भास्करोक्त-विनियोगः
7अग्निहोत्रमन्त्राव् उपस्थानार्थौ - तत्र प्रथमा मन इति विराट् ॥
विश्वास-प्रस्तुतिः ...{Loading}...
मनो॒ ज्योति॑र् जुषता॒म्, आज्यव्ँ॒
विच्छि॑न्नय्ँ य॒ज्ञँ सम् इ॒मन् द॑धातु ।
बृह॒स्पति॑स् तनुताम् इ॒मन् नो॒,
विश्वे॑ दे॒वा इ॒ह मा॑दयन्ताम् ॥
मनो ज्योतिर् ...{Loading}...
Keith
Mind, light, rejoice in the oblation.
May be unite this scattered sacrifice;
May Brhaspati extend it;
May the All-gods rejoice herein.
मूलम्
मनो॒ ज्योति॑र्जुषता॒माज्यव्ँ॒विच्छि॑न्नय्ँ य॒ज्ञँ समि॒मन्द॑धातु ।
बृह॒स्पति॑स्तनुतामि॒मन्नो॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ताम् ॥
पद-पाठः
मनः॑ । ज्योतिः॑ । जु॒ष॒ता॒म् । आज्य॑म् । विच्छि॑न्न॒मिति॒ वि-छि॒न्न॒म् । य॒ज्ञम् । समिति॑ । इ॒मम् । द॒धा॒तु॒ ॥ बृह॒स्पतिः॑ । त॒नु॒ता॒म् । इ॒मम् । नः॒ । विश्वे॑ । दे॒वाः । इ॒ह । मा॒द॒य॒न्ता॒म् ॥
भट्टभास्कर-टीका
हे अग्ने तव ज्योतिः कीदृशं मननीयम् ।
यद्वा - मनश् शेषमुद्वासितेन पीडितं यन् मननीयम् एवासीत्
नान्यत्वे[त्र]विद्यते तद् इदम् आज्यं जुषतां सेवतां अनेन कर्मणा पूर्ववत्समृद्धमस्तु ।
यद्वा - मनस् सदा मननीयं मनोहरं अग्न्याख्यं ज्योतिः उद्वासनापराधं चेतस्य् अकृत्वा जुषताम् आज्यम् इति । ततो विच्छिन्नम् उद्वासने तव यज्ञम् इमं सन्दधातु ।
बृहस्पतिश्च नः अस्माकमिमं यज्ञं तनुतां विश्वे देवाश्च इहास्मिन्कर्मणि मादयन्तां मोद(य)न्ताम् । मद तृप्तियोगे चुरादिः । बृहस्पतिशब्दश्च पारस्करादिः, वनस्पत्यादिश्च । तेन सुडागमः, पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वं च ॥
सायण-टीका
मनो ज्योतिरिति।
कल्पः - “अथान्तर्वेद्यद्भिर्मार्जयते मनो ज्योतिर्जुषता-माज्यं विच्छिन्नं यज्ञँ समिमं दधातु। बृहस्पतिस्तनुतामिमं नो विश्वे देवा इह मादयन्तामिति” इति।
मनो ज्योतिर्मननीयोऽयमग्निस्तत्तदाहुतिष्वाज्यं सेवताम्। केनापि वैकल्येन विच्छिन्नमिमं यज्ञं वैकल्यपरिहारेण संदधातु। बृहस्पतिः स्वयमेव नोऽस्मदीयमिमं यज्ञ तनुताम्। विश्वे देवा इड यज्ञे मादयन्तां तृप्यन्तु।
भास्करोक्त-विनियोगः
8द्वितीया - सप्त त इति त्रिष्टुप्॥
विश्वास-प्रस्तुतिः ...{Loading}...
स॒प्त ते॑ अग्ने स॒मिध॑स्, स॒प्त जि॒ह्वास्
स॒प्त [11] ऋष॑यस्, स॒प्त धाम॑ प्रि॒याणि॑ ।
स॒प्त होत्राः॑, सप्त॒धा त्वा॑ यजन्ति,
स॒प्त योनी॒र् आ पृ॑णस्वा घृ॒तेन॑ ॥
सर्वाष् टीकाः ...{Loading}...
Keith
Seven are thy kindling-sticks, O Agni, seven thy tongues;
Seven seers [2], seven dear abodes,
Seven priesthoods sevenfold sacrifice to thee;
Seven birthplaces with ghee do thou fill.
मूलम्
स॒प्त ते॑ अग्ने स॒मिध॑स्स॒प्त जि॒ह्वास्स॒प्त [11] ऋष॑यस्स॒प्त धाम॑ प्रि॒याणि॑ ।
स॒प्त होत्राः॑ सप्त॒धा त्वा॑ यजन्ति स॒प्त योनी॒रा पृ॑णस्वा घृ॒तेन॑ ॥
भट्टभास्कर-टीका
हे अग्ने तव प्रियाणि सप्त धामानि स्थानानि भूरादयो लोकाः । ‘सुपां सुलुक्’ इति धाम्नो जसो लुक् । तेषु सप्तसु धामसु तव सप्त समिधः सम्यगिद्धास्तनवः । सप्त जिह्वा ज्याला याभिस्सप्तसु रसनास्वदनाय स्वादयसि सप्त ऋषयः दर्शयित्र्यः प्रकाशशक्तयः । यद्वा - सप्तर्षयो मन्त्राः सप्त धिष्ण्यविषयाः । सप्त होत्राः होत्रादयो वषट्-कर्तारः । ते त्वामेकं सप्तधा यजन्ति । स त्वं तथेष्टः सप्त योनीः स्थानानि भूरादीनि सप्त कारणानि घृतेनाज्येन उदकेन वा फलभूतेन आपृणस्व आप्रीणय । पृण प्रीणने ॥
सायण-टीका
पाठस्तु— २१९४ सप्त ते अग्न इति।
हेऽग्ने तव समिधः सप्तसंख्या अश्वत्थोदुम्बर-पलाश-शमी-विकङ्कताशनिहत-वृक्ष–पुष्कर-पर्ण-रूपाः।
अत एव सूत्रकार आधानप्रकरणे सप्त संभारान्समन्त्रकाननुक्रम्येति वानस्पत्या इत्युपसंजहार।
ज्वालारूपा जिह वाश्च सप्त।
तथा चाऽऽथर्वणिका आमनन्ति—
“काली कराली च मनेजवा च सुलोहिता या च सुधूभ्रवर्णा।
स्फुलिङ्किनी विश्वरुची च देवी लेलायमना इति सप्त जिह्वाः” इति।
ऋषयो मन्त्राः।
ते च यथेत्क्तसमित्संपादनार्थाः सप्तसंख्याकाः
“अश्वो रूपं कृत्वा यदश्वत्थेऽतिष्ठः” इत्बादयः समाम्नाताः।
प्रियाणि धामः स्थानानि, आहवनीयगार्हपत्यदक्षिणग्निसभ्यावसथ्यप्राजहिताग्नीघ्रीयाख्यानि सोमयाने वह्रिधारंकाणि सप्तसंख्याकानि।
होत्रा होतृप्रमुखा वषट्कर्तारो होता प्रशास्ता ब्राह्मणच्छंसी पोता नेष्टाऽऽग्नीघ्रोऽच्छावकश्चेति सप्तसंख्याकाः।
त्वां यजमानाः सप्तधा यजन्ति। अग्निष्टोमोऽत्यग्निष्टेम उक्थ्यः षोडश्यतिरात्रोऽप्नोर्यामो वाजपेयश्चेति सप्त प्रकाराः।
तादृशस्त्वं सप्त योनीराहवनीयादि ( द्युत्पति ) स्थानानि घृतेन सर्वतः पूरय।