०९ अग्निहोत्रब्राह्मणम्

सायंप्रातर्विधिः, उपस्थानविधिश्च।
पूर्वोक्ताग्न्युपस्थानस्य अग्निहोत्राङ्गत्वविधायकम् अग्निहोत्रब्राह्मणम्

अग्निर्ऋषिः

हविषो ऽनाशः

भट्टभास्कर-टीका

1अथाग्निहोत्र-ब्राह्मणम् अग्न्यार्षेयम् ।

मूलम् (संयुक्तम्)

अ॒ग्नि॒हो॒त्रञ्जु॑होति॒ यदे॒व किञ्च॒ यज॑मानस्य॒ स्वन्तस्यै॒व तद्रेत॑स्सिञ्चति प्र॒जन॑ने प्र॒जन॑नँ॒ हि वा अ॒ग्निरथौष॑धी॒रन्त॑गता दहति॒ तास्ततो॒ भूय॑सी॒ᳶ प्रजा॑यन्ते

विश्वास-प्रस्तुतिः

अ॒ग्नि॒हो॒त्रञ् जु॑होति॒ - यद् ए॒व किञ्च॒ यज॑मानस्य॒ स्वन् +++(हुतम्)+++, तस्यै॒व तत् +++(तिष्ठति)+++ ।

Keith

He offers the Agnihotra; whatever there is of the Sacrificer’s own, that is (still) his.

मूलम्

अ॒ग्नि॒हो॒त्रञ्जु॑होति॒ यदे॒व किञ्च॒ यज॑मानस्य॒ स्वन्तस्यै॒व तत् ।

भट्टभास्कर-टीका

तत्र ‘अग्निहोत्रं जुहोति’ इति विधिः ।

अस्त्य् अयम् अग्निहोत्रशब्दः कर्मणो नाम।
हूयतेस्मिन्निति होत्रम् । ‘हुयामाश्रुवसि’ इत्यादिना ष्ट्रक्+++(न्??)+++प्रत्ययः, षष्ठीसमासान्तोदात्तत्वम् ।

यथा - ‘असंस्थितो वा एष यज्ञः । यदग्निहोत्रम्’ इति ।

अग्नेर् हविषो नाम - हूयते इति होत्रमिति, यथा ‘अहरहर्यजमानस्स्वयमग्निहोत्रं जुहुयात्’ इति ।
ब्राह्मणं च भवति ‘तुभ्यमेवेदं हूयातै’ इत्यादि ।

अस्ति गोर् नाम, यथा ‘अग्नेर्हुतादजनीति । तदग्निहोत्रस्य’ इत्यादि । अग्नेर्होमः अग्निहोत्रं, तदर्था गौरभेदेनोच्यते ‘गौर्वा अग्निहोत्रम्’ इति, ‘अग्निहोत्री वत्सम्’ इत्यादि । गौरादिलक्षणो ङीष् द्रष्टव्यः । तत्र हविर्वाचिन इह ग्रहणम् ।

अयम् अर्थः -
विशिष्ट-काल-मन्त्र-प्रयोज्यम् अग्निहोत्राख्यं हविर् जुहुयाद् इति ।

यद् एव किञ्च यत् किञ्चिद् अपि पयो वा दधि वा यवागूं वा जुहोति द्रव्यं तत् तस्यैव यजमानस्य स्वम् अविनष्टम् एव तिष्ठति - तं च न मुञ्चति ।

विश्वास-प्रस्तुतिः

रेत॑स् सिञ्चति प्र॒जन॑ने ।

Keith

In the generative organ he pours seed,

मूलम्

रेत॑स्सिञ्चति प्र॒जन॑ने ।

भट्टभास्कर-टीका

ननु दग्धमविनष्टं तिष्ठतीत्यसमीचीनम् । तत्राह - रेत इत्यादि । सदृशप्रधानो निर्देशः । यथा प्रजनने योनौ रेतास्सिक्तमविनष्टं तिष्ठति तत्सदृशमिदमिति जानीयादित्यर्थः । प्रजायन्ते प्रजा अस्मिन्निति प्रजननम् । ‘करणाधिकरणयोश्च’ इत्यधिकर्णे ल्युट् ।

विश्वास-प्रस्तुतिः

प्र॒जन॑नँ॒ हि वा अ॒ग्निः ।

Keith

for Agni is the generative organ.

मूलम्

प्र॒जन॑नँ॒ हि वा अ॒ग्निः ।

भट्टभास्कर-टीका

अथाग्नेः प्रजननत्वं समर्थयते - प्रजननं हीति । ताद्धर्म्यात्ताच्छब्द्यम् । प्रजननसदृशोयमग्निरिति । नन्वग्निर्नाम सर्वं दहति, तत्कीदृशमस्य प्रजननसामर्थ्यमिति पर्यनुयोगावसरे प्रजननसामर्थ्यं दर्शयितुमाह - अथौषधीरन्तगता दहतीति ।

विश्वास-प्रस्तुतिः

अथौष॑धी॒र् अन्त॑गता दहति ।
तास् ततो॒ भूय॑सी॒ᳶ प्रजा॑यन्ते।

Keith

Then he burns at the end the plants;
they then grow more numerous.

मूलम्

अथौष॑धी॒रन्त॑गता दहति ।
तास्ततो॒ भूय॑सी॒ᳶ प्रजा॑यन्ते।

भट्टभास्कर-टीका

अथेति प्रस्तावे । अन्तं समीपं गता अन्तगताः । ‘द्वितीयाश्रित’ इति समासः, द्वितीयापूर्वपदप्रकृतिस्वरत्वम् । अयमग्निरेव समीपे निपतिता ओषधीर्दहति, ता यदृच्छानिपतिताः अमन्त्रहुता अपि ततः पूर्वं दग्ध स्वरूपेभ्यो भूयसीः भूयस्यः बहुतराः प्रजायन्ते । यदैवमिदं पश्यामः, तदा किं पुनर्मन्त्रहुता इति । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वत् । तस्मादुपपन्नमग्नेः प्रजननत्वम् । अतस्तत्र हु[हुतं] तस्यैव स्वं भूयिष्ठं च प्रथते इति । उक्तञ्च - ’ यावदेका देवता’ इत्यादि । तस्मादग्निहोत्रं जुहोतीति ॥

सायम्प्रातश्च होमः

विश्वास-प्रस्तुतिः

यत् सा॒यञ् जु॒होति॒ - रेत॑ ए॒व तत् सि॑ञ्चति।
प्रैव प्रा॑त॒स्तने॑न जनयति ।

Keith

In that he offers in the evening, he thus pours seed,
and makes it productive by the morning (offering).

मूलम्

यत्सा॒यञ्जु॒होति॒ रेत॑ ए॒व तत्सि॑ञ्चति।
प्रैव प्रा॑त॒स्तने॑न जनयति ।

भट्टभास्कर-टीका

2अथ सायम्प्रातश्च होमं विधातुमाह - यत्सायमित्यादि ॥ गतम् ॥

मूलम् (संयुक्तम्)

तद्रेत॑स्सि॒क्तन्न त्वष्ट्राऽवि॑कृत॒म्प्रजा॑यते याव॒च्छो वै रेत॑सस्सि॒क्तस्य॑ [36]त्वष्टा॑ रू॒पाणि॑ विक॒रोति॑ ताव॒च्छो वै तत्प्रजा॑यत ए॒ष वै दैव्य॒स्त्वष्टा॒ यो यज॑ते ब॒ह्वीभि॒रुप॑ तिष्ठते॒ रेत॑स ए॒व सि॒क्तस्य॑ बहु॒शो रू॒पाणि॒ वि क॑रोति॒ स प्रैव जा॑यते॒ श्वश्श्वो॒ भूया॑न्भवति॒ य ए॒वव्ँवि॒द्वान॒ग्निमु॑प॒तिष्ठ॒ते ऽह॑र्दे॒वाना॒मासी॒द्रात्रि॒रसु॑राणा॒न् तेऽसु॑रा॒ यद्दे॒वानाव्ँ॑वि॒त्तव्ँवेद्य॒मासी॒त्तेन॑ स॒ह [37]रात्रि॒म्प्रावि॑श॒न्ते दे॒वा ही॒ना अ॑मन्यन्त॒ ते॑ऽपश्यन्नाग्ने॒यी रात्रि॑राग्ने॒याᳶ प॒शव॑ इ॒ममे॒वाग्निँ स्त॑वाम॒ स न॑स्स्तु॒तᳶ प॒शून्पुन॑र्दास्य॒तीति॒ ते॑ऽग्निम॑स्तुव॒न्त्स ए॑भ्यस्स्तु॒तो रात्रि॑या॒ अध्यह॑र॒भि प॒शून्निरा॑र्ज॒त् ते दे॒वाᳶ प॒शून् वि॒त्वा कामाँ॑ अकुर्वत॒ य ए॒वव्ँवि॒द्वान॒ग्निमु॑प॒तिष्ठ॑ते पशु॒मान्भ॑वति [38] आ॒दि॒त्यो वा अ॒स्माल्लो॒काद॒मुल्ँ लो॒कमै॒त् सो॑ऽमुल्ँ लो॒कङ्ग॒त्वा पुन॑रि॒मल्ँ लो॒कम॒भ्य॑ध्याय॒त् स इ॒मल्ँ लो॒कमा॒गत्य॑ मृ॒त्योर॑बिभेन्मृ॒त्युसय्ँ॑युत इव॒ ह्य॑यल्ँ लो॒कस्सो॑ऽमन्यते॒ममे॒वाग्निँ स्त॑वानि॒ स मा॑ स्तु॒तस्सु॑व॒र्गल्ँ लो॒कङ्ग॑मयिष्य॒तीति॒ सो॒॑ऽग्निम॑स्तौ॒त् स ए॑नँ स्तु॒तस्सु॑व॒र्गल्ँ लो॒कम॑गमय॒द्यः [39] ए॒वव्ँवि॒द्वान॒ग्निमु॑प॒तिष्ठ॑ते सुव॒र्गमे॒व लो॒कमे॑ति॒ सर्व॒मायु॑रेत्य॒भि वा ए॒षो॑ऽग्नी आ रो॑हति॒ य ए॑नावुप॒तिष्ठ॑ते॒ यथा॒ खलु॒ वै श्रेया॑न॒भ्यारू॑ढᳵ का॒मय॑ते॒ तथा॑ करोति॒ नक्त॒मुप॑ तिष्ठते॒ न प्रा॒तस्सँ हि नक्त॑व्व्ँर॒तानि॑ सृ॒ज्यन्ते॑ स॒ह श्रेयाँ॑श्च॒ पापी॑याँश्चासाते॒ ज्योति॒र्वा अ॒ग्निस्तमो॒ रात्रि॒र्यत् [40] नक्त॑मुप॒तिष्ठ॑ते॒ ज्योति॑षै॒व तम॑स्तरत्युप॒स्थेयो॒ऽग्नी ३ र्नोप॒स्थेया ३ इत्या॑हुर्मनु॒ष्या॑येन्न्वै योऽह॑रहरा॒हृत्याथै॑नय्ँ॒याच॑ति॒ स इन्न्वै तमुपा॑र्च्छ॒त्यथ॒ को दे॒वानह॑रहर्याचिष्य॒तीति॒ तस्मा॒न्नोप॒स्थेयोऽथो॒ खल्वा॑हुरा॒शिषे॒ वै कय्ँयज॑मानो यजत॒ इत्ये॒षा खलु॒ वै [41] आहि॑ताग्नेरा॒शीर्यद॒ग्निमु॑प॒तिष्ठ॑ते॒ तस्मा॑दुप॒स्थेयᳶ॑ प्र॒जाप॑तिᳶ प॒शून॑सृजत॒ ते सृ॒ष्टा अ॑होरा॒त्रे प्रावि॑श॒न्ताञ्छन्दो॑भि॒रन्व॑विन्द॒द्यच्छन्दो॑भिरुप॒तिष्ठ॑ते॒ स्वमे॒व तदन्वि॑च्छति॒ न तत्र॑ जा॒म्य॑स्तीत्या॑हु॒र्योऽह॑रहरुप॒तिष्ठ॑त॒ इति॒ यो वा अ॒ग्निम्प्र॒त्यङ्ङु॑प॒तिष्ठ॑ते॒ प्रत्ये॑नमोषति॒ यᳶ परा॒ङ्विष्व॑ङ्प्र॒जया॑ प॒शुभि॑रेति॒ कवा॑तिर्यङ्ङि॒वोप॑ तिष्ठेत॒ नैन॑म्प्र॒त्योष॑ति॒ न विष्व॑ङ्प्र॒जया॑ प॒शुभि॑रेति ॥ [42]

उपस्थानम्

विश्वास-प्रस्तुतिः

तद् रेत॑स्-सि॒क्तन् न त्वष्ट्रा ऽवि॑कृत॒म् प्रजा॑यते ।
याव॒च्छो वै रेत॑सस्-सि॒क्तस्य॑ त्वष्टा॑ रू॒पाणि॑ विक॒रोति॑,
ताव॒च्छो वै तत्प्रजा॑यते ।

Keith

Seed when poured does not prove fruitful unless modified by Tvastr;
as many modifications of seed when poured [1] as Tvastr makes, in so many shapes does it become fruitful;

मूलम्

तद्रेत॑स्सि॒क्तन्न त्वष्ट्राऽवि॑कृत॒म्प्रजा॑यते ।
याव॒च्छो वै रेत॑सस्सि॒क्तस्य॑ त्वष्टा॑ रू॒पाणि॑ विक॒रोति॑ ताव॒च्छो वै तत्प्रजा॑यते ।

भट्टभास्कर-टीका

3अग्नेरुपस्थानं विधातुमाह - तद्रेत इत्यादि ॥ तदुक्तम् - ‘रेतस्सिञ्चति प्रजनने’ इति । तद्रेतस्सिक्तमपि यदि त्वष्टा न विक्रियते नैव प्रजायते, त्वष्टा वै रूपाणि विकरोतीति । तद्विकुर्वंस्त्वष्टा यावन्ति रूपाणि विकरोति तावद्रूपं तत्प्रजायते । ‘सङ्ख्यैकवचनाच्च’ इति शत् ।

विश्वास-प्रस्तुतिः

ए॒ष वै दैव्य॒स् त्वष्टा॒, यो यज॑ते।

Keith

the sacrificer is the divine Tvastr.

मूलम्

ए॒ष वै दैव्य॒स्त्वष्टा॒ यो यज॑ते।

भट्टभास्कर-टीका

एष वा इत्यादि । देवेषु भवो दैव्यः सामन्त इत्यर्थः । ‘देवाद्यञञौ’ ।

विश्वास-प्रस्तुतिः

ब॒ह्वीभि॒र् उप॑ तिष्ठते ।

Keith

He pays reverence with many (verses);

मूलम्

ब॒ह्वीभि॒र् उप॑ तिष्ठते ।

भट्टभास्कर-टीका

बह्वीभिरुपतिष्ठत इति विधिः । उत्तराहुत्यनन्तरं ‘उपप्रयन्तः’ इत्येतत्प्रभृतिभिः ऋग्भिः बह्वीभिरुपतिष्ठते । ‘नित्यं छन्दसि’ इति ङीप् । ‘उपान्मन्त्रकरणे’ इत्यात्मनेपदम् ।

विश्वास-प्रस्तुतिः

रेत॑स ए॒व सि॒क्तस्य॑ बहु॒शो रू॒पाणि॒ वि क॑रोति ।
स प्रैव जा॑यते ।

Keith

verily he makes many modifications of the seed when poured.
He is fruitful

मूलम्

रेत॑स ए॒व सि॒क्तस्य॑ बहु॒शो रू॒पाणि॒ वि क॑रोति ।
स प्रैव जा॑यते ।

भट्टभास्कर-टीका

रेतस एवेत्यादि । बहुशः बहूनि । ‘बह्वल्पार्थात्’ इति शस् ।

विश्वास-प्रस्तुतिः

श्वश्-श्वो॒ भूया॑न् भवति॒, य ए॒वव्ँ वि॒द्वान् अ॒ग्निम् उ॑प॒तिष्ठ॒ते ।

Keith

and day by day becomes greater,
who knowing thus pays reverence to the fire.

मूलम्

श्वश्श्वो॒ भूया॑न्भवति॒ य ए॒वव्ँवि॒द्वान॒ग्निमु॑प॒तिष्ठ॒ते ।

भट्टभास्कर-टीका

भूयानिति । अद्यतनापेक्षया श्वस्तनः प्रकृष्यते ।

पशुलाभः

विश्वास-प्रस्तुतिः

अह॑र् दे॒वाना॒म् आसी॒द्, रात्रि॒र् असु॑राणाम् ।
तेऽसु॑रा॒ यद् दे॒वानाव्ँ॑ वि॒त्तव्ँ वेद्य॒म् आसी॒त्, तेन॑ स॒ह रात्रि॒म् प्रावि॑शन् ।
ते॒ दे॒वा ही॒ना अ॑मन्यन्त ।

Keith

The day was the gods’, the night the Asuras’. The Asuras entered night with all the precious wealth of the gods [2]; the gods thought that they were abandoned;

मूलम्

अह॑र्दे॒वाना॒मासी॒द्
रात्रि॒रसु॑राणां ।
तेऽसु॑रा॒ यद्दे॒वानाव्ँ॑वि॒त्तव्ँवेद्य॒मासी॒त्तेन॑ स॒ह रात्रि॒म्प्रावि॑शन् ।
ते॒ दे॒वा ही॒ना अ॑मन्यन्त ।

भट्टभास्कर-टीका

पुनर् अप्य् उपस्थान-गुणान् विधातुमाह - अहरित्यादि । वित्तं लब्धं वेद्यं लब्धुं योग्यं धनं पशुलक्षणं यदासीत्तत्सर्वमादाय तेन सह रात्रिं प्राविशन्, तत्र देवां अपहृतपशवो हीनास्स्मः इत्यमन्यन्त ।

विश्वास-प्रस्तुतिः

ते॑ऽपश्यन् -
“आ॒ग्ने॒यी रात्रि॑र्, आग्ने॒याᳶ प॒शवः॑।
इ॒म् अमे॒वाग्निँ स्त॑वाम ।
स न॑स् स्तु॒तᳶ प॒शून् पुन॑र् दास्य॒ती"ति॑ ।
ते॑ ऽग्निम् अ॑स्तुवन् ।
स ए॑भ्यस् स्तु॒तो रात्रि॑या॒ अध्य् अह॑र् अ॒भि प॒शून् निरा॑र्जत् ।

Keith

they perceived, ‘The night is Agni’s, cattle are Agni’s; verily let us praise Agni here; he being praised by us will restore our cattle.’ They praised Agni; be praised by them delivered their cattle from night to day;

मूलम्

ते॑ऽपश्यन् ।
आ॒ग्ने॒यी रात्रि॑राग्ने॒याᳶ प॒शवः॑।
इ॒ममे॒वाग्निँ स्त॑वाम ।
स न॑स्स्तु॒तᳶ प॒शून्पुन॑र्दास्य॒तीति॑ ।
ते॑ऽग्निम॑स्तुवन् ।
स ए॑भ्यस्स्तु॒तो रात्रि॑या॒ अध्यह॑र॒भि प॒शून्निरा॑र्जत् ।

भट्टभास्कर-टीका

ते पश्यन्नित्यादि । अधिरनर्थकः । अहरभि अहर्लक्षीकृत्य रात्र्या पशून्निरार्जत् निरगमयत् । ऋजु गत्यादिषु, भौवादिकः । ‘अभिरभागे’ इत्यभेर्लक्षणे कर्मप्रवचनीयत्वम् ।

विश्वास-प्रस्तुतिः

ते दे॒वाᳶ प॒शून् वि॒त्वा कामाँ॑ अकुर्वत ।
य ए॒वव्ँ वि॒द्वान् अ॒ग्निम् उ॑प॒तिष्ठ॑ते - पशु॒मान् भ॑वति ।

Keith

the gods having gained their cattle per formed their desires. He who knowing thus pays reverence to the fire becomes possessed of cattle [3].

मूलम्

ते दे॒वाᳶ प॒शून् वि॒त्वा कामाँ॑ अकुर्वत ।
य ए॒वव्ँवि॒द्वान॒ग्निमु॑प॒तिष्ठ॑ते पशु॒मान्भ॑वति ।

भट्टभास्कर-टीका

ते देवा इत्यादि । गतम् ।

स्वर्गफलम्, आयुःफलम्

विश्वास-प्रस्तुतिः

आ॒दि॒त्यो वा अ॒स्माल् लो॒काद् अ॒मुल्ँ लो॒कम् ऐत् ।
सो॑ ऽमुल्ँ लो॒कङ् ग॒त्वा पुन॑र् इ॒मल्ँ लो॒कम् अ॒भ्य॑ध्यायत् ।
स इ॒मल्ँ लो॒कम् आ॒गत्य॑ मृ॒त्योर् अ॑बिभेत् । मृ॒त्यु-सय्ँ॑युत इव॒ ह्य् अ॑यल्ँ लो॒कः ।

सो॑ऽमन्यत ।
इ॒मम् ए॒वाग्निँ स्त॑वानि ।
स मा॑ स्तु॒तस् सु॑व॒र्गल्ँ लो॒कङ् ग॑मयिष्य॒तीति॑ ।

सो॒॑ऽग्निम् अ॑स्तौत् ।
स ए॑नँ स्तु॒तस् सु॑व॒र्गल्ँ लो॒कम् अ॑गमयत् ।
ए॒वव्ँ वि॒द्वान् अ॒ग्निम् उ॑प॒तिष्ठ॑ते -
सुव॒र्गम् ए॒व लो॒कम् ए॑ति॒, सर्व॒म् आयु॑र् एति ।

Keith

The sun went from this world to yonder world; he having gone to yonder world bethought him again of this world; having returned to this world he had fear of death, for this world is, as it were, yoked with death. He reflected, ‘Let me praise Agni here; he, praised, will make me go to the world of heaven.’ He praised Agni; he, praised, made him go to the world of heaven.

He who [4] knowing thus pays reverence to the fire, goes to the world of heaven and lives all his days.

मूलम्

आ॒दि॒त्यो वा अ॒स्माल् लो॒काद् अ॒मुल्ँ लो॒कम् ऐत् ।
सो॑ ऽमुल्ँ लो॒कङ् ग॒त्वा पुन॑र् इ॒मल्ँ लो॒कम् अ॒भ्य॑ध्यायत् ।
स इ॒मल्ँ लो॒कम् आ॒गत्य॑ मृ॒त्योर् अ॑बिभेत् । मृ॒त्यु-सय्ँ॑युत इव॒ ह्य् अ॑यल्ँ लो॒कः ।

सो॑ऽमन्यत ।
इ॒मम् ए॒वाग्निँ स्त॑वानि ।
स मा॑ स्तु॒तस् सु॑व॒र्गल्ँ लो॒कङ् ग॑मयिष्य॒तीति॑ ।

सो॒॑ऽग्निम् अ॑स्तौत् ।
स ए॑नँ स्तु॒तस् सु॑व॒र्गल्ँ लो॒कम् अ॑गमयत् ।
ए॒वव्ँ वि॒द्वान् अ॒ग्निम् उ॑प॒तिष्ठ॑ते -
सुव॒र्गम् ए॒व लो॒कम् ए॑ति॒, सर्व॒म् आयु॑र् एति ।

भट्टभास्कर-टीका

आदित्यो वा इत्यादि । अस्मान्मनुष्यलोकादमुं लोकमैत् अगच्छत् । गतमन्यत् ।

उत्तमकामः

विश्वास-प्रस्तुतिः

अ॒भि वा ए॒षो॑ ऽग्नी आ रो॑हति॒ -
य ए॑नाव् उप॒तिष्ठ॑ते ।
यथा॒ खलु॒ वै श्रेया॑न् अ॒भ्यारू॑ढᳵ का॒मय॑ते॒ - तथा॑ करोति ।

Keith

He mounts these two fires who pays reverence to them;
he acts according to the desires of one who has attained a higher place.

मूलम्

अ॒भि वा ए॒षो॑ऽग्नी आ रो॑हति॒
य ए॑नावुप॒तिष्ठ॑ते ।
यथा॒ खलु॒ वै श्रेया॑न् अ॒भ्यारू॑ढᳵ का॒मय॑ते॒ - तथा॑ करोति ।

भट्टभास्कर-टीका

अभि वा इत्यादि । अभ्यारोहणमभिमुखेन रोहणमुच्छ्रिताधिष्ठानम् ।

रात्र्युपस्थान-वैशिष्ट्यम्

विश्वास-प्रस्तुतिः

नक्त॒म् उप॑ तिष्ठते॒ - न प्रा॒तः ।

Keith

He pays reverence at night, not in the morning,

मूलम्

यथा॒ खलु॒ वै श्रेया॑न॒भ्यारू॑ढᳵ का॒मय॑ते॒ तथा॑ करोति ।
नक्त॒मुप॑ तिष्ठते॒ न प्रा॒तः ।

भट्टभास्कर-टीका

यथा खलु श्रेयान् श्रेयसाभिमुखमारूढो भवितुं कामयते एवमयमुपस्थाता करोति । तथापि नक्तमुपतिष्ठते प्रयोजनान्तरार्थमिति भावः । नैव प्रातरुपस्थानं कर्तव्यं तादृशस्य प्रयोजनस्याभावात् ।

विश्वास-प्रस्तुतिः

सँ हि नक्तव्ँ॑ व्र॒तानि॑ सृ॒ज्यन्ते॑ ।
स॒ह श्रेयाँ॑श् च॒ पापी॑याँश् चासाते ।
ज्योति॒र् वा अ॒ग्निस्, तमो॒ रात्रिः॑।
यन् नक्त॑मुप॒तिष्ठ॑ते - ज्योति॑षै॒व तम॑स्तरति ।

Keith

for vows are mingled at night, the bad and the good are on the same level, the fire is the light, the evening is the darkness; in that [5] he pays reverence by night, he overcomes the darkness by light.

मूलम्

सँ हि नक्त॑व्व्ँर॒तानि॑ सृ॒ज्यन्ते॑ ।
स॒ह श्रेयाँ॑श्च॒ पापी॑याँश्चासाते ।
ज्योति॒र् वा अ॒ग्निस्, तमो॒ रात्रिः॑।
यन् नक्त॑मुप॒तिष्ठ॑ते - ज्योति॑षै॒व तम॑स्तरति ।

भट्टभास्कर-टीका

किम्पुनस्तत्प्रयोजनमित्याह - सं हीत्यादि । हिशब्दो यस्मादित्यर्थे वर्तते । यस्मान्नक्तं व्रतानि कर्माणि शुभाशुभलक्षणानि संसृज्यन्ते अविभक्तानि भवन्ति, श्रेयसां पापीयसां च विशेषप्रतिपत्तिर्नास्ति तस्मादेतद्दोषपरिहारार्थमुपस्थातव्यं; उपस्थानेन तमस्स्वरूपां रात्रिं ज्योतिषा सन्तरति । अथ पूर्वपक्षावतारं संशयपूर्वं प्रस्तौति ।

उपस्थेयता

विश्वास-प्रस्तुतिः

“उप॒स्थेयो॒ ऽग्नी३र् नोप॒स्थेया३”+++(प्लुतिर् विचारार्था)+++ इत्या॑हुः।

Keith

‘Should reverence be paid to the fire or not?’ they say;

मूलम्

उप॒स्थेयो॒ऽग्नी ३ र्नोप॒स्थेया ३ इत्या॑हुः ।

भट्टभास्कर-टीका

उपस्थेय इति । ‘विचार्यमाणानाम्’ इत्युभयत्रोदात्तप्लुतः । उपस्थेया इत्यत्र पूर्वं परत्वात् प्लुतोदात्तत्वं, ततस्तस्यासिद्धत्वात्कृदुत्तरपदप्रकृतिस्वरत्वम्, ‘यतोऽनावः’ इत्याद्युदात्तत्वम्, तेन द्वयोरुदात्तयोश्श्रवणं भवति ।

अनुपस्थानपक्षः

विश्वास-प्रस्तुतिः

मनु॒ष्या॑येन् न्वै यो ऽह॑र्-अहर् आ॒हृत्याथै॑नय्ँ॒ याच॑ति॒ - स इन् न्वै तमुपा॑र्च्छ॒ति+++(=पीडयति)+++।

Keith

he who day by day makes a present to a man and then begs of him assuredly molests him;

मूलम्

मनु॒ष्या॑येन्न्वै योऽह॑रहरा॒हृत्याथै॑नय्ँ॒याच॑ति ।
स इन्न्वै तमुपा॑र्च्छति ।

भट्टभास्कर-टीका

मनुष्यायेत्यादि । इदित्यवधारणे, नु इति वितर्के, वै इति प्रसिद्धौ । मनुष्यायाहरहः फलादिकमाहृत्यैवाथैनं यो याचति सोपि तम् उपार्च्छति उपरुध्य पीडयत्येव । एवं खल्वेतत् । ‘उपसर्गादृति धातौ’ इति वृद्धिः । ‘तुनुपूर्व उदात्तयोर्वकारः’ इति वचनात् ।

विश्वास-प्रस्तुतिः

अथ॒ को दे॒वान् अह॑र् अहर् याचिष्य॒तीति॑ ।
तस्मा॒न् नोप॒स्थेयः॑ ।

Keith

and who then will day by day beg of the gods? …

मूलम्

अथ॒ को दे॒वानह॑रहर्याचिष्य॒तीति॑ ।
तस्मा॒न्नोप॒स्थेयः॑ ।

भट्टभास्कर-टीका

यदा मनुष्यविषयेप्येवं भवति अथेदानीं को देवान् महानुभावान् अहरहर्याचिष्यति तस्मात्कदाचिदप्यग्निर्नोपस्थेय इति ।

उपस्थानपक्ष

विश्वास-प्रस्तुतिः

अथो॒ खल्वा॑हुर् - “आ॒शिषे॒ वै कय्ँ यज॑मानो यजत॒” इति।
ए॒षा खलु॒ वै आहि॑ताग्नेर् आ॒शीर् - यद् अ॒ग्निम् उ॑प॒तिष्ठ॑ते।
तस्मा॑द् +++(रात्रौ प्रातश् चाप्य्)+++ उप॒स्थेयः॑।

Keith

Then they say, ‘The sacrificer sacrifices for the sake of the benediction.’ The reverence of the fire is [6] the benediction of him who has established a fire; therefore reverence should be paid to the fire.

मूलम्

अथो॒ खल्वा॑हुरा॒शिषे॒ वै कय्ँयज॑मानो यजत॒ इति॑ ।
ए॒षा खलु॒ वै [41]
आहि॑ताग्नेरा॒शीर्यद॒ग्निमु॑प॒तिष्ठ॑ते
तस्मा॑दुप॒स्थेयः॑ ।

भट्टभास्कर-टीका

अथ समाधत्ते - अथो खल्वाहुरिति ।

एवं प्राप्ते आहुर्वेदार्थविदः - कः प्रजापतिः, अत्र सर्वदेवात्मत्व-सामान्येनाग्निर् उच्यते; पादपूरणे वा । अग्न्युपस्थानमेव यजमानस्याशीः, नातः परमाशंसनीयमस्ति; ‘तस्मादग्निरुपस्थेयः, कस्सामान्यान्याचेत इति ।
तस्मात् सायम् प्रातश् चोपस्थेय इति ।

पशुफलम्

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिᳶ प॒शून् अ॑सृजत ।
ते सृ॒ष्टा अ॑हो-रा॒त्रे प्रावि॑शन् ।
ताञ् छन्दो॑भि॒र् अन्व॑विन्दत् ।
यच् छन्दो॑भिर् उप॒तिष्ठ॑ते॒ - स्वम् ए॒व तद् अन्वि॑च्छति ।

Keith

Prajapati created cattle; being created they entered day and night; he recovered them by means of the metres. In that he pays reverence with the metres, he seeks to recover his own.

मूलम्

प्र॒जाप॑तिᳶ प॒शून॑सृजत ।
ते सृ॒ष्टा अ॑होरा॒त्रे प्रावि॑शन् ।
ताञ्छन्दो॑भि॒रन्व॑विन्दत् ।
यच्छन्दो॑भिरुप॒तिष्ठ॑ते॒ स्वमे॒व तदन्वि॑च्छति ।

भट्टभास्कर-टीका

प्रजापतिः पशूनित्यादि । पश्ववगमनमेव यजमानोन्विच्छति ।

अजामिता

विश्वास-प्रस्तुतिः

“न तत्र॑ जा॒म्य्+++(=पुनरुक्तदोषः)+++ अ॑स्ती"त्या॑हु॒र् “योऽह॑र्-अहर् उप॒तिष्ठ॑त॒” इति॑ ।

Keith

‘There is not monotony then’, they say, ‘if one pays reverence day by day.’

मूलम्

न तत्र॑ जा॒म्य॑स्तीत्या॑हु॒र्योऽह॑रहरुप॒तिष्ठ॑त॒ इति॑ ।

भट्टभास्कर-टीका

जामि आलस्यम् । गतमन्यत् ।

कवातिर्यङ्क्त्वम्

विश्वास-प्रस्तुतिः

यो वा अ॒ग्निम् प्र॒त्यङ्ङ् उ॑प॒तिष्ठ॑ते॒ - प्रत्य् ए॑नम् ओषति॒ +++(=दहति)+++।

Keith

If a man pays reverence to the fire facing it, it burns him;

मूलम्

यो वा अ॒ग्निम्प्र॒त्यङ्ङु॑प॒तिष्ठ॑ते॒ प्रत्ये॑नमोषति ।

भट्टभास्कर-टीका

यो वा इत्यादि । प्रत्यङ्प्रातिमुखेयेन । ओषति दहति ।

विश्वास-प्रस्तुतिः

यᳶ पराङ्॑ +++(उपतिष्ठते)+++ विष्व॑ङ् प्र॒जया॑ प॒शुभि॑र् +++(हीन)+++ एति ।

Keith

if with averted (face), he is deprived of offspring and cattle;

मूलम्

यᳶ पराङ्॑ +++(उपतिष्ठते)+++ विष्व॑ङ् प्र॒जया॑ प॒शुभि॑र् +++(हीन)+++ एति ।

भट्टभास्कर-टीका

यः पराङ्मुख उपतिष्ठते इत्येव । विष्वङ् नानागमनः प्रजया पशुभिश्च विष्वङेति विगच्छति नष्टो भवति ।

मूलम् (संयुक्तम्)

कवा॑तिर्यङ्ङि॒वोप॑ तिष्ठेत॒ नैन॑म्प्र॒त्योष॑ति॒ न विष्व॑ङ्प्र॒जया॑ प॒शुभि॑रेति ॥ [42]

विश्वास-प्रस्तुतिः

कवा॑तिर्यङ्ङ् इ॒वोप॑ तिष्ठेत॒ - नैन॑म् प्र॒त्योष॑ति॒, न विष्व॑ङ् प्र॒जया॑ प॒शुभि॑र् +++(हीन)+++ एति ॥ [42]

Keith

he should pay reverence with (face) somewhat to the side, then (the fire) does not burn him, he is not deprived of offspring or cattle.

मूलम्

कवा॑तिर्यङ्ङि॒वोप॑ तिष्ठेत ।
नैन॑म्प्र॒त्योष॑ति ।
न विष्व॑ङ्प्र॒जया॑ प॒शुभि॑रेति ॥

भट्टभास्कर-टीका

तस्मात्कवातिर्यङ् ईषत्तिरश्चीन इव भूत्वा उपतिष्ठेति । छान्दसः कुशब्दस्य कवादेशः ॥

इति पञ्चमे नवमोनुवाकः ॥