०८ उपस्थान-ब्राह्मणम्

षष्टानुवाकाम्नात(गृहपशु-गार्हपत्याद्युपस्थान)मन्त्राणां ब्राह्मणम्
अग्निर्ऋषिः

पशवः


भास्करोक्त-विनियोगः

1अथ गृहपश्वाद्युपस्थानमन्त्राणां ब्राह्मणम् - सं पश्यामीत्यादि ॥

मूलम् (संयुक्तम्)

सम्प॑श्यामि प्र॒जा अ॒हमित्या॑ह याव॑न्त ए॒व ग्रा॒म्याᳶ प॒शव॒स्ताने॒वाव॑ रु॒न्धे अम्भ॒स्स्थाम्भो॑ वो भक्षी॒येत्या॒ह

विश्वास-प्रस्तुतिः

“सम्प॑श्यामि प्र॒जा अ॒हम्” इत्य् आ॑ह ।
याव॑न्त ए॒व ग्रा॒म्याᳶ प॒शव॒स् तान् ए॒वाव॑ रु॒न्धे ।

Keith

‘I gaze on offspring’, he says;
verily he wins all the domesticated animals.

मूलम्

सम्प॑श्यामि प्र॒जा अ॒हमित्या॑ह ।
याव॑न्त ए॒व ग्रा॒म्याᳶ प॒शव॒स्ताने॒वाव॑ रु॒न्धे ।
अम्भ॑स्स्थ, अम्भो॑ वो भक्षी॒येत्या॒ह ।

भट्टभास्कर-टीका

गृहाणां पशूनां चोपस्थानमन्त्रः । ग्राम्याः पशवो गोश्वाजाविपुरुषगर्दभोष्ट्रास्सप्त ॥

विश्वास-प्रस्तुतिः

अम्भ॑स् स्थ॒, अम्भो॑ वो भक्षी॒येत्या॒ह ।
अम्भो॒ ह्ये॑ताः।

Keith

‘Ye are water; may I share your water’, he says, for they are water.

मूलम्

अम्भ॑स् स्थ। अम्भो॑ वो भक्षी॒येत्या॒ह ।
अम्भो॒ ह्ये॑ताः।

भट्टभास्कर-टीका

2अम्भो ह्येता इति ॥ अदनीयं क्षीराद्यन्नम् अम्भः । ‘अदेर्नुम्भश्च’ इत्यसुन् । तत्-साधनत्वात् ताच्छब्द्यं गवाम् । एवं सर्वत्र द्रष्टव्यम्॥

विश्वास-प्रस्तुतिः

मह॑स् स्थ॒, महो॑ वो भक्षी॒येत्या॑ह। महो॒ ह्ये॑ताः ।

Keith

‘Ye are greatness; may I share your greatness’, he says, for they are greatness.

मूलम्

मह॑स्स्थ॒, महो॑ वो भक्षी॒येत्या॑ह॒ महो॒ ह्ये॑ताः ।

भट्टभास्कर-टीका

3महः पूजा ब्रह्म वा, यागादिद्वारेण तत्साधनत्वात् ॥

विश्वास-प्रस्तुतिः

सह॑स्स्थ॒, सहो॑ वो भक्षी॒येत्या॑ह॒ सहो॒ ह्ये॑ताः ।

Keith

‘Ye are might; may I share your might’, he says, for they are might.

मूलम्

सह॑स्स्थ॒, सहो॑ वो भक्षी॒येत्या॑ह॒ सहो॒ ह्ये॑ताः ।

भट्टभास्कर-टीका

4सहो बलं, घृतादीनां बलहेतुत्वात् ॥

विश्वास-प्रस्तुतिः

ऊर्ज॑ स्थ, ऊर्जव्ँ॑वो भक्षी॒येत्य् आह। ऊर्जो॒ ह्य् ए॑ताः ।

Keith

‘Ye are strength; may I share your strength’, he says [1], for they are strength.

मूलम्

ऊर्ज॑ स्थ, ऊर्जव्ँ॑वो भक्षी॒येति॑ [31] +आ॒होर्जो॒ ह्ये॑ताः ।

भट्टभास्कर-टीका

5ऊर्जः क्षीरादिरसः ॥

मूलम् (संयुक्तम्)

रेव॑ती॒ रम॑ध्व॒मित्या॑ह प॒शवो॒ वै रे॒वतीः॑ प॒शूने॒वात्मन् र॑मयत इ॒हैव स्ते॒तो माऽप॑ गा॒तेत्या॑ह

विश्वास-प्रस्तुतिः

रेव॑ती॒ रम॑ध्व॒म् इत्य् आ॑ह ।
प॒शवो॒ वै रे॒वतीः॑।
प॒शून् ए॒वात्मन् र॑मयते ।

Keith

‘Ye wealthy ones, stay’, he says;
the wealthy ones are cattle;
verily he makes cattle stay with himself.

मूलम्

रेव॑ती॒ रम॑ध्व॒मित्या॑ह ।
प॒शवो॒ वै रे॒वतीः॑ प॒शूने॒वात्मन् र॑मयते ।

भट्टभास्कर-टीका

6पशवो वै रेवतीः रैवत्यः, क्षीरादिसाधनेन तद्वत्त्वात् । ‘रयेर्मतौ बहुलम्’ इति सम्प्रसारणम्, ‘वाच्छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । रेवतीशब्दः पशूनां संज्ञात्वेनाजहत्स्वलिङ्ग एव पशुषु वर्तते ॥

विश्वास-प्रस्तुतिः

इ॒हैव स्ते॒तो माऽप॑ गा॒तेत्या॑ह । ध्रु॒वा ए॒वैना॒ अन॑पगाᳵ कुरुते ।

Keith

‘Be ye here; go not hence’, he says; verily he makes them constant, departing not.

मूलम्

इ॒हैव स्ते॒तो माऽप॑ गा॒तेत्या॑ह । ध्रु॒वा ए॒वैना॒ अन॑पगाᳵ कुरुते ।

भट्टभास्कर-टीका

7ध्रुवा नित्याः अनपगाः अनपाक्ताः ॥

मूलम् (संयुक्तम्)

इष्टक॒चिद्वा अ॒न्यो॑ऽग्निᳶ प॑शु॒चिद॒न्यस्सँ॑हि॒तासि॑ विश्वरू॒पीरिति॑ व॒त्सम॒भि मृ॑श॒त्युपै॒वैन॑न्धत्ते पशु॒चित॑मेनङ्कुरुते

विश्वास-प्रस्तुतिः

इ॒ष्ट॒क॒चिद् वा अ॒न्यो॑ ऽग्निः ।
प॒शु॒चिद् अ॒न्यः +++(अग्निः)+++।
“सँ॒हि॒तासि॑ विश्वरू॒पीर्” इति॑ व॒त्सम् अ॒भि मृ॑श॒ति ।
उपै॒वैन॑न् धत्ते।
प॒शु॒चित॑म् एनङ् +++(अग्निं)+++ कुरुते ।

Keith

Now one fire is piled with bricks, one with cattle.
‘Thou art composed Of every form’, (with these words) he strokes the calf;
verily he piles it up and makes it piled with cattle.

मूलम्

इ॒ष्ट॒क॒चिद्वा अ॒न्यो॑ऽग्निः ।
प॒शु॒चिद॒न्यः ।
सँ॒हि॒तासि॑ विश्वरू॒पीरिति॑ व॒त्सम॒भि मृ॑श॒ति ।
उपै॒वैन॑न्धत्ते।
प॒शु॒चित॑मेनङ्कुरुते ।

भट्टभास्कर-टीका

8इष्टकचिदित्यादि ॥ इष्टकाभिश् चीयत एको ऽग्निः । ‘इष्टकेषीकामालानाम्’ इति ह्रस्वत्वम् ।

पशुभिर् एको ऽग्निश् चीयते । तत्र ‘संहिता’ इति मन्त्रेणाग्निहोत्रीवत्सस्याभिमर्शनेन उपधान-स्थानीयेन एवं वत्सम् उपधत्ते । पशुचितम् एनमग्निं कर्वाणो भवति ॥

गार्हपत्यम्

मूलम् (संयुक्तम्)

प्र [32]वा ए॒षो॑ऽस्माल्लो॒काच्च्य॑वते॒ य आ॑हव॒नीय॑मुप॒तिष्ठ॑ते॒ गार्ह॑पत्य॒मुप॑ तिष्ठते॒ऽस्मिन्ने॒व लो॒के प्रति॑ तिष्ठ॒त्यथो॒ गार्ह॑पत्यायै॒व नि ह्नु॑ते

विश्वास-प्रस्तुतिः

प्र वा ए॒षो॑ ऽस्माल् लो॒काच् च्य॑वते॒
य आ॑हव॒नीय॑मुप॒तिष्ठ॑ते ।

Keith

He falls away [2] from this world who pays reverence to the Ahavaniya;

मूलम्

प्र वा ए॒षो॑ऽस्माल्लो॒काच्च्य॑वते॒
य आ॑हव॒नीय॑मुप॒तिष्ठ॑ते ।

भट्टभास्कर-टीका

9प्र वा एष इत्यादि ॥ ‘सुवर्गो लोक आहवनयिः’ इत्यन्यत्र दर्शनात् ।

विश्वास-प्रस्तुतिः

गार्ह॑पत्य॒मुप॑ तिष्ठते ।
अ॒स्मिन्न् ए॒व लो॒के प्रति॑ तिष्ठति ।
अथो॒ गार्ह॑पत्यायै॒व नि ह्नु॑ते +++(आहवनीय-वन्दनेनोपेक्षाम्)+++।

Keith

he pays reverence to the Garhapatya;
verily he rests on this world, and also he makes amends to the Garhapatya.

मूलम्

गार्ह॑पत्य॒मुप॑ तिष्ठते ।
अ॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठति ।
अथो॒ गार्ह॑पत्यायै॒व नि ह्नु॑ते ।

भट्टभास्कर-टीका

गार्हपत्यमिति । ‘गृहपतिना संयुक्ते ञ्यः’ । अथो अपि च उपस्थानेन गार्हपत्याय निह्नुते प्रह्वीभवति । यद्वा - आहवनीयं छादयति । त्वमेवोपस्थेय इति ॥

गायत्र्यः

मूलम् (संयुक्तम्)

गाय॒त्रीभि॒रुप॑ तिष्ठते॒ तेजो॒ वै गा॑य॒त्री तेज॑ ए॒वात्मन्ध॒त्तेऽथो॒ यदे॒तन्तृ॒चम॒न्वाह॒ सन्त॑त्यै

विश्वास-प्रस्तुतिः

गा॒य॒त्रीभि॒र् उप॑ तिष्ठते ।
तेजो॒ वै गा॑य॒त्री - तेज॑ ए॒वात्मन् ध॑त्ते ।

Keith

He pays reverence with Gayatri verses; the Gayatri is brilliance; verily he confers brilliance upon himself;

मूलम्

गा॒य॒त्रीभि॒रुप॑ तिष्ठते ।
तेजो॒ वै गा॑य॒त्री - तेज॑ ए॒वात्मन् ध॑त्ते ।

भट्टभास्कर-टीका

10गायत्रीभिरिति ॥ ‘उप त्वाग्ने दिवेदिवे’ इत्येताभिस्तिसृभिः । तेजो वा इति । पूर्ववत्ताच्छब्द्यम् ।

विश्वास-प्रस्तुतिः

अथो॒ यद् ए॒तन् तृ॒चम् अ॒न्वाह॒ - सन्त॑त्यै +++(तत्)+++।

Keith

moreover in that he repeats the triad (of verses), (it serves) for continuity.

मूलम्

अथो॒ यदे॒तन्तृ॒चम॒न्वाह॒ सन्त॑त्यै।

भट्टभास्कर-टीका

अथो अपि च एतस्य तृचस्यानुवचनं सन्तत्यै भवति । ‘पितेव सूनवे’ इति च मन्त्रपदम् । ‘तादो च’ इति गतेः प्रकृतिस्वरत्वम् । तिस्र ऋचस्समाहृताः । ‘ऋक्पूरब्धूः’ इति समासान्तः, ‘ऋचि त्रेरुत्तरपदादिलोपश्च’ इति सम्प्रसारणम् ॥

द्विपदाः

मूलम् (संयुक्तम्)

गार्ह॑पत्यव्ँ॒ वा अनु॑ द्वि॒पादो॑ वी॒राᳶ प्र जा॑यन्ते॒ य ए॒वव्ँवि॒द्वान्द्वि॒पदा॑भि॒र्गार्ह॑पत्यमुप॒तिष्ठ॑ते [33]आऽस्य॑ वी॒रो जा॑यत

विश्वास-प्रस्तुतिः

गार्ह॑पत्यव्ँ॒ वा अनु॑ द्वि॒पादो॑ वी॒राᳶ प्र जा॑यन्ते।
य ए॒व व्ँवि॒द्वान् द्वि॒पदा॑भि॒र् गार्ह॑पत्यम् उप॒तिष्ठ॑ते॒ -
आऽस्य॑ वी॒रो जा॑यते ।

Keith

Because of the Garhapatya men are born with two feet; to him who knowing thus pays reverence to the Garhapatya with (verses) of two feet [3], a hero son is born.

मूलम्

गार्ह॑पत्यव्ँ॒ वा अनु॑ द्वि॒पादो॑ वी॒राᳶ प्र जा॑यन्ते॒ य ए॒वव्ँवि॒द्वान् द्वि॒पदा॑भि॒र् गार्ह॑पत्यम् उप॒तिष्ठ॑ते॒ -
आऽस्य॑ वी॒रो जा॑यते ।

भट्टभास्कर-टीका

11गार्हपत्यं वा इत्यादि ॥ लक्षणेऽनोः कर्मप्रवचनीयत्वम् । द्विपाद इति । ‘सङ्ख्या सुपूर्वस्य’ इति लोपस्समासान्तः ।

द्विपदाभिरिति । ‘अग्ने त्वं नः’ इति तिसृभिर्द्विपदाभिर्विराड्गायत्रीभिरिति । पूर्ववत्समासान्तः, ‘टावृचि’ इति टापि, ‘पादः पत्’ इति पद्भावः, ‘द्वित्रिभ्यां पाद्दन्’ इत्युभयत्राप्युत्तरपदान्तोदात्तत्वम् ॥

मूलम् (संयुक्तम्)

ऊ॒र्जा वᳶ॑ पश्याम्यू॒र्जा मा॑ पश्य॒तेत्या॑हा॒ऽऽशिष॑मे॒वैतामा शा॑स्ते

विश्वास-प्रस्तुतिः

“ऊ॒र्जा वᳶ॑ पश्याम्य्, ऊ॒र्जा मा॑ पश्य॒ते"त्या॑ह ।
आ॒शिष॑म् ए॒वैताम् आ शा॑स्ते ।

Keith

‘With strength I gaze upon you;
gaze on me with strength’, he says;
verily he invokes this blessing.

मूलम्

ऊ॒र्जा वᳶ॑ पश्याम्यू॒र्जा मा॑ पश्य॒तेत्या॑ह ।
आ॒शिष॑मे॒वैतामा शा॑स्ते ।

भट्टभास्कर-टीका

12ऊर्जा व इत्यादि ॥ अयमपि ग्रहपशूपस्थानमन्त्रः । पुष्यासं श्रयन्तामित्येतामाशिषमाशास्ते ॥

आहवनीयोपस्थानम्

विश्वास-प्रस्तुतिः

“तत् स॑वि॒तुर् वरे॑ण्य॒म्” इत्या॑ह॒ - प्रसू॑त्यै ।

Keith

‘That excellent glory of Savitr’, he says, for instigation.

मूलम्

तत्स॑वि॒तुर्वरे॑ण्य॒मित्या॑ह॒ प्रसू॑त्यै ।

भट्टभास्कर-टीका

13तत्सवितुरिति आहवनीयोपस्थानम् ॥ प्रसूत्यै अनुज्ञानाय भवति । पूर्ववद्गतिस्वरः ॥

मूलम् (संयुक्तम्)

सो॒मानँ॒ स्वर॑ण॒मित्या॑ह सोमपी॒थमे॒वाव॑ रुन्धे कृणु॒हि ब्र॑ह्मणस्पत॒ इत्या॑ह ब्रह्मवर्च॒समे॒वाव॑ रुन्धे

विश्वास-प्रस्तुतिः

सो॒मानँ॒ स्वर॑ण॒म् इत्य् आ॑ह ।
सोम-पी॒थम्+++(=पानम्)+++ ए॒वाव॑ रुन्धे ।

Keith

‘Famous the Soma-presser’, he says;
verily he wins the Soma draught.

मूलम्

सो॒मानँ॒ स्वर॑ण॒मित्या॑ह ।
सोमपी॒थमे॒वाव॑ रुन्धे ।

भट्टभास्कर-टीका

14सोमानम् इत्याहवनीयोपस्थानम् एव ॥
सोमपीथम् एव सोम-पानम् एव अनेनावरुन्धे । पिबतेरौणादिकस्थक्प्रत्ययः ॥

विश्वास-प्रस्तुतिः

“कृणु॒हि ब्र॑ह्मणस्पत॒” इत्या॑ह । ब्र॒ह्म॒व॒र्च॒सम् ए॒वाव॑ रुन्धे।

Keith

‘Make, O lord of prayer’, he says;
verily he wins splendour.

मूलम्

कृणु॒हि ब्र॑ह्मणस्पत॒ इत्या॑ह । ब्र॒ह्म॒व॒र्च॒समे॒वाव॑ रुन्धे।

भट्टभास्कर-टीका

15ब्रह्मवर्चसमिति ॥ ‘ब्रह्महस्तिभ्यां वर्चसः’ इत्यत् ॥

रात्र्युपस्थानम्

मूलम् (संयुक्तम्)

क॒दा च॒न स्त॒रीर॒सीत्या॑ह न स्त॒रीँ रात्रिव्ँ॑वसति [34]य ए॒वव्ँवि॒द्वान॒ग्निमु॑प॒तिष्ठ॑ते

विश्वास-प्रस्तुतिः

क॒दा च॒न स्त॒रीर् अ॒सीत्य् आ॑ह ।
न स्त॒रीँ+++(=वन्ध्यां)+++ रात्रिव्ँ॑ वसति॒
य ए॒वव्ँ वि॒द्वान् अ॒ग्निम् उ॑प॒तिष्ठ॑ते ।

Keith

‘Never art thou barren’, he says;
no barren night does he pass [4],
who knowing thus pays reverence to the fire.

मूलम्

क॒दा च॒न स्त॒रीर॒सीत्या॑ह ।
न स्त॒रीँ रात्रिव्ँ॑वसति॒ य ए॒वव्ँवि॒द्वान॒ग्निमु॑प॒तिष्ठ॑ते ।

भट्टभास्कर-टीका

16कदा चनेति रात्र्युपस्थानम् ॥

य एवमस्य मन्त्रस्यार्थं विद्वानग्न्यात्मिकां रात्रिमुपतिष्ठते स स्तरीं छादयित्रीं विनाशयित्रीं रात्रिं न वसति, अपि तु सुखयित्रीमेवाधिवसति सुखहेतुरेव भवतीति यावत् । ‘अवितृस्तृतन्त्रिभ्य ईः’ इतीप्रत्ययः ॥

गार्हपत्योपस्थानम्

मूलम् (संयुक्तम्)

परि॑ त्वाग्ने॒ पुरव्ँ॑व॒यमित्या॑ह परि॒धिमे॒वैतम्परि॑ दधा॒त्यस्क॑न्दा॒य

विश्वास-प्रस्तुतिः

“परि॑ त्वा ऽग्ने॒ पुरव्ँ॑ व॒यम्” इत्या॑ह ।
परि॒धिम् ए॒वैतम् परि॑ दधा॒त्य् +अस्क॑न्दा॒य।

Keith

May we (set) thee around, O Agni, as a fort’, he says;
verily he sets around a barrier, that nothing be spilt.

मूलम्

परि॑ त्वाग्ने॒ पुरव्ँ॑व॒यमित्या॑ह ।
परि॒धिमे॒वैतम्परि॑ दधा॒त्यस्क॑न्दा॒य ।

भट्टभास्कर-टीका

17परि त्वेति गार्हपत्योपस्थानम् ॥ इममेव मन्त्रं परिध्यात्यकं परितस्सर्वतो दधाति । तच्चास्कन्दायाग्नेर्भवति ॥

विश्वास-प्रस्तुतिः

“अग्ने॑ गृहपत॒” इत्या॑ह यथा य॒जुर् ए॒वैतत् ।

Keith

‘O Agni, lord of the house’, he says; that is according to the text.

मूलम्

अग्ने॑ गृहपत॒ इत्या॑ह यथा य॒जुरे॒वैतत् ।

भट्टभास्कर-टीका

18अग्ने गृहपत इति गार्हपत्योपस्थानमेव ॥ अत्र सूगृहपतित्वादिफलं यथा यजुर्वदति तथा भवत्येव ॥

मूलम् (संयुक्तम्)

श॒तँ हिमा॒ इत्या॑ह श॒तन्त्वा॑ हेम॒न्तानि॑न्धिषी॒येति॒ वावैतदा॑ह

विश्वास-प्रस्तुतिः

“श॒तँ हिमा॒” इत्या॑ह -
+++(तेन)+++ श॒तन् त्वा॑ हेम॒न्तान् इ॑न्धिषी॒येति॒ वावैतद् आ॑ह ।

Keith

‘For a hundred winters’, he says; ‘for a hundred winters may I kindle thee’, he says in effect.

मूलम्

श॒तँ हिमा॒ इत्या॑ह
श॒तन्त्वा॑ हेम॒न्तान् इ॑न्धिषी॒येति॒ वावैतदा॑ह ।

भट्टभास्कर-टीका

19शतं त्वेति ॥ हिमशब्देन संवत्सराभिधानमुक्तम् । इन्धिषीयेति । इदमेव सुगृहपतित्वमिति ॥

पुत्राशिषः

मूलम् (संयुक्तम्)

पु॒त्रस्य॒ नाम॑ गृह्णात्यन्ना॒दमे॒वैन॑ङ्करोति॒ तामा॒शिष॒मा शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मती॒मिति॑ ब्रूयात्

विश्वास-प्रस्तुतिः

पु॒त्रस्य॒ नाम॑ गृह्णाति ।
अ॒न्ना॒दम् ए॒वैन॑ङ् करोति ।

Keith

He utters the name of his son;
verily he makes him an eater of food.

मूलम्

पु॒त्रस्य॒ नाम॑ गृह्णाति । अ॒न्ना॒दम् ए॒वैन॑ङ् करोति ।

भट्टभास्कर-टीका

20पुत्रस्येति ॥ अमुष्मा इत्यत्र यथा नारायणाय केशवायेति ।
अन्नादमिति । इदमेव ज्योतिष्मत्त्वम् ॥

विश्वास-प्रस्तुतिः

“ताम् आ॒शिष॒म् आ शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मती॒म्” इति॑ ब्रूया॒द् यस्य॑ पु॒त्त्रोऽजा॑त॒स् स्यात् - ते॑ज॒स्व्य् ए॑वास्य॑ ब्रह्मवर्च॒सी पु॒त्त्रो जा॑यते ।

Keith

‘This blessing I invoke bringing light for the race’, he should say,
who has no son born; verily is born to him a son brilliant and resplendent.

मूलम्

तामा॒शिष॒मा शा॑से॒
तन्त॑वे॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द् यस्य॑ पु॒त्त्रोऽजा॑त॒स्स्यात् - ते॑ज॒स्व्ये॑वास्य॑ ब्रह्मवर्च॒सी पु॒त्त्रो जा॑यते॒

भट्टभास्कर-टीका

21यस्य पुत्र इति ॥ यस्याजातः पुत्रः तस्य तन्तव इति ब्रूयात् असन्निहितत्वात् ।

मूलम् (संयुक्तम्)

तामा॒शिष॒मा शा॑से ऽमुष्मै॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्यस्य॑ पु॒त्त्रो जा॒तस्स्यात्तेज॑ ए॒वास्मि॑न्ब्रह्मवर्च॒सन्द॑धाति ॥[35]

विश्वास-प्रस्तुतिः

“ताम् आ॒शिष॒म् आ शा॑से अ॒मुष्मै॒ ज्योति॑ष्मती॒म्” इति॑ ब्रूया॒द् यस्य॑ पु॒त्त्रो जा॒तस् स्यात् - तेज॑ ए॒वास्मि॑न् ब्रह्म-वर्च॒सन् द॑धाति ॥

Keith

‘This blessing I invoke bringing light for N. N.’, he should say who has a son born; verily he confers upon him brilliance and splendour.

मूलम्

यस्य॑ पु॒त्त्रोऽजा॑त॒स्स्यात् ते॑ज॒स्व्ये॑वास्य॑ ब्र॒ह्म॒व॒र्च॒सी पु॒त्त्रो जा॑यते ।
तामा॒शिष॒मा शा॑से ।
अ॒मुष्मै॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द् यस्य॑ पु॒त्त्रो जा॒तस्स्यात् - तेज॑ ए॒वास्मि॑न्ब्रह्मवर्च॒सन्द॑धाति ॥

भट्टभास्कर-टीका

अमुष्मा इति जातं निर्देष्टुं शक्यत इति तन्तव इत्युच्यते । अमुष्मा इति जातपुत्रस्य, अदश्-शब्दस्य सन्निहितविषयत्वात् ॥

इति पञ्चमे अष्टमोनुवाकः ॥