सोमऋषिः
भास्करोक्त-विनियोगः
1हारियोजनं गृह्णाति - हरिरसीति ॥
मूलम् (संयुक्तम्)
हरि॑रसि हारियोज॒नो हर्योः॑ स्था॒ता वज्र॑स्य भ॒र्ता पृश्ञेः॑ प्रे॒ता तस्य॑ ते देव सोमे॒ष्टय॑जुषस्स्तु॒तस्तो॑मस्य श॒स्तोक्थ॑स्य॒ हरि॑वन्त॒ङ्ग्रह॑ङ्गृह्णामि
विश्वास-प्रस्तुतिः
+++(हे सोम! इन्द्रात्मना- )+++ हरि॑र् असि, हारि-योज॒नः
हर्योः॑ स्था॒ता, वज्र॑स्य भ॒र्ता, पृश्ञेः॑+++(=बिन्दुमतः)+++ प्रे॒ता ।
Keith
Thou art a bay, yoker of bays,
mounter on the bays, bearer of the bolt, lover of Prśni;
मूलम्
हरि॑रसि हारियोज॒नः
हर्योः॑ स्था॒ता वज्र॑स्य भ॒र्ता पृश्ञेः॑ प्रे॒ता ।
भट्टभास्कर-टीका
सोम एवोच्यते । हरिरिन्द्रः स एव त्वम् असीतीन्द्रात्मना सोमस् स्तूयते । यद्वा - हरिर्हर्ता अभिमतानां श्रेयसामाहर्ता त्वमसि । हारियोजनः, हरिः अश्वविशेषः योजनो वाहनं यस्य स हरियोजनः इन्द्रः, तस्य स्वभूतः हारियोजनः, ऐन्द्रोसीत्यर्थः ।
हर्योः स्थाता, हर्योरश्वयोः स्थाता, इन्द्ररूपत्वात्, हरिभ्यां भक्षितऋजीषरूपत्वाद्वा । वज्रस्य भर्ता धारयिता इन्द्ररूपत्वादेव । पृष्नेः प्रेता, पृश्नेर् अन्नस्य याग-साधनद्वारेण प्रेता प्रेरयिता प्रापयिता वा । प्रीङ् तर्पणे ।
विश्वास-प्रस्तुतिः
तस्य॑ ते देव सोम
+इ॒ष्ट-य॑जुषस्, स्तु॒त-स्तो॑मस्य, श॒स्तोक्थ॑स्य॒,
हरि॑वन्त॒ङ् ग्रह॑ङ् गृह्णामि ।
Keith
to thee, O god Soma,
for whom the formula of sacrifice is uttered, the song sung, the hymn recited,
I draw the cup connected with the bays.
मूलम्
तस्य॑ ते देव सोमे॒ष्टय॑जुषस्स्तु॒तस्तो॑मस्य श॒स्तोक्थ॑स्य॒ हरि॑वन्त॒ङ्ग्रह॑ङ्गृह्णामि ।
भट्टभास्कर-टीका
हे सोम देव तस्य तादृशस्य ते तव
इष्टयजुषः अध्वर्युभिर्यज्ञे इष्टानि विनियुक्तानि सर्वाणि यजूंषि प्रायोगत्वत्संस्कारार्थानीति इष्टयजुष्ट्वम् ।
स्तुतस्तोमस्य उद्गातृभिश्च स्तुतास्सोमाः स्तोत्राणि त्वदर्थमिति स्तुतस्तोमत्वम् ।
शस्तोक्थस्य होतृभिश्शस्तान्युक्थानि शस्त्राणि त्वदर्थमिति शस्तोक्थत्वम् ।
यद् वेन्द्ररूपत्वात् सर्वम् उपपद्यते ।
तस्य तव विशेष सस्कार-संस्कृतस्य हरिवन्तं हरिमन्तं ग्रहं गृह्णामि, आग्रयणस्थालीगतस्य सर्वस्य गृह्यमाणत्वात् । तस्येत्यन्त्यात् [स्येत्यादेः?] कर्मणि षष्ठ्यन्तत्वात्तादृशं हरिवन्तं इन्द्रवन्तं ग्रहं गृह्णामीति । ‘छन्दसीरः’ इति मतुपो वत्वम् ॥
भास्करोक्त-विनियोगः
2धानाभिश्श्रीणाति - हरीः स्थेति ॥
विश्वास-प्रस्तुतिः
ह॒रीस् स्थ॒, हर्यो॑र् धा॒नाः।
Keith
Ye two are bays; ye are the grains for the bays,
मूलम्
ह॒रीस्स्थ॒ हर्यो॑र् धा॒नाः।
भट्टभास्कर-टीका
हरिभ्यां तद्वानिन्द्रो लक्ष्यते । ततस्ताद ृशेन्द्रात्म तया धानास्स्तूयन्ते । तत इन्द्रप्रियतया इन्द्राभेदेन स्तुतिः । यद्वा - अश्वात्मतया धानास्स्तूयन्ते । इन्द्रार्थं हे धानाः हरीः स्थ ।
किञ्च - हर्योरश्वयोर्धानास्थ हरिवत इन्द्रस्येति भावः । ‘इन्द्रो वृत्रमहन् तस्य शीर्षकपालमुदौब्जत्’ इत्यादि ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
3जुहोति
विश्वास-प्रस्तुतिः
स॒ह-सो॑मा॒ इन्द्रा॑य॒ स्वाहा॑ ॥ [29]
Keith
mixed with Soma.
To Indra hail!
मूलम्
स॒हसो॑मा॒ इन्द्रा॑य॒ स्वाहा॑ ॥ [29]
भट्टभास्कर-टीका
सहसोमाः सोमेन सहिताः । ‘वोपसर्जनस्य’ इति पाक्षिकत्वात् सभावाभावः । हे धाना ईदृश्यो यूयमिन्द्राय स्वाहा स्वाहुतास्थ ॥