०७ उपस्थान-ब्राह्मणम्

पञ्चमानुवाके समाम्नातमन्त्राणां ब्राह्मणम्


भास्करोक्त-विनियोगः

1अग्न्य्-उपस्थान-मन्त्राणां ब्राह्मणम्, अग्न्यार्षेयम् - अयज्ञ इत्यादि ॥

उ॒प॒प्र॒यन्तो॑ अध्व॒रं

मूलम् (संयुक्तम्)

अय॑ज्ञो॒ वा ए॒ष यो॑ऽसा॒मोप॑प्र॒यन्तो॑ अध्व॒रमित्या॑ह॒ स्तोम॑मे॒वास्मै॑ युन॒क्ति

विश्वास-प्रस्तुतिः

अय॑ज्ञो॒ वा ए॒ष यो॑ऽसा॒मा।
“उ॒प॒प्र॒यन्तो॑ अध्व॒रम्” इत्य् आ॑ह॒ -
स्तोम॑म् ए॒वास्मै॑ युन॒क्ति ।

Keith

There is no sacrifice without a Saman.
‘As we approach the sacrifice’, he says;
verily he yokes a Stoma with it.

मूलम्

अय॑ज्ञो॒ वा ए॒ष यो॑ऽसा॒मा…
उ॒प॒प्र॒यन्तो॑ अध्व॒रमित्या॑ह॒ -
स्तोम॑मे॒वास्मै॑ युन॒क्ति ।

भट्टभास्कर-टीका

उपप्रयन्त’ इत्यादि द्वादशर्चं स्तोम-स्थानीयमस्य यज्ञस्य करोतीति । ‘मन्त्रं वोचेम’ इत्येतच् च स्तोमाभिप्रायम् इत्यभिप्रायः ॥

मूलम् (संयुक्तम्)

उपेत्या॑ह प्र॒जा वै प॒शव॒ उपे॒मल्ँ लो॒कम्प्र॒जामे॒व प॒शूनि॒मल्ँ लो॒कमुपै॑ति

विश्वास-प्रस्तुतिः

उपेत्या॑ह +++(श्लेषः! “उप॒” +इत्या॑ह | उपेत्य+आह)+++ - प्र॒जा वै प॒शव॒ उपे॒मल्ँ लो॒कम् +++(इत्वा वर्तन्ते)+++।
प्र॒जाम् ए॒व प॒शून् इ॒मल्ँ लो॒कम् +++(च)+++ उपै॑ति ।

Keith

‘Approach’, he says; offspring and cattle approach the world;
verily he approaches cattle and offspring and this world.

मूलम्

उपेत्या॑ह प्र॒जा वै प॒शव॒ उपे॒मल्ँ लो॒कम् ।
प्र॒जामे॒व प॒शूनि॒मल्ँ लो॒कमुपै॑ति ।

भट्टभास्कर-टीका

2उपेत्याहेत्यादि ॥ प्रजाश्पशवश् चेमं लोकम् उपेत्य वर्तन्ते । तस्माद् एतल् लोकात्मकाध्वरोपायन-कथनं प्रजानां पशूनाम् अस्य च लोकस्योपनयनाय भवतीति ॥

अ॒स्य प्र॒त्नाम् अनु॒द्युत॒म्

मूलम् (संयुक्तम्)

अ॒स्य प्र॒त्नामनु॒द्युत॒मित्या॑ह सुव॒र्गो वै लो॒कᳶ प्र॒त्नस्सु॑व॒र्गमे॒व लो॒कँ स॒मारो॑हति

विश्वास-प्रस्तुतिः

“अ॒स्य प्र॒त्नाम् अनु॒द्युत॒म्” इत्य् आ॑ह ।
सु॒व॒र्गो वै लो॒कᳶ प्र॒त्नः ।
सु॒व॒र्गमे॒व लो॒कँ स॒मारो॑हति ।

Keith

‘After his ancient splendour’, he says; the ancient is the world of heaven; verily he mounts upon the world of heaven.

मूलम्

अ॒स्य प्र॒त्नामनु॒द्युत॒मित्या॑ह ।
सु॒व॒र्गो वै लो॒क ᳶ प्र॒त्नः ।
सु॒व॒र्गमे॒व लो॒कँ स॒मारो॑हति ।

भट्टभास्कर-टीका

3अस्य प्रत्नामिति ॥ प्रत्नतया स्वर्गस्थानीयं दीप्तिदोहनं स्वर्गसमारोहणाय भवतीति ॥

अ॒ग्निर्मू॒र्धा दि॒वᳵ

मूलम् (संयुक्तम्)

अ॒ग्निर्मू॒र्धा दि॒वᳵ क॒कुदित्या॑ह मू॒र्धान॑म् [25]ए॒वैनँ॑ समा॒नाना॑ङ्करो॒त्यथो॑ देवलो॒कादे॒व म॑नुष्यलो॒के प्रति॑ तिष्ठति

विश्वास-प्रस्तुतिः

“अ॒ग्निर् मू॒र्धा दि॒वᳵ क॒कुद्” इत्य् आ॑ह।
मू॒र्धान॑म् ए॒वैनँ॑ समा॒नाना॑ङ् करोति ।
अथो॑ देव-लो॒काद् ए॒व +++(आरभ्य)+++ म॑नुष्य-लो॒के प्रति॑ तिष्ठति ।

Keith

‘Agni is the head of the sky, the height’, he says;
verily he makes him the head [1] of his equals,
and verily from the world of the gods he rests in the world of men.

मूलम्

अ॒ग्निर्मू॒र्धा दि॒वᳵ क॒कुदित्या॑ह।

मू॒र्धान॑मे॒वैनँ॑ समा॒नाना॑ङ्करोति ।
अथो॑ देवलो॒कादे॒व म॑नुष्यलो॒के प्रति॑ तिष्ठति ।

भट्टभास्कर-टीका

4अग्निरिति ॥ अग्नेर्मूर्धत्वाभिधानं यजमानस्य प्राधान्यार्थम् इति । अथो अपि च देवलोकाद् आगत्य मनुष्यलोके प्रतिष्ठितो भवति ॥

अ॒यम् इ॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्

मूलम् (संयुक्तम्)

अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒रित्या॑ह॒ मुख्य॑मे॒वैन॑ङ्करोत्यु॒भा वा॑मिन्द्राग्नी आहु॒वध्या॒ इत्या॒हौजो॒ बल॑मे॒वाव॑ रुन्धे॒

विश्वास-प्रस्तुतिः

“अ॒यम् इ॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्” इत्य् आ॑ह ।
मुख्य॑म् ए॒वैन॑ङ् करोति ।

Keith

‘Here hath he first been established by the establishers’, he says;
verily he makes him the principal.

मूलम्

अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒रित्या॑ह ।
मुख्य॑मे॒वैन॑ङ्करोति ।

भट्टभास्कर-टीका

5पार्थीवस्याग्नेः पश्चाद् अभिधानात्
मुखम् इति प्रथमत्व-वचनाद्
अग्नेः मुखम् इव मुखम्

उ॒भा वा॑मिन्द्राग्नी आहु॒वध्या॒

विश्वास-प्रस्तुतिः

“उ॒भा वा॑मिन्द्राग्नी आहु॒वध्या॒” इत्या॒ह । +++(ओजो-बलात्मकत्वाद् इन्द्राग्न्योः)+++ ओजो॒ बल॑म् ए॒वाव॑ रुन्धे।

Keith

‘Ye twain shall be summoned, O Indra and Agni’, he says;
verily he wins might and force.

मूलम्

उ॒भा वा॑मिन्द्राग्नी आहु॒वध्या॒ इत्या॒ह । ओजो॒ बल॑मे॒वाव॑ रुन्धे।

भट्टभास्कर-टीका

6ओजो-बलात्मकत्वाद् इन्द्राग्न्योः ॥

अ॒यन्ते॑ योनि॑र् ऋ॒त्विय॒

विश्वास-प्रस्तुतिः

अ॒यन्ते॑ योनि॑र्ऋ॒त्विय॒ इत्या॑ह । प॒शवो॒ वै र॒यिᳶ प॒शूने॒वाव॑ रुन्धे ।

Keith

‘This is thy due place of birth’, he says; wealth is cattle; verily he wins cattle.

मूलम्

“अ॒यन्ते॑ योनि॑र् ऋ॒त्विय॒” इत्या॑ह । प॒शवो॒ वै र॒यिᳶ - प॒शून् ए॒वाव॑ रुन्धे ।

भट्टभास्कर-टीका

7पशवो वै रयिरिति ॥ ‘वर्धया रयिम्’ इति दर्शनात् ॥

मूलम् (संयुक्तम्)

ष॒ड्भिरुप॑ तिष्ठते॒ षड्वै [26]ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठति ष॒ड्भिरुत्त॑राभि॒रुप॑ तिष्ठते॒ द्वाद॑श॒ सम्प॑द्यन्ते॒ द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रस्सव्ँ॑वत्स॒र ए॒व प्रति॑ तिष्ठति

सर्वा ऋचः

विश्वास-प्रस्तुतिः

+++(उ॒प॒प्र॒यन्तो॑ अध्व॒रं … अ॒यन् ते॒ योनि॑र् इति)+++ ष॒ड्भिर् उप॑ तिष्ठते +++(आहवनीयम्)+++।
षड् वै [26] ऋ॒तव॑ - ऋ॒तुष्व् ए॒व प्रति॑ तिष्ठति ।

Keith

With six (verses) he pays reverence; the seasons are six [2]; verily he rests on the seasons.

मूलम्

ष॒ड्भिरुप॑ तिष्ठते ।
षड्वै [26] ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठति ।

भट्टभास्कर-टीका

8षड्भिरिति ॥ आहवनीयम् एव सर्वत्र । विशिष्टसङ्ख्यान्वयो विशिष्टफलावाप्तिहेतुरिति भावः ।

विश्वास-प्रस्तुतिः

+++(अग्न॒ आयूं॑षि … उद॑ग्ने॒ शुच॑य॒स् तव॑ इति ऋग्भिः)+++ ष॒ड्भिर् उत्त॑राभि॒र् उप॑ तिष्ठते ।
द्वाद॑श॒ सम्प॑द्यन्ते॒ द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒र ए॒व प्रति॑ तिष्ठति ।

Keith

With six subsequent (verses) he pays reverence; they make up twelve; the year has twelve months; verily he rests on the year.

मूलम्

ष॒ड्भिरुत्त॑राभि॒रुप॑ तिष्ठते ।
द्वाद॑श॒ सम्प॑द्यन्ते॒ द्वाद॑श॒ मासाः॑ सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒र ए॒व प्रति॑ तिष्ठति ।

भट्टभास्कर-टीका

षड्भिरुत्तराभिरिति । ननु द्वादशभिरुपतिष्ठत इत्येव वाच्यं स्यात् । मैवम्-
षट्त्व-निबन्धन-फलावाप्तये षड्भिष् षड्भिर् उपस्थिष्ठते । द्वादशेति तन्निबन्धनफलावाप्तिश् च भवति ॥

मूलम् (संयुक्तम्)

यथा॒ वै पुरु॒षोऽश्वो॒ गौर्जीर्य॑त्ये॒वम॒ग्निराहि॑तो जीर्यति सव्ँवत्स॒रस्य॑ प॒रस्ता॑दाग्निपावमा॒नीभि॒रुप॑ तिष्ठते

विश्वास-प्रस्तुतिः

यथा॒ वै पुरु॒षो ऽश्वो॒ गौर् +++(वा)+++ जीर्य॑त्य्,
ए॒वम् अ॒ग्निर् आहि॑तो जीर्यति

Keith

Just as a man, a horse, a cow, are worn out, so the fire when established wears out;

मूलम्

यथा॒ वै पुरु॒षोऽश्वो॒ गौर्जीर्य॑त्ये॒वम॒ग्निराहि॑तो जीर्यति ।

भट्टभास्कर-टीका

9यथेत्यादि ॥ यथा पुरुषादयः आसादिताहारा जीर्यन्ते । एवमग्निराहितो जीर्यति ।

विश्वास-प्रस्तुतिः

सव्ँ॒व॒त्स॒रस्य॑ प॒रस्ता॑द् +++(अग्न॒ आयूं॑षि … उद॑ग्ने॒ शुच॑य॒स् तव॑ इति)+++ आग्निपावमा॒नीभि॒र् उप॑ तिष्ठते।

Keith

at the end of the year he pays reverence with (verses) containing the words Agni and pu;

मूलम्

सव्ँ॒व॒त्स॒रस्य॑ प॒रस्ता॑दाग्निपावमा॒नीभि॒रुप॑ तिष्ठते।

भट्टभास्कर-टीका

संवत्सरस्येत्यादि । ‘अग्न आयूंषि पवसे’ इत्येताभिः षड्भिः संवत्सरेर्सवत्सरे उपतिष्ठते । ‘देवताद्वन्द्वे च’ इत्युभयपदवृद्धिः उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम् ॥

उपस्थान-महत्त्वम्

मूलम् (संयुक्तम्)

… पुनर्न॒वमे॒वैन॑म॒जर॑ङ्करो॒त्यथो॑ पु॒नात्ये॒वोप॑ तिष्ठते॒ योग॑ ए॒वास्यै॒ष उप॑ तिष्ठते [27]दम॑ ए॒वास्यै॒ष उप॑ तिष्ठते या॒च्ञैवास्यै॒षोप॑ तिष्ठते॒ यथा॒ पापी॑या॒ञ्छ्रेय॑स आ॒हृत्य॑ नम॒स्यति॑ ता॒दृगे॒व तत्

विश्वास-प्रस्तुतिः

पु॒न॒र्न॒वम् ए॒वैन॑म् अ॒जर॑ङ् करो॒ति ।
अथो॑ पु॒नात्य् ए॒व।

Keith

Verily he renews it and makes it unageing, and also purifies it.
He pays reverence; that is his union.

मूलम्

पु॒न॒र्न॒वमे॒वैन॑म॒जर॑ङ्करो॒ति ।
अथो॑ पु॒नात्ये॒व।

भट्टभास्कर-टीका

10पुनर्नवमित्यादि ॥ आयुरादिलाभात् । अथो अपिच पुनात्य् एवाग्निं जरया नाभिभूयते, पवमानस्यायं महिमेति ।

विश्वास-प्रस्तुतिः

उप॑ तिष्ठते॒ योग॑ ए॒वास्यै॒ष।

Keith

He pays reverence; that is his union.

मूलम्

उप॑ तिष्ठते॒ योग॑ ए॒वास्यै॒ष।

भट्टभास्कर-टीका

उपतिष्ठते योग एवास्यैष उपतिष्ठत इति । यद् एषो ऽग्निः योगस् संश्लेषस् सम्पद्यते । यत्रायुर्-आदीनि स्वयमेव सम्पद्यन्त इति उपतिष्ठत इति यत् इदमग्नेरुपस्थानम् ।

विश्वास-प्रस्तुतिः

उप॑ तिष्ठते॒ - दम॑ ए॒वास्यै॒ष।

Keith

He pays reverence [3]; that is his bond.

मूलम्

उप॑ तिष्ठते॒ दम॑ ए॒वास्यै॒ष।

भट्टभास्कर-टीका

इदं दम एवास्यैष क्रियते । दमो निबन्ध[द्ध]स्तुतिकरपदैर्विधेयीकर्णम् । यथास्मै अभीष्टमकृत्वा स्थातुमपि न शक्नोति तथैनं दमयति । ‘अग्निश्शुचिव्रततमश्शुचिर्विप्रश्शुचिः कविः’ इत्यादि । उपतिष्ठत इति । उपस्थानव्याजेन स्वाभिमतानग्निं याचते ‘आयूंषि पवस्व, ऊर्जमिषं चासुव, दुच्छुनां दूरे बाधस्व’ इति ।

विश्वास-प्रस्तुतिः

उप॑ तिष्ठते - या॒च्ञैवास्यै॒ष।
यथा॒ पापी॑या॒ञ् छ्रेय॑स आ॒हृत्य॑ नम॒स्यति॑ - ता॒दृगे॒व तत् ।

Keith

He pays reverence; that is his appeal.
He pays reverence; that is as if an inferior brings (something) to a superior and pays him honour.

मूलम्

या॒च्ञैवास्यै॒षोप॑ तिष्ठते ।
यथा॒ पापी॑या॒ञ्छ्रेय॑स आ॒हृत्य॑ नम॒स्यति॑ ता॒दृगे॒व तत् ।

भट्टभास्कर-टीका

उपतिष्ठत इति । परस्पराश्रयः प्रकर्षः । यथा स्वल्पैश्वर्यो जनः प्रभूतैश्वर्याय फलादिकमुपहृत्य नमस्यति तादृगिदमुपस्थानम्; आराध्यैश्वर्यव्यापनार्थत्वात् । ततस्सुप्रसन्नः स्वामी फलेनाभिमतेन पुरुषं आराधयितारं योजयतीति । ‘नमोवरिवश्चित्रङः क्यच्’ ॥

यजूंषि

मूलम् (संयुक्तम्)

आ॑यु॒र्दा अ॑ग्ने॒ऽस्यायु॑र्मे दे॒हीत्या॑हाऽऽयु॒र्दा ह्ये॑ष व॑र्चो॒दा अ॑ग्नेऽसि॒ वर्चो॑ मे दे॒हीत्या॑ह वर्चो॒दा ह्ये॑ष त॑नू॒पा अ॑ग्नेऽसि त॒नुव॑म्मे पा॒हीत्या॑ह [28] तनू॒पा ह्ये॑षोऽग्ने॒ यन्मे॑ त॒नुवा॑ ऊ॒नन्तन्म॒ आ पृ॒णेत्या॑ह

विश्वास-प्रस्तुतिः

आ॒यु॒र्दा अ॑ग्ने॒ऽस्यायु॑र्मे दे॒हीत्या॑ह।
आयु॒र्दा ह्ये॑षः ।
व॒र्चो॒दा अ॑ग्नेऽसि॒ वर्चो॑ मे दे॒हीत्या॑ह ।
व॒र्चो॒दा ह्ये॑षः।
त॒नू॒पा अ॑ग्नेऽसि त॒नुव॑म्मे पा॒हीत्या॑ह ।
त॒नू॒पा ह्ये॑षः ।

Keith

‘Thou art giver of life, O Agni; give me life’, he says, for he is a giver of life.

‘Thou art giver of radiance, O Agni; give me radiance’, he says, for he is a giver of radiance.
I Thou art guardian of the body, O Agni; guard my body’, he says [4], for he is a guardian of the body.

मूलम्

आ॒यु॒र्धा अ॑ग्ने॒ऽस्यायु॑र्मे दे॒हीत्या॑ह।
आयु॒र्दा ह्ये॑षः ।
व॒र्चो॒दा अ॑ग्नेऽसि॒ वर्चो॑ मे दे॒हीत्या॑ह ।
व॒र्चो॒दा ह्ये॑षः।
त॒नू॒पा अ॑ग्नेऽसि त॒नुव॑म्मे पा॒हीत्या॑ह ।
त॒नू॒पा ह्ये॑षः ।

भट्टभास्कर-टीका

11आयुर्दा इत्यादि ॥ गतम् ॥

विश्वास-प्रस्तुतिः

अग्ने॒ यन्मे॑ त॒नुवा॑ ऊ॒नन् तन्म॒ आ पृ॒णेत्या॑ह। यन् मे॑ प्र॒जायै॑ पशू॒नाम् ऊ॒नन् - तन् म॒ आ पू॑र॒येति॒ वावैतदा॑ह ।

Keith

‘O Agni, whatever is deficient in my body, do thou make that good for me’, he says.
‘whatever is deficient in my offspring and cattle, do thou make that good for me’, he says in effect.

मूलम्

अग्ने॒ यन्मे॑ त॒नुवा॑ ऊ॒नन् तन्म॒ आ पृ॒णेत्या॑ह। यन्मे॑ प्र॒जायै॑ पशू॒नामू॒नन्तन्म॒ आ पू॑र॒येति॒ वावैतदा॑ह ।

भट्टभास्कर-टीका

12यन्मे प्रजाया इत्यादि ॥ तनुवत्प्रवानत्वात् प्रजाश्च पशवश्च तनुशब्देनोच्यन्त इति दर्शयति ।
आ पूरयेति । पृणतिरापूरणकर्मेत्याचष्टे ॥

मूलम् (संयुक्तम्)

चित्रा॑वसो स्व॒स्ति ते॑ पा॒रम॑शी॒येत्या॑ह। रात्रि॒र्वै चि॒त्राव॑सु॒रव्यु॑ष्ट्यै॒ वा ए॒तस्यै॑ पु॒रा ब्रा॑ह्म॒णा अ॑भैषु॒र्व्यु॑ष्टिमे॒वाव॑ रुन्धे

विश्वास-प्रस्तुतिः

चित्रा॑वसो स्व॒स्ति ते॑ पा॒रम् अ॑शी॒येत्या॑ह।
रात्रि॒र् वै चि॒त्राव॑सुः।
अ-व्यु॑ष्ट्यै॒+++(←उष्)+++ वा ए॒तस्यै॑ पु॒रा ब्रा॑ह्म॒णा अ॑भैषुः +++(उत्तरहिमवृत्ते वसन्तः)+++।+++(5)+++
व्यु॑ष्टिम् ए॒वाव॑ रुन्धे।

Keith

‘O thou of various splendour, in safety may I reach the end of thee’, he says;
that of various splendour is the night.
The Brahmans aforetime feared its not dawning;
verily he wins the dawn.

मूलम्

चित्रा॑वसो स्व॒स्ति ते॑ पा॒रम॑शी॒येत्या॑ह।
रात्रि॒र्वै चि॒त्राव॑सु॒रव्यु॑ष्ट्यै॒ वा ।
ए॒तस्यै॑ पु॒रा ब्रा॑ह्म॒णा अ॑भैषुः ।

व्यु॑ष्टिमे॒वाव॑ रुन्धे।

भट्टभास्कर-टीका

13रात्रिर्वा इति ॥ चित्रा नानारूपा वसवो वस्तारो यस्यामिति चित्रा अप्येकरूपा वसन्त्यस्यां इत्य[इति वा]र्थः । अव्युष्ट्यै वा इत्यादि । रात्रेरवसानं व्युष्टिः एतस्या रात्रेरव्युष्ट्यै अभैषुः । यद्वा - अव्युष्ट्यै व्याप्तिरहिताया रात्रेरभैषुः अव्युष्ट्याशङ्कया अभैशुरिति यावत् । छान्दसोन्तोदात्तत्वाभावः । तस्मात् स्वस्ति ते पारमशीयेति प्राथनया व्युष्टिमवरुन्धे । ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम्, ‘उदात्तस्वरितयोर्यणः’ इत्युकारः स्वर्यते ॥

मूलम् (संयुक्तम्)

इन्धा॑नास्त्वा श॒तम् [29]हिमा॒ इत्या॑ह श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठत्ये॒षा वै सू॒र्मी कर्ण॑कावत्ये॒तया॑ ह स्म॒ वै दे॒वा असु॑राणाँ शतत॒र्हाँ स्तृँ॑हन्ति॒ यदे॒तया॑ स॒मिध॑मा॒दधा॑ति॒ वज्र॑मे॒वैतच्छ॑त॒घ्नीय्ँयज॑मानो॒ भ्रातृ॑व्याय॒ प्रह॑रति॒ स्तृत्या॒ अछ॑म्बट्कारँ॒ सन्त्वम॑ग्ने॒ सूर्य॑स्य॒ वर्च॑सा गथा॒ इत्या॑ह

विश्वास-प्रस्तुतिः

इन्धा॑नास् त्वा श॒तम् [29] हिमा॒ इत्या॑ह ।
श॒तायु॒ᳶ पुरु॑षश् श॒तेन्द्रि॑य॒ - आयु॑ष्य् ए॒वेन्द्रि॒ये प्रति॑ तिष्ठति ।

Keith

‘Kindling thee for a hundred winters’ [5], he says;
man lives a hundred years and has a hundred powers;
verily he rests on life and power.

इन्धा॑नास्त्वा श॒तम्

मूलम्

इन्धा॑नास्त्वा श॒तम् [29] हिमा॒ इत्या॑ह ।
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति ।

भट्टभास्कर-टीका

14शतायुरिति ॥ शतवर्षश्शतवीर्यः पुरुषः । हिमशब्देन संवत्सराभिधानं व्याख्यातम् । आयुषि इन्द्रिये च प्रतिष्ठितो भवति अनया समिधमाधाय ।

विश्वास-प्रस्तुतिः

ए॒षा +++(ऋग्)+++ वै सू॒र्मी+++(=लोह-स्थूणा)+++ कर्ण॑कावती+++(=कण्टकवती)+++।

Keith

This is a pipe with projections;

मूलम्

ए॒षा वै सू॒र्मी कर्ण॑कावती।

भट्टभास्कर-टीका

एषा वा इत्यादि । ज्वलन्ती लोहमयी स्थूणा सूर्मी । गौरादित्वान्ङीष् ।
कर्णकावती - अन्तस् सुषिरवती अन्तर् बहिश्च ज्वलन्तीत्यर्थः । सांहितिकं दीर्घत्वम् । तत्-सदृशा ऋग् इत्यर्थः ।

विश्वास-प्रस्तुतिः

ए॒तया॑ ह स्म॒ वै दे॒वा असु॑राणाँ शत-त॒र्हाँस्+++(←तृह हिंसायाम्)+++ तृँ॑हन्ति+++(=घ्नन्ति)+++ ।

Keith

by it the gods made piercings of hundreds of the Asuras;

मूलम्

ए॒तया॑ ह स्म॒ वै दे॒वा असु॑राणाँ शतत॒र्हाँस्तृँ॑हन्ति ।

भट्टभास्कर-टीका

एतयेत्यादि । असुराणां मध्ये शततर्हान् अनेक-प्रहारेण शतस्य हन्तॄन् तृंहन्ति घ्नन्ति स्म एतयर्चा । तृह हिंसायाम् रौधादिकः, ‘लट् स्मे’ इति लट् ।

विश्वास-प्रस्तुतिः

यद् ए॒तया॑ स॒मिध॑म् आ॒दधा॑ति॒ -
वज्र॑म् ए॒व एतच् छ॑त॒-घ्नीय्ँ यज॑मानो॒ भ्रातृ॑व्याय॒ प्रह॑रति - +++(स्व)+++स्तृत्या॒+++(य्)+++ अछ॑म्बट्कारम् +++(यथा तथा)+++ ।

Keith

in that he takes up the kindling-stick with this verse,
the sacrificer hurls the hundred-slaying (verse) as a bolt against his enemy to lay (him) low without fail.

मूलम्

यदे॒तया॑ स॒मिध॑मा॒दधा॑ति॒
वज्र॑मे॒व एतच्छ॑त॒घ्नीय्ँयज॑मानो॒ भ्रातृ॑व्याय॒ प्रह॑रति स्तृत्या॒ अछ॑म्बट्कारम् ।

भट्टभास्कर-टीका

तस्माद् एतयर्चा समिधम् आदधानो वज्रं शतघ्न्याख्यं इन्द्रायुधसदृशीं शतघ्नीं पूर्वोक्तां सूर्मिम् एव भ्रातृव्याय प्रहिणोति । तच्च स्तृत्यै विनाशाय भ्रातृव्याणां भवति । अछम्बट्कारं अनार्तत्वाय चात्मनः ॥

सन्त्वम् अ॑ग्ने॒ सूर्य॑स्य॒

विश्वास-प्रस्तुतिः

“सन्त्वम् अ॑ग्ने॒ सूर्य॑स्य॒ वर्च॑सा गथा॒” इत्या॑ह। “ए॒तत् त्वम् असि, +इ॒दम् अ॒हम् भू॑यास॒म्” इति॒ वाव॒ +एतद् आ॑ह ।

Keith

‘Thou, O Agni, hast attained the radiance of the sun’, he says;
’that thou art, thus may I be’, he says in effect.

मूलम्

सन्त्वम् अ॑ग्ने॒ सूर्य॑स्य॒ वर्च॑सा गथा॒ इत्या॑ह। ए॒तत्त्वमसी॒दम॒हम्भू॑यास॒मिति॒ वावैतदा॑ह ।

भट्टभास्कर-टीका

15एतदित्यादि ॥ एतादृशस् त्वमसि, एतादृशो ऽहं भूयासम् इति एतन् मन्त्र-प्रतिपाद्यम् इत्य् अर्थः । इदं चास्त्विति लोपविषयत्वात् ‘चादिलोपे विभाषा’ इत्यसीत्याख्यातं न निहन्यते ॥

विश्वास-प्रस्तुतिः

त्वम॑ग्ने॒ सूर्य॑वर्चा अ॒सीत्या॑हा॒ऽऽशिष॑मे॒वैताम् आ शा॑स्ते ॥ [30]

Keith

‘Thou, O Agni, hast the radiance of the sun’, he says;
verily he invokes this blessing.

मूलम्

त्वम॑ग्ने॒ सूर्य॑वर्चा अ॒सीत्या॑हा॒ऽऽशिष॑मे॒वैतामा शा॑स्ते ॥ [30]

भट्टभास्कर-टीका

16त्वमग्न इत्यादि ॥ यथा त्वं सूर्यतुल्यतेजाः एवं मामपि तादृशेन तेजसा आयुषा प्रजया च संसृजेत्येवमाशिषमनेनाशास्ते ॥