अग्निर्ऋषिः
पञ्चकपाल-विधिः
मूलम् (संयुक्तम्)
परा॒ वा ए॒ष य॒ज्ञम्प॒शून्व॑पति यो॑ऽग्निमु॑द्वा॒सय॑ते॒ पञ्च॑कपालᳶ पुरो॒डाशो॑ भवति पाङ्क्तो॑ य॒ज्ञᳶ पाङ्क्ताः॑ प॒शवो॑ य॒ज्ञमे॒व प॒शूनव॑ रुन्धे
विश्वास-प्रस्तुतिः
परा॒ वा ए॒ष य॒ज्ञम् प॒शून् व॑पति॒,
यो॑ऽग्निम् उ॑द्वा॒सय॑ते।
Keith
He who removes the fire casts away the sacrifice and cattle.
मूलम्
परा॒ वा ए॒ष य॒ज्ञम्प॒शून्व॑पति॒ यो॑ऽग्निमु॑द्वा॒सय॑ते।
भट्टभास्कर-टीका
1परा वा इत्यादि ॥ परावापो विनाशः ।
विश्वास-प्रस्तुतिः
पञ्च॑कपालᳶ पुरो॒डाशो॑ भवति ।
पाङ्क्तो॑ य॒ज्ञः ।
पाङ्क्ताः॑ प॒शवः॑ ।
य॒ज्ञम् ए॒व प॒शूनव॑ रुन्धे ।
Keith
The sacrificial cake is offered on five potsherds;
the sacrifice is fivefold,
cattle are fivefold;
verily he wins the sacrifice and cattle.
मूलम्
पञ्च॑कपालᳶ पुरो॒डाशो॑ भवति ।
पाङ्क्तो॑ य॒ज्ञः ।
पाङ्क्ताः॑ प॒शवः॑ ।
य॒ज्ञमे॒व प॒शूनव॑ रुन्धे ।
भट्टभास्कर-टीका
पञ्चकपाल इति पुनर्विधानं प्रयोजनान्तरार्थम् ।
पाङ्क्तो यज्ञ इति, धानादिपञ्चकाधीनसिद्धित्वात् । उत्सादित्वादणपवादोऽञ् उक्तः ।
पाङ्क्ता इति पशुसाधनत्वात्पाङ्क्ताः । यज्ञं पशूंश्च अवरुन्धे प्राप्नोति ॥
मूलम् (संयुक्तम्)
वीर॒हा वा ए॒ष दे॒वानाय्ँ॒यो॑ऽग्निमु॑द्वा॒सय॑ते न वा ए॒तस्य॑ ब्राह्म॒णा ऋ॑ता॒यवᳶ॑ पु॒राऽन्न॑मक्षन् प॒ङ्क्त्यो॑ याज्यानुवा॒क्या॑ भवन्ति॒ पाङ्क्तो॑ य॒ज्ञᳶ पाङ्क्त॒ᳶ पुरु॑षो दे॒वाने॒व वी॒रन्नि॑रव॒दाया॒ग्निम्पुन॒रा [5]ध॒त्ते ।
पङ्क्ति-विधिः
विश्वास-प्रस्तुतिः
वीर॒हा वा ए॒ष दे॒वानाय्ँ॒, यो॑ ऽग्निम् उ॑द्वा॒सय॑ते।
न वा ए॒तस्य॑ ब्राह्म॒णा ऋ॑ता॒यवᳶ॑ पु॒रा ऽन्न॑म् अक्षन्+++(=नादन्)+++।
Keith
Now he who removes the fire is the slayer of the hero among the gods;
Brahmans desirous of holiness did not aforetime eat his food;
मूलम्
वीर॒हा वा दे॒वानाय्ँ॒यो॑ऽग्निमु॑द्वा॒सय॑ते॒
न वा ए॒तस्य॑ ब्राह्म॒णा ऋ॑ता॒यवᳶ॑ पु॒राऽन्न॑मक्षन्।
भट्टभास्कर-टीका
2वीरहेत्यादि याज्यानुवाक्या विशेषविधिः ॥ देवानां मध्ये वीरस्याग्नेर्हन्ता, का कथान्येषां देवानामिति? तस्मात् सर्वेप्यस्माद्बिभ्यतीति । ऋतायवः ऋतं सत्यं यज्ञं वा आत्मन इच्छन्तः । क्यचि ‘न छन्दस्यपुत्रस्य’ इतीत्वाभावः । ‘क्याच्छन्दसि’ इत्युप्रत्ययः । ऋतायुत्वादेतस्योद्वासिताग्नेरन्नं नाक्षन् नादन्, अभोज्यान्नत्वादेतस्य । अत्तेर्लुङि ‘लुङ्सनोर्घसॢ’ इति घस्लादेशः, ‘मन्त्रे घस’ इत्यादिना च्लेर्लुक्, ‘घसिभसोः’ इत्युपधालोपः, ‘शासिवसिघसीनां च’ इति षत्वम् ।
विश्वास-प्रस्तुतिः
प॒ङ्क्त्यो॑ याज्यानुवा॒क्या॑ भवन्ति॒,
पाङ्क्तो॑ य॒ज्ञᳶ, +++(इन्द्रियगणनया, शतायुष्ट्वात्)+++ पाङ्क्त॒ᳶ पुरु॑षः ।
Keith
the Yajyas and Anuvakyas are in the Pankti metre;
the sacrifice is fivefold, man is fivefold;
मूलम्
प॒ङ्क्त्यो॑ याज्यानुवा॒क्या॑ भवन्ति॒,
पाङ्क्तो॑ य॒ज्ञᳶ, पाङ्क्त॒ᳶ पुरु॑षः ।
भट्टभास्कर-टीका
पङ्क्त्य इति । ‘अग्ने तमद्याश्वं न स्तोमैः’ इति चतस्रोऽक्षरपङ्क्तयः । तत्र द्वे अग्न्याधेयस्य याज्यानुवाक्ये द्वे स्विष्टकृतः । याज्यानुवाक्ये च याज्यानुवाक्ये चेति कृतैकशेषयोर्द्वन्द्वः । छान्दसमुत्तरपदप्रकृतिस्वरत्वम् ।
पाङ्क्तः पुरुष इति । ‘पाङ्क्तं वा इदं सर्वम्’ इति ।
विश्वास-प्रस्तुतिः
दे॒वान् ए॒व वी॒रन् नि॑रव॒दाया॒ग्निम् पुन॒र् आ ध॑त्ते ।
Keith
verily making recompense to the gods for the hero he re-establishes the fire [1].
मूलम्
दे॒वाने॒व वी॒रन्नि॑रव॒दाया॒ग्निम्पुन॒रा ध॑त्ते ।
भट्टभास्कर-टीका
देवानिति । देवान् तेषां च वीरं निरवदाय उद्वासनलक्षणभयस्थानान्निष्कृष्य अग्निं पुनराधत्ते ॥
विश्वास-प्रस्तुतिः
+++(४ पङ्क्तयः २५-अक्षरशो??)+++ श॒ताक्ष॑रा भवन्ति।
श॒तायु॒ᳶ पुरु॑षश् श॒तेन्द्रि॑यः।
आयु॑ष्य् ए॒वेन्द्रि॒ये+++(=इन्द्रत्वे)+++ प्रति॑ तिष्ठति।
Keith
They are of a hundred syllables; man lives a hundred years and has a hundred powers; verily he rests on life and power.
मूलम्
श॒ताक्ष॑रा भवन्ति श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति।
भट्टभास्कर-टीका
3शताक्षरा इति ॥ उक्ता अक्षरपङ्क्तयश्चतस्र इति । तत्रैकैका पञ्चविंशत्यक्षरा । सर्वास्सम्भूय शताक्षरा इति । शतायुश्शतवर्षः शतेन्द्रियश्शतवीर्यः आयुषीन्द्रिये च प्रतिष्ठितो भवति ॥
अग्नेर् अवृद्धौ
मूलम् (संयुक्तम्)
यद्वा अ॒ग्निराहि॑तो॒ नर्ध्यते॒ ज्यायो॑ भाग॒धेय॑न्निका॒मय॑मानो॒ यदा॑ग्ने॒यँ सर्व॒म्भव॑ति॒ सैवास्यर्धिः
विश्वास-प्रस्तुतिः
यद् वा अ॒ग्निर् आहि॑तो॒ नर्ध्यते॒ ..
+++(तत् पुनराधानेन)+++ ज्यायो॑ भाग॒धेय॑न् निका॒मय॑मानः।
यद् आ॑ग्ने॒यँ सर्व॒म् भव॑ति॒ +++(पुनराधाने प्राक्तनप्रपाठके देवगणोक्तरीत्या)+++,
सैवास्यर्धिः।
Keith
In that Agni when established does not prosper, (it is that he is) desiring a greater portion; in that it is all Agni’s, that is his prosperity.
मूलम्
यद्वा अ॒ग्निराहि॑तो॒ नर्ध्यते॒ ..
ज्यायो॑ भाग॒धेय॑न्निका॒मय॑मानो॒ यदा॑ग्ने॒यँ सर्व॒म्भव॑ति॒ सैवास्यर्धिः।
भट्टभास्कर-टीका
4यद्वा इत्यादि ॥ येन नर्ध्यते ऋद्धिहेतुर् न भवति तज् ज्यायः प्रशस्यतरं अग्न्याधेयभागात् केवलाग्नेयत्वात् पुनराधेय-भागं तन् निकामयमानः तन् निभृतं आत्मनस् सम्पादयितुम् इच्छन्
ऋद्धिहेतुताम् अग्निर् न प्रतिपद्यत इति ।
आहितशब्दे ‘गतिरनन्तरः’ इति स्वरः । ततः केवलाग्नेयकरणेन ऋद्धिहेतुरयमिति ।
तस्मात् सर्वमाग्नेयं कर्तव्यमिति विधिः ॥
विभक्तिविधानम्
मूलम् (संयुक्तम्)
सव्ँवा ए॒तस्य॑ गृ॒हे वाक्सृ॑ज्यते यो॑ऽग्निमु॑द्वा॒सय॑ते॒ स वाचँ॒ सँसृ॑ष्टाय्ँ॒यज॑मान ईश्व॒रोऽनु॒ परा॑भवितो॒र्विभ॑क्तयो भवन्ति वा॒चो विधृ॑त्यै॒ यज॑मान॒स्याप॑राभावाय [6]
विश्वास-प्रस्तुतिः
सव्ँ वा ए॒तस्य॑ गृ॒हे वाख् +++(सं-)+++सृ॑ज्यते॒+++(=मिश्र्यते)+++,
यो॑ऽग्निम् उ॑द्वा॒सय॑ते।
स वाचँ॒ सँसृ॑ष्टाय्ँ॒ +++(→अनु)+++ यज॑मान ईश्व॒रो +++(भवति)+++ ऽनु॒ परा॑भवितोः+++(=पराभव + तोसुँन् = तुमुन्) +++।
+++(ततो ‘अग्नाग्ने अग्नावग्ने अग्निनाग्ने अग्निमग्ने’ इति चतस्रः)+++ विभ॑क्तयो भवन्ति - वा॒चो विधृ॑त्यै॒, यज॑मान॒स्याप॑राभावाय ।
Keith
Speech is uttered together in the house of him who removes the fire; the sacrificer is liable to perish on account of the uttering together of speech.
There are discriminations, to sever speech and preserve the sacrificer [2].
मूलम्
सव्ँवा ए॒तस्य॑ गृ॒हे सृ॑ज्यते॒,
यो॑ऽग्निमु॑द्वा॒सय॑ते॒ स वाचँ॒ सँसृ॑ष्टाय्ँ॒यज॑मान ईश्व॒रोऽनु॒ परा॑भवितो॒र्विभ॑क्तयो भवन्ति वा॒चो विधृ॑त्यै॒ यज॑मान॒स्याप॑राभावाय ।
भट्टभास्कर-टीका
5अथ विभक्ति-विधानार्थम् आह - सं वा इति ॥ अस्य वाग् गृहे संसृज्यते गृहवासिनां वाग्-योगे न वैलक्षण्यं भजते ।
ततश् चाबहुमत-वाक्त्वात् पराभवितोः पराभवितुम् ईश्वरस् स्यात् ।
ततश् चास्य गृहान् भावयितुम् एव वरम् इति ।
वक्ष्यति च - ‘आयतनाद् एव नैति’ इति ।
मूकत्वं वा वाक्-संसर्गः । ‘ईश्वरे तोसुन्-कसुनौ’ । लक्षणेनोः कर्मप्रवचनीयत्वम् ।
तस्मात् विभक्तयो भवन्तीति विधिः ।
विभज्यते व्यावर्त्यते ऽस्य वाग्भिर् इति विभक्तयः -
‘अग्नाग्ने अग्नावग्ने अग्निनाग्ने अग्निमग्ने’ इति चतस्रः ।
एताश् च चतुर्षु प्रयाजेषु देयाः - नोत्तमे ।
‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ।
विधृत्यै विलक्षणावस्थानाय प्रयाजानाम् अग्न्याधेयाद् वैलक्षण्यापादने वाचस् संसर्गदोषः परिह्रियत इति ॥
विश्वास-प्रस्तुतिः
विभ॑क्तिङ् करोति॒ - ब्रह्मै॒व तद् अ॑कः+++(=करोति)+++ ।
Keith
He makes a discrimination; verily he makes the holy power (Brahman).
मूलम्
विभ॑क्तिङ्करोति॒ ब्रह्मै॒व तद॑कः ।
भट्टभास्कर-टीका
6विभक्तिमिति ॥ विभक्तिं वैलक्षण्यविभक्तिप्रदानमस्येति[मस्य] कर्मणो यत्करोति तेन हेतुना पुनराधेयं ब्रह्म परिबृढं अग्न्याधेयात् अकः करोति । छान्दसो लुङ्, ‘मन्त्रे घस’ इति च्लेर्लुक् । मन्त्र इति वेदमात्रस्य ग्रहणम् । यद्वा - लङि व्यत्ययेन शपो लुक् ॥
उपांशुयागः
मूलम् (संयुक्तम्)
उपाँ॒शु य॑जति॒ यथा॑ वा॒मव्ँवसु॑ विविदा॒नो गूह॑ति ता॒दृगे॒व तद॒ग्निम्प्रति॑ स्विष्ट॒कृत॒न्निरा॑ह॒ यथा॑ वा॒मव्ँवसु॑ विविदा॒नᳶ प्र॑का॒शञ्जिग॑मिषति ता॒दृगे॒व तत्।
विश्वास-प्रस्तुतिः
+++(ओत्तमादनूयाजात्)+++ उ॒पाँ॒शु य॑जति ।
Keith
He speaks the Yajus, muttering;
मूलम्
उ॒पाँ॒शु य॑जति ।
भट्टभास्कर-टीका
7उपांश्विति ॥ सर्वो याग उपांशुः कर्तव्यः ओत्तमादनूयाजात् । ‘उपाद्व्यजजिनम्’ इत्युत्तरपदान्तोदात्तत्वम् ।
विश्वास-प्रस्तुतिः
यथा॑ वा॒मव्ँवसु॑ विविदा॒नो गूह॑ति ता॒दृगे॒व तत्।
Keith
it is as if one who has found a rich treasure hides it.
मूलम्
यथा॑ वा॒मव्ँवसु॑ विविदा॒नो गूह॑ति ता॒दृगे॒व तत्।
भट्टभास्कर-टीका
यथेति । यथा वामं वननीयं वरिष्ठं धनं मुषितं विविदानः लभमानः लब्धुं यतमानः तत् गूहति संवृणोति तादृक्तदुपांशुकरणम् । छान्दसस्य लिटः कानजादेशः ॥
स्विष्टकृद् उच्चैः
विश्वास-प्रस्तुतिः
अ॒ग्निम् प्रति॑ स्विष्ट॒कृत॒न् निरा॑ह+++(=उच्चैर् आह)+++ ।
Keith
To Agni Svistakrt he speaks aloud;
मूलम्
अ॒ग्निम्प्रति॑ स्विष्ट॒कृत॒न्निरा॑ह ।
भट्टभास्कर-टीका
8अग्निं प्रतीति ॥ स्विष्टकृतमग्निं प्रति निराह निर्गतं ब्रूयात् उच्चैरिति यावत् । लक्षणादिना प्रतेः कर्मप्रवचनीयत्वम् ।
विश्वास-प्रस्तुतिः
यथा॑ वा॒मव्ँवसु॑ विविदा॒नᳶ प्र॑का॒शञ् जिग॑मिषति ता॒दृग् ए॒व तत् ।
Keith
it is as if one who has found a rich treasure is fain to go openly.
मूलम्
यथा॑ वा॒मव्ँवसु॑ विविदा॒नᳶ प्र॑का॒शञ्जिग॑मिषति ता॒दृगे॒व तत् ।
भट्टभास्कर-टीका
यथेति । यथा वामं वसु विविदानः अन्विष्य लब्धवान् तत्प्रकाशं विवृतं जिगमिषति ख्यापयितुमिच्छति । अहो इदं दृष्टं पश्यतेति तादृक् तदुच्चैर्वचनम् । परोक्षे लिटः कानजादेशः ।
वषट्कारः
विश्वास-प्रस्तुतिः
+++(“ये यजामह” इत्य् अस्यानन्तरं)+++
विभ॑क्तिम् उ॒क्त्वा
प्र॑या॒जेन॒ +++(मन्त्रेण हविर् ददन्)+++ वष॑ट्करोत्य्
- आ॒यत॑नाद् ए॒व नैति॑।
Keith
Uttering the discrimination he makes the Vasat cry with the foresacrifice; verily he leaves not his abode.
मूलम्
विभ॑क्तिमु॒क्त्वा प्र॑या॒जेन॒ वष॑ट्करोत्या॒यत॑नादे॒व नैति॑।
भट्टभास्कर-टीका
विभक्तिमिति । “ये यजामह” इत्य् अस्यानन्तरं विभक्तिम् उक्त्वा ततः प्रयाज-मन्त्रेण वषट्-करोति हविर् ददाति । अनेन कर्मणा स्वस्माद् आयतनान् नैति न गच्छति । अनुष्ठेयवचनः स्व आयतने निवसति ॥
आहुतिस्थाने
मूलम् (संयुक्तम्)
यज॑मानो॒ वै पु॑रो॒डाशᳶ॑ प॒शव॑ ए॒ते आहु॑ती॒ यद॒भितᳶ॑ पुरो॒डाश॑मे॒ते आहु॑ती [7]जु॒होति॒ यज॑मानमे॒वोभ॒यतᳶ॑ प॒शुभि॒ᳶ परि॑ गृह्णाति
विश्वास-प्रस्तुतिः
यज॑मानो॒ वै पु॑रो॒डाशः॑ +++(प्राधान्यात्)+++।
मूलम्
यज॑मानो॒ वै पु॑रो॒डाशः॑ ।
Keith
The sacrificial cake is the sacrificer,
भट्टभास्कर-टीका
9यजमानो वा इत्यादि ॥ प्राधान्यात् ताद्-धर्म्येण ताच्-छब्द्यम् ।
विश्वास-प्रस्तुतिः
प॒शव॑ ए॒ते +++(द्वे)+++ आहु॑ती।
मूलम्
प॒शव॑ ए॒ते आहु॑ती।
Keith
the oblations are cattle;
भट्टभास्कर-टीका
पशव इति । तद्धेत्वात्ताच्छब्द्यम् । स्वयं पशव एव पुनरूर्जा निवर्तस्व सह रय्या निवर्तस्वेत्येते आहुती ।
विश्वास-प्रस्तुतिः
यद् अ॒भितᳶ॑ पुरो॒डाश॑म् +++(पुरस्ताद् उपरिष्टाच् च)+++ ए॒ते आहु॑ती जु॒होति॒,
यज॑मानम् ए॒वोभ॒यतᳶ॑ प॒शुभि॒ᳶ परि॑ गृह्णाति ।
Keith
in that he offers these libations on either side of the cake [3], he thus surrounds the sacrificer on either side with cattle.
मूलम्
यद॒भितᳶ॑ पुरो॒डाश॑मे॒ते आहु॑ती जु॒होति॒
यज॑मानमे॒वोभ॒यतᳶ॑ प॒शुभि॒ᳶ परि॑ गृह्णाति ।
भट्टभास्कर-टीका
यदभित इति । अभितः पुरस्ताद् उपरिष्टाच् च पुरोडाशहोमस्य । ‘अभितःपरितः’ इति द्वितीया । गतमन्यत् ॥
सम्भारसम्भरणापेक्षा
विश्वास-प्रस्तुतिः
“+++(अग्न्याधेयेन)+++ कृ॒त-य॑जु॒स् सम्भृ॑त-सम्भार॒” इत्या॑हु॒र्, “न स॒म्भृत्याः॑ सम्भा॒रा +++(पुनराधेये)+++, न यजुᳶ॑ क॒र्त॒व्य॑म्” इति॑ +++(च केचित्)+++।
Keith
‘After performing the Yajus and collecting the apparatus’, they say: ’the apparatus should not be collected, the Yajus should not be performed,’
मूलम्
कृ॒तय॑जु॒स्सम्भृ॑तसम्भार॒ इत्या॑हु॒र्न स॒म्भृत्याः॑ सम्भा॒रा न यजुᳶ॑ क॒र्त॒व्य॑मिति॑ ।
भट्टभास्कर-टीका
10कृतयजुरिति ॥ कृतस्तम्बयजुर् अग्न्याधेयेन सम्भृताश्च सम्भाराः । तस्माद् अत्र न सम्भृत्याः न सम्भरणीयास् सम्भाराः न यजुः कर्तव्यमित्याहुरेके आचार्याः । ‘बृञोसंज्ञायाम्’ इति क्यप् ॥
विश्वास-प्रस्तुतिः
अथो॒ खलु॑ “स॒म्भृत्या॑ ए॒व स॑म्भा॒राᳵ,
क॑र्त॒व्यय्ँ॑ यजु॑र् - य॒ज्ञस्य॒ समृ॑द्ध्यै” +++(इत्य् अस्मत्पक्षः)+++।
Keith
they say: the apparatus should be collected and the Yajus performed, for the prosperity of the sacrifice.
मूलम्
अथो॒ खलु॑ स॒म्भृत्या॑ ए॒व स॑म्भा॒राᳵ क॑र्त॒व्यय्ँ॑यजु॑र्य॒ज्ञस्य॒ समृ॑द्ध्यै ।
भट्टभास्कर-टीका
11एतद् दूषयति - अथो खलु वयं ब्रूमः सम्भृत्या एवेति ॥ गतम् ।
दक्षिणा
मूलम् (संयुक्तम्)
पुनर्निष्कृ॒तो रथो॒ दक्षि॑णा पुनरुत्स्यू॒तव्ँवासᳶ॑ पुनरुत्सृ॒ष्टो॑ऽन॒ड्वान्पु॑नरा॒धेय॑स्य॒ समृ॑द्ध्यै
विश्वास-प्रस्तुतिः
पु॒न॒र्-नि॒ष्कृ॒तो रथो॒ दक्षि॑णा,
पुनरुत्स्यू॒तव्ँ वासः॑
पुनरुत्सृ॒ष्टो॑ऽन॒ड्वान्
पु॑नरा॒धेय॑स्य॒ समृ॑द्ध्यै ।
Keith
The sacrificial fee is a renovated chariot, a newly-sewn garment, a draught ox let loose again, for the prosperity of the re-establishing.
मूलम्
पु॒न॒र्-नि॒ष्कृ॒तो रथो॒ दक्षि॑णा,
पुनरुत्स्यू॒तव्ँ वासः॑
पुनरुत्सृ॒ष्टो॑ऽन॒ड्वान्
पु॑नरा॒धेय॑स्य॒ समृ॑द्ध्यै ।
भट्टभास्कर-टीका
12पुनर्निष्कृत इत्यादि ॥ पुनर्निष्कृतः पुनस्संस्कृतः । पुनरुत्स्यूतं पुनस्संस्कृतमेव संहितच्छिद्रम् । षिवेर्निष्ठायां ‘च्छ्वोश्शूडनुनासिके च’ इत्यूठ् । पुनरुत्सृष्टः अवशीर्णगवः । एते पात्रे सम्मितादयो द्रष्टव्याः, उपपदसमासो वा । कृदुत्तरपदप्रकृतिस्वरत्वम् । पुनश्चनसौ छन्दसि’ इति गतित्वात् गतिसमासो वा । प्रवृद्धादेराकृतिगणत्वादुत्तरपदान्तोदात्तत्वम् ॥
अग्निहोत्रविशेषः
मूलम् (संयुक्तम्)
स॒प्त ते॑ अग्ने स॒मिध॑स्स॒प्त जि॒ह्वा इत्य॑ग्निहो॒त्रञ्जु॑होति यत्र॑यत्रै॒वास्य॒ न्य॑क्त॒न्ततः॑ [8] ए॒वैन॒मव॑ रुन्धे
विश्वास-प्रस्तुतिः
“स॒प्त ते॑ अग्ने स॒मिध॑स्स॒प्त जि॒ह्वा” इत्य॑ग्निहो॒त्रञ् जु॑होति ।
यत्र॑यत्रै॒वास्य॒ न्य॑क्त॒न् - तत॑ ए॒वैन॒म् अव॑ रुन्धे ।
Keith
‘Seven are thy kindling-sticks, O Agni, seven thy tongues’; (with these words) he offers the Agnihotra. Wherever there is anything of his nature, thence [4] does he win him.
मूलम्
स॒प्त ते॑ अग्ने स॒मिध॑स्स॒प्त जि॒ह्वा इत्य॑ग्निहो॒त्रञ्जु॑होति ।
यत्र॑यत्रै॒वास्य॒ न्य॑क्त॒न्तत॑ ए॒वैन॒मव॑ रुन्धे ।
भट्टभास्कर-टीका
13सप्त ते अग्ने इति ॥ न्यक्तिः [न्यक्तं न्यक्तिः] नियता अक्तिरनुगतिः ॥
अग्नि-वारुणम्
मूलम् (संयुक्तम्)
वी॒र॒हा वा ए॒ष दे॒वानाय्ँ॒यो॑ऽग्निमु॑द्वा॒सय॑ते॒ तस्य॒ वरु॑ण ए॒वर्ण॒यादा॑ग्निवारु॒णमेका॑दशकपाल॒मनु॒ निर्व॑पेद्यञ्चै॒व हन्ति॒ यश्चा॑स्यर्ण॒यात्तौ भा॑ग॒धेये॑न प्रीणाति नाऽऽर्ति॒मार्च्छ॑ति॒ यज॑मानः ॥ [9]
विश्वास-प्रस्तुतिः
वी॒र॒हा वा ए॒ष दे॒वानाय्ँ॒
यो॑ऽग्निम् उ॑द्वा॒सय॑ते॒ तस्य॒ वरु॑ण ए॒व र्ण॒-यात्+++(=यातयिता)+++ ।
आ॒ग्नि॒-वा॒रु॒णम् एका॑दशकपाल॒म् अनु॒ निर्व॑पेत् ।
यञ् चै॒व हन्ति॒ यश् चा॑स्यर्ण॒-यात्,
तौ भा॑ग॒धेये॑न प्रीणाति ।
नाऽऽर्ति॒म् आर्च्छ॑ति॒ यज॑मानः ॥
Keith
Now he who removes the fire is the slayer of the hero among the gods,
Varuna is the exactor of the recompense;
he should make an offering on eleven potsherds to Agni and Varuna;
him whom he slays and him who exacts the recompense he delights with their own portion;
the sacrificer is not ruined.
मूलम्
वी॒र॒हा वा ए॒ष दे॒वानाय्ँ॒
यो॑ऽग्निमु॑द्वा॒सय॑ते॒ तस्य॒ वरु॑ण ए॒वर्ण॒यात् ।
आ॒ग्नि॒वा॒रु॒णमेका॑दशकपाल॒मनु॒ निर्व॑पेत् ।
यञ्चै॒व हन्ति॒ यश्चा॑स्यर्ण॒यात् ।
तौ भा॑ग॒धेये॑न प्रीणाति ।
नाऽऽर्ति॒मार्च्छ॑ति॒ यज॑मानः ॥
भट्टभास्कर-टीका
14वीरहेत्यादि ॥ पुनर्वचनं हविरन्तरविधानार्थम् । वरुण एव देवानां ये ऋणयात् ऋणेन यातयिता ऋणिनमिव तममुञ्चन् पीडयति । ण्यन्तात्क्विप् । ऋणमिच्छतीति क्यचि वा पूर्ववदीत्वाभावः, शतरि छान्दसो नुमभावः पररूपाभावश्च ॥
पञ्चमे द्वितीयोनुवाकः ॥