सपरिकर-गार्हपत्याहवनीययोर् उपस्थानमन्त्राः
१, ५-७, ११-१३ गायत्री
९-१० द्विपदा विराट्
१४ बृहती
१५ अनुष्टुप्
अग्निर्ऋषिः
भास्करोक्त-विनियोगः
1गृहांश्च पशूंश्चोपतिष्ठते - सं पश्यामीति । तत्र प्रथमा गायत्री । शेषाणि यजूंषि ‘मयि वो रायश्श्रयन्ताम्’ इत्यन्तानि ॥
विश्वास-प्रस्तुतिः ...{Loading}...
सम्प॑श्यामि +++(पशु-)+++प्र॒जा अ॒हम्
इड॑+++(←इडा=गौ|भू|वाक्)+++-प्रजसो मान॒वीः ।
सर्वा॑ भवन्तु नो गृ॒हे ॥
सर्वाष् टीकाः ...{Loading}...
Keith
I gaze on offspring,
Offspring of Ida, connected with Manu;
May they all be in our house.
मूलम्
सम्प॑श्यामि प्र॒जा अ॒हमिड॑प्रजसो मान॒वीः ।
सर्वा॑ भवन्तु नो गृ॒हे ॥
भट्टभास्कर-टीका
सं पश्यामि सम्यक् वः पश्यामि अहं प्रजाः गृहनिवासिनः पशून्; ‘यावन्त एव ग्राम्याः पशवस्तानेवाव रुन्धे’ इति च ब्राह्मणम् । प्रजाशब्देन पशव उच्यन्ते । इडप्रजसः इडा गौः मनोः पुत्री वा । तस्याः प्रजा इडप्रजसः । सा वा यासां तथा ते सं पश्यामीति । यथोक्तम् - ‘इडा वै मानवी’ ‘साब्रवीदिडा मनुम्’ इत्यादि । ‘ङ्यापोस्संज्ञाछन्दसोः’ इति ह्रस्वत्वम्, ‘नित्यमसिच्प्रजामेधयोः’ इत्यत्र ‘नित्यग्रहणमन्यत्रापि यथा स्यात्’ इत्युक्तत्वादसिच् समासान्तः, दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - इडायाः प्रजायन्त इति ‘गतिकारकयोरिति पूर्वपदप्रकृतिस्वरत्वं च’ इत्यसुन्प्रत्ययान्ताद्धातोः अन्तलोपश्छान्दसः । डिद्वा प्रत्ययः कर्तव्यः । मानवीर्मनोरपत्यभूताः । जातिविशेषस्याविवक्षितत्वात् ‘मनोर्जातौ’ इति न प्रवर्तते । सर्वास्ताः सर्वा अपि गवादयः प्रजाः नः अस्माकं गृहे एतस्मिन् स्थाने भवन्तु पशुपुत्रमित्रकलत्रादिसर्वसम्पदः सदा प्रभूतास्सन्तु । ‘अस्मदो द्वयोश्च’ इति द्वितीये वाक्ये एकस्मिन्बहुवचनम् । यद्वा - पुत्रपौत्रादिसहितानामस्माकमिति वेदितव्यम् ॥
मूलम् (संयुक्तम्)
अम्भ॒स्स्थाम्भो॑ वो भक्षीय॒ मह॑स्स्थ॒ महो॑ वो भक्षीय॒ सह॑स्स्थ॒ सहो॑ वो भक्षी॒योर्ज॒स्स्थोर्जव्ँ॑वो भक्षीय॒ रेव॑ती॒ रम॑ध्वम॒स्मिल्ँ लो॒के॑ऽस्मिन्गो॒ष्ठे॑ऽस्मिन्क्षये॒ऽस्मिन् योना॑वि॒हैव स्ते॒तो माऽप॑ गात ब॒ह्वीर्मे॑ भूयास्त
विश्वास-प्रस्तुतिः
+++(पशवः!)+++ अम्भ॑स् स्थ।
अम्भो॑ वो भक्षीय।
Keith
Ye are water;
may I share your water.
मूलम्
अम्भ॑स्स्थ।
अम्भो॑ वो भक्षीय।
भट्टभास्कर-टीका
2अम्भस्स्थेत्यादि ॥
अम्भः अदनीयमुच्यते । ‘अदेर्नुम्भश्च’ इत्यसुन् । अन्नमुच्यते । वाजसनेयिनां तु ‘अन्धस्स्थ’ इति वा [इत्येव] पाठः । हे पशवः अन्धः स्थ भवथ । तद्धेतु त्वात्ताच्छब्द्यम् । अन्नस्य हेतवस्स्थ ।
तस्माद्वा युष्माकमम्भः क्षीराज्यादिरूपमदनीयं भक्षीय भजेयम् । भजेराशिषि लिङ् ।
विश्वास-प्रस्तुतिः
+++(पशवः!)+++ मह॑स् स्थ॒, महो॑ वो भक्षीय ।
Keith
Ye are greatness, may I share your greatness;
मूलम्
मह॑स्स्थ॒ महो॑ वो भक्षीय ।
भट्टभास्कर-टीका
महः पूजा ब्रह्म वा महः तद्धेतवः स्थ यागादिद्वारेण । वः युष्माकं अदनीयं क्षीरादि भक्षीय ।
विश्वास-प्रस्तुतिः
+++(पशवः!)+++ सह॑स्स्थ॒ - सहो॑ वो भक्षी॒य ।
Keith
ye are might, may I share your might;
मूलम्
सह॑स्स्थ॒ सहो॑ वो भक्षी॒य ।
भट्टभास्कर-टीका
सहो बलं तद्धेतवः स्थ युष्माकं बलकरं घृतादि भक्षीय ।
विश्वास-प्रस्तुतिः
+++(पशवः!)+++ ऊर्ज॑स् स्थ॒, ऊर्जव्ँ॑व भक्षीय ।
Keith
ye are strength, may I share your strength.
मूलम्
ऊर्ज॑स्स्थ॒, ऊर्जव्ँ॑व भक्षीय ।
भट्टभास्कर-टीका
ऊर्जः रसः क्षीरादि तद्धेतवः स्थ युष्माकमूर्जं बलकररसं भक्षीय । मह्यादिभ्योऽसुन् । ऊर्जयतेः क्विप् सम्पदादिलक्षणः ।
विश्वास-प्रस्तुतिः
+++(पशवः!)+++
रेव॑ती॒+++(←रयिः)+++ रम॑ध्वम्
अ॒स्मिन् लो॒के
अ॒स्मिन् गो॒ष्ठे
अ॒स्मिन् क्षये॒
ऽस्मिन् योनौ॑ ।
इ॒हैव स्त॑ ।
इ॒तो माऽप॑ गात ।
ब॒ह्वीर्मे॑ भूयास्त [21] ।
Keith
Ye wealthy ones, stay in this place, this fold, this dwelling, this birthplace;
be ye here; go not hence;
be many for me [1].
मूलम्
रेव॑ती॒ रम॑ध्वम्
अ॒स्मिन्लो॒के
अ॒स्मिन्गो॒ष्ठे
अ॒स्मिन् क्षये॒ऽस्मिन् योनौ॑ ।
इ॒हैव स्त॑ ।
इ॒तो माऽप॑ गात ।
ब॒ह्वीर्मे॑ भूयास्त [21] ।
भट्टभास्कर-टीका
हे रेवतीः रेवत्यः क्षीरादिना धनेन तद्वत्यः । ‘रयेर्मतौ बहुलम्’ इति सम्प्रसारणम्, ‘वाच्छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । रमध्वं प्रीयमाणा वर्तध्वम् । ‘पशवो वै रेवतीः पशूनेवात्मन्रमयते’ इति ब्राह्मणम् ।
अस्मिन् लोके पृथिव्याम् । ‘ऊडिदम्’ इति विभक्तिरुदात्ता ।
अस्मिन् गोष्ठे गवां स्थाने व्रजे । गावस्तिष्ठन्त्यस्मिन्निति ‘सुपि स्थः’ इति कः, ‘अम्बाम्ब’ इति मूर्धन्यः ।
अस्मिन् क्षये अस्मदीये । ‘क्षयो निवासे’ इत्या द्युदात्तत्वम् ।
अस्मिन् योनौ।
रमध्वमिति सर्वत्र ।
इहैवास्मदीये लोकादौ स्त भूयास्त ।
इतोस्मत्सकाशान्मापगात अपरक्ता मापगात न निर्गच्छत ।
अपि तु बह्वीः बह्व्यः पुत्रपुत्रादिमत्यो मम भूयास्त ॥
भास्करोक्त-विनियोगः
3अग्निहोत्रीवत्सम् अभिमृशति - संहितेति ॥
मूलम् (संयुक्तम्)
सँ॒हि॒तासि॑ विश्वरू॒पीरा मो॒र्जा वि॒शाऽऽगौ॑प॒त्येनाऽऽरा॒यस्पोषे॑ण सहस्रपो॒षव्ँवᳶ॑ पुष्यास॒म्मयि॑ वो॒ राय॑श्श्रयन्ताम् ॥
विश्वास-प्रस्तुतिः
सँ॒हि॒ता ऽसि॑ +++(मात्रा)+++ विश्वरू॒पीर् -
आ मो॒र्जा वि॑श॒
आ गौ॑प॒त्येन॑
आरा॒यस्-पोषे॑ण ।
Keith
Thou art composed of every form; enter me with strength, with lordship of kine, with increase of wealth.
मूलम्
सँ॒हि॒तासि॑ विश्वरू॒पीर् -
आ मो॒र्जा वि॑श॒
आ गौ॑प॒त्येन॑
आरा॒यस्पोषे॑ण ।
भट्टभास्कर-टीका
संहिता संयुक्ता मात्रा असि भव । मात्रा वियुक्ता मा भूः ।
विश्वरूपीः नानारूपवती मत्वर्थीय ईकारः । सा त्वं मामूर्जा क्षीरादिना रसेन आविश । क्षीरादेर्दातृत्वेन मत्सम्बन्धिनी भव । ‘सावेकाचः’ इत्यूर्जो विभक्तिरुदात्ता ।
गौपत्येन च मामाविशेत्येव । गवां पतिः स्वामी तद्भावो गोपत्यम् । पत्यन्तलक्षणो यत् । यथाहं गोपतिर्भवानि तथा मयि वर्तस्व । रायो धनस्य पोषेण पुष्ट्या च मामाविश मदीयानि धनानि पोषयन्ती स्वजन इव मम भव । ‘ऊडिदम्’ इति रायो विभक्तिरुदात्ता । ‘षष्ठ्याः पतिपुत्र’ इति सत्वम् ।
विश्वास-प्रस्तुतिः
स॒ह॒स्र॒पो॒षव्ँवᳶ॑ पुष्यासम् ।
Keith
May I prosper with your thousandfold prosperity;
मूलम्
स॒ह॒स्र॒पो॒षव्ँवᳶ॑ पुष्यासम् ।
भट्टभास्कर-टीका
किं बहुना, वः युष्माकं सहस्रपोषं बहुप्रकारमहं पुष्यासं पौष्कल्येनोद्भावयिषीय बह्वीनां युष्माकं सम्बन्धी भूयासम् । गोपोषं पुष्णातीतिवत् सामान्यवचनोन्यतरो द्रष्टव्यः ।
विश्वास-प्रस्तुतिः
मयि॑ वो॒ राय॑श् श्रयन्ताम् ॥
Keith
may your wealth rest in me.
मूलम्
मयि॑ वो॒ राय॑श्श्रयन्ताम् ॥
भट्टभास्कर-टीका
वः युष्माकं रायो धनानि क्षीरादीनि मयि श्रयन्तां अविच्छेदेन सन्ततं वर्धन्ताम् ॥
गार्हपत्योपस्थानमन्त्राः
भास्करोक्त-विनियोगः
4गार्हपत्यमुपतिष्ठते - उप त्वाग्न इति तिसृभिर्गायत्रीभिः,
“अग्ने त्वं न” इति चतसृभिर् द्विपदाभिर् विराड्-गायत्रीभिश् च ।
‘जागतगायत्राभ्यां विराड्गायत्री’ इति ।
‘गायत्रीभिरुपतिष्ठते’ इत्यादि ब्राह्मणम् ।
उप त्वेति प्रथमा ॥
०७ उप त्वाग्ने ...{Loading}...
उ᳓प त्वा ऽग्ने दिवे᳓-दिवे
दो᳓षावस्तर्+++(=रात्रावह्नि)+++ धिया᳓ वय᳓म् ।
न᳓मो भ᳓रन्त ए᳓मसि ॥
007 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
उ᳓प त्वाग्ने दिवे᳓-दिवे
दो᳓षावस्तर् धिया᳓ वय᳓म्
न᳓मो भ᳓रन्त ए᳓मसि
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}
divé-dive ← dyú- ~ div- (nominal stem)
{case:LOC, gender:N, number:SG}
tvā ← tvám (pronoun)
{case:ACC, number:SG}
úpa ← úpa (invariable)
dhiyā́ ← dhī́- (nominal stem)
{case:INS, gender:F, number:SG}
dóṣāvastar ← doṣāvastar- (nominal stem)
{case:VOC, gender:M, number:SG}
vayám ← ahám (pronoun)
{case:NOM, number:PL}
ā́ ← ā́ (invariable)
bhárantaḥ ← √bhr̥- (root)
{case:NOM, gender:M, number:PL, tense:PRS, voice:ACT}
imasi ← √i- 1 (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:ACT}
námaḥ ← námas- (nominal stem)
{case:NOM, gender:N, number:SG}
पद-पाठः
उप॑ । त्वा॒ । अ॒ग्ने॒ । दि॒वेऽदि॑वे । दोषा॑ऽवस्तः । धि॒या । व॒यम् ।
नमः॑ । भर॑न्तः । आ । इ॒म॒सि॒ ॥
Hellwig Grammar
- upa
- [adverb]
- “towards; on; next.”
- tvāgne ← tvā ← tvad
- [noun], accusative, singular
- “you.”
- tvāgne ← agne ← agni
- [noun], vocative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- dive ← diva
- [noun], locative, singular, neuter
- “day; sky; Svarga.”
- dive ← diva
- [noun], locative, singular, neuter
- “day; sky; Svarga.”
- doṣāvastar ← doṣāvastṛ
- [noun], vocative, singular, masculine
- dhiyā ← dhī
- [noun], instrumental, singular, feminine
- “intelligence; prayer; mind; insight; idea; hymn; purpose; art; knowledge.”
- vayam ← mad
- [noun], nominative, plural
- “I; mine.”
- namo ← namaḥ ← namas
- [noun], accusative, singular, neuter
- “adoration; court; namas [word]; bow; salute.”
- bharanta ← bharantaḥ ← bhṛ
- [verb noun], nominative, plural
- “bring; hold; fill; support; wear; possess; carry; nourish; keep; hire; have; satiate; follow; bear.”
- emasi ← ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- emasi ← imasi ← i
- [verb], plural, Present indikative
- “go; travel; enter (a state); return; walk; continue; reach; ask.”
सायण-भाष्यम्
हे अग्ने वयम् अनुष्ठातारः दिवेदिवे प्रतिदिनं दोषावस्तः रात्रावहनि च धिया बुद्ध्या नमः भरन्तः नमस्कारं संपादयन्तः उप समीपे त्वा एमसि त्वामागच्छामः । उपशब्दस्य निपातस्वरः (फि. सू. ८०)। त्वामौ द्वितीयायाः’ ( पा. सू. ८. १. २३) इति युष्मच्छब्दस्यानुदात्तस्त्वादेशः । दोषाशब्दो रात्रिवाची । वस्तर् इति अहर्वाची । द्वन्द्वसमासे कार्तकौजपादित्वात् ( पा. सू. ६. २. ३७ ) आद्युदात्तः । ‘सावेकाचः० ’ ( पा. सू. ६. १. १६८ ) इति धियो विभक्तिरुदात्ता । नम इति निपातः । भरन्त इत्यत्र शपः (पा. सू. ३. १. ६८ ) पित्वा वत् शतुर्लसार्वधातुकत्वाच्च अनुदात्तत्वे सति ( पा. सु. ६. १. १८६ ) धातुस्वरः शिष्यते । इमसि इत्यत्र ‘इदन्तो मसिः’ (पा. सू. ७. १. ४६ ) इत्यादेशो निघातश्च ।
भट्टभास्कर-टीका
हे अग्ने वयं दिवेदिवे यत् दिनेदिने धिया प्रज्ञया कर्मणा वा त्वामुपेमसि उपेम उपगच्छामः ‘इदन्तो मसि’ । किं कुर्वन्त इत्याह - दोषवस्तः रात्रावह्नि च सायं प्रातश्च नमो भरन्तः नमस्कारमाभरन्तः आहरन्तः नमस्कुर्वन्तः त्वाम् उपेम इति । त्वं चास्माकमुपकुर्विति शेषः । ‘हृग्रहोर्भः’ । भरतिर्वा भौवादिकः भृञ भरणे इति । ‘सुपाम् सुलुक्’ इति दिवसवाचिनो दिव्शब्दात्परस्य सप्तम्येकवचनस्य शे आदेशः । प्रगृह्यत्वं तु स्यात् । व्यत्ययेन वा चतुर्थी । ‘ऊडिदम्’ इति विभक्तेरुदात्तत्वम् । ‘अनुदात्तं च’ इति द्वितीयं निहन्यते । दोषावस्तरिति कार्तकौजपादिषु द्रष्टव्यः । ‘सावेकाचः’ इति धियो विभक्तिरुदात्ता ॥
Wilson
English translation:
“We approach you, Agni, with reverential homage in our thoughts, daily, both morning and evening.”
Jamison Brereton
We approach you, o Agni, illuminator in the evening, every day with our insight,
bringing homage—
Griffith
To thee, dispeller of the night, O Agni, day by day with prayer
Bringing thee reverence, we come
Oldenberg
Thee, O Agni, we approach day by day, O (god) who shinest in the darkness 1; with our prayer, bringing adoration to thee
Macdonell
To thee, O Agni, day by day, O thou illuminer of gloom, With thought we, bearing homage, come:
Keith
To thee, O Agni, day by day,
That shinest in the darkness, with our devotion,
We come bearing honour.
Geldner
Dir, Agni, nahen wir Tag für Tag, du Dunkel-Erheller, mit Andacht, Huldigung darbringend.
Grassmann
Dir, Agni, nahn wir Tag für Tag, o Nachterheller, mit Gebet Und bringen dir Verehrung dar.
Elizarenkova
К тебе, о Агни, изо дня в день,
О озаряющий тьму, мы приходим
С молитвой, неся поклонение –
अधिमन्त्रम् (VC)
- अग्निः
- मधुच्छन्दाः वैश्वामित्रः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
उक्त परमेश्वर कैसे उपासना करके प्राप्त होने के योग्य है, इसका विधान अगले मन्त्र में किया है॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अग्ने) हे सब के उपासना करने योग्य परमेश्वर ! (वयम्) हम लोग (धिया) अपनी बुद्धि और कर्मों से (दिवेदिवे) अनेक प्रकार के विज्ञान होने के लिये (दोषावस्तः) रात्रिदिन में निरन्तर (त्वा) आपकी (भरन्तः) उपासना को धारण और (नमः) नमस्कार आदि करते हुए (उपैमसि) आपके शरण को प्राप्त होते हैं॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे सब को देखने और सब में व्याप्त होनेवाले उपासना के योग्य परमेश्वर ! हम लोग सब कामों के करने में एक क्षण भी आपको नहीं भूलते, इसी से हम लोगों को अधर्म करने में कभी इच्छा भी नहीं होती, क्योंकि जो सर्वज्ञ सब का साक्षी परमेश्वर है, वह हमारे सब कामों को देखता है, इस निश्चय से॥७॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अग्ने ! वयं धिया दिवेदिवे दोषावस्तस्त्वा त्वां भरन्तो नमस्कुर्वन्तश्चोपैमसि प्राप्नुमः॥७॥
दयानन्द-सरस्वती (हि) - विषयः
तद् ब्रह्म कथमुपास्य प्राप्तव्यमित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (उप) सामीप्ये (त्वा) त्वाम् (अग्ने) सर्वोपास्येश्वर ! (दिवेदिवे) विज्ञानस्य प्रकाशाय प्रकाशाय (दोषावस्तः) अहर्निशम्। दोषेति रात्रिनामसु पठितम्। (निघं०१.७) रात्रेः प्रसङ्गाद्वस्तर् इति दिननामात्र ग्राह्यम्। (धिया) प्रज्ञया कर्मणा वा (वयम्) उपासकाः (नमः) नम्रीभावे (भरन्तः) धारयन्तः (आ) समन्तात् (इमसि) प्राप्नुमः॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे सर्वद्रष्टः सर्वव्यापिन्नुपासनार्ह ! वयं सर्वकर्मानुष्ठानेषु प्रतिक्षणं त्वां यतो नैव विस्मरामः, तस्मादस्माकमधर्ममनुष्ठातुमिच्छा कदाचिन्नैव भवति। कुतः? सर्वज्ञः सर्वसाक्षी भवान्सर्वाण्यस्मत्कार्य्याणि सर्वथा पश्यतीति ज्ञानात्॥७॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - हे सर्व दृष्टा व सर्वात व्याप्त असणाऱ्या, उपासना करण्यायोग्य परमेश्वरा! आम्ही सर्व काम करताना एक क्षणही तुला विसरत नाही. यामुळे आम्हाला अधर्म करण्याची कधी इच्छाही होत नाही. या दृढ निश्चयाने की जो सर्वज्ञ, सर्वांचा साक्षी परमेश्वर आमच्या सर्व कामांना पाहतो. ॥ ७ ॥
भास्करोक्त-विनियोगः
5राजन्तमिति द्वितीया -
विश्वास-प्रस्तुतिः ...{Loading}...
राज॑न्तम् अध्व॒राणा॑ङ्,
गो॒पाम् ऋ॒तस्य॒, दीदि॑विम् ।
वर्ध॑मानँ॒ स्वे दमे॑+++(=गृहे)+++ ॥
सर्वाष् टीकाः ...{Loading}...
Keith
Lord of the sacrifices,
Guardian of holy order, shining,
Waxing in his own horne.
मूलम्
राज॑न्तमध्व॒राणा॑ङ्गो॒पामृ॒तस्य॒ दीदि॑विम् ।
वर्ध॑मानँ॒ स्वे दमे॑ ॥
भट्टभास्कर-टीका
राजन्तं दीप्यमानं अध्वराणां यज्ञानां गोपां गोप्तारम् । गोपायतेः क्विप् अतोलोपवलिलोपापृक्तलोपाश्च । ऋतस्य यज्ञस्य सत्यस्य च गोप्तारम् । यद्वा - अध्वराणां राजन्तं गोपां रक्षितारं स्वयं सर्वदा दीदिविं दीप्यमानम् ।
अथवा - अध्वराणां यज्ञानां राजानम् ।
ऋतस्य ऋतेन यज्ञेन सत्येन वा दीदिविं प्रकाशयितारं गोपां गवां पातारम् । अस्मिन् पक्षे अवग्रह उपपद्यते ।
‘दीर्घश्चाभ्यासस्य’ इति क्विन्प्रत्ययः ।
वर्धमानं समिद्भिर् हविर्भिश्र स्वे दमे नः गृहे अग्निहोत्रवेश्मनि ।
तं त्वामुपेमसीति ॥
भास्करोक्त-विनियोगः
6स न इति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
स नᳶ॑ पि॒तेव॑ सू॒नवे
ऽग्ने॑ सूपाय॒नो भ॑व ।
सच॑स्वा+++(=सङ्गच्छस्व)+++ नस् स्व॒स्तये॑ ॥
सर्वाष् टीकाः ...{Loading}...
Keith
O Agni, be of easy access to us,
As a father to his son;
Befriend us for prosperity.
मूलम्
स नᳶ॑ पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व ।
सच॑स्वा नस्स्व॒स्तये॑ ॥
भट्टभास्कर-टीका
हे अग्ने स त्वं नः अस्मभ्यं पितेव सूनवे तात इव पुत्राय सूपायनः सूपचरणः सुखेनोपचरणीयः परिचरणीयो वा भव । ‘छन्दसि गत्यर्थेभ्यः’ इति युच् । शोभनोपायनो वा ।
किञ्च - नः अस्मान् स्वस्तये अविनाशाय सचस्व सङ्गच्छस्व मा कदाचिदपि मुचः । ‘अन्येषामपि दृश्येत’ इति संहितायां दीर्घत्वम् । स्वस्तय इति विभक्त्यन्तप्रतिरूपोव्ययः ॥
भास्करोक्त-विनियोगः
7अग्ने त्वं न इति ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने॑ [22] त्वन् नो॒ अन्त॑मः+++(=अन्तिकतमः)+++ ।
उ॒त त्रा॒ता शि॒वो भ॑व वरू॒थ्यः॑+++(=गृह्यः)+++ ॥
सर्वाष् टीकाः ...{Loading}...
Keith
O Agni [2] be thou our nearest,
Our protector, kindly, a shield;
मूलम्
अग्ने॑ [22] त्वन्नो॒ अन्त॑मः ।
उ॒त त्रा॒ता शि॒वो भ॑व वरू॒थ्यः॑ ॥
भट्टभास्कर-टीका
हे अग्ने त्वं नः अस्माकम् अन्तमः अन्तिकतमः सन्निकृष्टतमः । ‘तमे तादेश्च’ इति तादिलोपः । उत अपिच त्राता रक्षकः भयेष्विति गम्यते । शिवः सुखकरः सर्वदा भव अस्माकं वरूथ्यः गृहे भवः नित्यसन्निहितः । दिगादित्वाद्यत् । वरूथाय गृहाय वा हितः वरूथ्यः । उगवादिर्द्रष्टव्यः ॥
०४ तं त्वा ...{Loading}...
तं᳓ त्वा शोचिष्ठ दीदिवः
सुम्ना᳓य नून᳓म् ईमहे स᳓खिभ्यः
004 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - गौपायना लौपायना वा बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्च
- छन्दः - द्विपदा विराट्
Thomson & Solcum
तं᳓ त्वा शोचिष्ठ दीदिवः
सुम्ना᳓य नून᳓म् ईमहे स᳓खिभ्यः
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).;; 11 = 8+3
Morph
dīdivaḥ ← √dī- 1 (root)
{case:VOC, gender:M, number:SG, tense:PRF, voice:ACT}
śociṣṭha ← śociṣṭha- (nominal stem)
{case:VOC, gender:M, number:SG}
tám ← sá- ~ tá- (pronoun)
{case:ACC, gender:M, number:SG}
tvā ← tvám (pronoun)
{case:ACC, number:SG}
īmahe ← √yā- 2 (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:MED}
nūnám ← nūnám (invariable)
sákhibhyaḥ ← sákhi- (nominal stem)
{case:DAT, gender:M, number:PL}
sumnā́ya ← sumná- (nominal stem)
{case:DAT, gender:N, number:SG}
पद-पाठः
तम् । त्वा॒ । शो॒चि॒ष्ठ॒ । दी॒दि॒ऽवः॒ । सु॒म्नाय॑ । नू॒नम् । ई॒म॒हे॒ । सखि॑ऽभ्यः ॥
Hellwig Grammar
- taṃ ← tam ← tad
- [noun], accusative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- tvā ← tvad
- [noun], accusative, singular
- “you.”
- śociṣṭha
- [noun], vocative, singular, masculine
- dīdivaḥ ← dīdivas ← dīdī
- [verb noun], vocative, singular
- “shine; glitter.”
- sumnāya ← sumna
- [noun], dative, singular, neuter
- “favor; benevolence; sumna [word]; entreaty; favor.”
- nūnam
- [adverb]
- “now; surely; immediately; just.”
- īmahe ← ī ← √i
- [verb], plural, Present indikative
- “beg; solicit.”
- sakhibhyaḥ ← sakhi
- [noun], dative, plural, masculine
- “friend; companion; sakhi [word].”
सायण-भाष्यम्
शोचिष्ठ अतिशयेन शोचिष्मन् दीदिवः स्वतेजोभिर्दीप्ताग्ने तं त्वां सुम्नाय सुखाय । सुम्नमिति सुखनाम् । तदर्थं सखिभ्यः समानख्यातिभ्यः पुत्रेभ्यः तदर्थं च नूनम् ईमहे याचामहे ॥ ॥ १६ ॥
भट्टभास्कर-टीका
8तं त्वेति ॥ शोचिष्ठ दीपयितृतम ‘तुश्छन्दसि’ इतीष्ठन् । ‘तुरिष्ठेमेयस्सु’ इति टिलोपः । यद्वा - शोचस्वितम । ‘विन्मतोर्लुक्’ । हे दीदिवः दीप्यमान जिगीषन्वा । दिवेर्लिटः क्वसुरादेशः, ‘तुजादीनाम्’ इत्यभ्यासस्य दीर्घत्वम् । तं त्वां तादृशमन्तिकतमत्वादिगुणविशिष्टं त्वां सुम्नाय धनाय सुखाय वा ईमहे याचामहे । नूनमिति पादपूरणे निश्चये वा । यद्वा - नूनं नूतनं अभूतपूवं तं त्वां सखिभ्यः समानख्यानेभ्यः सुहृदयसुहृद्भ्यः । ‘क्रियाग्रहणं कर्तव्यम्’ इति कर्मणस्सम्प्रदानत्वात्सुम्नायेति चतुर्थी ॥
Jamison Brereton
O strongest-blazing, shining (Agni), we now beg you for your favor for (us, your) partners.
Griffith
To thee then, O Most Bright, O Radiant God, we come with prayer for happiness for our friends.
Oldenberg
We entreat thee now, O brightest, shining (Agni), for thy grace, for our friends.
Keith
Thee, O shining and most radiant one,
We implore for favour, for our friends;
Geldner
So bitten wir dich, du Glühendster, Glanzvoller, jetzt um Wohlwollen für uns Freunde.
Grassmann
Denn dich, o hellster, leuchtender, begehren wir zum Heil nun für die Freunde.
अधिमन्त्रम् (VC)
- अग्निः
- बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्च गौपयाना लौपयाना वा
- पूर्वार्द्धस्य साम्नी बृहत्युत्तरार्द्धस्य भुरिग्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
अब अग्निपदवाच्य विद्वान् के गुणों को अगले मन्त्र में कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (शोचिष्ठ) अत्यन्त शुद्ध करने और (दीदिवः) सत्य के जनानेवाले अग्नि के सदृश तेजस्विजन ! (सः) वह आप (नः) हम लोगों को (बोधि) बोध दीजिये और (नः) हम लोगों के (हवम्) पढ़े हुए विषय को (श्रुधी) सुनिये (समस्मात्) सब (अघायतः) आत्मा से पाप के आचरण करते हुए हम लोगों की (उरुष्या) रक्षा कीजिये (तम्) उन (त्वा) आप को (सखिभ्यः) मित्रों से (सुम्नाय) सुख के लिये हम लोग (नूनम्) निश्चित (ईमहे) याचना करते हैं ॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब प्रजा और राजजनों को चाहिये कि राजा के प्रति यह कहें कि आप सब अपराधों से स्वयं पृथक् हो के और हम लोगों की रक्षा करके विद्या का प्रचार और धार्मिक मित्रों के लिये सुख की वृद्धि करके दुष्टों को निरन्तर दण्ड दीजिये ॥४॥ इस सूक्त में अग्निपदवाच्य ईश्वर अर्थात् राजा और विद्वान् के गुण वर्णन करने से इस सूक्त के अर्थ की इस से पूर्व सूक्त के अर्थ के साथ सङ्गति जाननी चाहिये ॥ यह चौबीसवाँ सूक्त और सोलहवाँ वर्ग समाप्त हुआ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे शोचिष्ठ दीदिवोऽग्निरिव राजन् ! स त्वं नो बोधि नो हवं श्रुधी समस्मादघायतो न उरुष्या तं त्वा सखिभ्यः सुम्नाय वयं नूनमीमहे ॥४॥
दयानन्द-सरस्वती (हि) - विषयः
अथाग्निपदवाच्यविद्वद्गुणानाह ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (सः) (नः) अस्माकम् (बोधि) बोधय (श्रुधी) शृणु (हवम्) पठितम् (उरुष्या) रक्ष। अत्र संहितायामिति दीर्घः। (नः) अस्मान् (अघायतः) आत्मनोऽघमाचरतः (समस्मात्) सर्वस्मात् (तम्) (त्वा) त्वाम् (शोचिष्ठ) अतिशयेन शोधक (दीदिवः) सत्यप्रद्योतक (सुम्नाय) सुखाय (नूनम्) निश्चितम् (ईमहे) याचामहे (सखिभ्यः) मित्रेभ्यः ॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सर्वैः प्रजाराजजनै राजानं प्रत्येवं वाच्यं भवान् सर्वेभ्योऽपराधेभ्यः स्वयम्पृथग्भूत्वाऽस्मान् रक्षयित्वा विद्याप्रचारं धार्मिकेभ्यो मित्रेभ्यः सुखं वर्धयित्वा दुष्टान् सततं दण्डयेदिति ॥४॥ अत्राग्नीश्वरविद्वद्गुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति चतुर्विंशतितमं सूक्तं षोडशो वर्गश्च समाप्तः ॥
विश्वास-प्रस्तुतिः ...{Loading}...
वसु॑र् अ॒ग्निर् वसु॑-श्रवाः ।
अच्छा॑ नक्षि+++(=प्राप्नुहि)+++ द्यु॒मत्त॑मो र॒यिन्दाः॑ ॥
सर्वाष् टीकाः ...{Loading}...
Keith
Agni, bright, of bright fame,
Come hither in thy greatest splendour and give us wealth.
मूलम्
वसु॑र॒ग्निर्वसु॑श्रवाः ।
अच्छा॑ नक्षि द्यु॒मत्त॑मो र॒यिन्दाः॑ ॥
भट्टभास्कर-टीका
9वसुरिति ॥ वसुः वसुमान् । मत्वर्थीयो लुप्यते । अग्निः अङ्गनादिगुणयुक्तः वसुश्रवाः वासयतीति वसुः तादृशं श्रवणं यस्य तादृशः । वसुभिर्वा श्रूयत इति वसुश्रवाः । ‘गतिकारकयोरपि इति पूर्वपदप्रकृतिस्वरत्वञ्च’ इत्यसुन् । स त्वमस्मान् अच्च्छ आभिमुख्येन नक्षि प्राप्नुहि । ‘निपातस्य च’ इति संहितायां दीर्घत्वम् । नशतिर्गतिकर्मा ‘बहुळं छन्दसि’ इति शपोलुक् । अस्मान् प्राप्य चास्मभ्यं द्युमत्तमः दीप्तिमत्तमः तं रयिं धनं दाः देहि । दधातेर्लिटि पूर्ववच्छपोलुक् । ‘ह्रस्वनुङ्भ्याम्मतुप्’ इति द्योर्मतुप उदात्तत्वम् ॥
भास्करोक्त-विनियोगः
10पुनश्च गृहांश्च पशूंश्चोपतिष्ठते - ऊर्जा व इति । एतानि यजूंषि ॥
मूलम् (संयुक्तम्)
ऊ॒र्जा वᳶ॑ पश्याम्यू॒र्जा मा॑ पश्यत रा॒यस्पोषे॑ण वᳶ पश्यामि रा॒यस्पोषे॑ण मा पश्य॒त
विश्वास-प्रस्तुतिः
ऊ॒र्जा वᳶ॑ पश्यामि ।
ऊ॒र्जा मा॑ पश्यत ।
Keith
With strength I gaze on you; gaze on me with strength.
मूलम्
ऊ॒र्जा वᳶ॑ पश्यामि ।
ऊ॒र्जा मा॑ पश्यत ।
भट्टभास्कर-टीका
ऊर्जा क्षीरादिना रसेन समग्रास्सदा वः पश्यामि । यूयमपि ऊर्जा रसेन स्नेहेन बलेन वा सहितं मां पश्यत ।
विश्वास-प्रस्तुतिः
रा॒यस्पोषे॑ण वᳶ पश्यामि ।
रा॒यस्पोषे॑ण मा पश्य॒त ।
Keith
With increase of wealth I gaze on you; gaze on me with increase of wealth.
मूलम्
रा॒यस्पोषे॑ण वᳶ पश्यामि ।
रा॒यस्पोषे॑ण मा पश्य॒त ।
भट्टभास्कर-टीका
किञ्च - रायो धनस्य पुत्रपश्वादिलक्षणस्य घासादिलक्षणस्य वा पोषेण वृद्ध्या वः पश्यामि । यूयमपि रायो धनस्य पशुहिरण्यलक्षणस्य पोषेण मां पश्यत । पूर्ववत्सत्वस्वरौ ॥
विश्वास-प्रस्तुतिः ...{Loading}...
इडाः॑+++(=अन्नानि)+++ स्थ मधु॒-कृत॑स्,
स्यो॒ना माऽऽवि॑श॒त॒ +इरा॒ मदः॑ ।
सहस्रपो॒षव्ँ वᳶ॑ पुष्यास॒म्
मयि॑ वो॒ राय॑श् श्रयन्ताम् ॥
सर्वाष् टीकाः ...{Loading}...
Keith
Ye are food, making sweetness;
kindly enter me, nourishment and drink;
may I prosper with your thousandfold prosperity [3], may your wealth rest on me,
मूलम्
इडाः॑ स्थ मधु॒कृत॑स्स्यो॒ना माऽऽवि॑श॒तेरा॒ मदः॑ । स॒ह॒स्र॒पो॒षव्ँवᳶ॑ पुष्यासं [23] मयि॑ वो॒ राय॑श्श्रयन्ताम् ॥
भट्टभास्कर-टीका
11इडास्स्थेत्यादि अनुष्टुप् ॥ इडाः अन्नं स्थ तद्धेतुवात्ताच्छब्द्यम् । मधुकृतः मधुसदृशस्य कृतः कर्त्र्यः उत्पादयित्र्यः ।
उक्तञ्च - ‘एतद्वै देवानां मधु यद्घृतम्’ इति ‘एतद्वै मधु दैव्यं यदाज्यम्, इति च ।
ता यूयं स्योनाः सुखभूताः माम् आविशत । इराः क्षीराद्यन्नाद्यात्मिकाः मदः मदयित्र्यः देवानां मनुष्याणां च हर्षयित्र्यः । मदेर्ण्यन्तात्क्विप् । ‘बहुळं संज्ञाछन्दसोः’ इति णिलुक् ॥ सहस्रपोषमिति व्याख्यातम् ॥
- [ किं बहुना, वः युष्माकं सहस्रपोषं बहुप्रकारमहं पुष्यासं पौष्कल्येनोद्भावयिषीय बह्वीनां युष्माकं सम्बन्धी भूयासम् । गोपोषं पुष्णातीतिवत् सामान्यवचनोन्यतरो द्रष्टव्यः ।]
भास्करोक्त-विनियोगः
12आहवनीयमुप्तिष्ठते - तत्सवितुरिति गायत्र्या ॥
१० तत्सवितुर्वरेण्यं भर्गो ...{Loading}...
त᳓त् सवितु᳓र् व᳓रेण्य᳓+++(णिय)+++म्
भ᳓र्गो+++(=भर्जनम्)+++ देव᳓स्य धीमहि+++(←धा धारणे/ ध्यै ध्याने / धी आराधने)+++ ।
धि᳓यो यो᳓ नः प्रचोद᳓यात् ॥
(परो᳓-रजसे ऽसा᳓वद् ओ᳓३म् ॥)
प्र᳓चो᳓द᳓या᳓त्-स्व᳓रः᳓
प्र᳓ + चु᳓द् + णि᳓च् उ᳓दा᳓त्तः᳓ + श᳓प् अ᳓नु᳓दा᳓त्तः᳓ पि᳓त्त्वा᳓त् + [ले᳓ट् → आ᳓ट् + ति᳓प् अ᳓नु᳓दा᳓त्तः᳓ पि᳓त्त्वा᳓त्]।
प्रा᳓नु᳓दा᳓त्त᳓त्वं᳓ ति᳓ङ᳓न्त᳓स्यो᳓दा᳓त्त᳓व᳓त्त्वा᳓त्। त᳓च्च᳓ य᳓त्का᳓र᳓स᳓द्भा᳓वा᳓त्।
010 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - सविता
- ऋषिः - गाथिनो विश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
त᳓त् सवितु᳓र् व᳓रेणियम्
भ᳓र्गो देव᳓स्य धीमहि
धि᳓यो यो᳓ नः प्रचोद᳓यात्
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M
genre M
genre M
Morph
savitúḥ ← savitár- (nominal stem)
{case:GEN, gender:M, number:SG}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
váreṇyam ← váreṇya- (nominal stem)
{case:NOM, gender:N, number:SG}
bhárgaḥ ← bhárgas- (nominal stem)
{case:NOM, gender:N, number:SG}
devásya ← devá- (nominal stem)
{case:GEN, gender:M, number:SG}
dhīmahi ← √dhā- 1 (root)
{number:PL, person:1, mood:OPT, tense:AOR, voice:MED}
dhíyaḥ ← dhī́- (nominal stem)
{case:ACC, gender:F, number:PL}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
pracodáyāt ← √cud- (root)
{number:SG, person:3, mood:SBJV, tense:PRS, voice:ACT}
yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}
पद-पाठः
तत् । स॒वि॒तुः । वरे॑ण्यम् । भर्गः॑ । दे॒वस्य॑ । धी॒म॒हि॒ ।
धियः॑ । यः । नः॒ । प्र॒ऽचो॒दया॑त् ॥
Hellwig Grammar
- tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- savitur ← savituḥ ← savitṛ
- [noun], genitive, singular, masculine
- “Savitar; sun; Surya; Savitṛ.”
- vareṇyam ← vareṇya
- [noun], accusative, singular, neuter
- “excellent; desirable.”
- bhargo ← bhargaḥ ← bhargas
- [noun], accusative, singular, neuter
- devasya ← deva
- [noun], genitive, singular, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- dhīmahi ← dhā
- [verb], plural, Root aorist (Ind.)
- “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”
- dhiyo ← dhiyaḥ ← dhī
- [noun], accusative, plural, feminine
- “intelligence; prayer; mind; insight; idea; hymn; purpose; art; knowledge.”
- yo ← yaḥ ← yad
- [noun], nominative, singular, masculine
- “who; which; yat [pronoun].”
- naḥ ← mad
- [noun], genitive, plural
- “I; mine.”
- pracodayāt ← pracoday ← √cud
- [verb], singular, Present conjunctive (subjunctive)
- “push; drive; command; excite; proclaim; demand; request; request.”
ब्राह्मणोद्धरणानि
सविता वै प्रसवानामीशे॥
ऋचस्सामानि यजूंषि ।
सा हि श्रीरमृता सताम् ।
सर्वेभ्यो वै वेदेभ्यः
सावित्र्यनूच्यते॥
सायण-भाष्यम्
यः सविता देवः नः अस्माकं धियः कर्माणि धर्मादिविषया वा बुद्धीः प्रचोदयात् प्रेरयेत्
तत् तस्य देवस्य सवितुः सर्वान्तर्यामितया प्रेरकस्य जगत्स्रष्टुः परमेश्वरस्य वरेण्यं सर्वैः उपास्यतया ज्ञेयतया च संभजनीयं भर्गः अविद्यातत्कार्ययोर्भर्जनाद्भर्गः स्वयंज्योतिः परब्रह्मात्मकं तेजः धीमहि वयं ध्यायामः ।
यद्वा । तत् इति भर्गोविशेषणम् । सवितुः देवस्य तत्तादृशं भर्गो धीमहि। किं तदित्यपेक्षायामाह । यः इति लिङ्गव्यत्ययः। यद्भर्गो धियः प्रचोदयात् । तत् ध्यायेमेति समन्वयः।
यद्वा । यः सविता सूर्यो धियः कर्माणि प्रचोदयात् प्रेरयति तस्य सवितुः सर्वस्य प्रसवितुः देवस्य द्योतमानस्य सूर्यस्य तत्सर्वैः दृश्यमानतया प्रसिद्धं वरेण्यं सर्वैः संभजनीयं भर्गः पापानां तापकं तेजोमण्डलं धीमहि ध्येयतया मनसा धारयेम ।
यद् वा - भर्गः-शब्देनान्नम् अभिधीयते ।
यः सविता देवो धियः प्रचोदयति तस्य प्रसादाद् भर्गो ऽन्नादि-लक्षणं फलं धीमहि धारयामः । तस्याधार-भूता भवेमेत्य् अर्थः । भर्गः-शब्दस्यान्नपरत्वे धी-शब्दस्य कर्मपरत्वे चाथर्वणं - ‘ वेदांश्छन्दांसि सवितुर्वरेण्यं भर्गो देवस्य कवयोऽन्नमाहुः । कर्माणि धियस्तदु ते प्रब्रवीमि प्रचोदयत्सविता याभिरेति’ (गो. ब्रा. १. ३२) इति ॥
भर्गः । ‘ भ्रस्ज पाके’। असुन् । ‘ भ्रस्जो रोपधयो रमन्यतरस्याम् ’ ( पा. सू. ६. ४. ४७ ) इति रोपधयोर्लोपो रमागमः । न्यङ्वांरसदिपाठात् कुत्वम् ।
धीमहि । ध्यायतेर्लिङि ‘बहुलं छन्दसि ’ इति ‘संप्रसारणम् । व्यत्ययेनात्मनेपदम् ।
यद्वा - ‘धीङ् आधारे’ । लिङि ‘ बहुलं छन्दसि ’ इति विकरणस्य लुक् ।
प्रचोदयात् । चोदयतेर् लेट्याडागमः । यद्-वृत्त-योगाद् अनिघातः । आगमस्यानुदात्तत्वे णिचः स्वरः ॥ ॥ १० ॥
भट्टभास्कर-टीका
तत् तस्य ‘सुपां सुलुक्’ इति षष्ठ्या लुक् । तस्य सवितुः देवस्य दाना[देवना]दिगुणयुक्तस्य स्वभूतं तत्प्रसादलभ्यं वा अत एव वरेण्यं वरणीयं सर्वैः प्रार्थनीयं भर्गः तेजः अन्नं धनं वा वयं धीमहि धारयेम तस्यैव प्रसादात् तस्याधारभूता भवेम । धीङ् आधारे दैवादिकः । ‘छन्दसि लुङ्लङ्लिटः’ इति लङि ‘बहुलं छन्दस्यमाङ्’ इत्यडभावः । दधातेर्वा लिङ् । सर्वत्र ‘बहुलं छन्दसि’ इति शपोलुक् ।
कस्येत्याह - यो देवस्सवितास्माकं धियः कर्माणि प्रचोदयात् प्रचोदयेत् प्रवर्तयेत् ।
यद्वा - धियः धर्मादिगोचराः बुद्धीः प्रचोदयात् प्रेरयेत् । लेट्य् आडागमः ।
तस्य सवितुर् इति - यद्वा - सवितुर् देवस्य तद् अन्नादि धीमहि ।
किमित्याह - य इति । लिङ्गव्यत्ययः । यद् अस्माकं धियः प्रचोदयात् प्रेरयति ।
यद्वा - यो देवस् सविता विश्वस्य प्रसवितास्माकं धर्मादिगोचराः धियः प्रेरयति तस्य स्वभूतं वरेण्यं सर्वैर्भजनीयं भर्गः पापानां तापनं तेजो मण्डलात्मकं धीमहि मनसा धारयामः । ध्यायतेरेव वा छान्दसं सम्प्रसारणम् ।
एवं बोधप्रकाशाभ्यां समस्तस्य प्रपञ्चस्य उपकुर्वाणं श्रेयोर्थिभिर् भजनीयं सूर्यात्मना स्थितं पारमेश्वरं तेज उपास्यत्वेन उपदिश्यते ॥
हरदत्तः
अथ सावित्री - तत्सवितुरिति ॥
तच्-छब्दश्रुतेः यच्-छब्दोभ्याहर्तव्यः । यत् सर्वेषां ध्येयं तद्देवस्य सवितुः वरेण्यं वरणीयं भर्गः पापानां भर्जनं तेजोमयं रूपं वयं धीमहि ध्यायामः । कीदृशस्य सवितुः? यो नः अस्माकं सर्वेषां धियो धर्मादिविषया वृद्धिः प्रचोदयात् प्रेरयेत् ।
सवित्राभ्यनुज्ञातो हि सर्वोपि कर्म करोति सविता वै प्रसवानामीशे इति ब्राह्मणम् ॥
विद्यारण्यः
अथ सर्वदेवात्मनः सर्वशक्तेः सर्वावभासक-तेजो-मयस्य परमात्मनः सर्वात्मकत्व-द्योतनार्थं सर्वात्मकत्व-प्रतिपादक-गायत्री-महा-मन्त्रस्योपासन-प्रकारः प्रकाश्यते ।
तत्र गायत्रीं प्रणवादि-सप्त-व्याहृत्य्-उपेतां शिरःसमेतां सर्व-वेद-सारम् इति वदन्ति। एवं-विशिष्टा गायत्री प्राणायामैर् उपास्या ।
सप्रणव- व्याहृति-त्रयोपेता प्रणवान्ता गायत्री जपादिभिर् उपास्या ।
तत्र शुद्ध-गायत्री प्रत्यग्-ब्रह्मैक्य-बोधिका ।
धियो यो नः प्रचोदयाद् इति । नो ऽस्माकं, धियो बुद्धिय, प्रचोदयाद् प्रेरयेदिति सर्वबुद्धि-संज्ञातः करण-प्रकाशक-सर्व-साक्षी प्रत्यग्-आत्मेत्य् उच्यते । तस्य प्रचोदयात्-शब्द-निर्दिष्टस्यात्मनः स्वरूप भूतं परं ब्रह्म तत् सवितुर् इति+आदि-पदैर् निर्दिश्यते ।
“तत्र ओं तत् सद् इति निर्देशो ब्रह्मणस् त्रिविधः स्मृतः” इति तच्-छब्देन प्रत्यग्भूतं स्वतः सिद्धं परं ब्रह्मोच्यते ।
सवितुर् इति सृष्टिस्थितिलय-लक्षणकस्य सर्व-प्रपञ्चस्य समस्त-द्वैत-विभ्रमस्याधिष्ठानं लक्ष्यते ।
वरेण्यम् इति सर्व-वरणीयं निरतिशयानन्द-रूपम् ।
भर्ग इत्य् अविद्यादि- दोष-भर्जनात्मक-ज्ञानैक-विषयम् ।
देवस्येति सर्व-द्योतनात्मकाखण्ड-चिद्-एक-रसम् ।
सवितुर् देवस्येत्यत्र षष्ठ्यर्थो राहोः शिर इतिवद् औपचारिकः बुद्ध्यादि-सर्व-दृश्य-साक्षि-लक्षणं यन् मे स्व-रूपं तत्-सर्वाधिष्ठान-भूतं परमानन्दं निरस्त-समस्तानर्थ-रूपं स्व-प्रकाश-चिद्-आत्मकं ब्रह्मेत्य् एवं धीमहि ध्यायेम ।
एवं सति सह ब्रह्मणा स्व-विवर्त-जड-प्रपञ्चस्य रज्जु-सर्प-न्यायेन अपवाद-सामानाधिकरण्य-रूपम् एकत्वं, सोऽयम् इति न्यायेन सर्व-साक्षि-प्रत्यग्-आत्मनो ब्रह्मणा सह तादात्म्य-रूपम् एकत्वं भवतीति सर्वात्मक-ब्रह्म-बोधकोऽयं गायत्री-मन्त्रः सम्पद्यते ।
सप्तव्याहृतिनामयमर्थः—
भूर् इति सन्-मात्रम् उच्यते
भुव इति सर्वं भावयति प्रकाशयतीति व्युत्पत्त्या चिद्-रूपम् उच्यते ।
सुवर् इति - सुव्रियत इति व्युत्पत्त्या, सुष्ठु सर्वैर् व्रियमाण-सुख-स्वरूपम् उच्यते ।
मह इति महीयते पूज्यत इति व्युत्पत्त्या सर्वातिशयत्वम् उच्यते ,
जन इति—जनयतीति जनः, सकल-कारणत्वमुच्यते ।
तप इति सर्व-तेजो-रूपत्वम् ।
सत्यम् इति सर्व-बाध-रहितम् ।
एतद् उक्तं भवति—
यल् लोके सद् रूपं तदोंकार-वाच्यं ब्रह्मैव, आत्मनोऽस्य सच्-चिद्-रूप-स्वभावाद् इति ।
अथ भूरादयः सर्वलोका ओंकार-वाच्य-ब्रह्मात्मकाः,
न तद्-व्यतिरिक्तं किंचिद् अस्तीति व्याहृतयो ऽपि सर्वात्मक-ब्रह्मबोधिकाः ।
गायत्री-शिरसोऽप्य् अयम् एवार्थः—
आप इत्य् आप्नोतीति व्युत्पत्त्या व्यापित्वम् उच्यते
ज्योतिर् इति प्रकाशरूपत्वम् ।
रस इति सर्वातिशयत्वम् ।
अमृतम् इति मरणादि संसारनिर्मुक्तत्वम् ।
सर्व-व्यापि-सर्व-प्रकाशक-सर्वोत्कृष्ट-नित्य-मुक्तम् आत्मरूपं सच्-चिद्-आत्मकं यद् ओंकार-वाच्यं ब्रह्म तद् अहम् अस्मि ।
इति गायत्रीमन्त्रस्यार्थः ।
गुहाशय-ब्रह्म-हुताशनोऽहं
कर्त्रेदम् अंशाख्य-हविर्-हुतं सत्।
विलीयते नेदम् अहं भवानीत्य्
एष प्रकारस् तु विभिद्यतेऽत्र ॥
यद् अस्ति यद् भाति तद् आत्मरूपं
नान्यत् ततो भाति न चान्यद् अस्ति ।
स्वभाव-संवित्-प्रविभाति केवला
ग्राह्यं ग्रहीतेति मृषैव कल्पना ॥
विश्वामित्रः
देवस्य सवितुस् तस्य
धियो यो नः प्रचोदयात् ।
भर्गो वरेण्यं तत् ब्रह्मा
धीमहीत्य् अर्थ उच्यते ।
यो देवस् सविताऽस्माकं
धियो धर्मादिगोचराः ।
प्रेरयेत् तस्य यद् भर्गस्
तद्वरेण्यम् उपास्महे ।
…
आदित्यमण्डलासीनं
रुक्माभं पुरुषं परम् ।
ध्यायञ् जपेत् तद् इत्य् एतां
निष्कामो मुच्यतेऽचिरात् ॥
सुप्रभं सत्यम् आनन्दं
हृदये मण्डलेऽपि च ।
ध्यायन् जपेत् तदित्येतां
निष्कामो मुच्यतेऽचिरात् ॥
स यश्चायं पुरुषे यश् चासाव् आदित्ये स एकः
इति ध्यानार्थः॥
विद्यारण्यः - हिन्दी
शुद्ध गायत्री जीवात्मा और ब्रह्म की एकता का सूचक है। ‘धियोयोनः प्रचोदयात्’ अर्थात् हमारी बुद्धि को प्रेरणा देता है तथा जो अन्तःकरण की प्रकाशिका तथा सर्व साक्षी है उसे प्रत्यगात्मा कहा जाता है। उस प्रचोदयात् शब्द से आत्मा स्वरूप भूत परब्रह्म का तत् सवितुः आदि पदों से कथन किया है। यहां ‘ॐ’ तत्सत् इस पद से ब्रह्म के तीन प्रकारों का वर्णन है। तत् शब्द स्वतः सिद्ध सब भूतों में स्थित परब्रह्म के लिए कहा जाता है। सविता, सृष्टि, स्थिति, प्रलय लक्षण वाले सब प्रपंच के, समस्त द्वैत भ्रम के अधिष्ठान हैं। वरेण्यं सर्व वरणीयं, निरतिशय एवं आनन्द रूप है। ‘भर्ग’ अविद्या रूपी दोष को नष्ट करने वाला ज्ञान रूप है। ‘देवस्य’ सबका प्रकाशक अखण्ड-आत्मा एवं रस वाला देव है। ‘सवितुर्देवस्य’ यहां षष्ठी है। सम्बन्ध कारक है। राहोः शिरो की तरह औपचारिक है। बुद्धि से सब पदार्थों का साक्षी रूप जो मेरा स्वरूप है वह सब का अधिष्ठान है। उस परमानन्द, सब अनर्थ रहित, स्वयं प्रकाश चैतन्य रूप ब्रह्म का ध्यान करते हैं। इस तरह ब्रह्म अपने ही विवर्त भूत जड़ जगत रज्जु में सर्प की तरह अपवाद है। समान अधिकरण होने से एक रूपता है। इस तरह सब का साक्षी जीवात्मा ब्रह्म के साथ तादात्म्य होने के कारण एकत्व है। यह गायत्री मंत्र सर्वात्मक ब्रह्म का बोध कराने वाला है। तीन महाव्याहृतियों का अर्थ यों है। भूः का अर्थ सत है, भुवः सब का प्रकाशक (इस व्युत्पत्ति से चिद् रूप कहलाता है) स्वः सुव्रियते इस व्युत्पत्ति से सबसे प्रथिति सुख रूप है।
वेङ्कटनाथः
प्रतिपुरुषम् अनेकाः, प्रत्य्-अवस्थं विचित्राश्
शुभ-गतिषु धियो नश् चोदयत्य् अञ्जसा नः ।
अखिल-चिद्-अचिद्-अन्तर्-यामि-तद्-विष्णु-संज्ञं
सवितुर् अहम् उपासे तस्य देवस्य भर्गः ॥
इति शतदूषणी।
तेजः परं तत् सवितुर् वरेण्यं
धाम्ना परेणाप्रणखात् सुवर्णम् ।
त्वां पुण्डरीकेक्षणम् आमनन्ति
श्रीरङ्गनाथं समुपासिषीया ।
इति श्रीरङ्गराजस्तवः।
चिन्नाण्डवन् - आह्निकार्थप्रकाशिका
… अनयोर् वचनयोर् भर्गशब्दस्य तेजःपरत्वेन
यच्-छब्दस्य सवितृ-परत्वेन च व्याख्यानं कृतं वरदराजीये -
तच्-छब्द-श्रुतेर् यच्छब्दो ऽध्याहर्तव्यः ।
सवितुः जगतां प्रसवितुः,
सवि॒ता वै प्र॑स॒वाना॑मीशे,
उ॒तेशि॑षे प्रस॒वस्य॒ त्वमेक॒
इति श्रुतेः ।
वरेण्यं वृङ् संभक्तौ एण्यप्रत्ययः ।
सर्वेषां भजनीयं भर्गः तेजः ।
भञ्जनाद् भर्गः, प्रकाश-प्रदानेन जगतो बाह्यान्तर-तमो-भञ्जकत्वाद् वा,
भर्जनाद् वा कालात्मकतया सकल-कर्म-फल-पाक-हेतुत्वात्,
भरणाद् वा वृष्टि-प्रदानेन भूतानां भरण-हेतुत्वात् ।
देवस्य द्योतमानस्य धीमहि चिन्तयामः ।
“ध्यै चिन्तायाम्”।
देवस्य सवितुः वरेण्यं यद्भर्गः तत् ध्यायेम ।
आदित्यमण्डलान्तर्वर्तिनं तेजोमयं पुरुषम् अनुचिन्तयामः ।
य एषोऽन्तरादित्ये हिरण्मयः पुरुषः,
अथ य एष एतस्मिन् मण्डलेर्चिषि पुरुषः
इत्यादिश्रुतेः ।
यः सविता, नः अस्माकं,
धियः हानोपादान-विषय-ज्ञानानि,
प्रचोदयात् प्रचोदयति,
तत्सवितुः भर्गश् चिन्तयाम इति ।
… एवं च सवितृ-मण्डलान्तर्-वर्ति-पुण्डरीकाक्षं सकल-जगदाधारं विष्णुसंज्ञं
यद् भर्गस् तेजः
तत् तेजश् चिन्तयाम इति सिद्धम् ।
अत्र मैत्रावरुणीयश्रुतिः +++(=(मै.उ.६-३४))+++ -
एतत् सवितुर् वरेण्यं ध्रुवम् अचलम् अमृतं भर्गाख्यं विष्णुसंज्ञं सर्वाधारं धाम
इति ।
अहिर्बुध्न्यसंहिता
सावित्रं नाम तज् ज्योतिः
तत् सावित्रीसमाह्वयम् ।
तस्य व्याख्याम् इमां सम्यग्
गदतो मे निशामय ।
प्रतिसञ्चर-वेलायां
ताम् अयत्य्+++(←पदविग्रहः??)+++ एव तां पुनः ।
त्रायते तत्र तत्रैव
भूत्य्-अंशे धारकात्मना ।
प्रमाणत्वेन भूयश् च,
तत्-तद्-अर्थतया +++(→प्रमेयतया)+++ पुनः +++(प्रतिभाति?)+++ ।
अतस् तद् इति सङ्कल्पः
प्रोच्यते वैष्णवः परः ।
प्रसौति सकलां चेष्टां
प्रसौति सकलं जगत् ।
अवतेर् गतिकान्त्य् अर्थात्
तरतेर् दानकर्मणः ।
गतो ह्य् अवति सर्वत्र
षड्भिः कान्तो गुणैः परम् ।
भोगापवर्गयोर् दाता
सवितेति निरुच्यते ।
वरैर् नेयं वरेण्यन् तु
वरदातार ईरिताः ।
वरेणियं वरेण्यं वा
वरं नयति तत्परम् ।
भर्गस् तेजस् समाख्यातं
प्रभावः कर्तृरूपता ।
भरतीदं जगत्कृत्स्नं
सम्भरत्य् अपि चेश्वरान् ।
रमयत्य् अपि तत्सर्वं
राति चार्थम् अभीप्सितम् ।
गमयत्य् अपि तन् नाशं
स्मृति-बन्धम् अशेषतः ।
भर्गयत्य् अपि तत्-कष्टं
भर्गतस् तेन तत्तथा ।
अतो भर्गः परं विष्णोः
सङ्कल्पं विदुर् अद्भुतम् ।
द्योतनस् सर्वभावानां
द्योतमानः स्वयं सदा ।
अज्ञानम् अखिलं चान्यच्
चोदयन्न् अखिलञ् जगत् ।
अयं सकलम् एवेदं
तथोतं मणि-सूत्रवत् ।
इन ईरण ईभ्यश् च
परितस् सकलं दधत् ।
देव इत्य् उच्यते विष्णुः
परमात्मा सनातनः ।
धीमहीत्य् अधिविज्ञानं
मननं भावनं तथा ।
धियो धीपूर्विकाश् चेष्टाः
प्रेरणन् तु प्रचोदनम् ।
यस् सर्व-शक्तिस् सविता
देवस् संविन्-मयश् च यः ।
यश् च सर्वदिगीशानो
धियस् तास् ताः प्रचोदयात् ।
सृष्टि-स्थिति-लय-त्राण-
त्रिधा-करणम् अव्ययम् ।
तस्य देवस्य सङ्कल्पं
भर्ग-संज्ञम् उपास्महे ।
गायतस् त्रायमाणायाः
गायत्र्या अर्थ ईदृशः ।
या सत्ता सर्वभूतानां
विष्णुशक्तिः परावरा ।
सा भूर् इति समाख्याता
भरतीदं जगत्स्वयम् ।
भू(त)त्वा शक्तिं समास्थाय
यावतीदं जगत् स्वयम् ।
सा भुवः कथिता सद्भिर्
अवती भावितं जगत् ।
वसीयो भोग-मोक्षाख्यं
सूते या सततं सताम् ।
सा सुवः कथिता ब्रह्मन्
व्याहृती वाङ्मयी ततः ॥
नित्यानन्दमिश्रः - प्रचोदयात्
प्र + चुद सञ्चोदने (चुरादिगण १०.४९) + णिच् + लेट् (शप् + तिप्) = प्रचोदयात्। लेटि छान्दसरूपमिदम्।
निष्पत्तिः
प्र चुद → अनुबन्धलोपः → प्र चुद् → सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (३.१.२५) → प्र चुद् णिच् → अनुबन्धलोपः → प्र चुद् इ → पुगन्तलघूपधस्य च (७.३.८६) → प्र चोद् इ → प्र चोदि → सनाद्यन्ता धातवः (३.१.३२) → लः कर्मणि च भावे चाकर्मकेभ्यः (३.४.६९) → विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् (३.३.१६१) → लिङर्थे लेट् (३.४.७) → शेषात्कर्तरि परस्मैपदम् (१.३.७८) → प्र चोदि तिप् → कर्तरि शप् (३.१.६८) → प्र चोदि शप् तिप् → अनुबन्धलोपः → प्र चोदि अ ति → सार्वधातुकार्धधातुकयोः (७.३.८४) → प्र चोदे अ ति → लेटोऽडाटौ (३.४.९४) → आद्यन्तौ टकितौ (१.१.४६) → प्र चोदे अ आट् ति → अनुबन्धलोपः → प्र चोदे अ आ ति → एचोऽयवायावः (६.१.७८) → प्र चोदय् अ आ ति → अकः सवर्णे दीर्घः (६.१.१०१) → प्र चोदय् आ ति → इतश्च लोपः परस्मैपदेषु (३.४.९७) → प्र चोदय् आ त् → प्रचोदयात्।
अर्थः
यदि प्रार्थने लिङ् स्वीक्रियते तर्हि ‘लिङर्थे लेट्’ (३.४.७) इत्यनेन लेटि सिद्धस्य ‘प्रचोदयात्’ इत्यस्य “प्रकर्षेण सञ्चोदनं कुर्यात्” इत्यर्थः। यदि लडर्थे बहुलव्यत्ययाल्लेट् स्वीक्रियते तर्हि ‘प्रचोदयात्’ इत्यस्य “प्रकर्षेण सञ्चोदनं करोति” इत्यर्थः।
सम्पुटीकरणादि
वृद्धयमस्मृतौ तृतीयाध्याये -
वरेण्यं विरलं जप्यं
जपकाले द्विजोत्तमैः ।
वरेण्यं संहिताकाले
वरेणीयं जपे स्मृतम् ॥
काश्यपस्मृतौ -
एक-प्रणव-संयुक्तां
गायत्रीं प्रजपेद् गृही ।
ब्रह्मचारी च सन्ध्यासु
नियतो नियतेन्द्रियः ।
वनी सम्पुट-गायत्रीं
यतिष् षड्-प्रणवान्विताम् ॥
वृद्धयमस्मृतौ तृतीयाध्याये -
एकोङ्कारा सम्पुटा च
षडोङ्कारेति सा त्रिधा ।आद्य्-अन्तोंकार-संयुक्ता
गायत्री संपुटा स्मृता ।सहोङ्कारा व्याहृतयः
पुनरोङ्कारसंयुताः ।
मनोर् आदावथाऽन्ते च
षडोङ्कारेयम् उच्यते । … ओङ्कारं पूर्वमुच्चार्य
भूर्भुवः स्वस्ततः परम् ।
गायत्रीं च ततश् चोक्त्वा
जपकाले विशेषतः ॥
सहस्रकृत्वस् सावित्रीं
जपेद् अव्यग्र-मानसः ।
शतकृत्वोऽपि वा सम्यक्
प्राणायामपरो यदि ।
सप्त-व्याहृति-पूर्वां चेद्
आद्यन्तप्रणवान्विताम् ।
मनसा वा जपेच् चैव
दशकृत्वो वरः स्मृतः ॥
इति योगयाज्ञवल्क्य-वचन-ग्रहणम्॥
मानसतरङ्गिणीकृत्
May we focus on the excellent radiance of the deva Savitṛ who will inspire our insights.
Wilson
English translation:
“We meditate on that desirable light of the divine Savitā, who influences our pious rites.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Yajus. 3.35;
Pracodayāt = who may animate, or enlighten our intellect;
Savitā = the soul, as one with the soul of the world, Brahma; when we meditate on the light which is one with Brahma, his own light, which, from its consuming influences on ignorance and its consequences, is termed Bhargas, and is that which is desirable, from its being to be known or worshiped by all (vareṇyam) the property of the supreme being, (parameśvara), the creator of the world, and the animator, impeller or urger (savitā), through the internally abiding spirit (antaryām) of all creatures; yaḥ, although masculine, may be relative to the neuter noun bhargas, that light which animates all (dhiyaḥ) acts (karmāṇi), or illumes all understanding (buddhiḥ); again, devasya savituḥ may mean, of the bright or radiant sun, as the progenitor of all, sarvasya prasavitur, and bhargas may be understood as the sphere or orb of light, the consumer of sins, pāpānām tāpakam tejo maṇḍalam; bhargas may also mean food, and the prayer may only implore the sun to provide sustenance, tasya prasādād annādi lakṣaṇam phalam dhīmahi tasya ādhārabhūta bhavema, we anticipate from his favour the reward that is characterized by food and the like, that is, may we be supported by him
Jamison Brereton
Might we make our own that desirable effulgence of god Savitar, who will rouse forth our insights.
Jamison Brereton Notes
And here, buried in this not particularly noteworthy hymn, is the Gāyatrī mantra, which is itself not particularly noteworthy on its own terms.
Note the play on dhīmahi / dhíyaḥ juxtaposed across the hemistich boundary, belonging to different roots.
10-12 ...{Loading}...
Jamison Brereton Notes
All three vss. in this tṛca contain déva- (…) savitár- (or vice versa).
Griffith
May we attain that excellent glory of Savitar the God:
So May he stimulate our prayers.
Keith
That excellent glory of Savitr
The god we meditate,
That be may stimulate our prayers.
Geldner
Dieses vorzügliche Licht des Gottes Savitri empfingen wir, der unsere Gedanken anregen soll.
Grassmann
Dass wir des Gottes Savitar begehrtes Licht erlangten doch, Der unsre Bitten fördere.
Elizarenkova
Мы хотим встретить этот желанный
Блеск бога Савитара,
Который должен поощрять наши поэтические мысли!
मानसतरङ्गिणीकृत् - टिप्पनी
The mantra-s
The Sāvitrī is the core mantra used in Savitrupāsanā. It also has other notable deployments, which will be described later. Its ṛṣi is Viśvāmitra of the clan of Gāthin, the chandas is nicṛd gāyatrī and the devatā is Savitṛ. It is from the 3_r__d_ maṇḍala of the Ṛgveda (RV 3.62.10). The meter is termed nicṛd gāyatrī because the syllable count is 23, one short of the usual 24 for a gāyatrī. This arises due to the intrinsic saṃdhi, which creates वरेण्यम् from वरेणियम् . The Sāvitrī goes thus:
तत् स॑वि॒तुर् वरे॑ण्य॒म् भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
Given the popularity of the Sāvitrī it is common to see numerous translations of the same; however, these often do not get certain aspects of the Old Vedic register of Sanskrit. It is important that one does the japa of this mantra with a proper grasp of its sense in the original language. Hence, we provide a translation of the mantra in full here.
tat= that; Savituḥ= of Savitā; vareṇyam= excellent or desirable; bhargaḥ= radiance (neuter accusative); devasya= of the god; dhīmahi= may we fix [our mind]/ may we focus on; dhiyaḥ= insights (plural of dhī); yaḥ= who; nas= our; pracodayāt= may he inspire.
There are a few key points to make note of: first, the verb form dhīmahi; this is the āśīr-liṅ (benedictive) 1st person plural form of the root dhā, which belongs to class 3 (juhotyādi gaṇa). We are unaware of the occurrence of other āśīr-liṅ forms of the verb dhā in the RV. It is used symmetrically with the 3rd person singular āśīr-liṅ form of the verb pra-cud i.e. pracodayāt. These forms are not commonly used outside of such mantra-s suggesting that it was an ancient usage of a verb-pair presenting a relationship between the worshipers (dhīmahi) and the god (pracodayāt).
Second, the name of the god Savitṛ is commonly combined with the word deva (god). This combination probably again has an ancient connotation, which is reflected in theonyms of other Indo-European branches like proto-Germanic *Tiwaz → Tyr. It (theos) was probably also used in this sense for the Greek Hyperion1, the likely cognate of Savitṛ, in the Homeric language.
Third, the word dhiyaḥ, has been specifically chosen for alliteration with dhīmahi2. It means not just any thought but specifically inspired thought or insight that leads to the “seeing” of special knowledge, such as that embodied in a Vedic mantra.
Thus, we get,
May we focus on the excellent radiance of the deva Savitṛ who will inspire our insights.
Adjuncts
The Sāvitrī is prefixed with the three vyāhṛti-s for the actual japa.
भूर् भुवः सुवः ।
The three basic vyāhṛti-s are to understood as the three realms, the earth, the atmosphere and the heavens, which are pervaded by the light of the god Savitṛ. These are given above in the Yajurvedic form, which may also be followed in Atharvavedic tradition. In the Ṛgvedic tradition the internal saṃdhi is enacted and we have स्वः for सुवः. The mysteries of these vyāhṛti-s are explained, among other places, in the Taittirīya-śruti.
For the practice of prāṇāyāma, it is prefixed with the 7 vyāhṛti-s.
ॐ भूः । ॐ भुवः । ओग्ँ सुवः । ॐ महः । ॐ जनः । ॐ तपः । ओग्ँ सत्यम् ।
These may be understood as a larger set of 7 regions of space, which are pervaded by the light of Savitṛ. The nasals preceding sa are given as per the Yajurvedic tradition. They are rendered as the usual nasals in the RV and AV traditions.
It suffixed by the incantation known as the brahmaśiras.
ॐ आपो॒ ज्योती॒ रसो॒ ऽमृतं॒ ब्रह्म॒ भूर्-भुव॒-सुव॒रो३म् ॥
Here, āpaḥ= waters; jyotiḥ= light; rasaḥ= life fluids; amṛtaṃ= immortality; brahma= mantra-power. bhūḥ, bhuvaḥ and suvaḥ and the three main vyāhṛti-s
Then there is the four-footed form which is a mystery teaching in the śruti of the Śukla-yajurvedin-s. This is obtained by adding the below.
प॒रो-र॑जसे॒ ऽसाव॒द् ओ३म् ॥
This technically converts it into an anuṣṭubh due the addition of 8 additional syllables. In the mystery teaching it is termed the beautiful or the vivid foot that is beyond the immediate space (rajas: see section below for details). In the same teaching it is revealed that the 4_t__h_ foot is a critical aspect of both abhicārika and vṛddhi deployments of the Sāvitrī. Indeed, combined with the teaching of Śaunaka it might be deployed along with the Sāvitrī with syllables inverted (viparīta-prayoga) for abhicārika purposes.
The Atharvan tradition gives a saṃpuṭikaraṇa of the Sāvitrī known as the Mahāsāvitrī. It goes thus:
ॐ भूः । ॐ भुवः । ॐ स्वः । ॐ महः । ॐ जनः । ॐ तपः । ॐ स॒त्यं ।
ॐ तत् स॑वि॒तुर् वरे॑ण्य॒म् भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
ॐ आपो॒ ज्योती॒ रसो॒ ऽमृतं॒ ब्रह्म॒ भूर्-भुव॒-सुव॒रो३म् ॥
ॐ भूर्-भुवः-सुवर्-महर्-जनस्-तपः सत्यं मधु॑ क्षरन्ति ।
ॐ आपो॒ ज्योती॒ रसो॒ ऽमृतं॒ ब्रह्म॒ भूर्-भुव॒-स्वरो३म् ।
ओम्॑ तद्-ब्र॒ह्म । ओम्॑ तद्-वा॒युः । ओम्॑ तद्-आ॒त्मा । ओम्॑ तत्-स॒त्यम् । ओम्॑ तत्-सर्वम्॑ । ओम्॑ तत्-पुरों॒ नमः ॥
Some hold that deploying this form of the mantra 10× can be considered an equivalent of deploying the regular version 108×. This mantra is also seen as a combination of that of the gods Savitṛ and Vayu. These two are an ancient pair as indicated by the Mṛgāra mantra-s. Savitṛ pervades space with light, while the Vayu pervades it as the rarefied substance and the force which holds the celestial bodies together. These two thus form the foundation of existence.
The Atharvan tradition also teaches the mystery deployment, which adds the Atharvaśiras comprised of the Atharvanic high vyāhṛti-s.
ॐ भुर्-भुवः-स्वः ।
ॐ तत् स॑वि॒तुर् वरे॑ण्य॒म् भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
ॐ भूर् भुवः स्वर् जनद् वृधत् करद् रुहन् महत् तच् छम् ओम् ॥
Here, the vyāhṛti-s janad, vṛdhat, karat, ruhat, mahat, tat, śam and oṃ are the special vyāhṛti-s of the Bhṛgvāṅgiras. These are part of the secret teaching of the Atharvan. The knower of the Bhṛgvāṅgirasa-śruti may use this deployment to protecting himself while attacking his enemies with the stoma-bhāga-prayoga.
The viparīta-prayoga (inverse deployment) is specified for abhicārika purposes.
त्यादचोप्र नो यो योधि ।
हिमधी यस् व दे गोर्भ ।
म्यणिरेव तुर्विस त्त ॥
A variant inverse deployment involves merely inverting the three feet.
धियो॒ यो नः॑ प्रचो॒दया॑त् । भर्गो॑ दे॒वस्य॑ धीमहि । तत् स॑वि॒तुर् वरे॑णि॒यों ॥
The mysteries
The śruti of the the Vājasaneyin-s provides a mystery teaching regarding the Sāvitrī, which associates the 3 feet of the core mantra with a triad of triads, which is summarized below.
- भूमिः अन्तरिक्षम् द्यौस्
- ऋचः यजूंषि सामानि
- प्राणः अपानः व्यानः
The one who meditates on the Sāvitrī with this knowledge is understood as penetrating
- the realms of the universe with the first triad,
- the realms of Veda-s with the second triad and
- realms of life with the the third triad.
The fourth foot is said to blaze beyond the expanse of the visible space, the “rajas” and its knowledge confers splendor.
The Atharvan tradition holds (the teaching of Maudgalya to Glāva Maitreya) that the Sāvitrī is pervaded by the god Deva Savitṛ and his consort Sāvitrī in the form of 12 pairs of forms corresponding to each syllable (Figure). In these forms the two deities pervade the universe and the ritual. This presentation in the Atharvan tradition is consistent with the statement of Vāmadeva Gautama in the RV: आप्रा॒ रजां॑सि दि॒व्यानि॒ पार्थि॑वा॒ in RV 4.53.3, i.e. celestial and the earthly realms. The three feet of the Sāvitrī are described giving rise to three sequences of emanations that culminate in the ritual observance of the brāhmaṇa (Figure below; lower panel). The ritualist who performs the deployment of the Sāvitrī with the appropriate knowledge of the omniform manifestation of Savitṛ and his consort and the emanations of the three feet meets with success.
The structure and the emanations of the Sāvitrī as per the Atharvan tradition
अधिमन्त्रम् (VC)
- सविता
- गोपवन आत्रेयः सप्तवध्रिर्वा
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहते हैं।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! सब हम लोग (यः) जो (नः) हम लोगों की (धियः) बुद्धियों को (प्रचोदयात्) उत्तम गुण-कर्म और स्वभावों में प्रेरित करै उस (सवितुः) सम्पूर्ण संसार के उत्पन्न करनेवाले और सम्पूर्ण ऐश्वर्य्य से युक्त स्वामी और (देवस्य) सम्पूर्ण ऐश्वर्य के दाता प्रकाशमान सबके प्रकाश करनेवाले सर्वत्र व्यापक अन्तर्यामी के (तत्) उस (वरेण्यम्) सबसे उत्तम प्राप्त होने योग्य (भर्गः) पापरूप दुःखों के मूल को नष्ट करनेवाले प्रभाव को (धीमहि) धारण करैं ॥१०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य सबके साक्षी, पिता के सदृश वर्त्तमान, न्यायेश, दयालु, शुद्ध, सनातन, सबके आत्माओं के साक्षी परमात्मा की ही स्तुति और प्रार्थना करके उपासना करते हैं, उनको कृपा का समुद्र सबसे श्रेष्ठ परमेश्वर, दुष्ट आचरण से पृथक् करके श्रेष्ठ आचरण में प्रवृत्त करा और पवित्र तथा पुरुषार्थयुक्त करके धर्म, अर्थ, काम और मोक्ष को प्राप्त कराता है ॥१०॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्याः सर्वे वयं यो नो धियः प्रचोदयात्तस्य सवितुर्देवस्य तद्वरेण्यं भर्गो धीमहि ॥१०॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (तत्) (सवितुः) सकलजगदुत्पादकस्य समग्रैश्वर्य्ययुक्तस्येश्वरस्य (वरेण्यम्) सर्वेभ्य उत्कृष्टं प्राप्तुं योग्यम् (भर्गः) भृज्जन्ति पापानि दुःखमूलानि येन तत् (देवस्य) सकलैश्वर्यप्रदातुः प्रकाशमानस्य सर्वप्रकाशकस्य सर्वत्र व्याप्तस्याऽन्तर्यामिणः (धीमहि) दधीमहि (धियः) प्रज्ञाः (यः) (नः) अस्माकम् (प्रचोदयात्) सद्गुणकर्मस्वभावेषु प्रेरयतु ॥१०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ये मनुष्याः सर्वसाक्षिणं पितृवद्वर्त्तमानं न्यायेशं दयालुं शुद्धं सनातनं सर्वात्मसाक्षिकं परमात्मानमेव स्तुत्वा प्रार्थयित्वोपासते तान् कृपानिधिः परमगुरुर्दुष्टाचारान्निवर्त्य श्रेष्ठाचारे प्रवर्त्तयित्वा शुद्धान् सम्पाद्य पुरुषार्थयित्वा धर्मार्थकाममोक्षान् प्रापयति ॥१०॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जी माणसे सर्वांचा साक्षी, पित्याप्रमाणे असणारा, न्यायी, दयाळू, शुद्ध सनातन, सर्वांच्या आत्म्याचा साक्षी अशा परमेश्वराची स्तुती, प्रार्थना व उपासना करतात त्यांना कृपासागर, सर्वात श्रेष्ठ परमेश्वर, दुष्ट आचरणापासून पृथक करून श्रेष्ठ आचरणामध्ये प्रवृत्त करतो. पवित्र व पुरुषार्थयुक्त करून धर्म, अर्थ, काम, मोक्ष प्राप्त करवितो. ॥ १० ॥
भास्करोक्त-विनियोगः
13पुनरप्य् आहवनीयमुपतिष्ठते - सोमानमिति गायत्र्या ॥
०१ सोमानं स्वरणं ...{Loading}...
सोमा᳓नं+++(→नां)+++ स्व᳓रणं
कृणुहि᳓ ब्रह्मणस्पते ।
कक्षी᳓वन्तं य᳓ औशिजः᳓+++(←उशिक्=कान्तः)+++ ॥
001 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - ब्रह्मणस्पतिः
- ऋषिः - मेधातिथिः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
सोमा᳓नं सुअ᳓रणं
कृणुहि᳓ ब्रह्मणस् पते
कक्षी᳓वन्तं य᳓ औशिजः᳓
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
somā́nam ← somā́n- (nominal stem)
{case:ACC, gender:M, number:SG}
sváraṇam ← sváraṇa- (nominal stem)
{case:ACC, gender:M, number:SG}
brahmaṇaḥ ← bráhman- (nominal stem)
{case:GEN, gender:N, number:SG}
kr̥ṇuhí ← √kr̥- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
pate ← páti- (nominal stem)
{case:VOC, gender:M, number:SG}
auśijáḥ ← auśijá- (nominal stem)
{case:NOM, gender:M, number:SG}
kakṣī́vantam ← kakṣī́vant- (nominal stem)
{case:ACC, gender:M, number:SG}
yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}
पद-पाठः
सो॒मान॑म् । स्वर॑णम् । कृ॒णु॒हि । ब्र॒ह्म॒णः॒ । प॒ते॒ ।
क॒क्षीव॑न्तम् । यः । औ॒शि॒जः ॥
Hellwig Grammar
- somānaṃ ← somānam ← soman
- [noun], accusative, singular, masculine
- svaraṇaṃ ← svaraṇam ← svaraṇa
- [noun], accusative, singular, masculine
- kṛṇuhi ← kṛ
- [verb], singular, Present imperative
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
- brahmaṇas ← brahman
- [noun], genitive, singular, masculine
- “Brahma; Brahmin; dhak; Brahman; brahman [word]; Brahman; Brahmin; Brahmapurāṇa; Vishnu; Brihaspati.”
- pate ← pati
- [noun], vocative, singular, masculine
- “husband; overlord; king; deity; īśvara; ruler; pati [word]; commanding officer; leader; owner; mayor; lord.”
- kakṣīvantaṃ ← kakṣīvantam ← kakṣīvant
- [noun], accusative, singular, masculine
- “Kakṣīvant; kakṣīvant [word].”
- ya ← yaḥ ← yad
- [noun], nominative, singular, masculine
- “who; which; yat [pronoun].”
- auśijaḥ ← auśija
- [noun], nominative, singular, masculine
- “Kakṣīvant.”
सायण-भाष्यम्
हे ब्रह्मणस्पते एतन्नामकदेव सोमानम् अभिषवस्य कर्तारं स्वरणं देवेषु प्रकाशनवन्तं कृणुहि कुरु । अत्र दृष्टान्तः । कक्षीवन्तम् एतन्नामकमृषिम् । इवशब्दोऽत्राध्याहर्तव्यः । कक्षीवान् यथा देवेषु प्रसिद्धस्तद्वदित्यर्थः । यः कक्षीवानृषिः औशिजः उशिजः पुत्रः। तमिवेति पूर्वत्र योजना। कक्षीवतोऽनुष्ठातृषु मुनिषु प्रसिद्धिस्तैत्तिरीयैराम्नायते - एतं वै पर आट्णारः कक्षीवाँ औशिजो वीतहव्यः श्रायसस्त्रसदस्युः पौरुकुत्स्यः प्रजाकामा अचिन्वत ’ ( तै. सं. ५. ६. ५. ३) इति । ऋगन्तरेऽपि ऋषित्वकथनेनानुष्ठातृत्वप्रसिद्धिः सूच्यते - अहं कक्षीवाँ ऋषिरस्मि विप्रः ’ ( ऋ. सं. ४. २६. १ ) इति । तस्मात् अस्यानुष्ठातारं प्रति दृष्टान्तत्वं युक्तम् । सोऽयं मन्त्रो यास्केनैवं व्याख्यातः - सोमानं सोतारं प्रकाशनवन्तं कुरु ब्रह्मणस्पते कक्षीवन्तमिव य औशिजः । कक्षीवान् कक्ष्यावानौशिज उशिजः पुत्र उशिग्वष्टेः कान्तिकर्मणोऽपि त्वयं मनुष्यकक्ष एवाभिप्रेतः स्यात्तं सोमानं सोतारं मा प्रकाशनवन्तं कुरु ब्रह्मणस्पते ’ ( निरु. ६. १० ) इति । अस्मिन् मन्त्रे सोमानमिति पादेन कृणुहि ब्रह्मण इति पादेन सूचितं तात्पर्यं तैत्तिरीया आमनन्ति - सोमानं स्वरणमित्याह सोमपीथमेवाव रुन्धे । कृणुहि ब्रह्मणस्पत इत्याह ब्रह्मवर्चसमेवाव रुन्धे ’ ( तै. सं. १. ५. ८. ४ ) इति ॥ सोमानम् । सुनोतीति । षुञ् अभिषवे । । ‘ अन्येभ्योऽपि दृश्यन्ते’ इति मनिन् । दृशिग्रहणस्य विध्यन्तरोपसंग्रहणार्थत्वात् नित्त्वेऽपि नाद्युदात्तत्वं किंतु प्रत्ययस्वर एव । उञ्छादिषु (पा. सू. ६. १. १६० ) वा सोमञ्शब्दो द्रष्टव्यः बहुलग्रहणात् औणादिको वा मनिर्द्रष्टव्यः । स्वरणं प्रख्यातम् । स्वृ शब्दोपतापयोः । ‘ कृत्यल्युटो बहुलम् ’ (पा. सू. ३. ३. ११३) इति कर्मणि ल्युट्। ’ लिति’ इति अकार उदात्तः । कृणुहि । ‘ कृवि हिंसाकरणयोश्च । इदितो नुम् धातोः’ (पा. सू. ७. १. ५८ ) इति नुम् । लोटः सिपो हिः । शपि प्राप्ते ‘धिन्विकृण्व्योर च ’ इति उप्रत्ययः; तत्संनियोगेन वकारस्य च अकारः । तस्य ’ अतो लोपः’ इति लोपः । तस्य स्थानिवद्भावात् न पूर्वस्य लघूपधगुणः । हेर्ङित्त्वात् उकारस्य न गुणः । ‘ उतश्च प्रत्ययाच्छन्दोवावचनम् ( पा. सू. ६. ४. १०६. १ ) इति हेर्लुक् न ।’ सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्यः ’ इति वचनात् हेरेव प्रत्ययस्वरेणोदात्तत्वम् । पादादित्वात् न निघातः । ब्रह्मणः । ‘ षष्ठ्याः पतिपुत्र! ( पा. सू. ८. ३. ५३ ) इत्यादिना संहितायां विसर्जनीयस्य सकारः। सुबामन्त्रितपराङ्गवद्भावात् पदद्वयस्य आमन्त्रितनिघातः । कक्षीवन्तम् । कक्षे भवा कक्ष्या अश्वोदरसंबन्धिनी रज्जुः । ‘ भवे छन्दसि ’ ( पा. सू. ४. ४. ११० ) इति यप्रत्ययः । सो अस्यास्तीत्यर्थे ’ आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवत्° ’ ( पा. सू. ८. २. १२) इति ऋषिविशेषनाम कक्षीवच्छब्दो निपातितः । ‘ छन्दसीरः ’ इति वत्वम् । यप्रत्ययस्वरेण तदादेशो निपातित ईकार उदात्तः । मतुप्सुपौ पित्त्वादनुदात्तौ । औशिजः । ‘ वश कान्तौ । ’ इजि ’ ( उ. सू. २. २२८ ) इत्यनुवृत्तौ ‘वशेः किच्च ’ ( उ. सू. २. २२९ ) इति इजिप्रत्ययः । तस्य कित्त्वात् ’ ग्रहिज्या ’ ( पा. सू. ६. १. १६ ) इत्यादिना संप्रसारणं, परपूर्वत्वे गुणाभावः। तस्यापत्यम्’ (पा. सू. ४. १. ९२ ) इति ‘ प्राग्दीव्यतोऽण् ’ ( पा. सू. ४. १. ८३ )। आदिवृद्धिः । प्रत्ययस्वरेणान्तोदात्तत्वम् ॥
भट्टभास्कर-टीका
सोमानं सोतारं सोमानामभिषोतारं मां कृणुहि । ‘अन्येभ्योपि दृश्यते’ इति मनिन् । उञ्छादित्वादन्तोदात्तत्वम् । औणादिको वा मनिन्प्रत्ययः ।
अन्यं आहुः - सोमानाम् इति वक्तव्ये छान्दसं ह्रस्वत्वम् । सोमानां सप्तविधानां सम्बन्धिनं मां कुर्विति । तत्राप्य् अन्तोदात्तर्त्वं मृग्यम्, सोमशब्दस्याद्युदात्तत्वात्।
स्वरणं शब्दितं सोमत्वेन प्रकाशितम् । स्वृ शब्दोपतापयोः कर्मणि लुट् ईदृशं च मां कुरु ।
हे ब्रह्मणः परिबृढस्यान्नस्य वा पते स्वामिन् । ‘षष्ठ्याः पतिपुत्र’ इति सत्वम् । ‘सुबामन्त्रिते’ इति पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायो निहन्यते ।
कक्षीवन्तं ताद्धर्म्यात्ताच्छब्द्यम् । कक्षीवान् नाम ऋषिः तमिव य औशिजम् । स्वार्थिकोण् वचनव्यत्ययः ।
यद्वा - कक्षीवन्तं हस्त्यादिकक्ष्यावन्तं ईश्वरं मा कुरु । ‘आसन्दीवदष्टीवत्’ इत्यादिना निपात्यते । य औशिज ईश्वर औशिजो भवति तम्मा कुरु । उशिक् कान्तः सर्वलोकप्रियः स औशिजः । स्वार्थिकोण् ॥
Wilson
English translation:
“Brahmaṇaspati (=Agni, connected with prayer) make the offerer of the libation illustrious among the gods, like Kakṣīvat, the son of Uśij (and Dīrghatamas).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Legend: Kakṣīvat, was the son of Dīrghatamas, by Uṣij, a feminine le servant of the queen of Kaliṅga Rāja, whom her husband had desired to submit to the embraces of sage to beget a son. The queen substituted her maid Uṣij. Sage was aware of the deception, sanctified Uṣij, begot by her a son, named Kakṣīvat, who was a kṣatriya with the affiliation to Kaliṅga and was also a brāhmaṇa since he was the son of Dīrghatamas. He is also a ṛṣi: aham kaśivān ṛṣirasmi: I am the ṛṣi kakṣīvat (Nirukta.6.10)
Jamison Brereton
O Lord of the Sacred Formulation, make him a possessor of soma, a sounding [/sun-like] one,
(make him) a Kakṣīvant, who is (also) descended from fire-priests.
Jamison Brereton Notes
Though somā́nam is assigned to a -man-stem by Debrunner (AiG II.2.760), it seems preferable to analyze it, with Kuiper (IIJ 15 [1973]: 190-94 [my thanks to Elizabeth Tucker for the ref.]), as having the so-called “Hoffmann suffix” (*-Hon- / -Hn-) (Hoffmann 1955 = Aufs. II, 378-83) added to the thematic noun sóma-, of the same type as Aves.
mąϑrān- ‘possessing mąϑras’ to mąϑra-. Our somā́nam is a hapax, so there are no diagnostic forms; a masc. agent noun in -mán would also have suffixal accent and a long suffixal vowel (cf. dharmā́nam, -as ‘upholder(s)’). In favor of the Hoffmannsuffix interpretation is the quadrisyllabic scansion, inviting distraction of the -ā-, which should not occur in a man-stem. The accent might be a problem; Hoffmann is somewhat cagey about the accent of these forms (not difficult, since most of his examples are Avestan), but he does suggest (p. 381) that the original accent of the acc. sg. might fall on the suffix, as here. Kuiper makes no mention of the accent.
Most translators (Geldner ‘Lautsingenden(?)’, Renou, Schmidt Bṛhaspati und Indra, Witzel Gotō) take sváraṇam to the ‘sound’ root √svar, though Grassmann connects it with svàr- ‘sun’ (‘glanzreich’). The metrical distraction to suváraṇam might favor a connection with the ‘sun’ word, since, as far as I know, the ‘sound’ root is never so distracted. This hapax is also phonologically reminiscent of svàrṇara- ‘possessing solar glory’, whose initial cluster is always distracted and which almost always occupies the end of the pāda, as our word does. At the very least, it is likely that svàraṇa- is a pun.
It is surprising to find Kakṣīvant Auśija, the dazzling poet of I.116-26, in the context of this rather simple and mundane hymn, for Medhātithi certainly lacks Kakṣīvant’s skill. The request must then be seen as a species of wishful thinking. I translate auśijá- literally, as ‘descendant of a fire-priest’, though it is also Kakṣīvant’s patronymic, because I think the word previews the Agni theme of the second half of this hymn. The published translation follows Geldner in assuming a desired identification of Medhātithi with Kakṣīvant: Geldner “Mach … zu einem (zweiten) Kakṣīvat.” Elizabeth Tucker points out that there is actually no overt mention of Medhātithi and the verse could simply mean “make Kakṣīvant a possessor of soma …” But then we still must explain the presence of Kakṣīvant here.
Griffith
O BRAHMANAPSATI, make him who presses Soma glorious,
Even Kaksivan Ausija.
Keith
Make famous the Soma-presser,
O lord of prayer,
Even as (thou did make famous) Kaksivant Auśija.
Geldner
Mach, Brahmanaspati, den Somapressenden, Lautsingenden zu einem zweiten Kaksivat, der der Sohn der Usij.
Grassmann
Mach, o Gebetsherr, glanzbegabt den, welcher dir den Soma bringt, Kakschivat, ihn der Uçidsch Sohn.
Elizarenkova
Выжимателя сомы, громкозвучного,
О Брахманаспати, сделай
Какшивантом, что сын Ушидж.
अधिमन्त्रम् (VC)
- ब्रह्मणस्पतिः
- मेधातिथिः काण्वः
- विराड्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब अठारहवें सूक्त का आरम्भ है। उसके पहले मन्त्र में यजमान ईश्वर की प्रार्थना कैसी करें, इस विषय का उपदेश अगले मन्त्र में किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ब्रह्मणस्पते) वेद के स्वामी ईश्वर ! (यः) जो मैं (औशिजः) विद्या के प्रकाश में संसार को विदित होनेवाला और विद्वानों के पुत्र के समान हूँ, उस मुझको (सोमानम्) ऐश्वर्य्य सिद्ध करनेवाले यज्ञ का कर्त्ता (स्वरणम्) शब्द अर्थ के सम्बन्ध का उपदेशक और (कक्षीवन्तम्) कक्षा अर्थात् हाथ वा अङ्गुलियों की क्रियाओं में होनेवाली प्रशंसनीय शिल्पविद्या का कृपा से सम्पादन करनेवाला (कृणुहि) कीजिये॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो कोई विद्या के प्रकाश में प्रसिद्ध मनुष्य है, वही पढ़ानेवाला और सम्पूर्ण शिल्पविद्या के प्रसिद्ध करने योग्य है। क्योंकि ईश्वर भी ऐसे ही मनुष्य को अपने अनुग्रह से चाहता है। इस मन्त्र का अर्थ सायणाचार्य्य ने कल्पित पुराण ग्रन्थ भ्रान्ति से कुछ का कुछ ही वर्णन किया है॥१॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे ब्रह्मणस्पते ! योऽहमौशिजोऽस्मि तं मां सोमानं स्वरणं कक्षीवन्तं कृणुहि॥१॥
दयानन्द-सरस्वती (हि) - विषयः
तत्रादौ यजमानेनेश्वरप्रार्थना कीदृशी कार्य्येत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (सोमानम्) यः सवत्यैश्वर्य्यं करोतीति तं यज्ञानुष्ठातारम् (स्वरणम्) यः स्वरति शब्दार्थसम्बन्धानुपदिशति तम् (कृणुहि) सम्पादय। उतश्च प्रत्ययाच्छन्दो वा वचनम्। (अष्टा०६.४.१०६) इति विकल्पाद्धेर्लोपो न भवति। (ब्रह्मणः) वेदस्य (पते) स्वामिन्नीश्वर ! षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु। (अष्टा०८.३.५३) इति सूत्रेण षष्ठ्या विसर्जनीयस्य सकारादेशः। (कक्षीवन्तम्) याः कक्षासु कराङ्गुलिक्रियासु भवाः शिल्पविद्यास्ताः प्रशस्ता विद्यन्ते यस्य तम्। कक्षा इत्यङ्गुलिनामसु पठितम्। (निघं०२.५) अत्र कक्षाशब्दाद् भवे छन्दसि इति यत्, ततः प्रशंसायां मतुप्। कक्ष्यायाः संज्ञायां मतौ सम्प्रसारणं कर्त्तव्यम्। (अष्टा०६.१.३७) अनेन वार्त्तिकेन सम्प्रसारणम्। आसंदीवद० (अष्टा०८.२.१२) इति निपातनान्मकारस्य वकारादेशः। (यः) अहम् (औशिजः) य उशिजि प्रकाशे जातः स उशिक् तस्य विद्यावतः पुत्र इव। इमं मन्त्रं निरुक्तकार एवं व्याख्यातवान्-सोमानं सोतारं प्रकाशनवन्तं कुरु ब्रह्मणस्पते कक्षीवन्तमिव य औशिजः। कक्षीवान् कक्ष्यावान्, औशिज उशिजः पुत्रः, उशिग्वष्टेः कान्तिकर्मणः। अऽपि त्वयं मनुष्यकक्ष एवाभिप्रेतः स्यात्। तं सोमानं सोतारं मां प्रकाशनवन्तं कुरु ब्रह्मणस्पते। (निरु०६.१०)॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यः कश्चिद्विद्याप्रकाशे प्रादुर्भूतो मनुष्योऽस्ति स एवाध्यापकः सर्वशिल्पविद्यासम्पादको भवितुमर्हति। ईश्वरोऽपीदृशमेवानुगृह्णाति। इमं मन्त्रं सायणाचार्य्यः कल्पितपुराणेतिहासभ्रान्त्याऽन्यथैव व्याख्यातवान्॥१॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
पूर्वीच्या सतराव्या सूक्ताच्या अर्थाबरोबर मित्र व वरुण यांच्याबरोबर अनुयोगी बृहस्पती इत्यादी अर्थाच्या प्रतिपादनाने या अठराव्या सूक्ताच्या अर्थाची संगती जाणली पाहिजे. ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. विद्येने प्रसिद्ध असलेला माणूसच अध्यापक व संपूर्ण शिल्पविद्येचा संपादक असतो. अशा माणसावर ईश्वरही अनुग्रह करतो.
सविता जोशी ← दयानन्द-सरस्वती (म) - पादटिप्पनी
टिप्पणी: या मंत्राचा अर्थ सायणाचार्यांनी कल्पित पुराण इत्यादी ग्रंथांच्या भ्रामक गोष्टींनी लावलेला आहे. ॥ १ ॥
भास्करोक्त-विनियोगः
14रात्रिमुपतिष्ठते - कदा चनेति पथ्याबृहत्या ॥ ‘तृतीयश्चेद्द्वादशाक्षरः पथ्या’ इति ।
०७ कदा चन ...{Loading}...
कदा᳓ चन᳓ स्तरी᳓र्+++(=वन्ध्या गौः)+++ असि?
ने᳓न्द्र, सश्चसि+++(=संगच्छसे)+++ दाशु᳓षे ।
उ᳓पोप᳓+ इ᳓न् नु᳓ मघवन्, भू᳓य इ᳓न् नु᳓ ते
दा᳓नं देव᳓स्य +++(उप+उप-)+++पृच्यते+++(←पृची सम्पर्के)+++ ॥
007 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - श्रुष्टिगुः काण्वः
- छन्दः - बृहती
Thomson & Solcum
कदा᳓ चन᳓ स्तरी᳓र् असि
ने᳓न्द्र सश्चसि दाशु᳓षे
उ᳓पोपे᳓न् नु᳓ मघवन् भू᳓य इ᳓न् नु᳓ ते
दा᳓नं देव᳓स्य पृच्यते
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Vālakhilya
genre M;; Vālakhilya
genre M;; Vālakhilya
genre M;; Vālakhilya
Morph
asi ← √as- 1 (root)
{number:SG, person:2, mood:IND, tense:PRS, voice:ACT}
caná ← caná (invariable)
kadā́ ← kadā́ (invariable)
starī́ḥ ← starī́- (nominal stem)
{case:NOM, gender:F, number:SG}
dāśúṣe ← dāśváṁs- (nominal stem)
{case:DAT, gender:M, number:SG}
indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
ná ← ná (invariable)
saścasi ← √sac- 2 (root)
{number:SG, person:2, mood:IND, tense:PRS, voice:ACT}
bhū́yaḥ ← bhū́yaṁs- (nominal stem)
{case:NOM, gender:N, number:SG}
ít ← ít (invariable)
ít ← ít (invariable)
maghavan ← maghávan- (nominal stem)
{case:VOC, gender:M, number:SG}
nú ← nú (invariable)
nú ← nú (invariable)
te ← tvám (pronoun)
{case:DAT, number:SG}
úpopa ← úpa (invariable)
dā́nam ← dā́na- (nominal stem)
{case:NOM, gender:N, number:SG}
devásya ← devá- (nominal stem)
{case:GEN, gender:M, number:SG}
pr̥cyate ← √pr̥c- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:PASS}
पद-पाठः
क॒दा । च॒न । स्त॒रीः । अ॒सि॒ । न । इ॒न्द्र॒ । स॒श्च॒सि॒ । दा॒शुषे॑ ।
उप॑ऽउप । इत् । नु । म॒घ॒ऽव॒न् । भूयः॑ । इत् । नु । ते॒ । दान॑म् । दे॒वस्य॑ । पृ॒च्य॒ते॒ ॥
Hellwig Grammar
- kadācana
- [adverb]
- “ever; sometimes.”
- starīr ← starīḥ ← starī
- [noun], nominative, singular, feminine
- “barren cow.”
- asi ← as
- [verb], singular, Present indikative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- nendra ← na
- [adverb]
- “not; like; no; na [word].”
- nendra ← indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- saścasi ← sac
- [verb], singular, Present indikative
- “accompany; follow; company; obey; participate; enter.”
- dāśuṣe ← dāś
- [verb noun], dative, singular
- “sacrifice; give.”
- upopen ← upa
- [adverb]
- “towards; on; next.”
- upopen ← upa
- [adverb]
- “towards; on; next.”
- upopen ← id
- [adverb]
- “indeed; assuredly; entirely.”
- nu
- [adverb]
- “now; already.”
- maghavan
- [noun], vocative, singular, masculine
- “Indra; maghavan [word].”
- bhūya ← bhūyaḥ ← bhūyas
- [noun], nominative, singular, neuter
- “more(a); more(a); abounding in(p); stronger; bigger.”
- in ← id
- [adverb]
- “indeed; assuredly; entirely.”
- nu
- [adverb]
- “now; already.”
- te ← tvad
- [noun], genitive, singular
- “you.”
- dānaṃ ← dānam ← dāna
- [noun], nominative, singular, neuter
- “giving; gift; bribery; performance; addition; yajña; fueling; teaching.”
- devasya ← deva
- [noun], genitive, singular, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- pṛcyate ← pṛc
- [verb], singular, Indikativ Pr¦s. Passiv
- “mix; unite.”
सायण-भाष्यम्
हे मघवन् धनवन्न् इन्द्र नु क्षिप्रं दानं हविःसमर्पणं नु निश्चितं भूय इत् प्रचुरं सदेव ते तव देवस्य द्योतमानस्य परमेश्वरस्य उपोपेत् समीपमेव पृच्यते त्वया संपृक्तं भवति । स्वल्पमपि शीघ्रं सत्पात्रे समर्पितं बहुलीभूय ईश्वरे संगतं भवतीत्यभिप्रायः ।
अतः हे इन्द्र परमेश्वर दाशुषे हविर्दत्तवतो यजमानस्य स्तरीः हिंसकः कदाचन कदापि नासि न भवसि ।
अपि तु सश्चसि तेन संगच्छसे । तदीयं सख्यं संपादयसीत्यर्थः । ‘प्रसमुपोदः पादपूरणे’ (पा. सु. ८. १. ६) इत्यनेन उप इत्यस्य द्विवचनं (द्विर्वचनं ) पादपूरणार्थम् ॥
भट्टभास्कर-टीका
हे इन्द्र न कदाचिदपि त्वं स्तरीर् असि धनानां छादकोसि । ‘अवितॄस्तृतन्त्रिम्य ईः’ इतीप्रत्ययः ।
किम् अनाच्छादन-मात्रमेव? नेत्याह - सश्चसि दाशुषे, सश्चतिर् गतिकमा, दाशुषे हवींषि दत्तवते सश्चसि दित्सया । ‘क्रियाग्रहणं कर्तव्यम्’ इति संप्रदानत्वम् । दातुम् इति वा पदाध्याहारः ।
दाशुषे दातुं सश्चसि धनानि दातुं दाशुषस् सकाशं त्वम् एव सश्चसि ।
किम् उच्यते सकृद् ददासीति -
हे मघवन् तव देवस्य देवनादिगुणयुक्तस्य दानं भूयो ऽप्य् उप-पृच्यते उपगृह्यते - पुनः पुनर् अपि समुपपाद्यते । न सकृद् दत्तम् इति स्मर्यते, किन्तु पुनः पुनर् दीयत एवेति । पृची सम्पर्के ।
अत्र भूय इन् नु त इति चतुर्थः पादः । ‘प्रसमुपोदः पादपूरणे’ इत्युपशब्दस्य द्विर्वचनम् । ‘अनुदातं च’ इति द्वितीयो निहन्यते । इच्छब्दोवधारणार्थः उपपृच्यत एव ।
नु-शब्दः प्रसिद्धौ; नन्व् एवं खलु सर्वदा क्रियते ।
नु इति पुराण-वचनो वा, पुराणोयं तव स्वभावः ।
द्वितीय इच्-छब्दो ऽप्य्-अर्थः, भूयोपि । द्वियीयो नु-शब्दो हेतौ, यस्माद् एवं तस्मान् न कदा चन स्तरीर् असीति । तस्माद् एवं-प्रभावस् त्वम् अस्मान् अप्य् अनुगृहाणेत्याशिषा समाप्यते ॥
कदाचिदपि स्तरीश्छादयिता अभिभविता न भवसि । अपि तु दाशुषे हवींषि दत्तवते यजमानाय सश्चसि समागच्छसि, न कदाचिदपि तत्सकाशं मुञ्चसि उपकर्तुम् । तथाहि - हे मघवन् तव देवस्य देवनशीलस्य दानं भूयोभूयोपि उपपृच्यत एव, अविच्छेदेन निर्वर्त्यत एव । यद्वा - भूयोभूयोपि उपपृच्यतां उत्पाद्यतामिति ॥
Wilson
English translation:
“Never are you niggardly,
Indra, and give not to the worshipper;
but your godlike gifts, O Maghavan,
are poured forth more and more.”
Jamison Brereton
Never are you a barren cow,
nor, Indra, do you go dry for the pious man.
Over and over, more and more,
the gift coming from you, the god, becomes engorged.
Jamison Brereton Notes
Notice the over-the-top piling up of particles and similar items in c: úpaupa íd nú … bhū́ya íd nú, with the actual topic postponed till the next pāda.
The lexeme úpa √pṛc generally has a sexual connotation (see disc. I.40.6), and given the barren cow and the going dry of ab, ‘becomes engorged’ better captures the contrast than Geldner’s anodyne “nimmt … zu und zu” (increases).
Keith
Never art thou barren, O Indra,
Never dost thou fail thy worshipper;
Now more and more is thy divine gift increased,
O bountiful one.
Geldner
Auch nicht einmal bist du eine unfruchtbare Kuh, nie stehst du für den Opferwilligen trocken. Immer mehr nimmt deine, des Gottes, Freigebigkeit, o Gabenreicher, zu und zu.
Grassmann
Bisweilen, o Indra, bist du karg und bist dem Verehrer nicht zu Willen; nun aber wird, o mächtiger Gott, deine Gabe desto reichlicher zugetheilt.
Elizarenkova
Ты же никогда не бываешь яловой коровой,
Для почитающего (тебя) ты не иссякаешь, о Индра.
Сейчас же, о щедрый, все больше и больше
Умножается дарение у тебя, бога.
अधिमन्त्रम् (VC)
- इन्द्र:
- श्रुष्टिगुः काण्वः
- बृहती
- मध्यमः
भट्टभास्कर-टीका
व्याख्याता चेयमादित्यग्रहे - इन्द्रात्मना रात्रिस्स्तूयते ।
भास्करोक्त-विनियोगः
15गार्हपत्यम् उपतिष्ठते - परि त्वेत्यनुष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
परि॑ त्वाग्ने॒! पुरव्ँ॑+++(=दुर्गं)+++ व॒यव्ँ
विप्रँ॑ सहस्य! धीमहि ।
धृ॒षद्+++(=धर्षक)+++-व॑र्णन् दि॒वे-दि॑वे
भे॒त्तार॑म् भङ्गु॒राव॑तः ॥
+++(→ह॒न्तारं॑ भङ्गु॒राव॑ताम् इति शाकले)+++
सर्वाष् टीकाः ...{Loading}...
Keith
May we set thee around us, O Agni,
The sage, the strong, as a fort,
Of daring hue, day by day
Destroyer of that which may be broken.
मूलम्
परि॑ त्वाग्ने॒ पुरव्ँ॑व॒यव्ँविप्रँ॑ सहस्य धीमहि ।
धृ॒षद्व॑र्णन्दि॒वेदि॑वे भे॒त्तार॑म्भङ्गु॒राव॑तः ॥
भट्टभास्कर-टीका
हे अग्ने सहस्य सहो बलं तत्र भवः - ‘दिगादिभ्यो यत्’ । पुरं अभिमतानां पूरयितारं विप्रं मेधाविनं धृषद्-वर्णं वर्णमात्रेणैव शत्रूणां अभिभवितारं भेत्तारम् । कस्य? भङ्गुरावतः पर-भञ्जन-शीलैर् व्यापारैः तद्वतो रक्षःप्रभृतेः । छान्दसं संहितायां दीर्घत्वम् । ईदृशं त्वां दिनेदिने परिधीमहि सर्वतो धारयेम । दधातेर्लिङि शपो लुक् ॥
अग्ने गृहपते ...{Loading}...
भास्करोक्त-विनियोगः
16गार्हपत्यमेवोपतिष्ठते - अग्ने गृहपत इति यजुर्भिः ॥
मूलम् (संयुक्तम्)
अग्ने॑ गृहपते सुगृहप॒तिर॒हन्त्वया॑ गृ॒हप॑तिना भूयासँ सुगृहप॒तिर्मया॒ त्वङ्गृ॒हप॑तिना भूयाश्श॒तँ हिमाः …
विश्वास-प्रस्तुतिः
अग्ने॑ गृहपते! सुगृह-प॒तिर् अ॒हन् त्वया॑ गृ॒ह-प॑तिना भूयासम् ।
सु॒गृ॒ह॒प॒तिर् मया॒ त्वङ् गृ॒हप॑तिना भूयाः ।
Keith
O Agni, lord of the house, through thee as lord of the house, may I be a good lord of the house; through me as lord of the house, mayst thou be a good lord of the house;
मूलम्
अग्ने॑ गृहपते सुगृहप॒तिर॒हन्त्वया॑ गृ॒हप॑तिना भूयासम् ।
सु॒गृ॒ह॒प॒तिर्मया॒ त्वङ्गृ॒हप॑तिना भूयाः।
पद-पाठः
अग्ने॑ । गृ॒ह॒प॒त॒ इति॑ गृह-प॒ते॒ । सु॒गृ॒ह॒प॒तिरिति॑ सु-गृ॒ह॒प॒तिः । अ॒हम् । त्वया॑ । गृ॒हप॑ति॒नेति॑ गृ॒ह-प॒ति॒ना॒ । भू॒या॒स॒म् ।
सु॒गृ॒ह॒प॒तिरिति॑ सु-गृ॒ह॒प॒तिः । मया॑ । त्वम् । गृ॒हप॑ति॒नेति॑ गृ॒ह-प॒ति॒ना॒ । भू॒याः॒ ।
भट्टभास्कर-टीका
हे अग्ने गृहपते गृहकर्मणां पालयितः त्वया गृहपतिना स[गृ]हकर्मणां पालनं कुर्वता सुगृहपतिः शोभनेन तद्वान् भूयासम् । त्वमपि गृहपतिना मया सुगृहपतिर्भूयाः ।
हे अग्ने गृहकर्मणां पातः अहं त्वया गृहपतिना गृहकर्मणां पात्रा सह सुगृहपतिः सुष्ठु गृहकर्मणां पाता भूयासम् । मया च गृहपतिना त्वं सुगृहपतिः भूयाः ।
सायण-टीका
अग्ने गृहपत इति। कल्पः - ‘अथ गार्हपत्यमेत्योपतिष्ठते - अग्ने गृहपते सुगृहपतिरहं त्वया गृहपतिना भूयासँ सुगृहपतिर्मया त्वं गृहपतिना भूयाः शतँ हिमा मह्यममुष्मै ज्योतिष्मतीं तामाशिषमाशासेऽमुष्मा अमुष्मा इति यावन्तोऽस्य पुत्रा जाता भवन्ति तन्तव इत्यन्ततः’ इति।
यद्यप्यत्र ‘तामाशिषमाशासे तन्तवे ज्योतिष्मतीं तामाशिषमाशासेऽमुष्मै ज्योतिष्मतीम्’ इत्याम्नायपाठस्तथाऽप्यदःशब्दस्योत्पन्नपुत्रविषयत्वात्तन्तुशब्दस्यानुत्पन्नपुत्रविषयत्वान्नायं क्रमो न्याय्य इत्यभिप्रेत्य शाखान्तरानुसारेण सूत्रकारो मन्त्रं पपाठ। अयं गार्हपत्योऽग्निरस्मिन्गृहे सर्वदा धार्यमाणत्वाद्गृहपतिः। हे गृहपतिना गृहपतेऽग्ने त्वयाऽनुगृहीतोऽहं सुष्ठु गृहपतिर्भूयासम्। त्वमपि गृहपतिना मया पजितः सुष्ठु गृहपतिर्भूयाः।
विश्वास-प्रस्तुतिः
श॒तँ हिमा॒स् ताम् आ॒शिष॒म् आशा॑से ।
+++(अजातपुत्र-पक्षे - )+++ तन्त॑वे॒ ज्योति॑ष्मती॒न् ताम् आ॒शिष॒म् आशा॑से ।
+++(जातपुत्र-पक्षे -)+++ [ताम् आ॒शिष॒म् आशा॑से] अ॒मुष्मै॒+++(→अपत्य-नाम-निर्देशः)+++ ज्योति॑ष्मतीम् ॥ [24]
Keith
For a hundred winters, this blessing I invoke,
bringing light for the race; this blessing I invoke,
bringing light for N. N.+++(= nomina / names)+++
मूलम्
श॒तँ हिमा॒स् तामा॒शिष॒माशा॑से ।
+++(अजातपुत्र-पक्षे - )+++ तन्त॑वे॒ ज्योति॑ष्मती॒न्
तामा॒शिष॒माशा॑से ।
+++(जातपुत्र-पक्षे -)+++ [तामा॒शिष॒माशा॑से] अ॒मुष्मै॒ ज्योति॑ष्मतीम् ॥ [24]
पद-पाठः
श॒तम् । हिमाः॑ । ताम् । आ॒शिष॒मित्या॑-शिष॑म् । एति॑ । शा॒से॒ ।
ताम् । आ॒शिष॒मित्या॑-शिष॑म् । एति॑ । शा॒से॒ । अ॒मुष्मै॑ । ज्योति॑ष्मतीम् ।
तन्त॑वे । ज्योति॑ष्मतीम् ।
भट्टभास्कर-टीका
कियन्तं कालमित्याह - शतं हिमाः शतं वर्षाणि हि मर्त्यानाम् । ‘शतं त्वा हेमन्तानिन्धिषीय’ इति ब्राह्मणम् । तावन्तं कालमिदमित्थं भवतु ।
किञ्च - तामाशिषं, अनागताभिप्रेतार्थप्रार्थनमाशीः, तामाशासे प्रार्थये । यद्वा - आशासनीया आयुरादिसर्वसम्पदाशीः, तामाशासे । ‘आशासः क्वौ’ इतीत्वम् । कीदृशीं? ज्योतिष्मतीं दीप्तिमतीं ब्रह्मवर्चसप्रधानाम् । कस्मै?
तन्तवे अजातापत्यविषयमिदं; अमुष्मा इति वक्ष्यमाणस्य सन्निहितापत्यविषयत्वात् । अमुष्मा इति सन्निहितानामपत्यानां साधारणो निर्देशः । तस्मै सहस्रकिरणाय भास्कराय गोविन्दाय च तां ज्योतिष्मतीम् आशिषम् आशासे । ‘पुत्रस्य नाम गृह्णाति’ इत्यादि ब्राह्मणम् ॥
शतं वर्षाणि ।
तां ज्योतिष्मतीं ब्रह्मवर्चसप्रधानामाशिषम् । अप्राप्ताभिमतार्थनमाशीः ।
तन्तवे सन्तानायाजाताय पुत्रादये आशासे प्रार्थये ।
अमुष्मै च जाताय देवदत्तादये तां ज्योतिष्मतीमाशिषमाशासे इति ॥
सायण-टीका
हिमशब्दो हेमन्तवाची सन्संवत्सरमुपलक्षयति। शतसंवत्सरानग्निमिन्धानोऽहं तन्तवेऽनुन्पन्नबहुपुत्रोत्पत्तये ज्योतिष्मतीं तदुत्पत्तिप्रकाशनसमर्थां तामाशिषमाशासे। अमुष्मा उत्पन्नपुत्राय देवदत्तादिनामकाय ज्यो-तिष्मतीमतिबुद्धिप्रकाशनसमर्थां तामाशिषमाशासे।
-
A Titan, even as Savitṛ is also called Asura in the RV ↩︎
-
Word analysis suggests that Viśvāmitra had a particular propensity for alliterative or polyptotonic usages such as the āmreḍita. See: A note on āmreḍita-s in the Ṛgveda and issues of word distribution ↩︎