१-६ त्रिष्टुप् । सोमऋषिः
भास्करोक्त-विनियोगः
1समिष्टयजूंषि जुहोति । षडृग्मियाणि जुहोति, त्रीणि यजूंषि । ‘यद्वै यज्ञस्य क्रूरम्’ इत्यादि ब्राह्मणम् । तत्र प्रथमा -
विश्वास-प्रस्तुतिः ...{Loading}...
धा॒ता रा॒तिस् स॑वि॒तेदञ् जु॑षन्ताम्
प्र॒जाप॑तिर् निधि॒-पति॑र् नो अ॒ग्निः ।
त्वष्टा॒ विष्णुᳶ॑ प्र॒जया॑ सँररा॒णो
यज॑मानाय॒ द्रवि॑णन् दधातु ॥
सर्वाष् टीकाः ...{Loading}...
Keith
May Dhatr the giver, may Savitr, rejoice in this,
Prajapati, the lord of treasures, and Agni, for our sake;
May Tvastr, Visnu, accord generously
Wealth with offspring to the sacrificer.
मूलम्
धा॒ता रा॒तिस्स॑वि॒तेदञ्जु॑षन्ताम्प्र॒जाप॑तिर्निधि॒पति॑र्नो अ॒ग्निः ।
त्वष्टा॒ विष्णुᳶ॑ प्र॒जया॑ सँररा॒णो यज॑मानाय॒ द्रवि॑णन्दधातु ॥
भट्टभास्कर-टीका
धाता रातिरिति त्रिष्टुप् ॥ धाता स्रष्टा, रातिर्दाता सर्वश्रेयसाम् । ‘मन्त्रे वृष’ इति क्तिन उदात्तत्वम् । सविता सर्वस्य प्रेरयिता अभ्यनुज्ञाता वा प्रजापतिः परमेष्ठी । स एव विशेष्यते - निधिपतिः निधीयन्ते वेदाः पुरुषार्था वाऽस्मिन्निति तेषां पाता रक्षिता निधिपतिः । । ‘परादिश्छन्दसि बहुलम्’ इत्युत्तरपदाद्युदात्तत्वम्, इतरत्र तु ‘पत्यावैश्वर्ये’ इति पूर्वपदप्रकृतिस्वरत्वम् । अग्निस्त्वष्टा विष्णुश्चैते धात्रादयस्सर्वे इदं हविर्जुषन्तां सेवन्ताम् । एते च धात्रादयो यज्ञतनुविशेषा देवता द्रष्टव्याः, यथा ‘धाता दीक्षायाम्’ इत्यादि । अधुना एत एवैकैकश उच्यन्ते । एष धात्रादिर्देवः प्रजया संरराणः सम्यग्रममाणः प्रजया उत्पत्त्या हेतुना यजमानाय द्रविणं वरिष्ठं प्रजादिं दधातु । रातेस्ताच्छीलिके चानशि शपश्श्लुः, रमतेर्वाऽन्त्यलोपः ॥
भास्करोक्त-विनियोगः
2अथ द्वितीया -
विश्वास-प्रस्तुतिः ...{Loading}...
समि॑न्द्र णो॒ मन॑सा, नेषि॒ गोभि॒स्,
सँ सू॒रिभि॑र्, मघ-व॒न्त्सँ +++(हरिवन् इति संहितान्तरे)+++ स्व॒स्त्या ।
सम् ब्रह्म॑णा, दे॒वकृ॑तय्ँ॒ यद् अस्ति॒
सन् दे॒वानाँ॑ सुम॒त्या य॒ज्ञिया॑नाम् ॥
सर्वाष् टीकाः ...{Loading}...
Keith
O Indra, unite us in heart, with cattle,
O bountiful one, with generous ones, with prosperity;
With the holy power that is made by the gods,
With loving kindness of the gods to whom sacrifice is made.
मूलम्
समि॑न्द्र णो॒ मन॑सा नेषि॒ गोभि॒स्सँ सू॒रिभि॑र्मघव॒न्त्सँ स्व॒स्त्या ।
सम्ब्रह्म॑णा दे॒वकृ॑तय्ँ॒यदस्ति॒ सन्दे॒वानाँ॑ सुम॒त्या य॒ज्ञिया॑नाम् ॥
भट्टभास्कर-टीका
समिन्द्र ण इति त्रिष्टुप् ॥ हे इन्द्र नः अस्मान् । छान्दसं सांहितिकं णत्वम् । मनसा प्राणेन समीचीनेन गोभिश्च शब्दैस्स्तुतिलक्षणैश्च सन्नेषि सन्नय संयोजय । मनस्विनो वाग्मिनश्च कुरु त्वां स्तोतुमित्यर्थः । नयतेर्लेटि शपो लुक् । किञ्च - सूरिभिर्विद्वद्भिः होतृप्रभृतिभिस्स्तोत्रकुशलैश्च अस्मान्सन्नेषि हे मघवन् महाघन स्वस्त्या अविनाशेन वा अस्मान्सन्नेसि ।
किञ्च - ब्रह्मणा वेदेन वेदार्थ ज्ञानेन वा, तदर्थानुष्ठानेन वा अस्मान्सन्नेषि । किञ्च - यच्चान्यद्देवकृतं देवार्थं कृतमस्ति कर्म अग्निहोत्रादिकं तेनापि सन्नेषि । ‘क्ते च’ इति पूर्वपद्प्रकृतिस्वरत्वम् । किञ्च - देवानां यज्ञियानां यज्ञार्हाणां यज्ञसम्पादितानामग्न्यादीनां सुमत्या कल्याणमत्या अनुग्रहबुद्ध्या चास्मान् संयोजय । ‘यज्ञर्त्विग्भ्यां घखञौ’ इति घः, ‘मन्त्रे वृष’ इति उदात्तः क्तिन्, ‘मन्क्तिन्व्याख्यान’ इत्यादिनोत्तरपदान्तोदात्तत्वम्, ‘उदात्तयणः’ इति विभक्तेरुदात्तत्वम् ॥
भास्करोक्त-विनियोगः
3अथ तृतीया -
विश्वास-प्रस्तुतिः ...{Loading}...
सव्ँ वर्च॑सा॒, पय॑सा॒, सन् त॒नूभि॒र्,
अग॑न्महि॒ मन॑सा॒, सँ शि॒वेन॑ ।
त्वष्टा॑ नो॒ अत्र॒ वरि॑वᳵ+++(→वरीयः इति शौनके)+++ कृणोतु [46]
अनु॑ मार्ष्टु त॒नुवो॒ यद् विलि॑ष्टम्+++(→विरिष्टम् इति शौनके)+++ ॥
सर्वाष् टीकाः ...{Loading}...
Keith
With glory, with milk, with ourselves,
Are we united, with auspicious hearts;
May Tvastr make fortune for us [1];
May he set right whatever is amiss in our bodies.
मूलम्
सव्ँवर्च॑सा॒ पय॑सा॒ सन्त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सँ शि॒वेन॑ ।
त्वष्टा॑ नो॒ अत्र॒ वरि॑वᳵ कृणोतु [46] अनु॑ मार्ष्टु त॒नुवो॒ यद्विलि॑ष्टम् ॥
भट्टभास्कर-टीका
सं वर्चसेति त्रिष्टुप् ॥ वर्चसा बलेन पयसा पालकेन, क्षीरादिना वा वयं समगन्महि सङ्गता भूयास्म । छान्दसो लुङ् । ‘मन्त्रे घस’ इति च्लेर्लुक्, ‘समो गमृच्छि’ इत्यात्मनेपदम् । लङि वा ’ बहुलं छन्दसि’ इति शपो लुक् । तनूभिश्शरीरैश्च शोभनैस्समगन्महि । शिवेन च कल्याणेन च मनसा समगन्महि । त्वष्टा च देवो नः अस्माकं अत्र अस्मिन्कर्मणि अस्मिन्नेव वा जन्मनि वरिवः वरणीयं धनं कृणोतु करोतु । किञ्च - अनुमार्ष्टु शोधयतु च अस्माकं तनुवः शरीरात् यद्विलिष्टं विलग्नं विगुणीकृतकर्मनिमित्तं पापं तत्सर्वं विशोधयतु । लिशेर्विशेर्वा [लिशेर्विपूर्वात्] निष्ठायां ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् ॥
भास्करोक्त-विनियोगः
8अथ चतुर्थी -
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अ॒द्य त्वा॑ प्रय॒ति य॒ज्ञे
अ॒स्मिन्न् अग्ने॒ होता॑र॒म् अवृ॑णीमही॒ह ।
ऋध॑ग्+++(=ऋजु)+++ अया॒ड्+++(←यज्)+++ ऋध॑ग् उ॒ताश॑मिष्ठाᳶ+++(←शम् ← श्रम्)+++
प्रजा॒नन् य॒ज्ञम् उप॑याहि वि॒द्वान् ॥
सर्वाष् टीकाः ...{Loading}...
Keith
In that to-day, O Agni, we choose thee
As Hotr as our sacrifice proceeded,
Prosperously hast thou sacrificed,
Prosperously hast thou laboured;
Come wise and foreseeing one to the sacrifice.
मूलम्
यद॒द्य त्वा॑ प्रय॒ति य॒ज्ञे अ॒स्मिन्नग्ने॒ होता॑र॒मवृ॑णीमही॒ह ।
ऋध॑गया॒डृध॑गु॒ताश॑मिष्ठाᳶ प्रजा॒नन् य॒ज्ञमुप॑याहि वि॒द्वान् ॥
भट्टभास्कर-टीका
यदद्येति त्रिष्टुप् ॥ अद्यास्मिन्नहनि प्रयति वर्तमाने अविच्छेदेन वितायमानेस्मिन् यज्ञे । ‘शतुरनुमः’ इति सप्तम्या उदात्तत्वम् ।
हे अग्ने यत् यदर्थं त्वां होतारं अवृणीमहि वृतवन्तो वयम् इहास्मिन्प्रयोजने एतद् अनुरूपमेव त्वया कृतमिति प्रदर्शयति - कथं? ऋधक् समृद्धं वैगुण्यं यथा न भवति तथा अयाट् अयाक्षीः । यजेर्लुङि सिचिवृद्धौ ‘बहुलं छन्दसि’ इतीडभावः ।
यत एवम् अतस् त्वम् एव प्रजानन् आत्मीयम् अधिकारं जानन् अनुसन्दधानः इत्थमित्थं कृतवान् असि, तस्मात् भूयो ऽपि अस्मदीयं यज्ञं पुनःपुनर् उपयाहि आगच्छ विद्वान् सर्वार्थ-साधनोपायज्ञस् त्वम् ॥
भास्करोक्त-विनियोगः
5अथ पञ्चमी -
विश्वास-प्रस्तुतिः ...{Loading}...
स्व्-अ॒गा वो॑ देवा॒स् सद॑नम् अकर्म॒,
य आ॑ज॒ग्म सव॑ने॒दञ् जु॑षा॒णाः ।
ज॒क्षि॒वाँसᳶ॑+++(=भक्षितवन्तः)+++ पपि॒वाँस॑श् च॒
विश्वे॒ ऽस्मे ध॑त्त वसवो॒ वसू॑नि ॥
सर्वाष् टीकाः ...{Loading}...
Keith
With Hail! to you, O gods, have we made this seat,
Ye who have come hither rejoicing in this as the pressing;
When ye have eaten and drunken,
Ye all, give to us, wealthy ones, wealth.
मूलम्
स्व॒गा वो॑ देवा॒स्सद॑नमकर्म॒ य आ॑ज॒ग्म सव॑ने॒दञ्जु॑षा॒णाः ।
ज॒क्षि॒वाँसᳶ॑ पपि॒वाँस॑श्च॒ विश्वे॒ऽस्मे ध॑त्त वसवो॒ वसू॑नि ॥
भट्टभास्कर-टीका
स्वगा व इति त्रिष्टुप् ॥ हे देवाः वः युष्माकं सदनं स्थानं स्वगा अकर्म स्वगाकृतवन्तो वयम् ।
स्वगेति निपातः यथा-स्व-करणं द्योतयति, यथायथम् असङ्कीर्ण-स्थानं कृतवन्तो वयमित्यर्थः । करोतेर्लुङि ‘मन्त्रे घस’ इति च्लेर्लुक्, ‘छन्दस्युभयथा’ इति तिङ आर्धधातुकत्वात् ङित्त्वाभावः ।
देवा विशेष्यन्ते - ये यूयम् इदम् इदानीं सवना सवनानि आजग्म आगताः जुषाणाः प्रीयमाणास्सेवमाना वा, तेषां सदनमकर्मेति । ‘सुपां सुलुक्’ इतीदमो विभक्तेर्लुक् । सवनशब्दात् ‘शेश्छन्दसि’ इति शेर्लोपः । ‘जुषतेस्ताच्छीलिके चानशि शपो लुक् । ते विश्वे सर्वेपि यूयं जक्षिवांसः सवनीयपुरोडाशादि भक्षितवन्तः पपिवांसश् च सोमं पीतवन्तः हे वसवः लोकानां वासयितारः अस्मे अस्मासु धत्त स्थापयत वसूनि धनानि । ‘लिट्यन्यतरस्याम् इत्यदेर्घस्लादेशः । अस्मछब्दात्परस्यास्सप्तम्याः ‘सुपां सुलुक्’ इति शे आदेशः ॥
भास्करोक्त-विनियोगः
6अथ षष्ठी -
विश्वास-प्रस्तुतिः ...{Loading}...
यान् आव॑ह उश॒तो दे॑व दे॒वान्
तान् [47] प्रेर॑य॒ स्वे अ॑ग्ने स॒धस्थे॑+++(=सहस्थाने)+++ ।
वह॑माना॒ भर॑माणा ह॒वीँषि॒
वसु॑ङ् घ॒र्मन् दिव॒म् आ ति॑ष्ठ॒ताऽनु॑ ॥
सर्वाष् टीकाः ...{Loading}...
Keith
The gods whom eager thou didst bring hither, O god,
Them [2], O Agni, do thou incite in their own abode;
Bearing and bringing oblations,
The rich draught, do ye mount the sky.
मूलम्
यान् आव॑ह उश॒तो दे॑व दे॒वान्तान् [47] प्रेर॑य॒ स्वे अ॑ग्ने स॒धस्थे॑ ।
वह॑माना॒ भर॑माणा ह॒वीँषि॒ वसु॑ङ्घ॒र्मन्दिव॒मा ति॑ष्ठ॒ताऽनु॑ ॥
भट्टभास्कर-टीका
यानावह इति त्रिष्टुप् ॥ हे अग्ने देव दीप्यमान यान् देवान् उशतः हवींषि कामयमानान् । ‘शतुरनुमः’ इति विभक्तेरुदात्तत्वम् । आवहः आहूतवानसि तान् देवान्प्रेरय स्वे आत्मीये सधस्थे सहस्थाने, यत्र ते सह तिष्ठन्ति तत्र प्रस्थापय । ‘सुपि स्थः’ इति तिष्ठतेः कः, ‘सधमाधस्थयोः’ इति सहस्य सधादेशः ।
अधुना देवान्प्रत्याह - हे देवा यूयमपि हवींषि वहमांनाः रथादिभिर्वार्हनैः वाहयन्तः भरमाणा हस्तादिभिर्धारयन्तः । यद्वा - भुक्तशेषाण्यपत्याद्यर्थं परिपालयन्तः वसुं सर्वस्य लोकस्य वासयितारं घर्ममादित्यमातिष्ठत प्राप्नुत । अनु अनन्तरं च दिवं द्युलोकमातिष्ठत ॥
भास्करोक्त-विनियोगः
7यज्ञ यज्ञमित्यादीनि त्रीणि यजूंषि ॥
मूलम् (संयुक्तम्)
यज्ञ॑ य॒ज्ञङ्ग॑च्छ य॒ज्ञप॑तिङ्गच्छ॒ स्वाय्ँयोनि॑ङ्गच्छ॒ स्वाहा
विश्वास-प्रस्तुतिः
यज्ञ॑ य॒ज्ञङ् ग॑च्छ।
य॒ज्ञप॑तिङ् गच्छ ।
स्वाय्ँ योनि॑ङ् गच्छ ।
स्वाहा॑ ।
Keith
O sacrifice, go to the sacrifice;
go to the lord of the sacrifice;
go to thine own birthplace;
hail!
मूलम्
यज्ञ॑ य॒ज्ञङ्ग॑च्छ।
य॒ज्ञप॑तिङ्गच्छ ।
स्वाय्ँयोनि॑ङ्गच्छ ।
स्वाहा॑ ।
भट्टभास्कर-टीका
हे यज्ञ यज्ञं परमात्मानं विष्णुं गच्छ येन त्वं प्रतिष्ठितस्याः । अनन्तरं यज्ञपतिं यज्ञपालयितारं यजमानं गच्छ फलप्रदानेन । अनन्तरं च स्वात्मात्मीयां योनिं गच्छ, योनिः कारणं सर्वपरिस्पन्दहेतुर्वार्ताख्या परमेश्वरस्य क्रियाशक्तिः । यथा - ‘वाताद्वा अध्वर्युर्यज्ञं प्रयुङ्क्ते’ इति । तां गच्छ । स्वाहा स्वाहुतमिदमाज्यमग्नयेस्त्विति ॥
भास्करोक्त-विनियोगः
8अथ द्वितीयम् -
विश्वास-प्रस्तुतिः
एष ते॑ य॒ज्ञो य॑ज्ञपते
स॒ह-सू॑क्त-वाकस्
सु॒वीर॒स्
स्वाहा॑ ।
Keith
This is thy sacrifice, O lord of the sacrifice,
with its utterance of hymns and producing noble heroes;
hail!
मूलम्
एष ते॑ य॒ज्ञो य॑ज्ञपते स॒हसू॑क्तवाकस्सु॒वीर॒स्स्वाहा॑ ।
भट्टभास्कर-टीका
हे यज्ञपते यजमान एष यज्ञस्सहसूक्त वाकः सूक्तवाकसहितः विविधस्तोत्रकः सुवीरः शोभनैर्वीरैः पुत्रपौत्रादिभिर्युक्तः तद्धेतुतां प्रतिपाद्यमानः ते तव स्वाहुतमिदमाज्यमग्नयेस्तुइत्थमिदं तव भूयादिति ॥
भास्करोक्त-विनियोगः
9अथ तृतीयम् -
देवा गातुविदः ...{Loading}...
विश्वास-प्रस्तुतिः
देवा॑ गातुविदो+++(=गतिज्ञाः)+++ गा॒तुव्ँ+++(=मार्गं)+++ वि॒त्वा+++(=लब्ध्वा)+++ गा॒तुम् इ॑त +++(=गच्छत)+++। मन॑सस्पत इ॒मन् नो॑ देव दे॒वेषु॑ य॒ज्ञं +++(धाः)+++ स्वाहा॑।
Keith
O ye gods that know the way, knowing the way, go ye the way.
O lord of mind, this sacrifice for us (place) among the gods, O god, hail!
मूलम् (संयुक्तम्)
देवा॑ गातुविदो गा॒तुव्ँ वि॒त्वा गा॒तुमि॑त॒ मन॑सस्पत इ॒मन्नो॑ देव दे॒वेषु॑ य॒ज्ञँ स्वाहा॑ वा॒चि स्वाहा॒ वाते॑ धाः ॥ [24]
मूलम्
देवा॑ गातुविदो गा॒तुव्ँ वि॒त्वा गा॒तुमि॑त । मन॑सस्पत इ॒मन्नो॑ देव दे॒वेषु॑ य॒ज्ञं +++(धाः)+++ । स्वाहा॑ ।
पद-पाठः
देवाः॑ । गा॒तु॒वि॒द॒ इति॑ गातु-वि॒दः॒ । गा॒तुम् । वि॒त्त्वा । गा॒तुम् । इ॒त॒ । 8V । मन॑सः । प॒ते॒ । इ॒मम् । नः॒ । दे॒व॒ । दे॒वेषु॑ । य॒ज्ञम् । स्वाहा॑ ।
भट्टभास्कर-टीका
हे देवाः गातुविदः गतिज्ञाः । गाङ् गतौ, ‘कमिमनिजनि’ (उ.सू. 72) इत्यादिना तुप्रत्ययः, ‘विभाषितं विशेषवचने बहुवचनम्’ (पा.सू. 8.1.74) इति पूर्वस्याविद्यमानत्वनिषेधात् निहन्यते । गातुं वित्वा मार्गं लब्ध्वा आगमनकाले यत्र स्थिताः ते यूयं गातुमित येन मार्गेणागताः तमेव मार्गं भजत समाप्ते कर्मणि तेनैव प्रतिनिवर्तध्वम् ।
किञ्च, हे मनसस्पते सर्वभूतानामन्तरात्मन् । ‘सुबामन्त्रिते पराङ्गवत्’ (पा.सू. 2.1.2) इति षष्ठ्यन्तस्य परामन्त्रितानुप्रवेशात् षष्ठ्यामन्त्रितसमुदायस्य षाष्ठिकमामन्त्रिताद्युदात्तत्वम् (पा.सू. 6.1.198) । पदात्परत्वाभावान्निघाताभावः, ‘षष्ठ्याः पति’ (पा.सू. 8.3.53) इत्यादिना विसर्जनीयस्य सकारः । हे देव इममस्माकं यज्ञं देवेषु अग्न्यादिषु धाः धेहि स्थापय ।
एवं हि सरस्वत्याह ।
देवा गातुविदः गतिज्ञाः गातुं मार्गं वित्त्वा लब्ध्वा आगमनकाले यत्र स्थितास्ते यूयं गातुमित तमेव मार्गं समाप्ते कमणि गमनाय भजत ।
किञ्च - हे मनसस्पते सर्वभूतानामन्तरात्मतया मनसोपि पते देव इममस्माकं यज्ञं देवेष्व् अग्न्यादिषु धाः धेहि स्थापय ।
एवं हि सरस्वत्याह । तदनन्तरं वाचि वाग्देवतायां शाब्दे ब्रह्मणि धाः स्थापय । ततः पश्चादिमं यज्ञं वाते सर्वक्रियाधारे धाः स्थापय, यस्मादयं यज्ञः प्रयुक्तः तत्रैव वाते स्थापय । ‘वाताद्वा अध्वर्युर्यज्ञं प्रयुङ्क्ते’ इत्यादि ब्राह्मणम् , ‘वासिष्ठो ह सात्यहव्यः’ इत्यादि च ॥
मूलम् (संयुक्तम्)
वा॒चि स्वाहा॒ वाते॑ धाः
विश्वास-प्रस्तुतिः
+++(य॒ज्ञं)+++ वा॒चि +++(धाः)+++ स्वाहा॑ ।
Keith
In speech, hail!
मूलम्
वा॒चि +++(धाः)+++ स्वाहा॑ ।
पद-पाठः
वा॒चि । स्वाहा॑ ।
भट्टभास्कर-टीका
तदनन्तरं वाचि वाग्देवतायां शब्दब्रह्मणि च धाः । ‘सावेकाचः’ (पा.सू. 6.1.168) इति विभक्तेरुदात्तत्वम् ।
वाचि धा इति सरस्वत्याह ।
विश्वास-प्रस्तुतिः
वाते॑ धाः ॥ [24]
Keith
in/or the wind, hail!
मूलम्
वाते॑ धाः ॥ [24]
पद-पाठः
वाते॑ । धाः॒ ॥
भट्टभास्कर-टीका
ततः पश्चादिमं यज्ञं वाते सर्वक्रियाधारे धाः स्थापय । यस्मादयं यज्ञः प्रयुक्तः तत्रैव वाते स्थापय । ‘वाताद्वा अध्वर्युर्यज्ञं प्रयुङ्क्ते’ (तै.ब्रा. 3.3.9) इत्यादि ब्राह्मणम् । दधातेः लेटि ‘बहुलं छन्दसि’ (पा.सू. 2.4.73) इति शपो लुक्, ‘इतश्च लोपः परस्मैपदेषु’ (पा.सू. 3.4.98) इतीकारलोपः ॥
भट्टभास्कर-टीका
देवा गातुविद इति ॥ व्याख्यातं ‘वाजस्य मा प्रसवेन’ इत्यत्र ।