०१ पुनराधान-कालद्रव्यादि

पुरराधानसम्बन्ध्य्-अङ्गजात-निरूपणम् ,कालद्रव्यविधिः

अग्निर्ऋषिः

भट्टभास्कर-टीका

प्रस्तावना

अथ अतः परं पुनराधेयब्राह्मणं समन्त्रकं चत्वारोऽनुवाकाः । तत्र केवलाग्नेयतामस्य प्रतिपादयिष्यन्तदर्थमर्थवादान् प्रस्तौति - देवासुरा इत्यादि ॥
‘कृत्तिकास्वग्निमा दधीत’ इत्याद्याधानकाण्डं भविष्यति; तदेतस्मादनुवाकादधस्तान्निवेशयितव्यमिति वक्ष्यते । कर्मक्रमानुरोधादित्थमिदं ज्ञातव्यम्; यथाम्नातमेव त्वध्येतव्यमिति । तत्र ‘कर्मचोदना ब्राह्मणानि’ । ब्राह्मणं नाम कर्मणस्तन्मन्त्राणां च व्याख्यानग्रन्थः ‘ब्राह्मणशेषोर्थवादः’ । ‘निन्दा प्रशंसा परकृतिः पुराकल्पश्च’ इति । ब्राह्मणं च द्विधा कर्मब्राह्मणं कल्पब्राह्मणं चेति । तत्र कर्मब्राह्मणं यत्केवलानि कर्माणि विधत्ते मन्त्रान्विनियुङ्क्ते, न प्रशंसति न निन्दति च, यथा - ‘अनुमत्यै पुरोडाशम्’ इत्यादि सांहितिकम् । अतोऽन्यानि कल्पब्राह्मणानि, यथेदमेव ‘देवासुरास्संयत्ता आसन् ते देवा विजयमुपयन्तः’ इत्यादि । आहुश्च -
क्वचिद्विधिः प्रशंसा च केषु चिद्विधिरेव च ।
केषु चिद्विधिरेव स्यादेवं निन्दानिषेधयोः ॥ इति ॥
तत्र परकृतयः मनुष्यकृतयः, यथा - ‘विश्वरूपो वै त्वाष्ट्रः’ इत्यादयः । पुराकल्पाः प्रजापत्यादिकृतयः, यथा - ‘प्रजापतिः प्रजा असृजत’ इत्यादयः । सर्वाण्येतानि कल्पब्राह्मणानि । अथ ब्राह्मणानुब्राह्मणानि यथा - ‘अनुमत्यै पुरोडाशमष्टाकपार्लं निर्वपति । ये प्रत्यञ्चश्शम्याः’ इत्यादीनि ॥

कथामुखम्

मूलम् (संयुक्तम्)

दे॒वा॒सु॒रास्सय्ँय॑त्ता आस॒न्ते दे॒वा वि॑ज॒यमु॑प॒यन्तो॒ऽग्नौ वा॒मव्ँवसु॒ सन्न्य॑दधत

विश्वास-प्रस्तुतिः

दे॒वा॒सु॒रास् सय्ँय॑त्ता आसन् ।

Keith

The gods and the Asuras were in conflict;

मूलम्

दे॒वा॒सु॒रास्सय्ँय॑त्ता आसन् ।

भट्टभास्कर-टीका

1देवाश्चासुराश्च संयत्ताः सङ्ग्रामार्थमुद्युक्ताः आसन् अभवन् । यती प्रयत्ने, ‘श्वीदितो निष्ठायाम्’ इतीट्प्रतिषेधः, सम्यग्यत्ता इति कर्तरि निष्ठा, तेन प्रादिसमासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् ।

विश्वास-प्रस्तुतिः

ते दे॒वा वि॑ज॒यम् उ॑प॒यन्तो॒
ऽग्नौ वा॒मव्ँ वसु॒ सन्-न्य्-अ॑दधत -
इ॒दमु॑ नो भविष्यति॒ यदि॑ +++(ते)+++ नो जे॒ष्यन्तीति॑ ।

Keith

the gods, in anticipation of the contest, deposited in Agni their desirable riches (thinking), ‘This will still be ours, if they defeat us.

मूलम्

ते दे॒वा वि॑ज॒यमु॑प॒यन्तो॒ऽग्नौ वा॒मव्ँवसु॒ सन्न्य॑दधत -
इ॒दमु॑ नो भविष्यति॒ यदि॑ नो जे॒ष्यन्तीति॑ ।

भट्टभास्कर-टीका

क्वचित् ते देवा विजयमुपयन्तः असुरान्विजयमानाः तेभ्यः पराजयमानेभ्योसुरेभ्यो यद्वामं वसु वननीयं वरिष्ठं वसु धनं समासादितवन्तः तत् सर्वमग्नौ न्यदधत सम्यक् सम्भूय निभृतं निहितवन्तः ।

कथं मन्यमाना इत्याह - इदमु न इति । इदं तावदस्माकमेव भविष्यति यद्यपि पुनरस्मानसुरा जेष्यन्तीति मन्यमाना अयमस्माकमग्निरस्माकमास्त इति तत्र संन्यदधतेति ।

विश्वास-प्रस्तुतिः

तद् अ॒ग्निर् न्य॑कामयत ।

Keith

Agni desired it

मूलम्

तद॒ग्निर्न्य॑कामयत ।

भट्टभास्कर-टीका

तद्देवैरात्मनि निहितं वस्वग्निर्न्यकामयत आत्मसात्कर्तुमैच्छत् ।

विश्वास-प्रस्तुतिः

तेनापा॑क्रामत् ।

Keith

and went away with it.

मूलम्

तेनापा॑क्रामत् ।

भट्टभास्कर-टीका

ततस्स कामयमानस्तेन वसुना सहापाक्रामत् देवसकाशात्पलायत ।

मूलम् (संयुक्तम्)

तद्दे॒वा वि॒जित्या॑व॒रुरु॑त्समाना॒ अन्वा॑य॒न्तद॑स्य॒ सह॒साऽदि॑त्सन्त सो॑ऽरोदी॒द्यदरो॑दी॒त्तद्रु॒द्रस्य॑ रुद्र॒त्वम्

विश्वास-प्रस्तुतिः

तद् दे॒वा वि॒जित्य॑व॒रुरु॑त्समाना॒ +++(अग्निम्)+++ अन्वा॑यन् ।

Keith

The gods having defeated (the Asuras) pursued (Agni) desirous of recovering it.

मूलम्

तद्दे॒वा वि॒जित्या॑व॒रुरु॑त्समाना॒ अन्वा॑यन् ।

भट्टभास्कर-टीका

अथ देवा असुरान्विजित्य तद्वामं वस्ववरुरुत्समानाः आत्मसात्कर्तुमिच्छन्तः अग्निमन्वायन् अन्वगच्छन् ।

रुद्रत्वम्

विश्वास-प्रस्तुतिः

तद॑स्य॒ सह॒साऽऽदि॑त्सन्त ।

मूलम्

तद॑स्य॒ सह॒साऽऽदि॑त्सन्त ।

Keith

They sought violently to take it from him.

भट्टभास्कर-टीका

अनुगम्य च तद्वसु अस्याग्नेस्सकाशात् सहसा बलेन विनैवानुज्ञया आदित्सन्त आदातुमैच्छन् ।

विश्वास-प्रस्तुतिः

सो॑ऽरोदीत्। यद् अरो॑दी॒त् तद् +++(अनुसारकेषु वर्तमानस्य)+++ रु॒द्रस्य॑ रुद्र॒त्वम् ।

Keith

He wept; in that he wept (arodit), that is why Rudra has his name.

मूलम्

सो॑ऽरोदी॒द् - यदरो॑दी॒त्तद्रु॒द्रस्य॑ रुद्र॒त्वम् ।

भट्टभास्कर-टीका

ततःप्रभृत्यग्निं रुद्रमाचक्षते रोदनेन निमित्तेन । ‘रोदेर्णिलुक्च’ इति ण्यन्ताद्विधीयमानो रक्प्रत्ययो बाहुलकात्केवलादपि भवति ।

रजतम् अदक्षिणा

मूलम् (संयुक्तम्)

यदश्र्वशी॑यत॒ तद् [1]र॒ज॒तँ हिर॑ण्यमभव॒त्तस्मा॑द्रज॒तँ हिर॑ण्यमदक्षि॒ण्यम॑श्रु॒जँ हि

विश्वास-प्रस्तुतिः

यद् अश्र्व् अशी॑यत॒, तद् रज॒तँ हिर॑ण्यम् अभवत् ।

Keith

The tear that [1] was shed became silver;

मूलम्

यदश्र्वशी॑यत॒ तद् रज॒तँ हिर॑ण्यमभवत् ।

भट्टभास्कर-टीका

तस्य रुदतो यदश्रु नेत्रजलमशीयत न्यपतत् रजतं रूप्यं हिरण्यमभवत्, हितरमणीयं वा । यद्वा - रूप्यस्वर्णयोर्हिरण्यामिति वर्तते (भवति) ।

विश्वास-प्रस्तुतिः

तस्मा॑द् रज॒तँ हिर॑ण्यम् अदक्षि॒ण्यम् - अ॑श्रु॒-जँ हि ।

Keith

therefore silver is not a suitable gift, for it is born of tears.

मूलम्

तस्मा॑द्रज॒तँ हिर॑ण्यमदक्षि॒ण्यम॑श्रु॒जँ हि ।

भट्टभास्कर-टीका

तदिदानीं रजतेन विशेष्यते - हिरण्यशब्दाभिधानं तु प्रशंसार्थम् । तस्माद्रजतमदक्षिण्यं अदक्षिणार्हं अश्रुजम् । हीति हेतौ । हिरण्यमप्यदक्षिणार्हमिति प्रतिपादनार्थं पुनरपि हिरण्यग्रहणम् । ‘कडङ्करदक्षि- णाछ्व च’ इति यत्प्रत्ययः, ‘ययतोश्चातदर्थे’ इत्युत्तरपदान्तोदात्तत्वम् ।

बर्हिष्य् अदानम्

मूलम् (संयुक्तम्)

यो ब॒र्हिषि॒ ददा॑ति - पु॒राऽस्य॑ सव्ँवत्स॒राद् गृ॒हे रु॑दन्ति तस्मा॑द्ब॒र्हिषि॒ न देयम्

विश्वास-प्रस्तुतिः

यो ब॒र्हिषि॒ +++(अग्निर् इव)+++ ददा॑ति - पु॒राऽस्य॑ सव्ँवत्स॒राद् गृ॒हे रु॑दन्ति ।

Keith

He who gives on the strew, in his house before the year is out they weep;

मूलम्

यो ब॒र्हिषि॒ ददा॑ति पु॒राऽस्य॑ सव्ँवत्स॒राद्गृ॒हे रु॑दन्ति ।

भट्टभास्कर-टीका

तस्मात्, बर्हिषि यज्ञे यो रजतं ददाति अस्य गृहे पुरा संवत्सरात् संवत्सरसमाप्तेः रुदन्ति रोदननिमित्तान्युत्पत्स्यन्ते । ‘यावत्पुरानिपातयोर्लट्’ । यद्वा - ‘सप्तमीपञ्चम्यौ कारकमध्ये’ इति पञ्चमी ।

विश्वास-प्रस्तुतिः

तस्मा॑द्ब॒र्हिषि॒ न देयम् ।

Keith

therefore one should not give on the strew.

मूलम्

तस्मा॑द्ब॒र्हिषि॒ न देयम् ।

भट्टभास्कर-टीका

तस्मात् बर्हिषि रजतं न दद्यादिति । इदं प्रास्सङ्गिकमुक्तम् ॥

पुनराधाने देवता

मूलम् (संयुक्तम्)

सो॒॑ऽग्निर॑ब्रवीद्भा॒ग्य॑सा॒न्यथ॑ व इ॒दमिति॑ पुनरा॒धेय॑न्ते॒ केव॑ल॒मित्य॑ब्रुवन्

विश्वास-प्रस्तुतिः

सो॒॑ऽग्निर् अ॑ब्रवीत् - भा॒ग्य् अ॑सानि॒, अथ॑ व इ॒दमिति॑ ।

Keith

Agni said, ‘Let me have a share; then this will be yours.’

मूलम्

सो॒॑ऽग्निर॑ब्रवीत् - भा॒ग्य॑सानि॒, अथ॑ व इ॒दमिति॑ ।

भट्टभास्कर-टीका

2अथ सः कृतरोदनोग्निः तद्वस्वप्रयच्छन्नेवाब्रवीत् ।

भागी भागवान् असानि भवानि मह्यं भागो युष्माभिर्देयः, अथ तथाकृते इदं मयि निहितं वसु वः युष्माकमेव भविष्यति अहं दास्यामीति ।

विश्वास-प्रस्तुतिः

पु॒न॒रा॒धेय॑न् ते॒ केव॑ल॒मित्य॑ब्रुवन् ।

Keith

They replied, ‘The re-establishing shall be thine alone.’

मूलम्

पु॒न॒रा॒धेय॑न् ते॒ केव॑ल॒मित्य॑ब्रुवन् ।

भट्टभास्कर-टीका

तच्छ्रुश्रुवांसो देवा अब्रुवन् पुनराधेयं ते तवैव केवलमस्ति नान्यः कश्चिदत्र भागीति । पुनः आधानानन्तरमग्निराधीयते तस्मिन्निति पुनराधेयं कर्म अग्न्याधेयस्यैव उत्तराततिः ऋद्धिकामिभिः कर्तव्या । अधिकरणे कृत्यः ।

मूलम् (संयुक्तम्)

ऋ॒ध्नव॒त्खलु॒ स इत्य॑ब्रवी॒द्यो म॑द्देव॒त्य॑म॒ग्निमा॒दधा॑ता॒ इति

विश्वास-प्रस्तुतिः

ऋ॒ध्नव॒त्खलु॒ स - इत्य् अ॑ब्रवी॒द् - यो म॑द्-देव॒त्य॑म् अ॒ग्निम् आ॒दधा॑ता॒ इति

Keith

‘He shall prosper’, he said, who shall establish the fire with me as its divinity.’

मूलम्

ऋ॒ध्नव॒त्खलु॒ स - इत्य् अ॑ब्रवी॒द् - यो म॑द्देव॒त्य॑म॒ग्निमा॒दधा॑ता॒ इति

भट्टभास्कर-टीका

अथाग्निरब्रवीत् ऋध्नवत् ऋध्नुयात् खलु सः।

कः इत्थं यो मद्देवत्यं मदेकदेवत्यमग्निमादधातै आदधीतेति द्वितीयामग्न्याधेयततिं करोतीत्यर्थः । एवमाधातुरभ्युदयमाशास्ते [सै] इति । ऋध्नोतेर्लेटि ‘लेटोडाटौ इत्यडागमः । ‘देवतान्तात्तादर्थ्ये यत्’ । दधातेर्लेटि ‘वैतोन्यत्र’ इत्यैकारः । तच्च तथा देवैः प्रतिश्रुतमिति गम्यते । तस्मात् पुनराधेयं कर्तव्यमिति विधिश्चानुमीयते ।

फल-स्तुतिः

मूलम् (संयुक्तम्)

तम्पू॒षाऽऽध॑त्त॒ तेन॑ [2]पू॒षाऽऽर्ध्नो॒त्तस्मा॑त्पौ॒ष्णाᳶ प॒शव॑ उच्यन्ते तन्त्वष्टाऽऽध॑त्त॒ तेन॒ त्वष्टा॑ऽऽर्ध्नो॒त्तस्मा॑त्त्वा॒ष्ट्राᳶ प॒शव॑ उच्यन्ते तम्मनु॒राऽध॑त्त॒ तेन॒ मनु॑रार्ध्नो॒त्तस्मा॑न्मान॒व्यᳶ॑ प्र॒जा उ॑च्यन्ते तन्धा॒ताऽऽध॑त्त॒ तेन॑ धा॒ताऽऽर्ध्नो॑त् सव्ँवत्स॒रो वै धा॒ता तस्मा॑त् सव्ँवत्स॒रम्प्र॒जाᳶ प॒शवोऽनु॒ प्र जा॑यन्ते ।

विश्वास-प्रस्तुतिः

तम्पू॒षाऽऽध॑त्त ।
तेन॑ पू॒षाऽर्ध्नो॑त् ।
तस्मा॑त् पौ॒ष्णाᳶ प॒शव॑ उच्यन्ते।

तन्त्वष्टाऽऽध॑त्त ।
तेन॒ त्वष्टा॑ऽऽर्ध्नोत् ।
तस्मा॑त् त्वा॒ष्ट्राᳶ प॒शव॑ उच्यन्ते ।

तम् मनु॒र् आऽध॑त्त ।
तेन॒ मनु॑र् आर्ध्नोत् ।
तस्मा॑न् मान॒व्यᳶ॑ प्र॒जा उ॑च्यन्ते ।

Keith

Pusan established it; therefore [2] did Pusan prosper; therefore cattle are said to be Pusan’s. Tvastr established it; therefore did Tvastr prosper; therefore cattle are said to be Tvastr’s. Manu established it; therefore did Manu prosper; therefore offspring are said to be Manu’s.

मूलम्

तम्पू॒षाऽऽध॑त्त ।
तेन॑ पू॒षाऽर्ध्नो॑त् ।
तस्मा॑त्पौ॒ष्णाᳶ प॒शव॑ उच्यन्ते।
तन्त्वष्टाऽऽध॑त्त ।
तेन॒ त्वष्टा॑ऽऽर्ध्नोत् ।
तस्मा॑त्त्वा॒ष्ट्राᳶ प॒शव॑ उच्यन्ते ।
तम्मनु॒राऽध॑त्त ।
तेन॒ मनु॑रार्ध्नोत् ।
तस्मा॑न्मान॒व्यᳶ॑ प्र॒जा उ॑च्यन्ते ।

भट्टभास्कर-टीका

अनन्तरं च ऋद्धिकामाः पूषादयः तादृशेन पुनराधेयेन ऋद्धिं प्राप्ता इति दर्शयति - पूषेत्यादि । गतम् । पूष्णः स्वभूताः पौष्णाः पशवः ।

सांवत्सरिकता-ज्ञानम्

विश्वास-प्रस्तुतिः

तन्धा॒ताऽऽध॑त्त ।
तेन॑ धा॒ताऽऽर्ध्नो॑त् । सव्ँवत्स॒रो वै धा॒ता ।
तस्मा॑त् सव्ँवत्स॒रम् प्र॒जाᳶ प॒शवोऽनु॒ प्र जा॑यन्ते ।

Keith

Dhatr established it; therefore Dhatr prospered;
Dhatr is the year; therefore offspring and cattle are born in the course of the year.

मूलम्

तन्धा॒ताऽऽध॑त्त ।
तेन॑ धा॒ताऽऽर्ध्नो॑त् । सव्ँवत्स॒रो वै धा॒ता ।
तस्मा॑त् सव्ँवत्स॒रम्प्र॒जाᳶ प॒शवोऽनु॒ प्र जा॑यन्ते ।

भट्टभास्कर-टीका

संवत्सरमिति । प्रजाः पशवश्च संवत्सरमनु प्रजायन्ते । लक्षणादिना अनोः कर्मप्रवचनीयत्वम् ॥

मूलम् (संयुक्तम्)

य ए॒वम्पु॑नरा॒धेय॒स्यर्द्धिव्ँ॒वेद॑ [3]ऋ॒ध्नोत्ये॒व यो॑ऽस्यै॒वम्ब॒न्धुताव्ँ॒वेद॒ बन्धु॑मान्भवति

विश्वास-प्रस्तुतिः

य ए॒वम् पु॑नर्-आ॒धेय॒स्यर्द्धिव्ँ॒ वेद॑ ऋ॒ध्नोत्य् ए॒व ।

यो॑ऽस्यै॒वम् ब॒न्धुताव्ँ॒ वेद॒ बन्धु॑मान् भवति ।

Keith

He who knows thus the prosperity of the re-establishing [3] prospers.
He who knows his connexions becomes possessed of connexions himself.

मूलम्

य ए॒वम्पु॑नरा॒धेय॒स्यर्द्धिव्ँ॒वेद॑ ऋ॒ध्नोत्ये॒व ।

यो॑ऽस्यै॒वम्ब॒न्धुताव्ँ॒वेद॒ बन्धु॑मान्भवति ।

भट्टभास्कर-टीका

3य एवमित्यादि ॥ गतम् । बन्धुतां बन्धुसमूहं पूषादीनाम् । ‘ग्रामजनबन्धुसहायेभ्यस्तल्’ ॥

उद्वास्य पुनराधानम्

विश्वास-प्रस्तुतिः

भाग॒धेयव्ँ॒ वा अ॒ग्निर् आहि॑त इ॒च्छमा॑नᳶ प्र॒जाम् प॒शून् यज॑मान॒स्योप॑ दोद्राव ।

Keith

Agni desiring a share after being established assailed the offspring and cattle of the sacrifice.

मूलम्

भाग॒धेयव्ँ॒ वा अ॒ग्निराहि॑त इ॒च्छमा॑नᳶ प्र॒जाम्प॒शून् यज॑मान॒स्योप॑ दोद्राव ।

भट्टभास्कर-टीका

4भागधेयं वा इत्यादि ॥ गतम् । आत्मन एवासाधारणं भागमिच्छन् प्रजां पशूंश्च यजमानस्योपदोद्राव भृशमुपद्रुतान् करोति स्म । द्रवतेर् यङ्लुगन्ताच् छान्दसो लिट् ।

मूलम् (संयुक्तम्)

उ॒द्वास्य॒ पुन॒रा द॑धीत भाग॒धेये॑नै॒वैनँ॒ सम॑र्धय॒त्यथो॒ शान्ति॑रे॒वास्यै॒षा

विश्वास-प्रस्तुतिः

उ॒द्वास्य॒ पुन॒रा द॑धीत ।

Keith

Having removed it, one should re-establish it;

मूलम्

उ॒द्वास्य॒ पुन॒रा द॑धीत ।

भट्टभास्कर-टीका

तस्माद् उद्वास्याग्निं पुनरादधीत ।

विश्वास-प्रस्तुतिः

भा॒ग॒धेये॑नै॒वैनँ॒ सम॑र्धयति ।

Keith

thus he unites him with his own portion;

मूलम्

भा॒ग॒धेये॑नै॒वैनँ॒ सम॑र्धयति ।

भट्टभास्कर-टीका

भागधेयेनाभीप्सितेन एनमग्निं समर्थयति सुप्रीतं करोति । +++(समर्थयति इति भाष्ये पाठः ??)+++

विश्वास-प्रस्तुतिः

अथो॒ शान्ति॑र् ए॒वास्यै॒षा ।

Keith

verily he is appeased.

मूलम्

अथो॒ शान्ति॑रे॒वास्यै॒षा ।

भट्टभास्कर-टीका

अथो आपि च शान्तिर् एवैषा ऽस्य येनोपद्रवकारी न भवति।
उद्वासन्येष्ट्येष्ट्वा
ऽग्नीन् परोप्य
पुनर्-अग्न्यगारं यज्ञपात्राणि च संस्कृत्य
+अन्यानि वा कृत्वा
पुनर्-आदधीताग्नीन् अग्न्याधेय-कल्पेनेति ॥

पुनर्वस्वोः

मूलम् (संयुक्तम्)

पुन॑र्वस्वो॒राद॑धीतै॒तद्वै पु॑नरा॒धेय॑स्य॒ नक्ष॑त्रय्ँ॒यत्पुन॑र्वसू॒ स्वाया॑मे॒वैन॑न्दे॒वता॑यामा॒धाय॑ ब्रह्मवर्च॒सी भ॑वति

विश्वास-प्रस्तुतिः

पुन॑र्वस्वो॒र् आद॑धीत ।
ए॒तद् वै पु॑नरा॒धेय॑स्य॒ नक्ष॑त्रय्ँ॒ यत् पुन॑र्वसू ।
स्वाया॑म् ए॒वैन॑न् दे॒वता॑याम् आ॒धाय॑ ब्रह्मवर्च॒सी भ॑वति ।

Keith

He should establish under Punarvasu; Punarvasu is the Naksatra for the re-establishing; verily by establishing it under its own deity he becomes resplendent.

मूलम्

पुन॑र्वस्वो॒रा द॑धीत ।
ए॒तद्वै पु॑नरा॒धेय॑स्य॒ नक्ष॑त्रय्ँ॒यत्पुन॑र्वसू।
स्वाया॑मे॒वैन॑न्दे॒वता॑यामा॒धाय॑ ब्रह्मवर्च॒सी भ॑वति ।

भट्टभास्कर-टीका

5पुनर्वस्वोरिति ॥ पुनरावर्तते वामं वस्वेतयोरिति पुनर्वसू देवतायाम् । ब्रह्मवर्चसी ब्राह्मणस्येयमेव ऋद्ध्यिरिति ॥

दर्द्भैः

मूलम् (संयुक्तम्)

द॒र्भैरा द॑धा॒त्यया॑तयामत्वाय द॒र्भैरा द॑धात्य॒द्भ्य ए॒वैन॒मोष॑धीभ्योऽव॒रुध्याऽऽध॑त्ते

विश्वास-प्रस्तुतिः

द॒र्भैर् आद॑धा॒ति अ-या॑त-यामत्वाय ।
द॒र्भैरा द॑धात्य् - अ॒द्भ्य ए॒वैन॒म् +++(अग्निम्)+++ ओष॑धीभ्यो ऽव॒रुध्याऽऽध॑त्ते ।

Keith

He establishes with Darbha grass, for variety. He establishes with Darbha; verily winning it from the waters and the plants he establishes it.

मूलम्

द॒र्भैरा द॑धा॒ति अया॑तयामत्वाय ।
द॒र्भैरा द॑धात्य॒द्भ्य ए॒वैन॒मोष॑धीभ्योऽव॒रुध्याऽऽध॑त्ते ।

भट्टभास्कर-टीका

6दर्भैरिति ॥ न प्रणयनीयेनेध्मेन । अयातयामत्वाय अपुनरुक्तत्वाय । किञ्च - दर्भैराधानमद्भ्यश्चौषधीभ्यश्चाग्नेरेवावरुद्ध्यै भवति ॥

मूलम् (संयुक्तम्)

पञ्च॑कपालᳶ पुरो॒डाशो॑ भवति पञ्च॒ वा ऋ॒तव॑ ऋ॒तुभ्य॑ ए॒वैन॑मव॒रुध्याऽऽध॑त्ते ॥ [4]

विश्वास-प्रस्तुतिः

पञ्च॑कपालᳶ पुरो॒डाशो॑ भवति ।

Keith

The sacrificial cake is offered on five potsherds;

मूलम्

पञ्च॑कपालᳶ पुरो॒डाशो॑ भवति ।

भट्टभास्कर-टीका

7पञ्चकपाल इत्यष्टाकपालस्य स्थाने ॥ पञ्चसु कपालेषु संस्कृत इति तद्धितार्थे द्विगुः, ‘द्विगोः’ इति लुक्, ‘इगन्तकाल’ इति पूर्वपदप्रकृतिस्वरत्वम् ।

विश्वास-प्रस्तुतिः

+++(अन्धसि पृथग् वर्षर्तोर् अभावात्)+++ पञ्च॒ वा ऋ॒तव॑ - ऋ॒तुभ्य॑ ए॒वैन॑म् +++(अग्निम्)+++ अव॒रुध्याऽऽध॑त्ते ॥

Keith

the seasons are five; verily he wins it from the seasons and establishes it.

मूलम्

पञ्च॒ वा ऋ॒तव॑ ऋ॒तुभ्य॑ ए॒वैन॑मव॒रुध्याऽऽध॑त्ते ॥

भट्टभास्कर-टीका

पञ्च वा इति ॥ हेमन्तशिशिरयोरेकत्वाभिप्रायमिदम, ‘हेमन्तशिशिरावृतूनाम्’ इति सहनिर्देशात् ॥

इति पञ्चमे प्रथमोनुवाकः ॥