{Loading}...
मम॒ नाम॒ तव॑ च जातवेदो॒!
वास॑सी इव वि॒+++(=विनिमयेन-)+++वसा॑नौ॒ ये चरा॑वः ।
आयु॑षे॒ त्वञ्, जी॒वसे॑ व॒यय्ँ
य॑थाय॒थव्ँ वि परि॑ दधावहै॒ पुन॒स् ते ॥
सर्वाष् टीकाः ...{Loading}...
Keith
My name and thine, O all-knower,
Which like men changing garments we bear,
Let us exchange again,
Thou for life, and we to live.
मूलम्
मम॒ नाम॒ तव॑ च जातवेदो॒ वास॑सी इव वि॒वसा॑नौ॒ ये चरा॑वः ।
आयु॑षे॒ त्वञ्जी॒वसे॑ व॒यय्ँ … +++(विवृद्धपादः तृतीयपादः)+++
य॑थाय॒थव्ँवि परि॑ दधावहै॒ पुन॒स्ते ॥
पद-पाठः
मम॑ । नाम॑ । तव॑ । च॒ । जा॒त॒वे॒द॒ इति॑ जात-वे॒दः॒ । वास॑सी॒ इति॑ । इ॒व॒ । वि॒वसा॑ना॒विति॑ वि-वसा॑नौ । ये इति॑ । चरा॑वः ॥ आयु॑षे । त्वम् । जी॒वसे॑ । व॒यम् । य॒था॒य॒थमिति॑ यथा-य॒थम् । वि । परीति॑ । द॒धा॒व॒है॒ । पुनः॑ । ते इति॑ ॥
भट्टभास्कर-टीका
अयञ्च जगतीप्रकारो विवृद्धपादः । ‘आयुषे त्वं जीवसे वयम्’ इति तृतीयः पादः ॥
हे जातवेदः मम च तव च सम्बन्धिनी ये नामनी विवसानौ विपरिवृत्य वसानौ मम नाम त्वं तव च नामाहमिति, अतोन्योन्यस्य विपरिवृत्ते इव धारयन्तौ चरावः त्वं चाहं च वर्तावहे । ते नामनी पुनरिदानीं यथायथं यथास्वं विपरिदधावहै पुनविवर्तावहै । तव नाम त्वमेव परिधत्स्व मम च नामाहमेव परिदधे । ‘यथास्वे यथायथम्’ इति निपात्यते ।
किमर्थमित्याह - आयुषे अन्नाय हविर्लक्षणाय त्वमात्मीयं नाम गृहाण । जीवसे दीर्घाय्नुर्जीवितुम् वयमप्यात्मीयं नाम गृह्णीमः । ‘अस्मदो द्वयोश्च’ इत्येकस्मिन् बहुवचनम् । वचनव्यत्ययो वा । ‘तुमर्थे सेसेन्’ इत्यसेप्रत्ययः, आद्युदात्तत्वप्रसङ्गादसुन्नन्तो नेष्यते ॥
सायण-टीका
कल्पे — “अभ्येत्याहाग्नीन्समाधेहीति ज्वलत उपतिष्ठते” इत्युपक्रम्योक्तं “मम नाम तव च जातवेद इति चतसृभिराहवनीयम्” इति।
तत्र प्रथमा -
मम नाम तवेति। हे जातवेदो मम देवदत्तादि नाम तव च वह्न्यादि नामेत्येवं ये नामनी विपरिवृत्यान्योन्यवाससी विपर्ययेण वसानाविवेदानीमावां चरावः। अत ऊर्ध्वं ते नामनी त्वं चाहं च पुनरपि यथायथं त्वदीयं वह्न्यादिनाम तवैव मदीयं च देवदत्तादिनाम मदीयमेव यथा भवति तथा विपरिवृत्य परिदधावहै। एवं सत्यायुर्वृद्धिर्धनादिसंपत्त्या प्रशस्तजीवनं च भवति।
भास्करोक्त-विनियोगः
3गार्हपत्यमुपतिष्ठते - नमोग्नय इति त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
नमो॒ ऽग्नये ऽप्र॑तिविद्धाय॒,
नमो ऽना॑धृष्टाय॒, नम॑स् स॒म्राजे॑ ।
अ-षा॑ढो+++(=सह्यः)+++ अ॒ग्निर् बृ॒हद्-व॑या+++(=अपरिमितान्नः)+++
विश्व॒जित् सह॑न्त्य॒श्+++(=अभिभवनशीलश्)+++ श्रेष्ठो॑ गन्ध॒र्वः ॥
सर्वाष् टीकाः ...{Loading}...
Keith
Homage to Agni, the unpierced,
Homage to the unapproachable, homage to the king!
Irresistible is Agni [1], the very vigorous, all-conquering,
Powerful, the best, the Gandharva.
मूलम्
नमो॒ऽग्नयेऽप्र॑तिविद्धाय॒ नमोऽना॑धृष्टाय॒ नम॑स्स॒म्राजे॑ ।
अषा॑ढः [43] +अ॒ग्निर्बृ॒हद्व॑या विश्व॒जित्सह॑न्त्य॒श्श्रेष्ठो॑ गन्ध॒र्वः ॥
पद-पाठः
नमः॑ । अ॒ग्नये॑ । अप्र॑तिविद्धा॒येत्यप्र॑ति-वि॒द्धा॒य॒ । नमः॑ । अना॑धृष्टा॒येत्यना॑-धृ॒ष्टा॒य॒ । नमः॑ । स॒म्राज॒ इति॑ सम्-राजे॑ ॥ अषा॑ढः । अ॒ग्निः । बृ॒हद्व॑या॒ इति॑ बृ॒हत्-व॒याः॒ । वि॒श्व॒जिदिति॑ विश्व-जित् । सह॑न्त्यः । श्रेष्ठः॑ । ग॒न्ध॒र्वः ॥
भट्टभास्कर-टीका
नमोग्नये पूजेयं क्रियते । अप्रतिविद्धाय केन न चिदप्यताडिताय । नमो ऽनाधृष्टाय केन चिदप्यपरिभूताय । नमस्सम्राजे सर्वदा सङ्गतदीप्तये । ‘मो राजि समः क्वौ’ इति मकारः ।
इदानीं स एवाग्निस्स्तूयते - अयं खल्वग्निः अषाढः केन चिदपि सोढुमशक्यः । ‘साढ्वै साढ्वा’ इति निपात्यते, ‘सहोस्साढस्सः’ इति षत्वम् । बृहद्वयाः अपरिमितान्नः, विश्वजित् सर्वस्य जेता, सहन्त्यः अभिभवनशीलश् शत्रूणाम् । सहेरौणादिके झचि स्वार्थिको यत्, अद्व्यचोपि व्यत्ययेन ‘यतोऽनावः’ इत्याद्युदात्तत्वम् । श्रेष्ठः प्रशस्यतमः, गन्धर्वः गवां स्तुतिशब्दानां धारयिता स्वीकर्ता । स्वीकृत्य वा तदर्थस्य कर्ता । पृषोदरादिः । योग्निरित्थम्भूतस्तस्मै नमः इति ॥
सायण-टीका
अथ द्वितीया -
नमोऽग्नय इति। अप्रतिविद्धाय केनचिदताडिताय। अनाधृष्ठाय। केनाप्यतिरस्कृताय। सम्राजे संहतदीप्तये। अषाढः शत्रूणां सोढुमशक्यः। बृहद्वया अपरिमितान्नः। विश्वजित्सर्वस्य जेता। सहन्त्यः स्वयं सहिष्णुः। श्रेष्ठो गन्धर्वः संगीतादिकलाविद्यास्वतिकुशलः।
भास्करोक्त-विनियोगः
4अन्वाहार्यपचनम् उपतिष्ठते - त्वत्पितार इति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
त्वत्-पि॑तारो अग्ने दे॒वास्
त्वाम्-आ॑हुतय॒स् त्वद्-वि॑वाचनाः ।
सम्-मामायु॑षा॒ सङ्-गौ॑प॒त्येन॒ सुहि॑ते मा धाः ॥
सर्वाष् टीकाः ...{Loading}...
Keith
O Agni, the gods have thee for father,
Offer to thee oblations, and have thee as an umpire
With life, with lordship of cattle (endow) me
And bestow on me good fortune.
मूलम्
त्वत्पि॑तारो अग्ने दे॒वास्त्वामा॑हुतय॒स्त्वद्वि॑वाचनाः ।
सम्मामायु॑षा॒ सङ्गौ॑प॒त्येन॒ सुहि॑ते मा धाः ॥
पद-पाठः
त्वत्पि॑तार॒ इति॒ त्वत्-पि॒ता॒रः॒ । अ॒ग्ने॒ । दे॒वाः । त्वामा॑हुतय॒ इति॒ त्वाम्-आ॒हु॒त॒यः॒ । त्वद्वि॑वाचना॒ इति॒ त्वत्-वि॒वा॒च॒नाः॒ ॥ समिति॑ । माम् । आयु॑षा । समिति॑ । गौ॒प॒त्येन॑ । सुहि॑त॒ इति॒ सु-हि॒ते॒ । मा॒ । धाः॒ ॥
भट्टभास्कर-टीका
अयं कश्चिद्गायत्रीप्रकारः । ‘सम्मामायुषा’ इति तृतीयः । हे अग्ने त्वात्पितारस्त्वत्पितृकाः त्वं पिता पाता वा येषां तादृशा देवताः । छान्दसं दीर्घत्वम्, ‘ऋतश्छन्दसि’ इति कबभावः ।
त्वाम्-आहुतयः त्वां प्रति गन्तारः, त्वय्य् आहुतयो येषान्ते त्वामाहुतयः । छान्दसो द्वितीयाया अलुक् । त्वय्याहुतयः देवाहुतय इत्यर्थः ।
त्वद्विवाचनाः त्वं विवाचनाः विवाचयिता विशेषेण ख्यापयिता येषां ते तादृशाः, त्वन्मुखत्वाद्देवानाम् वचेर्ण्यन्तान्नन्द्यादिलक्षणो ल्युः । स तादृशस्त्वमायुषान्नेन जीवितेन वा सुहिते सुष्ठु निहिते सुहितार्थं मां सन्धाः सन्धेहि संयोजय । गौपत्येन गवां स्वामित्वेन च मां सन्धेहि । पत्यन्तलक्षणो यत् । दधातेर्लेटि शपो लुक् । छान्दसे वा लिङि ‘गातिस्था’ इति सिचो लुक् ।
यद्वा - सुहिते सम्यक् स्थापय । सुहित इति प्रादिसमासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
सायण-टीका
अथ तृतीया -
त्वत्पितार इति। त्वमेव पिता पालको येषां देवानां ते त्वत्पितारः। त्वा प्राप्ता आहुतयो येषां देवानां ते त्वामाहुतयः। त्वयि हुताः सत्यो देवांस्तर्पयन्तीत्यर्थः। त्वमेव विशेषेण वाचनप्रख्यापयिता येषां ते त्वद्विवाचनाः। हेऽग्ने मां दीर्घायुषा संधाः संयोजय। गौपत्येन गवां स्वामित्वेन संयोजय। सुहिते सुष्ठु हिते पुरुषार्थे मा धाः, मां स्थापय।
भास्करोक्त-विनियोगः
5आहवनीयमुपतिष्ठते - अयमित्यनुष्टुभा+++(??)+++ ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यम् अ॒ग्निश् श्रेष्ठ॑तमो॒, ऽयम्
भग॑वत्तमो॒ ऽयँ स॑हस्र॒-सा+++(त्)+++-त॑मः ।
अ॒स्मा अ॑स्तु सु॒वीर्य॑म् ॥
सर्वाष् टीकाः ...{Loading}...
Keith
Agni here is of all the best,
He is most adorable,
Must ready to win (us) a thousand;
To him be all good strength.
मूलम्
अ॒यम॒ग्निश्श्रेष्ठ॑तमो॒ऽयम्भग॑वत्तमो॒ऽयँ स॑हस्र॒सात॑मः ।
अ॒स्मा अ॑स्तु सु॒वीर्य॑म् ॥
पद-पाठः
अ॒यम् । अ॒ग्निः । श्रेष्ठ॑तम॒ इति॒ श्रेष्ठ॑-त॒मः॒ । अ॒यम् । भग॑वत्तम॒ इति॒ भग॑वत्-त॒मः॒ । अ॒यम् । स॒ह॒स्र॒सात॑म॒ इति॑ सहस्र-सात॑मः ॥ अ॒स्मै । अ॒स्तु॒ । सु॒वीर्य॒मिति॑ सु-वीर्य॑म् ॥
भट्टभास्कर-टीका
अयम् अग्निर् आहवनीयश् श्रेष्ठतमः अतिशयेन प्रशस्यतमः प्रशस्तानामपि प्रशस्ततमः । प्रकर्षवतामप्यतिशयविवक्षया द्वितीय आतिशायनिको भवत्येव, यथा ‘श्रेष्ठतमाय कर्मणे’ इति । अयं भगवत्तमः अतिशयेन धनवान् । तथाऽयं सहस्रसातमः सहस्रस्य बहुनो धनस्य ये सनितारस्सम्भक्तारो दातारो वा तानतिशेते । ‘जनसन’ इति विट् ,‘विड्वनोरनुनासिकस्स्यात्’ इत्यात्वम् ।
ईदृशोयमग्निरस्मै यजमानाय मह्यं सुवीर्यमस्तु शोभनवीर्यं धनमस्तु । ईदृशधनहेतुर्मामस्त्विति यावत् । ‘वीरवीर्यौ च’ इत्युत्तरपदाद्युदात्तत्वम् ।
एवं सहस्रपदोपात्तं धनं सुवीर्यशब्देन विशेप्यते ॥
सायण-टीका
अथ चतुर्थी - अयमग्निरिति।
प्रशस्यानां मध्येऽतिशयेन श्रेष्ठः। पुनरपि तादृशानां मध्येऽतिशयेन श्रेष्ठः श्रेष्ठतमः।
भगवच्छब्दः पौराणिकैर्व्याख्यातः —
“ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः।
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा” इति।
“उत्पत्तिं प्रलयं चैव भूतानामगतिं गतिम्।
वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति” इति।
अतिशयेन भगवान् भगवत्तमः। सहस्रसंख्याकस्य धनस्य सनितारो दातारस्ते-ष्वतिशयेन दाता सहस्रसातमः। तादृशस्याग्नेः प्रसादादस्मै यजमानाय मह्यं शोभनं सामर्थ्यमस्तु।
भास्करोक्त-विनियोगः
6विच्छिन्ननिमित्तो होमः - मनो ज्योतिरिति ।
विश्वास-प्रस्तुतिः ...{Loading}...
मनो॒ ज्योति॑र् जुषता॒म्, आज्यव्ँ॒
विच्छि॑न्नय्ँ य॒ज्ञँ सम् इ॒मन् द॑धातु ।
या +++(अन्यैर्)+++ इ॒ष्टा उ॒षसो॑, +++(मया तु)+++ नि॒-म्रुच॑श्+++(←स्तेये)+++ च॒
तास् सन्द॑धामि ह॒विषा॑ घृ॒तेन॑ ॥
+++(मनसे ज्योतिषे इदं न मम॥)+++
सर्वाष् टीकाः ...{Loading}...
Keith
Mind, light, rejoice in the oblation
May he unite the scattered sacrifice;
The offerings at dawn and evening
I unite with oblation and ghee.
मूलम्
मनो॒ ज्योति॑र् जुषता॒म् आज्यव्ँ॒
विच्छि॑न्नय्ँ य॒ज्ञँ सम् इ॒मन् द॑धातु ।
या इ॒ष्टा उ॒षसो॑ नि॒म्रुच॑श् च॒
तास् सन्द॑धामि ह॒विषा॑ घृ॒तेन॑ ॥
पद-पाठः
मनः॑ । ज्योतिः॑ । जु॒ष॒ता॒म् । आज्य॑म् । विच्छि॑न्न॒मिति॒ वि-छि॒न्न॒म् । य॒ज्ञम् । समिति॑ । इ॒मम् । द॒धा॒तु॒ ॥ याः । इ॒ष्टाः । उ॒षसः॑ । नि॒म्रुच॒ इति॑ नि-म्रुचः॑ । च॒ । ताः । समिति॑ । द॒धा॒मि॒ । ह॒विषा॑ । घृ॒तेन॑ ॥
भट्टभास्कर-टीका
त्रिष्टुबियं, विराड्वा ॥ पूर्वार्धर्चो व्याख्यातः ।
[हे अग्ने तव ज्योतिः कीदृशं मननीयम् ।
यद्वा - मनश् शेषमुद्वासितेन पीडितं यन् मननीयम् एवासीत्
नान्यत्वे[त्र]विद्यते तद् इदम् आज्यं जुषतां सेवतां अनेन कर्मणा पूर्ववत्समृद्धमस्तु ।
यद्वा - मनस् सदा मननीयं मनोहरं अग्न्याख्यं ज्योतिः उद्वासनापराधं चेतस्य् अकृत्वा जुषताम् आज्यम् इति । ततो विच्छिन्नम् उद्वासने तव यज्ञम् इमं सन्दधातु । ]
सर्वस्य मनो द्योतमानोयमग्निर् इदम् आज्यं जुषतां, जुषमाणश् चेमं विच्छिन्नं यज्ञं सन्दधात्व् इति ।
या इष्टाः ‘तास् सन्दधामि’ इति वचनात् मयि प्रोषिते प्रमत्ते वा । या उषसः अन्यैर् यजमानैर् इष्टाः, मयानिष्टा इत्यर्थसिद्धम् ।
यद्वा - इष्टा यागार्हा मयानिष्टास् संधातुं या इष्टाः । इच्छतेर्निष्ठा ।
इषेर्वा गतिकर्मणः, इष्टाः गताः विना यागेनातिवाहिताः ।
उषसः अहरारम्भाः प्रातश्च सायं चेति यावत् ।
म्रुचु म्लुचु स्तेयकरणे, सम्पदादि-लक्षणः क्विप् ।
तास् सन्दधामि अनेन घृतेनैव हविषा चरुणा सङ्गताः करोमि अनेन हविषा यागवतीः करोमि । अथापरम् - या इष्टाः पूर्वं मया यागवत्यः कृताः या उषसः उदया दिवसा इत्यर्थः । याश्च निम्रुचः लुप्तयागा उषसस्ता उभयीरुषसः अनेन हविषा सन्दधामि संयोजयामि, यागवतीरेव सर्वाः करोमि, इष्टानिष्टविभागरहिताः करोमीत्यर्थः ॥
सायण-टीका
कल्पः — “नवमीं चेदति प्रवसेन्मित्रो जनान्यातयति प्रजानन्निति मैत्र्योप
स्थाय मनो ज्योतिर्जुषतामित्याहुतिं जुहुयात्” इति।
निर्गमनतिथिमारभ्य नवमीं तिथिमतिक्रम्य प्रवासे सत्येतदवगन्तव्यम्। तत्र मित्रो जनानिति मन्त्रोऽन्यत्राऽऽम्नातः।
मनो ज्योतिरिति। पूर्वार्धं भूमिर्भूम्नेत्यनुवाके व्याख्यातम्। या उषसः प्रातःकालोपलक्षिता आहुतयः, याश्च निम्रुचोऽस्तमयकालोपलक्षिता आहुतय इष्टा इतरैर्यजमानैरनुष्ठिता मया त्वन्तरितास्ताः सर्वा आहुतीरनेन घृतेन हविषा संदधामि अविच्छिन्नाः करोमि।
प्राजापत्यम् इष्टियाजमानकाण्डम्
दार्शिकयाजमानशेषाः आचमनव्रतौपायनादीनां मन्त्राः (१० ७-१४ मन्त्राः )
भास्करोक्त-विनियोगः
7अतः परम् इष्टि-याजमान-काण्डं प्राजापत्यम् । तत्राप आचामति - पयस्वतीरित्यनुष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
पय॑स्वती॒र् ओष॑धयः॒
पय॑स्वद् वी॒रुधा॒म् पयः॑ ।
अ॒पाम् पय॑सो॒ यत् पय॒स्
तेन॒ माम् इ॑न्द्र॒ सँ सृ॑ज ॥
सर्वाष् टीकाः ...{Loading}...
Keith
Rich in milk are the plants [2],
The milk of the shoot is rich in milk,
With the milk of the milk of the waters,
O Indra, do thou unite me.
मूलम्
पय॑स्वती॒रोष॑धयः॒ [44] पय॑स्वद्वी॒रुधा॒म्पयः॑ ।
अ॒पाम्पय॑सो॒ यत्पय॒स्तेन॒ मामि॑न्द्र॒ सँ सृ॑ज ॥
पद-पाठः
पय॑स्वतीः । ओष॑धयः । पय॑स्वत् । वी॒रुधा॑म् । पयः॑ ॥ अ॒पाम् । पय॑सः । यत् । पयः॑ । तेन॑ । माम् । इ॒न्द्र॒ । समिति॑ । सृ॒ज॒ ॥
भट्टभास्कर-टीका
पयस्वतीः पयस्वत्यः क्षीरवत्यस्सारवत्यो वा । पानरसेन तद्वत्य ओषधयः । ओषध्यः फलपाकान्ताः । ‘वा छन्दसि’ पूर्वसवर्णदीर्घत्वम् ।
वीरुधां तु पयः पयस्वत् ओषधीनां पयोपि पयस्वत् सारवत् पेयत्वगुणवत् । विविधं रोहन्तीति वीरुधः लतादयः । पृषोदरादिः ।
अपां वा सम्बन्धि यत्पयः ईदृशं पयसोपि पयः, यत्किञ्चित्पय ओषधीनां वीरुधां वा तस्यापि पयस्ततोपि सारवत् । तेन मां संसृज योजय हे इन्द्र ।
एतदुक्तं भवति - ओषधयो न केवलं पयस्वत्यः वीरुधान्तु पयोपि पयस्वत्, अपान्तु ततोपि पयस्वत्पय इति ॥
सायण-टीका
अग्न्युपस्थानमन्त्रविषयः पूर्वभागो गतः। अथ दार्शिकयजमानमन्त्रादिविषय उत्तरभाग उच्यते।
कल्पः — “पयस्वतीरोषधय इत्यप आचामत्युपस्पृशति वा” इति।
पाठस्तु - पयस्वतीरिति।
सारवाची पयःशब्दः। ओषधयः पयस्वत्यः सारवत्यः। वीरुधां लतानां संबन्धि यत्पयो निर्गतं क्षीरं तदपि पयस्वत्सारवत्। अपां मध्ये यत्पयः सारं यच्च पयसो गवादिक्षीरस्य पयः सारं तेन सारेण सर्वेण हे इन्द्र मां संसृज संयोजय।
भास्करोक्त-विनियोगः
8व्रतमुपैति - अग्ने व्रतपत इति यजुषा ॥
मूलम् (संयुक्तम्)
अग्ने॑ व्रतपते व्र॒तञ्च॑रिष्यामि॒ तच्छ॑केय॒न्तन्मे॑ राध्यताम् ॥
विश्वास-प्रस्तुतिः
अग्ने॑ व्रतपते व्र॒तञ् च॑रिष्यामि ।
Keith
O Agni, lord of vows, I shall perform this vow;
मूलम्
अग्ने॑ व्रतपते व्र॒तञ्च॑रिष्यामि ।
पद-पाठः
अग्ने॑ । व्र॒त॒प॒त॒ इति॑ व्रत-प॒ते॒ । व्र॒तम् । च॒रि॒ष्या॒मि॒ ।
भट्टभास्कर-टीका
हे अग्ने व्रतानां ब्रह्मचर्यादीनां पते पालयितः । ‘नामन्त्रिते समानाधिकरणे सामान्यवचनम्’ इति पूर्वस्याविद्यमानवत्वनिषेधाद्द्वितीयं निहन्यते । व्रतं यथोक्तं चरिष्यामि ।
सायण-टीका
अग्ने व्रतपत इति। कल्पः — “दक्षिणेनाऽऽहवनीयमवस्थाय व्रतमुपैष्यन्समुद्रं मनसा ध्यायत्यथ जपति अग्ने व्रतपते व्रतं चरिष्यामीति ब्राह्मणः” इति।
विश्वास-प्रस्तुतिः
तच् छ॑केयम् ।
Keith
may I accomplish it;
मूलम्
तच्छ॑केयम् ।
पद-पाठः
तत् । श॒के॒य॒म् ।
भट्टभास्कर-टीका
तद्व्रतमहं शकेयं चरितुं समर्थो भूयासम् । लिङ्याशिष्यङ् ।
विश्वास-प्रस्तुतिः
तन् मे॑ राध्यताम्+++(=सिद्ध्यतु)+++ ॥
Keith
may it be successful for me.
मूलम्
तन्मे॑ राध्यताम् ॥
पद-पाठः
तत् । मे॒ । रा॒ध्य॒ता॒म् ॥
भट्टभास्कर-टीका
तद् व्रतं त्वत्प्रसादाच् चरितं मे मम राध्यतां सिद्ध्यतु । राध हिंसासिद्दयोः, दैवादिकः ॥
सायण-टीका
मन्त्रशेषस्तु — “तच्छकेयं तन्मे राध्यताम्” इति।
तद्व्रतमनुष्ठातुं शक्तो भूयासं, मदीयं तद्व्रतं समृद्धं भवति।
भास्करोक्त-विनियोगः
9हविर्निरुप्यमाणमभिमन्त्रयते - अग्निं होतारमिति ।
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्निँ होता॑रम् इ॒ह तँ हु॑वे
दे॒वान् य॒ज्ञिया॑न् इ॒ह यान् हवा॑महे ॥
आ य॑न्तु दे॒वास् सु॑मन॒स्यमा॑ना
वि॒यन्तु॑ दे॒वा ह॒विषो॑ मे अ॒स्य ॥
सर्वाष् टीकाः ...{Loading}...
Keith
Agni, the priest, I summon hither;
The gods worthy of sacrifice whom we invoke,
Let these gods come in kindly mind;
Let the gods enjoy this oblation of me.
मूलम्
अ॒ग्निँ होता॑रमि॒ह तँ हु॑वे दे॒वान् ..
य॒ज्ञिया॑नि॒ह यान् हवा॑महे ॥
आ य॑न्तु दे॒वास्सु॑मन॒स्यमा॑ना ..
वि॒यन्तु॑ दे॒वा ह॒विषो॑ मे अ॒स्य ॥
पद-पाठः
अ॒ग्निम् । होता॑रम् । इ॒ह । तम् । हु॒वे॒ । दे॒वान् । य॒ज्ञिया॑न् । इ॒ह । यान् । हवा॑महे ॥ एति॑ । य॒न्तु॒ । दे॒वाः । सु॒म॒न॒स्यमा॑ना॒ इति॑ सु-म॒न॒स्यमा॑नाः । वि॒यन्तु॑ । दे॒वाः । ह॒विषः॑ । मे॒ । अ॒स्य॒ ॥
भट्टभास्कर-टीका
अत्र वृत्तिद्वययोगात्संशये सङ्ख्यया त्रिष्टुबित्येके । ‘आद्यात्सन्देहे । देवतादिभ्यश्च’ इति जगतीत्यन्ये ॥
इहास्मिन् कर्मणि होतारं देवानामाह्वातारमग्निं हुवे आह्वयामि । शपो लुक् । देवान्यज्ञियान्यज्ञार्हान् हवामहे आह्वयामः, य आह्वातव्यास्तानप्याह्वयामि । ‘बहुलं छन्दसि’ इति ह्वयतेस्सम्प्रसार्णम् । ‘यज्ञर्त्विग्भ्याम्’ इति यज्ञशब्दाद्घः । यद्वा - यान्हवामहे ये होतव्याः तानाह्वयामि । जुहोतेर्व्यत्येयन शप्, आत्मनेपदं च । ते च हुतास्सुमनस्यमानाः सुमनसस्सन्त आह्वानापराधं सोढ्वा तुष्यन्तु, आयन्त्वागच्छन्तु । भृशादित्वलक्षणः क्यङ् । आगत्य च देवा हविषोस्य वियन्तु भक्षयन्तु । वी गत्यादिषु, ‘क्रियाग्रहणं कर्तव्यम्’ इति सम्प्रदानत्वात् ‘चतुर्थ्यर्थे बहुलं छन्दसि’ इति षष्ठी ॥
सायण-टीका
अग्निँ होतारमिति। कल्पः — “अग्निँ होतारमिह तँ हुव इति हविर्निरूप्यमाणमभिमन्त्रयते हविर्निर्वपणं वा पात्रमभिमृशत्यभि वा मन्त्रयते” इति।
मन्त्रशेषस्तु —”देवान्यज्ञियानिह यान्हवामहे। आ यन्तु देवाः सुमनस्यमाना वियन्तु देवा हविषो मे अस्य” इति।
इह कर्मणि देवानामाह्वातारं तमग्निमहमाह्वयामि। इह कर्मणि यान्देवानुद्दिश्य जुहुमस्तानपि यज्ञियान्देवानाह्वयामि। आहूताश्च ते देवाः सैमनस्यं प्राप्ता आगच्छन्तु। आगत्य च मेऽस्य हविषो मदीयमिदं हविर्वियन्तु भक्षयन्तु।
भास्करोक्त-विनियोगः
10यज्ञं यज्ञयोगेन युनक्ति - कस्त्वेति यजुषा ॥
विश्वास-प्रस्तुतिः
कस्+++(→प्रजापतिः पक्षे)+++ त्वा॑ युनक्ति॒ -
स त्वा॑ युनक्तु ।
Keith
Who yoketh thee? Let him yoke thee.
मूलम्
कस्त्वा॑ युनक्ति॒ स त्वा॑ युनक्तु ।
पद-पाठः
कः । त्वा॒ । यु॒न॒क्ति॒ । सः । त्वा॒ । यु॒न॒क्तु॒ ।
भट्टभास्कर-टीका
कः प्रजापतिरेव हि त्वां युनक्ति योक्तुमर्हति, तस्मात्स त्वां युनक्तु हे यज्ञ युक्तात्मानं त्वां करोतु ॥
सायण-टीका
कस्त्वेति। कल्पः — “अथ यज्ञं युनक्ति कस्त्वा युनक्ति स त्वा युनक्त्विति सर्वं विहारमनुवीक्षते” इति।
हे यज्ञ कः प्रजापतिः सर्वत्र त्वां युनक्ति योग्यं करोति। तस्मादत्रापि स एव त्वां युनक्तु।
भास्करोक्त-विनियोगः
11कपालानि विमुञ्चति - यानि घर्म इत्यनुष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
यानि॑ घ॒र्मे क॒पाला॑न्य्
उपचि॒न्वन्ति॑ वे॒धसः॑+++(=अध्वर्यवः)+++ ।
पू॒ष्णस् तान्य् अपि॑ +++(श्रपण-)+++व्र॒त+++(य् समाप्ते)+++
इ॑न्द्र-वा॒यू वि मु॑ञ्चताम् ॥ [11]
यानि घर्मे ...{Loading}...
Keith
The potsherds which wise men collect for the cauldron,
these are in Pusan’s guardianship.
Let Indra and Vayu set them free.
The potsherds for the cauldron [3],
Which wise men collect,
These are in Pusan’s guardianship;
Indra and Vayu set them free.
मूलम्
यानि॑ घ॒र्मे क॒पाला॑न्युपचि॒न्वन्ति॑ वे॒धसः॑ ।
पू॒ष्णस्तान्यपि॑ व्र॒त इ॑न्द्रवा॒यू वि मु॑ञ्चताम् ॥ [11]
पद-पाठः
यानि॑ । घ॒र्मे । क॒पाला॑नि । उ॒प॒चि॒न्वन्तीत्यु॑प-चि॒न्वन्ति॑ । वे॒धसः॑ ॥ पू॒ष्णः । तानि॑ । अपीति॑ । व्र॒ते । इ॒न्द्र॒वा॒यू इती॑न्द्र-वा॒यू । वीति॑ । मु॒ञ्च॒ता॒म् ॥
भट्टभास्कर-टीका
इयं चतुष्पदानुष्टुप् ; यणादेशाकरणेन प्रथमतृतीयौ पूरणीयौ । विधायको वेधाः अध्वर्युः । विध विधाने, असुन्प्रत्ययः (उ.सू. 664) । उञ्छादित्वात् (पा.सू. 6.1.160) अन्तोदात्तः, व्यत्ययेन बहुवचनम्, एको ह्यध्वर्युरुपदधाति ।
यानि कपालानि घर्मे अङ्गारे वेधसः उपचिन्वन्ति उपहितवन्तः । वर्तमानसामीप्ये लट् (पा.सू. 3.3.131) ।
तानि कपालानि इन्द्रवायू विमुञ्चताम्; ध्रुवमसीत्यादिमन्त्रैरुपहितानां तावेव विमोचकाविति भावः ।
‘नोत्तरपदेनुदात्तादौ’ (पा.सू. 6.2.142) इत्युभयपदप्रकृतिस्वरत्वे निषिद्धे समासान्तोदात्तत्वम् । किमुपधानं विमोकार्थं ? इत्यत आह - पूष्णः पोषकस्याग्नेः । उदात्तनिवृत्तिस्वरेण (पा.सू. 6.1.161) विभक्तेरुदात्तत्वम् ।
तस्य व्रते हविश्श्रपणलक्षणे कर्मणि अपीते समाप्ते इदानीं विमुञ्चतामिति ।
‘सं ते मनसा मनः’ (तै.सं. 1.3.10) इत्यादिवदपीत्युपसर्गश्रुतेर्योग्यं क्रियापदमध्याह्रियते ।
उपचिन्वन्तीत्यत्र ‘सतिशिष्टेपि विकरणस्वरो लसार्वधातुकस्वरं न बाधते’ इति वचनाल्लसार्वधातुकाद्युदात्तत्वम् । ‘चतुष्पदयर्चा’ (तै.ब्रा. 3.2.7) इत्यादि ब्राह्मणम् ॥
यानि कपालानि घर्मे अग्नौ वेधसो ऽध्वर्यवः उपचिन्वन्ति उपदधति तानि पूष्णः पुष्टिकारणस्याग्नेर् व्रते कर्मणि अपीते समाप्ते । इदानीम् इन्द्रवायू विमुञ्चताम्; न ह्य् अन्यस्तानि विमोक्तुं शक्नोतीति ॥
सायण-टीका
कल्पः — “उभौ कपालविमोचनं जपतः” इति। उभावप्यध्वर्युयजमानौ।
मन्त्रपाठस्तु -
यानि घर्म इति। अयं मन्त्रोऽप्यध्वर्युकाण्ड आम्नातत्वात्प्रथमप्रपाठके व्याख्यातः। वेधसो ब्रह्मसमाः पूष्णः पोषका ऋत्विजो यानि कपालानि वह्ना वुपस्थापयन्ति तानि सर्वाण्यपि व्रते समाप्ते सतीन्द्रवायू विमुञ्चताम्।
भट्टभास्कर-टीका
इयं चाध्वर्यवे व्याख्याता ‘धृष्टिरसि’ इत्यत्र ।
भास्करोक्त-विनियोगः
12भिन्नं कपालम् उत्कर उदस्यति - अभिन्न इति ।
विश्वास-प्रस्तुतिः ...{Loading}...
+++(भिन्ने ऽपि कपाले)+++ अभि॑न्नो घ॒र्मो +++(→यज्ञो)+++, जी॒र+++(=उदक)+++-दा॑नु॒र्
यत॒ आत्त॒स् तद् अ॑ग॒न् पुनः॑ ।
सर्वाष् टीकाः ...{Loading}...
Keith
Unbroken is the cauldron, sprinkling abundantly,
It hath returned to that whence it came;
मूलम्
अभि॑न्नो घ॒र्मो जी॒रदा॑नु॒र्यत॒ आत्त॒स्तद॑ग॒न्पुनः॑ ।
पद-पाठः
अभि॑न्नः । घ॒र्मः । जी॒रदा॑नु॒रिति॑ जी॒र-दा॒नुः॒ । यतः॑ । आत्तः॑ । तत् । अ॒ग॒न् । पुनः॑ ॥
भट्टभास्कर-टीका
पङ्क्तिरियं चतुष्पदा ॥ अभिन्नो ऽविगुणोस्तु घर्मो यज्ञः; सत्यपि कपालभेदे तन्निमत्तं यज्ञस्य वैगुण्यं मा भूदित्यर्थः ।
अथ वा - घर्मार्थं कपालं, घर्मः स भिन्नोप्य् अभिन्नो ऽस्तु अविनष्ट एवास्तु ।
अत एव जीरदानुः यागः कपालं वा भवतु वैगुण्याभावात्; जीरम् उदकं तस्य दाता वर्षादिद्वारेण ।
यद्वा - जीवं जीवितं प्रजानां तस्य दाता । जीवेरौणादिको रक्प्रत्ययः, ददातेर्नुः, दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । जीवेरदानुक् जीरदानुः इति निर्वचनं पदकारा न सहन्ते ।
किञ्च - अयं घर्मो यज्ञात्मा कपालात्मा वा यतः पृथिव्या आत्तः गृहीतः तदेव पुनरगन् गच्छतु पृथिव्यां गृहीतं पृथिवीमेव गच्छतु । गमेश्छान्दसे लिङि ‘मन्त्रे घस’ इत्यादिना च्लेर्लुक् । ‘मो नो धातोः ’ ॥
सायण-टीका
अभिन्न इति। अथ प्रायश्चित्तम्। तत्र कल्पः — “यदि कपालं भिद्येत गायत्रिया त्वा शताक्षरया संदधामीति तत्संधायोपरि गार्हपत्ये धार्यमाणम-भिजुहुयान्मनो ज्योतिर्जुषतामित्यथैनदपोऽभ्यवहरेदभिन्नो घर्मो जीरदानुरिति” इति।
भास्करोक्त-विनियोगः
13आहवनीये सम्मीननीं जुहोति - इध्मो वेदिरित्युत्तरेणार्धर्चेन त्रयस्त्रिंशदिति त्रिष्टुभा च ॥
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒ध्मो वेदिᳶ॑ परि॒धय॑श् च॒ सर्वे॑
य॒ज्ञस्याऽऽयु॒र् अनु॒ सञ्च॑रन्ति ॥
सर्वाष् टीकाः ...{Loading}...
Keith
The kindling-wood, the Vedi, and all the enclosing-sticks
Attend the life of the sacrifice.
मूलम्
इ॒ध्मो वेदिᳶ॑ परि॒धय॑श्च॒ सर्वे॑ य॒ज्ञस्याऽऽयु॒रनु॒ सञ्च॑रन्ति ॥
भट्टभास्कर-टीका
इ॒ध्मः । वेदिः॑ । प॒रि॒धय॒ इति॑ परि-धयः॑ । च॒ । सर्वे॑ । य॒ज्ञस्य॑ । आयुः॑ । अनु॑ । समिति॑ । च॒र॒न्ति॒ ॥
पद-पाठः
इ॒ध्मः । वेदिः॑ । प॒रि॒धय॒ इति॑ परि-धयः॑ । च॒ । सर्वे॑ । य॒ज्ञस्य॑ । आयुः॑ । अनु॑ । समिति॑ । च॒र॒न्ति॒ ॥
भट्टभास्कर-टीका
इध्मो वेदिः परिधयश्च । चशब्दादन्येप्येवंजातीयास्सर्वे यज्ञस्यायुस्थानीयमिममनुसञ्चरन्ति अनुक्रमेण प्रत्यासन्ना भूत्वा चरन्ति इमं सेवमाना वर्तन्ते । ये च त्रयस्त्रिंशत्तन्तवः तन्तुस्थानीयाः पटमिव सूत्राणीमं यज्ञं वितत्निरे विस्तारयन्ति । के पुनस्ते? ये ‘प्रजापतिर्मनसान्धोच्छेतः’ इति आकूतिप्रभृतियज्ञस्य तनितारः प्रजापत्यादयः ते वेदितव्याः । आकूत्यादयो वा यज्ञावयवाः ।
सायण-टीका
मन्त्रशेषस्तु “यत्र आत्तस्तदगन्पुनः। इध्मो वेदिः परिधेयश्च सर्वे यज्ञस्याऽऽयुरनुसंचरन्ति” इति। घर्मो दीप्तः संतप्तोऽयं कपालविशेषः स्वयं मिन्नत्वेन प्रतीयमानोऽपि मन्त्र सामर्थ्यादभिन्न एव भिन्नत्वदोषं नाऽऽवहति। यस्मादयं जीरदानुः। जीरं जीवनं पुरोडाशाद्वारेण यज्ञस्य ददातीति जीरदानुः। यो ह्यन्यं जीवयति स कथं स्वयं भिन्नो भवेत्। अभिन्नत्वे तदाकारः कुतो न भातीत्याशङ्क्योत्तरमुच्यते - यतो यस्मान्मृद्रूपात्कारणादात्त उत्पन्नः पुनस्तत्कारणमगन्नाप्नोदतः कारणरूपमृदाकार एव प्रतीयते न तु कार्याकारः। तदप्रतीतावपीध्मादयः स्वस्वाकारेण प्रतीयमाना यज्ञपुरुषस्याऽऽयुरनुकृत्य संचरन्ति।
विश्वास-प्रस्तुतिः ...{Loading}...
त्रय॑स्-त्रिँश॒त् +++(देवरूपा)+++ तन्त॑वो॒ ये वि॑तत्नि॒रे,
य इ॒मय्ँ य॒ज्ञँ स्व॒धया॒ दद॑न्ते ।
तेषा॑ञ् छि॒न्नम् प्रत्य् ए॒तद् द॑धामि॒
स्वाहा॑ ।
सर्वाष् टीकाः ...{Loading}...
Keith
The three and thirty threads that stretch,
That maintain in security the sacrifice,
Of these the broken one I restore; hail!
मूलम्
त्रय॑स्त्रिँश॒त्तन्त॑वो॒ ये वि॑तत्नि॒रे य इ॒मय्ँ य॒ज्ञँ स्व॒धया॒ दद॑न्ते ।
तेषा॑ञ्छि॒न्नम्प्रत्ये॒तद्द॑धामि॒ स्वाहा॑ +++(अत्र त्रिष्टुप्-छन्द इति व्याख्याने-। उत्तरविनियोगमन्त्रस्यापि योगेन त्रिष्टुप् ज्ञेया)+++ ।
पद-पाठः
त्रय॑स्त्रिँश॒दिति॒ त्रयः॑-त्रिँ॒श॒त् । तन्त॑वः । ये । वि॒त॒त्नि॒र इति॑ वि-त॒त्नि॒रे । ये । इ॒मम् । य॒ज्ञम् । स्व॒धयेति॑ स्व-धया॑ । दद॑न्ते । तेषा॑म् । छि॒न्नम् । प्रतीति॑ । ए॒तत् । द॒धा॒मि॒ । स्वाहा॑ ।
भट्टभास्कर-टीका
त्रयश्च त्रिंशच् च । ‘त्रेस्त्रयः’ इति सूत्रेण त्रेस्त्रयसादेशः, ‘सङ्क्या’ इति पूर्वपदप्रर्कृतिस्वरत्वम् । विपूर्वात् तनोतेश् छान्दसे लिटि ‘तनिपत्योश्छन्दसि’ इत्युपधालोपः । अथ ये च इमं यज्ञं स्वधयान्नेन हविरात्मना ददन्ते उत्पादयन्ति, उत्पाद्य वा देवेभ्यो दधति । ददतिर् भौवादिकः ।
तेषां सर्वेषां यच् छिन्नं भेदन-निमित्तेन प्राप्तं वैगुण्यं एतत् प्रतिदधामि अनयाहुत्या प्रतिविहितं करोमि ।
यद्वा - समर्थे प्रति-शब्दः; यच् छिन्नम् एतत् सन्दधामि सन्ततमविच्छिन्नमनयाहुत्या करोमि, स्वाहुतं चेदमस्तु ॥
सायण-टीका
त्रयस्रिँशदिति। कल्पः — “अथान्यत्संस्कृत्य कपालेष्वतिसृजेत्त्रयस्रिँश-त्तन्तव इति” इति।
मन्त्रशेषस्तु — “ये वितत्निरे य इमं यज्ञँ स्वधया ददन्ते तेषां छिन्नं प्रत्येतद्दधामि स्वाहा घर्मो देवाँ अप्येतु” इति।
चतुर्थकाण्डे प्रजापतिर्मनसाऽन्धोऽच्छेत इत्यस्मिन्ननुवाक इष्टकोपधानार्था यज्ञतनुनामकास्त्रयस्त्रिंशन्मन्त्रा आम्नाताः। तन्मन्त्रप्रतिपाद्या यज्ञतनव इह तन्तुस्थानीयाः। यथा तन्तुभिः पटो निष्पाद्यते तथा तास्तनवो यज्ञं विस्तारयन्ति। ते तन्तवो यज्ञनिष्पादकाः। येऽप्यृत्विगादयः स्वधया हविषेमं यज्ञं ददन्तेऽनुतिष्ठन्ति तेषां प्राजापत्यादीनां यज्ञाभिमानिदेवानामृ- त्विगादियज्ञाङ्गानां च मध्ये यत्स्वरूपं विच्छिन्नं तदेतत्प्रतिसंधामि।
भास्करोक्त-विनियोगः
14अन्यं कपालं तेषु विसृजति - घर्म इति ॥
विश्वास-प्रस्तुतिः
घ॒र्मो दे॒वाँ अप्ये॑तु ॥ [46]
Keith
Let the cauldron go to the gods.
मूलम्
घ॒र्मो दे॒वाँ अप्ये॑तु ॥ [46]
पद-पाठः
घ॒र्मः । दे॒वान् । अपीति॑ । ए॒तु॒ ॥
भट्टभास्कर-टीका
घर्मो यज्ञः कपालं वा देवानप्येतु अनुप्रविशतु अन्वितगुणो भवतु ॥
इति पञ्चमे दशमोनुवाकः ॥
सायण-टीका
अतः स्वाहा सुष्टु प्रतिसंहितो घर्मो दीप्तो यज्ञाङ्गविशेषो देवानप्येतु प्राप्नोतु।
इति पञ्चमे दशमोनुवाकः ॥