२५ सावित्रग्रहः

गायत्री। सोमऋषिः


भास्करोक्त-विनियोगः

1पुनश्च सावित्रं गृह्णाति - हिरण्यपाणिमिति त्रिपदया गायत्र्या ॥ पूर्ववद्विकल्प एव ।

विश्वास-प्रस्तुतिः ...{Loading}...

हि᳓रण्य-पाणिम् ऊत᳓ये
सविता᳓रम् उ᳓प ह्वये
स᳓ चे᳓त्ता+++(=ज्ञाता)+++ देव᳓ता पद᳓म् ॥

005 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - सविता
  • ऋषिः - मेधातिथिः काण्वः
  • छन्दः - गायत्री
Thomson & Solcum

हि᳓रण्यपाणिम् ऊत᳓ये
सविता᳓रम् उ᳓प ह्वये
स᳓ चे᳓त्ता देव᳓ता पद᳓म्

Vedaweb annotation

Strata
Normal


Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).


Morph
híraṇyapāṇim ← híraṇyapāṇi- (nominal stem)
{case:ACC, gender:M, number:SG}

ūtáye ← ūtí- (nominal stem)
{case:DAT, gender:F, number:SG}

hvaye ← √hvā- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:MED}

savitā́ram ← savitár- (nominal stem)
{case:ACC, gender:M, number:SG}

úpa ← úpa (invariable)

céttā ← céttar- (nominal stem)
{case:NOM, gender:M, number:SG}

devátā ← devátā (invariable)

padám ← padá- (nominal stem)
{case:NOM, gender:N, number:SG}

sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}

पद-पाठः

हिर॑ण्यऽपाणिम् । ऊ॒तये॑ । स॒वि॒तार॑म् । उप॑ । ह्व॒ये॒ ।
सः । चेत्ता॑ । दे॒वता॑ । प॒दम् ॥

Hellwig Grammar
  • hiraṇyapāṇimhiraṇya
  • [noun], neuter
  • “gold; jewelry; hiraṇya [word]; gold.”

  • hiraṇyapāṇimpāṇimpāṇi
  • [noun], accusative, singular, masculine
  • “hand; hoof; pāṇi [word].”

  • ūtayeūti
  • [noun], dative, singular, feminine
  • “aid; favor; ūti [word].”

  • savitāramsavitṛ
  • [noun], accusative, singular, masculine
  • “Savitar; sun; Surya; Savitṛ.”

  • upa
  • [adverb]
  • “towards; on; next.”

  • hvayehvā
  • [verb], singular, Present indikative
  • “raise; call on; call; summon.”

  • satad
  • [noun], nominative, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • cettācit
  • [verb], singular, periphrast. future
  • “notice; observe; attend to; intend.”

  • devatā
  • [noun], instrumental, singular, feminine
  • “Hindu deity; Deva; deity; idol; devatā [word]; divinity; temple.”

  • padampada
  • [noun], accusative, singular, neuter
  • “word; location; foot; footprint; pada [word]; verse; footstep; metrical foot; situation; dwelling; state; step; mark; position; trace; construction; animal foot; way; moment; social station; topographic point; path; residence; site; topic.”

सायण-भाष्यम्

ऊतये अस्मद्रक्षणार्थं सवितारं देवम् उप हृये आह्वयामि। सः च सविता देवः एतन्मन्त्रप्रतिपाद्यदेवता भूत्वा पदं यजमानेन प्राप्यं स्थानं चेत्ता ज्ञापयिता भवति । कीदृशं सवितारम् । हिरण्यपाणिं यजमानाय दातुं हस्ते सुवर्णधारिणम् । यद्वा । देवकर्तृके यागे सविता स्वयमृत्विग्भूत्वा ब्रह्मत्वेन अवस्थितः । तदानीं कस्यांचिदिष्टौ अध्वर्यवः तस्मै सवित्रे ब्रह्मणे प्राशित्रनामकं पुरोडाशभागं दत्तवन्तः । तच्च प्राशित्रं हस्ते सवित्रा गृहीतं सत् तदीयपाणिं चिच्छेद । ततः प्राशित्रस्य दातारोऽध्वर्यवः सुवर्णमयं पाणिं निर्माय प्रक्षिप्तवन्तः । सोऽयमर्थः कौषीतकिब्राह्मणे समाम्नातः- सवित्रे प्राशित्रं प्रतिजह्रुस्तत्तस्य पाणी प्रचिच्छेद तस्मै हिरण्मयौ प्रतिदधुस्तस्माद्धिरण्यपाणिरिति स्तुतः ’ इति । हिरण्यशब्दं पाणिशब्दं च यास्क एवं निर्वक्ति - ’हिरण्यं कस्माद्ध्रियत आयम्यमानमिति वा ह्रियते जनाज्जनमिति वा हितरमणं भवतीति वा हृदयरमणं भवतीति वा हर्यतेर्वा स्थात्प्रेप्साकर्मणः’ (निरु. २. १०) इति । तथा ’ पाणिः पणायतेः पूजाकर्मणः ’ ( नि. २. २६ ) इति ॥ हिरण्यशब्दो नञ्विषयत्वादाद्युदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । ऊतये । ‘उदात्तः ’ इत्यनुवृत्तौ उतियूतिजूतिसाति’ इत्यादिना क्तिनन्तः अन्तोदात्तो निपातितः । सवितारम् । तृचश्चित्त्वादन्तोदात्तत्वम् । चेत्ता। ‘चिती संज्ञाने’। अस्मादन्तर्भावितण्यर्थात्ताच्छील्ये तृन् । ’ अनित्यमागमशासनम् ’ इति इडभावः । नित्त्वादाद्युदात्तः । देवता । देवात्तल्’ (पा. सू. ५. ४.२७ ) इति स्वार्थे तल् । ‘लिति’ इति प्रत्ययात्पूर्वमुदात्तत्वम् । पदशब्दः पचाद्यजन्तः । ‘चितः ’ इत्यन्तोदात्तः ॥ ॥ ४ ॥

भट्टभास्कर-टीका

हिरण्यस्य विकारः कटककेयूराङ्गुलीयादीनि आभरणानि पाण्योः यस्य स हिरण्यपाणिः । समुदायविकारषष्ठ्या बहुव्रीहिर्वाचोत्तरपदलोपश्च । यद्वा - रसहरणशीलाः पाणयो रश्मयो यस्य । हितरमणीयपाणिर्वा । तं हिरण्यपाणिं सवितारमुपह्वये मनसा उपेत्याह्वयामि ऊतये अवनाय तर्पणाय वा । ‘ऊतियूति’ इति क्तिन उदात्तत्वम् । कः पुनस्तस्य विशेष इत्याह - स हि देवस्सविता अस्माकं पदमास्पदं स्थानमित्यर्थः । कीदृशः? चेत्ता ज्ञाता, रक्षाविधानोपायज्ञः । साधुकारिणि त्रण्, व्यत्ययेनेडभावः । देवता चास्माकम् ॥

Wilson

English translation:

“Invoke Savitā (Sun), the golden- handed, to protect me; he will appoint the station of the worshippers.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Suvarṇahasta = golden-handed, i.e. he who gives gold to the worshipper. Legend: At a sacrifice performed by the gods, Sūrya undertook the office of ṛtvij, but positioned himself in the station of Brahmā. The Adhvaryu priests saw him in that position and gave him the oblation termed prāśitra. As soon as this was received, Sūrya cut off the hand that had improperly accepted it. The priests who had given the oblation bestowed upon Sūrya a hand of gold

Jamison Brereton

I call upon golden-palmed Savitar for help.
He, through his divinity, is attentive to the track.

Griffith

For my protection I invoke the golden-handed Savitar.
He knoweth, as a God, the place.

Keith

To help us I summon
The golden-handed Savitr
He as a god knoweth the place.

Geldner

Den Savitri mit goldener Hand rufe ich zur Gnade her; er unter den Göttern kennt die Wegspur.

Grassmann

Den Savitar mit goldner Hand, ihn rufe ich zur Hülfe her; Er kennt als Gott den rechten Ort.

Elizarenkova

Савитара, золоторукого,
Я призываю для поддержки.
Он знаток следа (пути) среди богов.

अधिमन्त्रम् (VC)
  • सविता
  • मेधातिथिः काण्वः
  • गायत्री
  • षड्जः
दयानन्द-सरस्वती (हि) - विषयः

अगले मन्त्र में परम ऐश्वर्य्य करानेवाले परमेश्वर का प्रकाश किया है-

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - मैं (ऊतये) प्रीति के लिये जो (पदम्) सब चराचर जगत् को प्राप्त और (हिरण्यपाणिम्) जिससे व्यवहार में सुवर्ण आदि रत्न मिलते हैं, उस (सवितारम्) सब जगत् के अन्तर्यामी ईश्वर को (उपह्वये) अच्छी प्रकार स्वीकार करता हूँ (सः) वह परमेश्वर (चेत्ता) ज्ञानस्वरूप और (देवता) पूज्यतम देव है॥५॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - मनुष्यों को जो चेतनमय सब जगह प्राप्त होने और निरन्तर पूजन करने योग्य प्रीति का एक पुञ्ज और ऐश्वर्य्यों का देनेवाला परमेश्वर है, वही निरन्तर उपासना के योग्य है। इस विषय में इसके विना कोई दूसरा पदार्थ उपासना के योग्य नहीं है॥५॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: अहमूतये यं पदं हिरण्यपाणिं सवितारं परमात्मानमुपह्वये सा चेत्ता देवतास्ति॥५॥

दयानन्द-सरस्वती (हि) - विषयः

अथैश्वर्य्यहेतुरुपदिश्यते।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (हिरण्यपाणिम्) हिरण्यानि सुवर्णादीनि रत्नानि पाणौ व्यवहारे लभन्ते यस्मात्तम् (ऊतये) प्रीतये (सवितारम्) सर्वजगदन्तर्यामिणमीश्वरम् (उप) उपगमार्थे (ह्वये) स्वीकुर्वे (सः) जगदीश्वरः (चेत्ता) ज्ञानस्वरूपः (देवता) देव एवेति देवता पूज्यतमा। देवात्तल्। (अष्टा०५.४.२७) इति स्वार्थे तल् प्रत्ययः। (पदम्) पद्यते प्राप्तोऽस्ति चराचरं जगत् तम्॥५॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - मनुष्यैर्यश्चिन्मयः सर्वत्र व्यापकः पूज्यतमः प्रीतिविषयः सर्वैश्वर्य्यप्रदः परमेश्वरोऽस्ति, स एव नित्यमुपास्यः। नैव तद्विषयेऽस्मादन्यः कश्चित्पदार्थ उपासितुमर्होऽस्तीति मन्तव्यम्॥५॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जो चैतन्यमय, सर्वव्यापक, निरंतर पूजनीय, प्रेमपुंज व संपूर्ण ऐश्वर्यदाता परमेश्वर आहे. तोच माणसांनी उपासना करण्यायोग्य आहे. त्याच्याशिवाय दुसरा कोणताही पदार्थ उपासना करण्यायोग्य नाही. ॥ ५ ॥


भास्करोक्त-विनियोगः

2उपयामगृहीतोसीत्यादि पूर्ववत् ॥

उपयामगृहीतः ...{Loading}...
उपयामगृहीतः ...{Loading}...
विश्वास-प्रस्तुतिः

उ॒प॒या॒म-गृ॑हीतो ऽसि।

Keith

Thou art taken with a support/ foundation.

मूलम्

उ॒प॒या॒मगृ॑हीतोऽसि।

भट्टभास्कर-टीका

उपयम्यन्ते स्वात्मन्येव नियम्यन्ते भूतजातान्यस्मिन् अभिन्नेधिकरणे इत्युपयामः पृथ्वी । ‘इयं वा उपयामः’ इति ब्राह्मणम् । ‘हलश्च’ इति घञ्, थाथादिस्वरेणान्तोदात्तत्वम् । तेन गृहीतस्त्वमसि ; कोन्यस्त्वां गृहीतुं क्षम इति भावः ; पृथिव्यापो गृहीष्यामीतिवत् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - उपयामार्थं पृथिव्यर्थं गृहीतोसीति ; हे सोम ।

ननु ‘स्वाहा त्वा सुभवस्सूर्याय’ इति मन्त्रवर्णनात् सूर्यदेवत्यः कथं पृथिवीदेवत्यः स्यात् ? नैतद्देवताभिधानं ; पृथिवीवासिनां प्रजानां यागद्वारेण स्थित्यर्थं गृहीतोसीति स्तूयते । यद्वा - पृथिव्यपि देवतैवास्य ‘उपयामगृहीतोसीत्याहादितिदेवत्यास्तेन’ इति, अदितिः पृथ्वी । ‘चतुर्थी’ इति योगविभागात्समासः । ‘क्ते च’ इति पूर्वपदप्रकृतिस्वरत्वम् । ‘इयं वा उपयामस्तस्मादिमां प्रजा अनु प्रजायन्ते’ इति ब्राह्मणम् ॥


उपयामगृहीतोसीति व्याख्यातम् । ‘इयं वा उपयामः’ तयैव गृहीतोसीति ।

विश्वास-प्रस्तुतिः

दे॒वाय॑ त्वा सवि॒त्रे ॥ [24]

Keith

to the god Savitr thee!

मूलम्

दे॒वाय॑ त्वा सवि॒त्रे ॥ [24]