४१ षोडशिग्रहः

अनुष्टुप्


भास्करोक्त-विनियोगः

1अतः परं षोडशिग्रहणमन्त्राः पूर्वैस्सह विकल्प्यन्ते । तत्र प्रथमा - सर्वस्येत्यनुष्टुप् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

सर्व॑स्य प्रति॒शीव॑री॒+++(←शी शयने)+++
भूमि॑स् +++(इन्द्र!)+++ त्वो॒पस्थ॒ आऽधि॑त+++(←धा)+++ ।
+++(पृथिवि!)+++ स्यो॒नास्मै॑ सु॒-षदा॑ भव॒
यच्छा॑स्मै॒ शर्म॑ स॒-प्रथाः॑+++(=विस्तारा)+++ ॥

सर्वाष् टीकाः ...{Loading}...

Keith

Earth, covering all,
Hath placed thee in her lap;
Be gentle and rest kindly on him
Grant him protection, extending wide.

मूलम्

सर्व॑स्य प्रति॒शीव॑री॒ भूमि॑स्त्वो॒पस्थ॒ आऽधि॑त ।
स्यो॒नास्मै॑ सु॒षदा॑ भव॒ यच्छा॑स्मै॒ शर्म॑ स॒प्रथाः॑ ॥

भट्टभास्कर-टीका

सर्वस्य भूतजातस्य प्रतिशविरी प्रत्येकं सुखेन शयनाधिकरणभूता । शेतेरौणादिके क्वरच्युत्तरपदाद्युदात्तत्वम् ।
यद्वा - शयानस्य सर्वभूतजातस्य प्रतिशयनं प्रतिमुखं शयनं बालस्य जननीव करोतीति प्रतिशीवरी । ‘अन्येभ्योपि दृश्यते’ इति क्वनिप्, ‘वनोरच’ इति ङीब्रेफौ ।

हे इन्द्र इर्दृशी भूमिस् त्वामुपस्थे आधित आदधातु स्थापयतु । हे भूमे या त्वमसि अस्मै इन्द्राय यजमानाय वा स्योना सुखा सुषदा सुखासनभूता च भव ।

किञ्च - अस्मै शर्म शरणं सुखं वा यच्छ देहि । सप्रथाः सर्वत्र प्रथिता विस्तीर्णा । छान्दसस्सवर्स्य सभावः । प्रथया सहितेति वा । बहुव्रीहौ ‘परादिश्छन्दसि बहुलम्’ इत्युत्तरपदाद्युदात्तत्वम् ॥

मूलम् (संयुक्तम्)

उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑ ॥


उपयाम-गृहीतः ...{Loading}...
मूलम् (संयुक्तम्)

उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑ ॥

भास्करोक्त-विनियोगः

(ग्रहणम्)

उपयामगृहीतः ...{Loading}...
विश्वास-प्रस्तुतिः

उ॒प॒या॒म-गृ॑हीतो ऽसि।

Keith

Thou art taken with a support/ foundation.

मूलम्

उ॒प॒या॒मगृ॑हीतोऽसि।

भट्टभास्कर-टीका

उपयम्यन्ते स्वात्मन्येव नियम्यन्ते भूतजातान्यस्मिन् अभिन्नेधिकरणे इत्युपयामः पृथ्वी । ‘इयं वा उपयामः’ इति ब्राह्मणम् । ‘हलश्च’ इति घञ्, थाथादिस्वरेणान्तोदात्तत्वम् । तेन गृहीतस्त्वमसि ; कोन्यस्त्वां गृहीतुं क्षम इति भावः ; पृथिव्यापो गृहीष्यामीतिवत् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - उपयामार्थं पृथिव्यर्थं गृहीतोसीति ; हे सोम ।

ननु ‘स्वाहा त्वा सुभवस्सूर्याय’ इति मन्त्रवर्णनात् सूर्यदेवत्यः कथं पृथिवीदेवत्यः स्यात् ? नैतद्देवताभिधानं ; पृथिवीवासिनां प्रजानां यागद्वारेण स्थित्यर्थं गृहीतोसीति स्तूयते । यद्वा - पृथिव्यपि देवतैवास्य ‘उपयामगृहीतोसीत्याहादितिदेवत्यास्तेन’ इति, अदितिः पृथ्वी । ‘चतुर्थी’ इति योगविभागात्समासः । ‘क्ते च’ इति पूर्वपदप्रकृतिस्वरत्वम् । ‘इयं वा उपयामस्तस्मादिमां प्रजा अनु प्रजायन्ते’ इति ब्राह्मणम् ॥


उपयामगृहीतोसीति व्याख्यातम् । ‘इयं वा उपयामः’ तयैव गृहीतोसीति ।

विश्वास-प्रस्तुतिः

इन्द्रा॑य त्वा षो॒ड॒शिने॑ +++(ग्रहणमन्त्रः)+++ ।

Keith

to Indra of the Sodaśin thee!

मूलम्

उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षो॒ड॒शिने॑ +++(ग्रहणमन्त्रः)+++ ।

भट्टभास्कर-टीका

2-3ग्रहणसादने व्याख्याते ।
षोडशिनः षोडशेन स्तोत्रेण शस्त्रेण च तद्-वान् इन्द्रष् षोदशी
‘प्रजापतिर्देवेभ्यो यज्ञान्व्यादिशत्सरिरिचानोमन्यत स यज्ञानां षोडशधा’ इत्यादि ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

(सादनम्)

विश्वास-प्रस्तुतिः

ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑ ॥ [38] +++(सादनमन्त्रः)+++

Keith

This is thy birthplace; to Indra of the Sodaśin thee!

मूलम्

ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑ ॥ [38] +++(सादनमन्त्रः)+++

भट्टभास्कर-टीका

2-3ग्रहणसादने उक्ते ॥