गायत्री। सोमऋषिः
भास्करोक्त-विनियोगः
1अथातिग्राह्याणामाग्नेयं गृह्णाति - अग्न आयूंषीति गायत्र्या ॥ व्याख्याता चेयम् ‘त्वमग्ने रुद्रः’ इत्यत्र ।
‘देवा वा इन्द्रियं वीर्यं व्यभजन्त ततो यदत्यशिष्यत’ इत्यादि ब्राह्मणम् , ‘अप्यग्निष्टोमे ग्रहीतव्याः’ इत्यादि च ।
विश्वास-प्रस्तुतिः ...{Loading}...
अ᳓ग्न आ᳓यूंषि पवस
आ᳓ सुवो᳓र्जम् इ᳓षं च नः ।
आरे᳓+++(=दूरे)+++ बाधस्व दुच्छु᳓नाम्+++(=रक्षसाम्)+++ ॥
019 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः पवमानः
- ऋषिः - शतं वैखानसाः
- छन्दः - गायत्री
Thomson & Solcum
अ᳓ग्न आ᳓यूंषि पवस
आ᳓ सुवो᳓र्जम् इ᳓षं च नः
आरे᳓ बाधस्व दुछु᳓नाम्
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
Morph
ágne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}
ā́yūṁṣi ← ā́yus- (nominal stem)
{case:NOM, gender:N, number:PL}
pavase ← √pū- (root)
{number:SG, person:2, mood:IND, tense:PRS, voice:MED}
ā́ ← ā́ (invariable)
ca ← ca (invariable)
íṣam ← íṣ- (nominal stem)
{case:ACC, gender:F, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
suva ← √sū- 1 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
ū́rjam ← ū́rj- (nominal stem)
{case:ACC, gender:F, number:SG}
āré ← āré (invariable)
bādhasva ← √bādhⁱ- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:MED}
duchúnām ← duchúnā- (nominal stem)
{case:ACC, gender:F, number:SG}
पद-पाठः
अग्ने॑ । आयूं॑षि । प॒व॒से॒ । आ । सु॒व॒ । ऊर्ज॑म् । इष॑म् । च॒ । नः॒ ।
आ॒रे । बा॒ध॒स्व॒ । दु॒च्छुना॑म् ॥
पद-पाठः-तैत्तिरीयः
अग्ने॑ । आयूँ॑षि । प॒व॒से॒ । एति॑ । सु॒व॒ । ऊर्ज॑म् । इष॑म् । च॒ । नः॒ ॥ आ॒रे । बा॒ध॒स्व॒ । दु॒च्छुना॑म् ॥
Hellwig Grammar
- agna ← agne ← agni
- [noun], vocative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- āyūṃṣi ← āyus
- [noun], accusative, plural, neuter
- “life; longevity; āyus; life; āyus [word]; Āyus.”
- pavasa ← pavase ← pū
- [verb], singular, Present indikative
- “purify; filter; blow; purify; purge; sift.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- suvorjam ← suva ← sū
- [verb], singular, Present imperative
- “give birth; urge; bestow; cause.”
- suvorjam ← ūrjam ← ūrj
- [noun], accusative, singular, feminine
- “strength; refreshment; vigor; food; strengthening.”
- iṣaṃ ← iṣam ← iṣ
- [noun], accusative, singular, feminine
- “refreshment; enjoyment; stores.”
- ca
- [adverb]
- “and; besides; then; now; even.”
- naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- āre
- [adverb]
- “far.”
- bādhasva ← bādh
- [verb], singular, Present imperative
- “afflict; annoy; chase away; tease; grieve; irritate.”
- ducchunām ← ducchunā
- [noun], accusative, singular, feminine
- “calamity; misfortune.”
सायण-भाष्यम्
हे अग्ने पवमानरूप त्वमस्माकम् आयूंषि जीवनानि पवसे रक्षसि । नः अस्माकम् ‘ऊर्जम् अन्नरसम् इषम् अन्नं च आ सुव आभिमुख्येन प्रेरय । किंच दुच्छुनाम् । रक्षोनामैतत् । रक्षांसि आरे अस्मत्तो दूर एव बाधस्व संपीडय ॥
भट्टभास्कर-टीका
हे अग्ने आयूंषि जीवनान्यन्नानि वास्मदीयानि त्वं खलु पवसे शोधयसि, यथा वर्धन्ते, यथा वा न क्षीयन्ते । अत ऊर्जं रसं क्षीरादिकमिषमन्नं चास्मभ्यमासुव आभिमुख्येन सुव प्रेरय उत्पादयेत्यर्थः । आरे दूरे नीत्वा बाधस्व बाधय नाशय दुच्छुनाम् उपद्रवं ज्योगामयावित्वलक्षणम् । ‘उत यदीतासुर्भवति जीवत्येव’ इति ब्राह्मणम् ॥
हे अग्ने आयूंषि अन्नानि जीवनानि वा अस्मदीयानि त्वं खलु पवसे शोधय । यथा वर्धन्ते न क्षीयन्ते तथा कुर्विति भावः । नो ऽस्माकम् अन्नम् अदनीयं भक्ष्यभोज्यादिकं ऊर्जं क्षीराज्यादिकं रसं चानुजानीह्याभिमुख्येन प्रेरय उत्पादय, सर्वदा देहीति भावः ।
दुच्छुनां दौर्गत्यादिसर्वोपद्रवान् दूरे नीत्वा बाधस्व विनाशय ।
अग्ने आयूंषि पवस्व ऊर्जं रसं इषम् अन्नं च नः अस्मभ्यमासुव आनय दुच्छुनां दौर्गत्यं चास्माकमारे दूरे बाधस्वेति ॥
Wilson
English translation:
“Agni, you support our lives, send us nutriment and food, drive far off the rākṣasas.”
Jamison Brereton
O Agni, you bring (longer) lifespans through your purification; impel hither nourishment and refreshment to us.
Into the distance thrust misfortune.
Jamison Brereton Notes
Since pavase has an obj. ā́yūṃṣi, it would be desirable to have the preverb ā́, which has transitivizing function with this root. This is easily done: ā́yūṃṣi can be decomposed into ā́ā́yūṃṣi without change to the Saṃhitā text, though it is contra to the Pp.
This preverb in tmesis shows up apparently 2nd in the clause because it follows the zeroposition voc. ágne.
19-21 ...{Loading}...
Jamison Brereton Notes
On this tṛca see published introduction. It is so insistently Agni-focused (all three vss.
begin with a form of that stem, two as voc.) that the Anukramaṇī lists Agni as the deity of the three vss. But it is of course far more likely that Soma is being identified with Agni here.
The equation and poetic merging of these two ritual gods is found elsewhere, most notably in “the hardest hymn in the RV” (V.44), which is simultaneously applicable to both gods throughout its length. Their blending is shown here by the use of both Somian and Agnian vocab.: for the latter, see esp. puróhitaḥ (20b); for the former, the three forms of páva-, one each in each vs.: 19a pavase, 20a pávamānaḥ, 21a pavasva. Note that after this Agni tṛca the word sóma- doesn’t appear until vs. 29 and a likely identification with Indra (as well as comparison with the sun) intervenes.
Griffith
Agni, thou pourest life; send down upon us food and vigorous strength;
Drive thou misfortune far away,
Keith
O Agni, thou purifiest life [7];
Do thou give food and strength to us;
Far away drive ill-fortune.
मानसतरङ्गिणीकृत्
agni you purify our life, send to us swift strength. Prevent the misfortune from over taking us.
Geldner
O Agni, du läuterst uns Lebenskraft zu; weise uns Stärkung und Labung zu! Halte das Unheil weit ab!
Grassmann
Du flammst, o Agni, Leben aus, erzeuge Trank und Speise uns, Das Unheil stosse weit hinweg.
अधिमन्त्रम् (VC)
- अग्निः
- शतं वैखानसाः
- गायत्री
- षड्जः
आर्यमुनि - पदार्थः
पदार्थान्वयभाषाः - (अग्ने) हे ज्ञानस्वरूप परमात्मन् ! आप (आयूंषि) हमारी आयु को (पवसे) पवित्र करते हैं (च) और (नः) हमारे लिए (इषम्) ऐश्वर्य और (ऊर्जम्) बल (आसुव)दें। तथा (दुच्छुनाम्) विघ्नकारी राक्षसों को हमसे (आरे) दूर (बाधस्व) करें॥१९॥
आर्यमुनि - भावार्थः
भावार्थभाषाः - इस मन्त्र में परमात्मा ने विघ्नकारी राक्षसों से बचने का उपदेश किया है कि हे पुरुषों ! तुम विघ्नकारी अवैदिक पुरुष जो राक्षस हैं, उनके हटाने में सदैव तत्पर रहो ॥१९॥
आर्यमुनि - पदार्थः
पदार्थान्वयभाषाः - (अग्ने) ज्ञानस्वरूप परमेश्वर ! त्वम् (आयूंषि) अस्माकं वयांसि (पवसे) पवित्रयसि (च) अथ च (नः) अस्मभ्यम् (इषम्) ऐश्वर्यं तथा (ऊर्जम्) बलं (आसुव) देहि। तथा (दुच्छुनाम्) विघ्नकारिराक्षसान् इतः (आरे बाधस्व) दूरीकुरु ॥१९॥
उपयामगृहीतः ...{Loading}...
भास्करोक्त-विनियोगः
इमामनुद्रुत्य ‘उपयामगृहीतोसि विश्वेभ्यस्त्वा देवेभ्यः’ इति गृह्णाति ॥
उपयामगृहीतः ...{Loading}...
विश्वास-प्रस्तुतिः
उ॒प॒या॒म-गृ॑हीतो ऽसि।
Keith
Thou art taken with a support/ foundation.
मूलम्
उ॒प॒या॒मगृ॑हीतोऽसि।
भट्टभास्कर-टीका
उपयम्यन्ते स्वात्मन्येव नियम्यन्ते भूतजातान्यस्मिन् अभिन्नेधिकरणे इत्युपयामः पृथ्वी । ‘इयं वा उपयामः’ इति ब्राह्मणम् । ‘हलश्च’ इति घञ्, थाथादिस्वरेणान्तोदात्तत्वम् । तेन गृहीतस्त्वमसि ; कोन्यस्त्वां गृहीतुं क्षम इति भावः ; पृथिव्यापो गृहीष्यामीतिवत् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - उपयामार्थं पृथिव्यर्थं गृहीतोसीति ; हे सोम ।
ननु ‘स्वाहा त्वा सुभवस्सूर्याय’ इति मन्त्रवर्णनात् सूर्यदेवत्यः कथं पृथिवीदेवत्यः स्यात् ? नैतद्देवताभिधानं ; पृथिवीवासिनां प्रजानां यागद्वारेण स्थित्यर्थं गृहीतोसीति स्तूयते । यद्वा - पृथिव्यपि देवतैवास्य ‘उपयामगृहीतोसीत्याहादितिदेवत्यास्तेन’ इति, अदितिः पृथ्वी । ‘चतुर्थी’ इति योगविभागात्समासः । ‘क्ते च’ इति पूर्वपदप्रकृतिस्वरत्वम् । ‘इयं वा उपयामस्तस्मादिमां प्रजा अनु प्रजायन्ते’ इति ब्राह्मणम् ॥
उपयामगृहीतोसीति व्याख्यातम् । ‘इयं वा उपयामः’ तयैव गृहीतोसीति ।
विश्वास-प्रस्तुतिः
[विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑]
मूलम्
[विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑]
भट्टभास्कर-टीका
अस्य ग्रहणमन्त्रस्य साकाङ्क्षत्वात्सादनमन्त्रे श्रुतं विश्वेभ्यस्त्वेति सम्बध्यते ॥
भास्करोक्त-विनियोगः
2अधिवदते ॥
मूलम् (संयुक्तम्)
आग्रय॒णो॑ऽसि॒ स्वा॑ग्रयणो॒ जिन्व॑ य॒ज्ञञ्जिन्व॑ य॒ज्ञप॑तिम॒भि सव॑ना पाहि॒ विष्णु॒स्त्वाम्पा॑तु॒ विश॒न्त्वम्पा॑हीन्द्रि॒येण
विश्वास-प्रस्तुतिः
आ॒ग्र॒य॒णो॑ऽसि ।
स्वा॑ग्रयणो॒ जिन्व॑ ।
य॒ज्ञञ्जिन्व॑ य॒ज्ञप॑तिम् +++(जिन्व)+++ ।
Keith
thou art the leader,
thou art the good leader;
quicken the sacrifice,
quicken the lord of the sacrifice;
मूलम्
आ॒ग्र॒य॒णो॑ऽसि ।
स्वा॑ग्रयणो॒ जिन्व॑ ।
य॒ज्ञञ्जिन्व॑ य॒ज्ञप॑तिम् +++(जिन्व)+++ ।
भट्टभास्कर-टीका
आग्रयणोसि आग्रयणाख्यो ग्रहस्त्वमस्ति । अग्रे इर्यते गृह्यत इत्यग्रयणः ग्रहाणामग्रेसरोसि । ‘ते देवा आग्रयाणाग्रान्ग्रहानपश्यन्’ इति ब्राह्मणम् । शकन्ध्वादित्वात्पररूपत्वम् । अग्रयाण एवाग्रयणाः । ‘सान्नाय्यानुजावर’ इत्यादिना स्वार्थिकोण्निपातितः । यद्वा - वाचा अग्रे प्रथममीयत इत्याग्रयणः । ‘वाग्वै देवेभ्यः’ इत्यादि ब्राह्मणं ‘तदाग्रयणस्याग्रयणत्वम्’ इत्यन्तम् ।
स्वाग्रयाणः, अग्र्यं श्रैष्ठ्यं यन्ति प्राप्नुवन्त्यनेनेत्याग्रयणः, शोभन आग्रयणस्स्वाग्रयणः । त्वां गृहीत्वा देवा अग्रं पर्यायन् । तथा यजमानोपि त्वां गृहीत्वा समानानामग्रं पर्येत्विति भावः । ‘अग्रमेव समानानां पर्येति’ इति ब्राह्मणम् । यस्मादीदृशस्त्वमसि तस्माज्जिन्व प्रीणय यज्ञं, यज्ञपतिं च जिन्व । उभयत्रापि वाक्यादित्वान्न निहन्यते । जिवि प्रीणने ।
विश्वास-प्रस्तुतिः
अ॒भि सव॑ना पाहि ।
विष्णु॒स् त्वाम् पा॑तु ।
विश॒न् त्वम् पा॑हीन्द्रि॒येण॑।
Keith
guard the pressings;
let Visnu guard thee,
do thou guard the folk with thy power;
मूलम्
अ॒भि सव॑ना पाहि ।
विष्णु॒स्त्वाम्पा॑तु ।
विश॒न् त्वम् पा॑हीन्द्रि॒येण॑।
भट्टभास्कर-टीका
सवना सवनानि, अभि पाहि आभिमुख्येन पालय तवाक्षीणतया । त्वयि हीक्षीणे प्रायश्चित्तप्रसङ्गादरक्षितानि सवनानि स्युः; तस्मान्मा क्षेष्ठा इत्यर्थः ।
तथा भगवान् विष्णुस्त्वां पातु यस्सर्वं पाति ।
तमपि विशं प्रजां यजमानस्य स्वभूतां पाहि सर्वां वा, इन्द्रियेणेत्थंभूतां प्रजामविकलेन्द्रियां कुर्वित्यर्थः ॥
भास्करोक्त-विनियोगः
3एवमनुद्रुत्य ‘एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्यः’ इति सादयति ।
विश्वास-प्रस्तुतिः
ए॒ष ते॒ योनि॒र्, विश्वे॑भ्यस् त्वा दे॒वेभ्यः॑ ॥ [11]
Keith
this is thy birthplace; to the All-gods thee!
मूलम्
ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ॥ [11]
भट्टभास्कर-टीका
‘वैश्वदेवो ह्येष देवतया’ इति ब्राह्मणम् । ‘आत्मा वा एष यज्ञस्य यदाग्रयणः’ इत्यादि च ॥
विश्वास-प्रस्तुतिः
अ॒ग्नये॑ त्वा॒ तेज॑स्वते ।
Keith
to Agni the radiant thee!
भास्करोक्त-विनियोगः
सादनम्।
विश्वास-टिप्पनी
ए॒ष ते॒ योनि॑र॒ग्नये॑ त्वा॒ तेज॑स्वते ॥ [30]
Keith
This is thy birthplace; to Agni the radiant thee!
मूलम्
ए॒ष ते॒ योनि॑र॒ग्नये॑ त्वा॒ तेज॑स्वते ॥ [30] +++(सादनमन्त्रः)+++
भट्टभास्कर-टीका
2-3ग्रहणसादनमन्त्रौ गतौ ॥