अग्निर्ऋषिः
सर्पसादृश्यं नवीकरणे
भास्करोक्त-विनियोगः
1अथ सर्पराज्ञ्यादीनां मन्त्राणां ब्राह्मणं - भूमिरित्यादि ॥
विश्वास-प्रस्तुतिः
भूमि॑र् भू॒म्ना द्यौर् व॑रि॒णेत्य् आ॑हा॒ऽऽशिषै॒वैन॒म् +++(अग्निम्)+++ आ ध॑त्ते ।
Keith
‘Earth in depth, sky in breadth,’ he says; with this benediction he establishes it.
मूलम्
भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णेत्या॑हा॒ऽऽशिषै॒वैन॒मा ध॑त्ते ।
भट्टभास्कर-टीका
आशिषा अन्नाद्यं प्राप्तुमिच्छया ॥
मूलम् (संयुक्तम्)
स॒र्पा वै जीर्य॑न्तोऽमन्यन्त स ए॒तङ्क॑स॒र्णीर॑ᳵ काद्रवे॒यो मन्त्र॑मपश्य॒त्ततो॒ वै ते जी॒र्णास्त॒नूरपा॑घ्नत
विश्वास-प्रस्तुतिः
स॒र्पा वै जीर्य॑न्तो ऽमन्यन्त ।
Keith
The serpents thought that they were growing worn out;
मूलम्
स॒र्पा वै जीर्य॑न्तोऽमन्यन्त ।
भट्टभास्कर-टीका
2सर्पा वा इत्यादि ॥ धिक् जरा प्राप्यतेऽस्माभिरिति सविषादां मतिमकुर्वत सर्पाः ।
विश्वास-प्रस्तुतिः
स ए॒तङ् क॑स॒र्णीर॑ᳵ काद्रवे॒यो मन्त्र॑म् अपश्यत् ।
Keith
Kasarnira Kadraveya beheld this Mantra;
मूलम्
स ए॒तङ्क॑स॒र्णीर॑ᳵ काद्रवे॒यो मन्त्र॑मपश्यत् ।
भट्टभास्कर-टीका
अथ तेषु कसर्णीरो नाम कश्चित्कद्रूपुत्रः स एतं भूमिर्भूम्नेत्यादिकं सर्पराज्ञ्याख्यं मन्त्रमपश्यत् । ‘स्त्रीभ्यो ढक्’ इति ढक् । ततस्सर्पा एतेनाग्निमादधतेति सामर्थ्याद्गम्यते ।
विश्वास-प्रस्तुतिः
ततो॒ वै ते जी॒र्णास् त॒नूर्+++(→चर्म)+++ अपा॑घ्नत।
Keith
then did they strike off their worn-out skins.
मूलम्
ततो॒ वै ते जी॒र्णास्त॒नूरपा॑घ्नत।
भट्टभास्कर-टीका
ततश्च जीर्णास्तनूरपहत्याभिनवा अलभन्तेत्यर्थः ।
सर्पराज्ञि-मन्त्र-प्रयोगः
विश्वास-प्रस्तुतिः
सर्प-रा॒ज्ञिया॑ ऋ॒ग्भिर् +++(भूमिर्भूम्नेत्यादिभिः)+++ गार्ह॑पत्य॒म् आ द॑धाति ।
+++(रोहिणीस्थ-विषुव-सूर्य-स्मारका हि मन्त्रास् ते।)+++
Keith
With the verses of the queen of serpents he establishes the Garhapatya,
मूलम्
सर्परा॒ज्ञिया॑ ऋ॒ग्भिर्गार्ह॑पत्य॒मा द॑धाति ।
भट्टभास्कर-टीका
सर्पराज्ञिया इत्यादि । गतम् । पृथिवी सर्पराज्ञी । यथोक्तम् - ‘इयं वै सर्पतो राज्ञी’ इति । तस्या ऋग्भिः भूमिर्भूम्नेत्यादिभिः । ‘अपोद्धृत्य घर्मशिर एतस्य सर्पराज्ञी रोप्य गार्हपत्यमेव सर्वाभिराददीत’ इत्याचार्याः । राजनशीला राज्ञी । ‘कनिन्युवृष’ इति कनिन्प्रत्ययः, ‘ऋन्नेभ्यः’ इति ङीप् । सर्पाणां राज्ञी स्वामिनी सर्पराज्ञी । ‘समासस्य’ इत्यन्तोदात्तत्वम् । ‘उदात्तयणः’ इत्येतद्बाधित्वा व्यत्ययेन । उदात्तस्वरितयोर्यणः’ इति विभक्तिस्त्वर्यते ।
विश्वास-प्रस्तुतिः
पु॒न॒र् न॒वम् ए॒वैन॑म् अ॒जर॑ङ् कृ॒त्वा ऽऽध॑त्ते ।
Keith
and so renewing it he establishes it as immortal.
मूलम्
पु॒न॒र्न॒वमे॒वैन॑म॒जर॑ङ्कृ॒त्वाऽऽध॑त्ते ।
भट्टभास्कर-टीका
पुनर्नवमित्यादि । गतम् ।
मूलम् (संयुक्तम्)
अथो॑ पू॒तमे॒व पृ॑थि॒वीम॒न्नाद्य॒न्नोपा॑नम॒त्सैतं [13]मन्त्र॑मपश्य॒त्ततो॒ वै ताम॒न्नाद्य॒मुपा॑नम॒द्यत्स॑र्परा॒ज्ञिया॑ ऋ॒ग्भिर्गार्ह॑पत्यमा॒दधा॑त्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॑ अ॒स्यामे॒वैन॒म्प्रति॑ष्ठित॒मा ध॑त्ते॒ यत्त्वा॑ क्रु॒द्धᳶ प॑रो॒वपेत्या॒हाप॑ह्नुत ए॒वास्मै॒ तत्पुन॒स्त्वोद्दी॑पयाम॒सीत्या॑ह॒ समि॑न्ध ए॒वैनय्ँ॒यत्ते॑ म॒न्युप॑रोप्त॒स्येत्या॑ह दे॒वता॑भिरे॒व [14] ए॒नँ॒ सम्भ॑रति
विश्वास-प्रस्तुतिः
अथो॑ पू॒तमे॒व +++(आधत्ते)+++ ।
Keith
Pure
मूलम्
अथो॑ पू॒तमे॒व +++(आधत्ते)+++ ।
भट्टभास्कर-टीका
अथो अपिच पूतमेवाधत्ते । येनायमृद्धिहेतुर्भवति इत्यादि हेतुश्च न भवति ।
विश्वास-प्रस्तुतिः
पृ॑थि॒वीम् अ॒न्नाद्य॒म् नोपा॑नमत् ।
सैतं मन्त्र॑म् अपश्यत् ।
ततो॒ वै ताम् अ॒न्नाद्य॒म् उपा॑नमद्।
यत् स॑र्परा॒ज्ञिया॑ ऋ॒ग्भिर् गार्ह॑पत्यम् आ॒दधा॑ति ..
अ॒न्नाद्य॒स्याव॑रुद्ध्यै ।
Keith
food did not come to the earth; she [1] beheld this Mantra; then food came to her. In that he establishes the Garhapatya with the verses of the serpent queen (it serves) for the winning of food;
मूलम्
पृ॑थि॒वीम॒न्नाद्य॒म् नोपा॑नमत् ।
सैतं मन्त्र॑मपश्यत् ।
ततो॒ वै ताम॒न्नाद्य॒मुपा॑नम॒द् यत्स॑र्परा॒ज्ञिया॑ ऋ॒ग्भिर्गार्ह॑पत्यमा॒दधा॑ति ..
अ॒न्नाद्य॒स्याव॑रुद्ध्यै ।
भट्टभास्कर-टीका
पृथिवीमित्यादि । गतम् । ‘अन्नाद्यायादधे’ इति मन्त्रपदम् ।
विश्वास-प्रस्तुतिः
अथो॑ अ॒स्याम् ए॒वैन॒म् +++(अग्निम्)+++ प्रति॑ष्ठित॒म् आ ध॑त्ते ।
Keith
verily he establishes it firm in the (earth).
मूलम्
अथो॑ अ॒स्यामे॒वैन॒म्प्रति॑ष्ठित॒मा ध॑त्ते ।
भट्टभास्कर-टीका
अथो अपिच अस्यां पृथिव्यां प्रतिष्ठितमाधत्ते । ‘उपस्थे ते देवि’ इति मन्त्रपदम् ।
यत्त्वा॑ क्रु॒द्धᳶ
विश्वास-प्रस्तुतिः
“यत्त्वा॑ क्रु॒द्धᳶ प॑रो॒वपे"त्य् आ॒ह - +अप॑ह्नुत ए॒वास्मै॒ तत् +++(‘सुकल्पमग्ने तत्’ इत्य् अनेन)+++।
Keith
‘If thee in anger I have scattered’, he says; verily he conceals it from him.
मूलम्
यत्त्वा॑ क्रु॒द्धᳶ प॑रो॒वपेत्या॒हाप॑ह्नुत ए॒वास्मै॒ तत् ।
भट्टभास्कर-टीका
यत्त्वेति । आत्मीयम् उद्वासनात्मकं दुष्कृतम् अस्मा अग्नये ऽपह्नुते अपनय[पलप]ति ‘सुकल्पमग्ने तत्’ इति प्रच्छादयति । तद्दुष्कृतमपि त्वत्प्रसादात् सुकृतमेव भवतीति ।
विश्वास-प्रस्तुतिः
पुन॒स्त्वोद्दी॑पयाम॒सीत्या॑ह ।
समि॑न्ध ए॒वैन॑म्।
Keith
‘Again thee we relight’, he says; verily he kindles him all together.
मूलम्
पुन॒स्त्वोद्दी॑पयाम॒सीत्या॑ह ।
समि॑न्ध ए॒वैन॒॑म्।
भट्टभास्कर-टीका
पुनस्त्वेत्यादि । गतम् ॥
यत् ते॑ म॒न्युप॑रोप्त॒स्य
विश्वास-प्रस्तुतिः
यत् ते॑ म॒न्युप॑रोप्त॒स्येत्या॑ह -
दे॒वता॑भिर् ए॒वैनँ॒ सम्भ॑रति ।
Keith
‘Whatever of thee scattered in rage’, he says; verily by means of the deities [2] he unites him.
मूलम्
यत् ते॑ म॒न्युप॑रोप्त॒स्येत्या॑ह ।
दे॒वता॑भिरे॒वैनँ॒ सम्भ॑रति ।
मूलम् (संयुक्तम्)
वि वा ए॒तस्य॑ य॒ज्ञश्छि॑द्यते॒ यो॑ऽग्निमु॑द्वा॒सय॑ते॒ बृह॒स्पति॑वत्य॒र्चोप॑ तिष्ठते॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र्ब्रह्म॑णै॒व य॒ज्ञँ सन्द॑धाति॒ विच्छि॑न्नय्ँ य॒ज्ञँ समि॒मन्द॑धा॒त्वित्या॑ह॒ सन्त॑त्यै॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ता॒मित्या॑ह स॒न्तत्यै॒व य॒ज्ञन्दे॒वेभ्योऽनु॑ दिशति स॒प्त ते॑ अग्ने स॒मिध॑स्स॒प्त जि॒ह्वाः [15]इत्या॑ह स॒प्तस॑प्त॒ वै स॑प्त॒धाऽग्नेᳶ प्रि॒यास्त॒नुव॒स्ता ए॒वाव॑ रुन्धे॒ पुन॑रू॒र्जा स॒ह र॒य्येत्य॒भितᳶ॑ पुरो॒डाश॒माहु॑ती जुहोति॒ यज॑मानमे॒वोर्जा च॑ र॒य्या चो॑भ॒यत॒ᳶ परि॑ गृह्णाति
बार्हस्पत्यमन्त्रः
विश्वास-प्रस्तुतिः
वि वा ए॒तस्य॑ य॒ज्ञश् छि॑द्यते॒
यो॑ऽग्निम् उ॑द्वा॒सय॑ते॒ बृह॒स्पति॑वत्य॒र्चोप॑ तिष्ठते +++(“मनो ज्योतिः…” इति)+++ ।
ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पतिः॑ , ब्रह्म॑णै॒व य॒ज्ञँ सन्द॑धाति ।
मूलम्
वि वा ए॒तस्य॑ य॒ज्ञश्छि॑द्यते॒
यो॑ऽग्निमु॑द्वा॒सय॑ते।
बृह॒स्पति॑वत्य॒र्चोप॑ तिष्ठते ।
ब्रह्म॒ वै दे॒वाना॒म् बृह॒स्पतिः॑ , ब्रह्म॑णै॒व य॒ज्ञँ सन्द॑धाति ।
Keith
The sacrifice of him who removes the fire is split; he pays reverence with a verse containing the word Brhaspati; Brhaspati is the holy power (Brahman) of the gods; verily by holy power (Brahman) he unites the sacrifice.
भट्टभास्कर-टीका
3वि वा एतस्येत्यादि ॥ ‘मनो ज्योतिः’ इत्येषा बृहस्पतिवती ऋक् । ‘छन्दसीरः’ इति मतुपो वत्वम् । बृहस्पतिशब्दस्याद्युदात्तत्वम् ।
विश्वास-प्रस्तुतिः
“विच्छि॑न्नय्ँ य॒ज्ञँ सम् इ॒मन् द॑धा॒त्व्” इत्या॑ह॒ सन्त॑त्यै ।
“विश्वे॑ दे॒वा इ॒ह मा॑दयन्ता॒म्” इत्या॑ह ।
स॒न्तत्यै॒व य॒ज्ञन् दे॒वेभ्योऽनु॑ दिशति ।
Keith
‘May he unite this scattered sacrifice’, he says, for continuity, ‘May the All-gods rejoice herein’, he says; verily continuing the sacrifice he points it out to the gods.
मूलम्
विच्छि॑न्नय्ँ य॒ज्ञँ समि॒मन्द॑धा॒त्वित्या॑ह॒ सन्त॑त्यै ।
विश्वे॑ दे॒वा इ॒ह मा॑दयन्ता॒मित्या॑ह ।
स॒न्तत्यै॒व य॒ज्ञन्दे॒वेभ्योऽनु॑ दिशति ।
भट्टभास्कर-टीका
विश्वे देवा इति । विच्छिन्नयज्ञं सन्तत्यैव सन्धाय सन्ततमिहेति देवेभ्योनुदिशति ज्ञापयति ।
सप्त ते अग्ने
विश्वास-प्रस्तुतिः
“स॒प्त ते॑ अग्ने स॒मिध॑स्, स॒प्त जि॒ह्वा” इत्या॑ह ।
स॒प्तस॑प्त॒ वै स॑प्त॒धा ऽग्नेᳶ प्रि॒यास् त॒नुव॒स् - ता ए॒वाव॑ रुन्धे ।
Keith
‘Seven are thy kindling-sticks, O Agni, seven thy tongues’ [3], he says, for sevenfold in seven-wise are the dear forms of Agni; verily he wins them.
मूलम्
स॒प्त ते॑ अग्ने स॒मिध॑स्स॒प्त जि॒ह्वा इत्या॑ह ।
स॒प्तस॑प्त॒ वै स॑प्त॒धाऽग्नेᳶ प्रि॒यास्त॒नुव॒स्ता ए॒वाव॑ रुन्धे ।
भट्टभास्कर-टीका
सप्त त इति । समिदादयस्सप्तसप्त प्रत्येकं सप्तसङ्ख्याः सप्तधा सर्वा अपि सप्तधा भिन्नाः अग्नेः प्रियास्तनुवः तनुवत् मूर्तिरिव प्रधानभूताः अग्नेस्तास्सर्वाः अवरुन्धे स्वाभिमतसाधनतया लभते ।
पुरोडाशम् अभितः
विश्वास-प्रस्तुतिः
पुन॑र् ऊ॒र्जा, स॒ह र॒य्या +++(निवर्तस्व)+++
+इत्य॒भितᳶ॑ पुरो॒डाश॒म् आहु॑ती जुहोति।
Keith
‘Return with strength’, ‘Return with wealth’, (with these words) he offers oblations on either side of the sacrificial cake;
मूलम्
पुन॑रू॒र्जा +++(निवर्तस्व)+++
र॒य्येत्य॒भितᳶ॑ पुरो॒डाश॒माहु॑ती जुहोति।
भट्टभास्कर-टीका
पुनरूर्जेति । ‘पुनरूर्जा निवर्तस्व’ ‘सह रय्या नि वर्तस्व’ इति मन्त्राभ्यामभितः पुरोडाशमाहुती जुहोति पुरस्तादुर्परिष्टाच्च । ‘अभितःपरितः’ इति द्वितीया ।
विश्वास-प्रस्तुतिः
यज॑मानम् ए॒वोर्जा च॑ र॒य्या चो॑भ॒यत॒ᳶ परि॑ गृह्णाति ।
Keith
verily with strength and with wealth he surrounds on either side the sacrificer.
मूलम्
यज॑मानमे॒वोर्जा च॑ र॒य्या चो॑भ॒यत॒ᳶ परि॑ गृह्णाति ।
भट्टभास्कर-टीका
यजमानमेवेत्यादि । ‘सावेकाचः’ इत्येकत्रोदात्तत्वम् । ‘उदात्तयणः’ इतीतरत्र ॥
मूलम् (संयुक्तम्)
आदि॒त्या वा अ॒स्माल्लो॒काद॒मुल्ँ लो॒कमा॑य॒न्ते॑ऽमुष्मिल्ँ॑ लो॒के व्य॑तृष्य॒न्त इ॒मल्ँ लो॒कम्पुन॑रभ्य॒वेत्या॒ग्निमा॒धायै॒तान् होमा॑नजुहवु॒स्त आ॑र्ध्नुव॒न्ते सु॑व॒र्गल्ँ लो॒कमा॑य॒न्यᳶ प॑रा॒चीन॑म्पुनरा॒धेया॑द॒ग्निमा॒दधी॑त॒ स ए॒तान् होमा॑ञ्जुहुया॒द्यामे॒वाऽऽदि॒त्या ऋद्धि॒मार्ध्नु॑व॒न्तामे॒वर्ध्नो॑ति ॥
तृतीयाग्नेर् आधानम्
विश्वास-प्रस्तुतिः
आदि॒त्या वा अ॒स्माल् लो॒काद् अ॒मुल्ँ लो॒कम् आ॑यन् +++(पुनराधानेन)+++ ।
ते अ॑मुष्मिल्ँ॑ लो॒के व्य॑तृष्यन् ।
Keith
The Adityas went from this world to yonder world, they were thirsty in yonder world,
मूलम्
आदि॒त्या वा अ॒स्माल्लो॒काद॒मुल्ँ लो॒कमा॑यन् ।
ते अ॑मुष्मिल्ँ॑ लो॒के व्य॑तृष्यन् ।
भट्टभास्कर-टीका
4आदित्या इत्यादि ॥ भूलोकाद्द्योलोकं गताः ऋद्ध्यर्थं कृत-पुनर्-आधानाः आदित्याः । तत्र च ते व्यतृष्यन् भूयोपि ऋद्ध्य्-अभावेन विविधं तृष्यन्तोभवन् । तृषा पिपासायां दैवादिकः ।
विश्वास-प्रस्तुतिः
त इ॒मल्ँ लो॒कम् पुन॑र् अभ्य॒वेत्या॒ग्निम् आ॒धायै॒तान् होमा॑न् अजुहवुः।
त आ॑र्ध्नुवन् ।
ते सु॑व॒र्गल्ँ लो॒कमा॑यन् ।
Keith
having returned to this world and having established the fire, they offered these oblations; they prospered, they went to the world of heaven.
मूलम्
त इ॒मल्ँ लो॒कम्पुन॑रभ्य॒वेत्या॒ग्निमा॒धायै॒तान् होमा॑नजुहवुः।
त आ॑र्ध्नुवन् ।
ते सु॑व॒र्गल्ँ लो॒कमा॑यन् ।
भट्टभास्कर-टीका
ततस्ते पुनरपि इममेव लोकमभ्यवेत्य अभ्यावृत्य तृतीयम् अग्निम् आधाय एतान् ‘लेकः’ इत्यादीन् होमानजुहवुः ऋद्धाः स्वगं गताः ।
विश्वास-प्रस्तुतिः
यᳶ प॑रा॒चीन॑म्+++(=अनन्तरम्)+++ पुनर् आ॒धेया॑द् अ॒ग्निम् आ॒दधी॑त …
स ए॒तान् होमा॑ञ् जुहुयात् ।
Keith
He, who establishes a fire after the second establishment, should offer these oblations;
मूलम्
यᳶ प॑रा॒चीन॑म्पुनरा॒धेया॑द॒ग्निमा॒दधी॑त …
स ए॒तान् होमा॑ञ्जुहुयात् ।
भट्टभास्कर-टीका
य इत्यादि । पराचीनं पुनराधेयात् पुनराधेयानन्तरं तृतीयमित्यर्थः ।
विश्वास-प्रस्तुतिः
याम् ए॒वा ऽऽदि॒त्या ऋद्धि॒म् आर्ध्नु॑व॒न् ताम् ए॒वर्ध्नो॑ति ॥ [16]
Keith
be prospers with the prosperity where with the Adityas prospered.
मूलम्
यामे॒वाऽऽदि॒त्या ऋद्धि॒मार्ध्नु॑व॒न्तामे॒वर्ध्नो॑ति ॥ [16]
भट्टभास्कर-टीका
यामित्यादि । अयमृध्नोतिः ऋद्धौ च वर्तते यथा ऋध्नुवन्तीति । ऋद्धिकर्मिकायां च प्राप्तौ ऋद्धिमार्ध्नुवन्निति । तत्र पोषं पुष्णातीतिवत्प्राप्तिमात्रप्रवृत्तिर्द्वितीयो द्रष्टव्यः ॥
इति पञ्चमे चतुर्थोनुवाकः ॥