त्रिष्टुप् । सोमऋषिः
भास्करोक्त-विनियोगः
1तृतीयं मरुत्वतीयं गृह्णाति - मरुत्वानिन्द्रेति चतुष्पदया त्रिष्टुभा ॥
विश्वास-प्रस्तुतिः ...{Loading}...
मरु᳓त्वाँ इन्द्र वृषभो᳓ र᳓णाय
पि᳓बा सो᳓मम् अनु-ष्वधं᳓+++(←स्वधा=अन्नम्)+++ म᳓दाय ।
आ᳓ सिञ्चस्व जठ᳓रे म᳓ध्व+++(=मधुसदृशस्य)+++ ऊर्मिं᳓
त्वं᳓ रा᳓जासि प्रदि᳓वः सुता᳓नाम् ॥
001 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गाथिनो विश्वामित्रः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
मरु᳓त्वाँ इन्द्र वृषभो᳓ र᳓णाय
पि᳓बा सो᳓मम् अनुष्वध᳓म् म᳓दाय
आ᳓ सिञ्चस्व जठ᳓रे म᳓ध्व ऊर्मिं᳓
तुवं᳓ रा᳓जासि प्रदि᳓वः सुता᳓नाम्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
marútvān ← marútvant- (nominal stem)
{case:NOM, gender:M, number:SG}
ráṇāya ← ráṇa- (nominal stem)
{case:DAT, gender:M, number:SG}
vr̥ṣabháḥ ← vr̥ṣabhá- (nominal stem)
{case:NOM, gender:M, number:SG}
anuṣvadhám ← anuṣvadhám (invariable)
mádāya ← máda- (nominal stem)
{case:DAT, gender:M, number:SG}
píba ← √pā- 2 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
sómam ← sóma- (nominal stem)
{case:ACC, gender:M, number:SG}
ā́ ← ā́ (invariable)
jaṭháre ← jaṭhára- (nominal stem)
{case:LOC, gender:N, number:SG}
mádhvaḥ ← mádhu- (nominal stem)
{case:GEN, gender:N, number:SG}
siñcasva ← √sic- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:MED}
ūrmím ← ūrmí- (nominal stem)
{case:ACC, gender:M, number:SG}
asi ← √as- 1 (root)
{number:SG, person:2, mood:IND, tense:PRS, voice:ACT}
pradívaḥ ← pradív- (nominal stem)
{case:ABL, gender:M, number:SG}
rā́jā ← rā́jan- (nominal stem)
{case:NOM, gender:M, number:SG}
sutā́nām ← √su- (root)
{case:GEN, gender:M, number:PL, non-finite:PPP}
tvám ← tvám (pronoun)
{case:NOM, number:SG}
पद-पाठः
म॒रुत्वा॑न् । इ॒न्द्र॒ । वृ॒ष॒भः । रणा॑य । पिब॑ । सोम॑म् । अ॒नु॒ऽस्व॒धम् । मदा॑य ।
आ । सि॒ञ्च॒स्व॒ । ज॒ठरे॑ । मध्वः॑ । ऊ॒र्मिम् । त्वम् । राजा॑ । अ॒सि॒ । प्र॒ऽदिवः॑ । सु॒ताना॑म् ॥
Hellwig Grammar
- marutvāṃ ← marutvat
- [noun], nominative, singular, masculine
- “Marut(a).”
- indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- vṛṣabho ← vṛṣabhaḥ ← vṛṣabha
- [noun], nominative, singular, masculine
- “bull; Vṛṣabha; Vṛṣabha; best.”
- raṇāya ← raṇa
- [noun], dative, singular, masculine
- “battle; fight; pleasure; joy; war; combat.”
- pibā ← piba ← pā
- [verb], singular, Present imperative
- “drink; gulp; soak; drink; suck; inhale.”
- somam ← soma
- [noun], accusative, singular, masculine
- “Soma; moon; soma [word]; Candra.”
- anuṣvadham
- [adverb]
- madāya ← mada
- [noun], dative, singular, masculine
- “drunkenness; mada; estrus; excitement; sexual arousal; alcohol; musth; mad; mada; ecstasy; pride; drink; joy; arrogance; vivification.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- siñcasva ← sic
- [verb], singular, Present imperative
- “submerge; sprinkle; pour; wet; decant; impregnate.”
- jaṭhare ← jaṭhara
- [noun], locative, singular, neuter
- “abdomen; udara; Jaṭhara; edema; garbha; inside; stomach; belly.”
- madhva ← madhvaḥ ← madhu
- [noun], genitive, singular, neuter
- “honey; alcohol; sweet; nectar; madhu [word].”
- ūrmiṃ ← ūrmim ← ūrmi
- [noun], accusative, singular, feminine
- “wave; billow.”
- tvaṃ ← tvam ← tvad
- [noun], nominative, singular
- “you.”
- rājāsi ← rājā ← rājan
- [noun], nominative, singular, masculine
- “king; Kshatriya; rājan [word]; best; rājāvarta; Yakṣa.”
- rājāsi ← asi ← as
- [verb], singular, Present indikative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- pradivaḥ ← pradiv
- [noun], ablative, singular, masculine
- “age-old; long.”
- sutānām ← suta
- [noun], genitive, plural, masculine
- “Soma.”
सायण-भाष्यम्
हे इन्द्र यः वृषभः अपां वर्षिता मरुत्वान् । मरुतो देवविशः तद्वान्। स त्वम् अनुष्वधं स्वधया सवनीयपुरोडाशादिरूपेण अन्नेनानुगतं सोमं रणाय रमणीयसंग्रामार्थं मदाय तं सोमं पिब । किंच मध्वः मदकरस्य सोमस्य ऊर्मिं संघातं बहुरसं जठरे । जग्धमन्नमस्मिंस्तिष्ठतीति जठरमुदरम् । तस्मिन्नुदरे आ सिञ्चस्व सर्वतः क्षारय । यतः त्वं प्रदिवः पूर्वेष्वहःसु सुतानाम् अभिषुतानां सोमानां राजासि ईशितासि । न केवलमधुनातनानामिति भावः । उक्तमर्थं यास्को ब्रवीति– मरुत्वानिन्द्र मरुद्भिस्तद्वान् वृषभो वर्षितापां रणाय रमणीयाय संग्रामाय पिब सोममनुष्वधमन्वन्नं मदाय मदनीयाय जैत्रायासिञ्चस्व जठरे मधुन ऊर्मिम् । मधु सोममित्यौपमिकं माद्यतेः । इदमपीतरन्मध्वेतस्मादेव । त्वं राजासि पूर्वेष्वप्यहःसु सुतानाम् ’ ( निरु. ४. ८ ) इति ॥ अनुस्वधम् । स्वधामनुगम्य वर्तमानम् । ‘ अत्यादयः क्रान्ताद्यर्थे द्वितीयया ’ इति समासः । संहितायां पूर्वपदात्’ (पा. सू. ८. ३. १०६ ) इति षत्वम् । निरुदकादित्वादन्तोदात्तत्वम् । ऊर्मिम् । अर्तेरूच्च’ ’ इति मिप्रत्ययः । धातोः ऊ इत्यादेशो रपरः । प्रत्ययस्वरः ॥
भट्टभास्कर-टीका
हे इन्द्र यस्त्वं मरुत्वान् वृषभश् च स त्वं रणाय सङ्ग्रामाय पिब सोमम् । ‘द्व्यचोतस्तिङः ’ इति दीर्घः ।
अनुष्वधं स्वधाम् अन्नं अनु-स्वदनीयं पुरोडाशात्मकमन्नं सोमम् । सुषामादित्वात् षत्वम्, ‘अनोरप्रधानकनीयसी’ इत्युत्तरपदान्तोदात्तत्वम् ।
मदाय, माद्यत्यनेनेति मदः । ‘मदोऽनुपसर्गे’ इत्यप् । ईदृशाय रणाय जयकरायेत्यर्थः । ‘वार्त्रघ्ना एव ते यजमानस्य गृह्यन्ते’ ‘यन्मरुत्वतीयाः’ ‘आयुधं एतद्यजमानस्संस्कुरुते यन्मरुत्वतीयाः’ इत्यादि च ब्राह्मणम् ।
किं बिन्दु-मात्रम् अपि पीतं मदाय भवतीत्याशङ्क्य नेति प्रतिपाद्यते - आसिञ्चस्व आभिमुख्येन क्षारय जठरे उदरे यथा ते मदो भवति तथा प्रभूतं पिबेत्यर्थः । मध्वः मधु-सदृशस्यास्य सोमस्य ऊर्मिं सङ्घातम् । ‘जसादिषु वा वचनं छन्दसि’ इति गुणाभावः ।
राजा+++(=सोमः)+++ विशेष्यते - प्रदिवः पुराणः नेदानीम् एव ।
मदस्योत्पाद्यत्वे हेतुम् आह - त्वं राजा सुतानां सोमानां, तव मदाय सोमा अभिषूयन्त इति भावः, अतिक्रान्तेष्वप्यहस्सु त्वमेव सोमानां राजेति । यद्वा - त्वमेव ह्यतिक्रान्तेष्वहस्सु सुतानां राजाऽभूः, तस्मादिदानीमपि पिबेति प्रार्थ्यसे । प्रगता दिवसा अस्येति प्रदिवः । छान्दसोकारस्समासान्तः, ‘परादिश्छन्दसि बहुलम्’ इत्युत्तरपदाद्युदात्तत्वम् । मरुत्वानित्यत्र पूर्ववत्सांहितायां रुत्वादि ॥
Wilson
English translation:
“Indra, attended by the Maruts, the showerer (of benefits), drink the Soma offered after the other presentations, for your exhilaration for battle; take into your belly the (full) wave of the inebriating (Soma), for you are lord of libations from the days of old.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Yajus. 7.38 has pratīpaḥ for pradivaḥ;
Pratīpaḥ = first andother lunar days, or tithis, until the full moon, during which offerings of Soma are daily presented
Jamison Brereton
Accompanied by the Maruts, o Indra, as a bull drink the soma after your wont, for joy, for exhilaration.
Pour the wave of honey into your belly. You are the king of the pressed drinks from olden days.
Griffith
DRINK, Indra, Marut-girt, as Bull, the Soma, for joy, for rapture even as thou listest.
Pour down the flood of meath within thy belly: thou from of old art King of Soma juices.
Keith
Indra with the Maruts, the bull, for gladness,
Drink the Soma, for joy, to thy content;
Pour within thy belly the wave of sweetness;
Thou art from of old the king of the pressed drinks.
Geldner
In Begleitung der Marut als ihr Bulle trink, Indra, zur Kampfeslust den Soma nach eigenem Ermessen zum Rausche! Gieß dir das Gewoge des Metes in den Bauch! Du bist von jeher König der Somasäfte.
Grassmann
Zur Wonn’, o Indra, mit den Maruts trinke, du Stier, zum Rausch nach eigner Lust den Soma; Die süsse Welle giesse in den Leib dir, du bist von Alters her der Säfte König.
Elizarenkova
Сопровождаемый Марутами, о Индра, как бык, для боевого пыла
Пей сому по своему желанию, для опьянения!
Вливай себе в утробу сладкую волну!
От века ты царь над выжатыми соками.
अधिमन्त्रम् (VC)
- इन्द्र:
- गोपवन आत्रेयः सप्तवध्रिर्वा
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब पाँच ऋचावाले सैंतालीसवें सूक्त का आरम्भ है। इसके प्रथम मन्त्र में राजा के विषय को कहते हैं।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) अत्यन्त ऐश्वर्य्य से युक्त (मरुत्वान्) श्रेष्ठ मनुष्यों से युक्त (वृषभः) बलवान् ! आप (रणाय) सङ्ग्राम के और (मदाय) आनन्द के लिये (अनुष्वधम्) अनुकूल स्वधा अन्न वर्त्तमान जिसमें ऐसे (सोमम्) श्रेष्ठ औषधी के रस का (पिब) पान करो और (जठरे) पेट में (मध्वः) मधुर की (ऊर्मिम्) लहर को (आ, सिञ्चस्व) सेचन करो जिससे (त्वम्) आप (प्रदिवः) अत्यन्त विद्या और विनय से प्रकाशित के (सुतानाम्) उत्पन्न हुए ऐश्वर्य आदिकों के (राजा) प्रकाशकर्त्ता (असि) हैं इससे ऐसा आचरण करो ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे राजन् ! आप जो विजय आरोग्य बल और अधिक अवस्था की इच्छा करें, तो ब्रह्मचर्य धनुर्वेदविद्या जितेन्द्रियत्व और नियमित आहार विहार को करिये ॥१॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे इन्द्र मरुत्वान् ! वृषभस्त्वं रणाय मदायानुष्वधं सोमं पिब। जठरे मध्व ऊर्मिमासिञ्चस्व यतस्त्वं प्रदिवः सुतानां राजाऽसि तस्मादेतदाचर ॥१॥
दयानन्द-सरस्वती (हि) - विषयः
अथ राजविषयमाह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मरुत्वान्) मरुतः प्रशस्ता मनुष्या विद्यन्ते यस्य सः (इन्द्र) परमैश्वर्ययुक्त (वृषभः) बलिष्ठः (रणाय) सङ्ग्रामाय (पिब)। अत्र द्व्यचोऽतस्तिङ इति दीर्घः। (सोमम्) महौषधिरसम् (अनुष्वधम्) अनुकूलं स्वधान्नं विद्यते यस्मिँस्तम् (मदाय) आनन्दाय (आ) (सिञ्चस्व) (जठरे) उदरे (मध्वः) मधुरस्य (ऊर्मिम्) तरङ्गम् (त्वम्) (राजा) प्रकाशमानः (असि) (प्रदिवः) प्रकर्षेण विद्याविनयप्रकाशस्य (सुतानाम्) उत्पन्नानामैश्वर्यादीनाम् ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे राजन् ! यदि विजयमारोग्यं बलं दीर्घमायुश्चेच्छेत्तर्हि ब्रह्मचर्य्यं धनुर्वेदविद्यां जितेन्द्रियत्वं युक्ताऽऽहारविहारञ्च करोतु ॥१॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तात राजा व सूर्याच्या गुणाचे वर्णन असल्यामुळे या सूक्ताच्या अर्थाची मागच्या सूक्ताच्या अर्थाबरोबर संगती जाणावी.
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - हे राजा! जर तू विजय, आरोग्य, बल व दीर्घायु इ. ची इच्छा बाळगलीस तर ब्रह्मचर्य, धनुर्वेदविद्या, जितेन्द्रियत्व व नियमित आहार विहार कर. ॥ १ ॥
मूलम् (संयुक्तम्)
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ॥ [20]
भास्करोक्त-विनियोगः
2 पूर्ववद्ग्रहणं सादनं च ॥
उपयामगृहीतः ...{Loading}...
भास्करोक्त-विनियोगः
इमामनुद्रुत्य उपयामगृहीतोसीन्द्राय त्वा मरुत्वत इति गृह्णाति ॥
उपयामगृहीतः ...{Loading}...
विश्वास-प्रस्तुतिः
उ॒प॒या॒म-गृ॑हीतो ऽसि।
Keith
Thou art taken with a support/ foundation.
मूलम्
उ॒प॒या॒मगृ॑हीतोऽसि।
भट्टभास्कर-टीका
उपयम्यन्ते स्वात्मन्येव नियम्यन्ते भूतजातान्यस्मिन् अभिन्नेधिकरणे इत्युपयामः पृथ्वी । ‘इयं वा उपयामः’ इति ब्राह्मणम् । ‘हलश्च’ इति घञ्, थाथादिस्वरेणान्तोदात्तत्वम् । तेन गृहीतस्त्वमसि ; कोन्यस्त्वां गृहीतुं क्षम इति भावः ; पृथिव्यापो गृहीष्यामीतिवत् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - उपयामार्थं पृथिव्यर्थं गृहीतोसीति ; हे सोम ।
ननु ‘स्वाहा त्वा सुभवस्सूर्याय’ इति मन्त्रवर्णनात् सूर्यदेवत्यः कथं पृथिवीदेवत्यः स्यात् ? नैतद्देवताभिधानं ; पृथिवीवासिनां प्रजानां यागद्वारेण स्थित्यर्थं गृहीतोसीति स्तूयते । यद्वा - पृथिव्यपि देवतैवास्य ‘उपयामगृहीतोसीत्याहादितिदेवत्यास्तेन’ इति, अदितिः पृथ्वी । ‘चतुर्थी’ इति योगविभागात्समासः । ‘क्ते च’ इति पूर्वपदप्रकृतिस्वरत्वम् । ‘इयं वा उपयामस्तस्मादिमां प्रजा अनु प्रजायन्ते’ इति ब्राह्मणम् ॥
उपयामगृहीतोसीति व्याख्यातम् । ‘इयं वा उपयामः’ तयैव गृहीतोसीति ।
विश्वास-प्रस्तुतिः
इन्द्रा॑य त्वा म॒रुत्व॑ते ।
Keith
to Indra with the Maruts thee!
मूलम्
इन्द्रा॑य त्वा म॒रुत्व॑ते ।
भास्करोक्त-विनियोगः
2एष ते योनिरिन्द्राय त्वा मरुत्वत इति सादयति ॥
विश्वास-प्रस्तुतिः
ए॒ष ते॒ योनि॒र्, इन्द्रा॑य त्वा म॒रुत्व॑ते ॥ [18]
Keith
This is thy birthplace; to Indra with the Maruts thee!
मूलम्
ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ॥ [18]
इति चतुर्थे एकोनविंशोनुवाकः ॥