त्रिष्टुप् । सोमऋषिः
भास्करोक्त-विनियोगः
1आग्रयणमेव भ्रातृव्यवतो गृह्णाति - त्रिंशदिति चतुष्पदया त्रिष्टुभा ॥
‘रुग्णवत्यर्चा भ्रातृव्यवतः’ इति ब्राह्मणम् ।
विश्वास-प्रस्तुतिः ...{Loading}...
त्रिँ॒शत् त्रय॑श् +++(=३३)+++ च ग॒णिनो॑ रु॒जन्तो॒
दिवँ॑ रु॒द्राᳶ पृ॑थि॒वीञ् च॑ सचन्ते ।
ए॒का॒द॒शासो॑ अप्सु॒-षद॑स् सु॒तँ
सोम॑ञ् जुषन्ताँ॒ सव॑नाय॒ विश्वे॑ ॥
सर्वाष् टीकाः ...{Loading}...
Keith
Three and thirty in troops the Rudras
Frequent the sky and earth, the destructive ones,
Eleven seated on the waters;
May all of them accept the Soma pressed for the pressing.
मूलम्
त्रिँ॒शत्त्रय॑श्च ग॒णिनो॑ रु॒जन्तो॒ ..
दिवँ॑ रु॒द्राᳶ पृ॑थि॒वीञ्च॑ सचन्ते ।
ए॒का॒द॒शासो॑ अप्सु॒षद॑स्सु॒तँ
सोम॑ञ्जुषन्ताँ॒ सव॑नाय॒ विश्वे॑ ॥
भट्टभास्कर-टीका
त्रिंशत्त्रयश्च गणिनः गणवन्तः एकादशात्मकैस्त्रिभिर्गणैश्च तद्वन्तः रुजन्तस्सामर्थ्याद्भ्रातृव्यान् । रुजो भङ्गे तौदादिकः । रुद्राः रोदयितारः शत्रूणां नारीणाम् । ‘रोदेर्णिलुक्च’ इति रक्प्रत्ययः । एवांविधा एकादशास एकादशाना पूरणाः । पूरणप्रत्ययान्तात् ‘आज्जसेरसुक्’ ।
एतदुक्तं भवति - ये त्रिंशद्देवा दशवर्गत्रयात्मकाः ये च त्रयो गणिनः तत्तद्दशात्मकगणवन्त एकादशास्स्वयमिति इत्थं त्रयस्त्रिशत्सम्पद्यन्ते ।
क्व पुनस्ते वर्तन्ते? इत्याह - ये दिवं सचन्ते सेवन्ते, ये च पृथिवीं, ये चाप्सुषदः अन्तरिक्षेणावतीर्णाः; पूरणप्रत्ययान्ता वा ये त्रयो गणिनः, त्रयश्च गणा वर्तन्त इति; ते च विश्वे देवाः इमं सुतं सोमं आग्रयणाख्यं जुषन्तां सेवन्तां सवनाय सवनार्थं तृतीयसवनार्थं; तत्र हि तस्य सावित्रपात्नीवतहारियोजनेषु विनियोगः । यद्वा - तृतीयसवने जुषन्तामिति सप्तम्यर्थे चतुर्थी । ‘रुग्णवत्यर्चा भ्रातृव्यवतो गृह्णीयात्’ इति ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
इत्यनुद्रुत्य उपयामगृहीतोसीति यजुरादिकया गृह्णाति ॥ 2अधिवदते - आग्रयणोसीत्यादि ॥ 3एष ते योनिरित्यादिना सादयति ॥
उपयामगृहीतः ...{Loading}...
भास्करोक्त-विनियोगः
इमामनुद्रुत्य ‘उपयामगृहीतोसि विश्वेभ्यस्त्वा देवेभ्यः’ इति गृह्णाति ॥
उपयामगृहीतः ...{Loading}...
विश्वास-प्रस्तुतिः
उ॒प॒या॒म-गृ॑हीतो ऽसि।
Keith
Thou art taken with a support/ foundation.
मूलम्
उ॒प॒या॒मगृ॑हीतोऽसि।
भट्टभास्कर-टीका
उपयम्यन्ते स्वात्मन्येव नियम्यन्ते भूतजातान्यस्मिन् अभिन्नेधिकरणे इत्युपयामः पृथ्वी । ‘इयं वा उपयामः’ इति ब्राह्मणम् । ‘हलश्च’ इति घञ्, थाथादिस्वरेणान्तोदात्तत्वम् । तेन गृहीतस्त्वमसि ; कोन्यस्त्वां गृहीतुं क्षम इति भावः ; पृथिव्यापो गृहीष्यामीतिवत् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - उपयामार्थं पृथिव्यर्थं गृहीतोसीति ; हे सोम ।
ननु ‘स्वाहा त्वा सुभवस्सूर्याय’ इति मन्त्रवर्णनात् सूर्यदेवत्यः कथं पृथिवीदेवत्यः स्यात् ? नैतद्देवताभिधानं ; पृथिवीवासिनां प्रजानां यागद्वारेण स्थित्यर्थं गृहीतोसीति स्तूयते । यद्वा - पृथिव्यपि देवतैवास्य ‘उपयामगृहीतोसीत्याहादितिदेवत्यास्तेन’ इति, अदितिः पृथ्वी । ‘चतुर्थी’ इति योगविभागात्समासः । ‘क्ते च’ इति पूर्वपदप्रकृतिस्वरत्वम् । ‘इयं वा उपयामस्तस्मादिमां प्रजा अनु प्रजायन्ते’ इति ब्राह्मणम् ॥
उपयामगृहीतोसीति व्याख्यातम् । ‘इयं वा उपयामः’ तयैव गृहीतोसीति ।
विश्वास-प्रस्तुतिः
[विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑]
मूलम्
[विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑]
भट्टभास्कर-टीका
अस्य ग्रहणमन्त्रस्य साकाङ्क्षत्वात्सादनमन्त्रे श्रुतं विश्वेभ्यस्त्वेति सम्बध्यते ॥
भास्करोक्त-विनियोगः
2अधिवदते ॥
मूलम् (संयुक्तम्)
आग्रय॒णो॑ऽसि॒ स्वा॑ग्रयणो॒ जिन्व॑ य॒ज्ञञ्जिन्व॑ य॒ज्ञप॑तिम॒भि सव॑ना पाहि॒ विष्णु॒स्त्वाम्पा॑तु॒ विश॒न्त्वम्पा॑हीन्द्रि॒येण
विश्वास-प्रस्तुतिः
आ॒ग्र॒य॒णो॑ऽसि ।
स्वा॑ग्रयणो॒ जिन्व॑ ।
य॒ज्ञञ्जिन्व॑ य॒ज्ञप॑तिम् +++(जिन्व)+++ ।
Keith
thou art the leader,
thou art the good leader;
quicken the sacrifice,
quicken the lord of the sacrifice;
मूलम्
आ॒ग्र॒य॒णो॑ऽसि ।
स्वा॑ग्रयणो॒ जिन्व॑ ।
य॒ज्ञञ्जिन्व॑ य॒ज्ञप॑तिम् +++(जिन्व)+++ ।
भट्टभास्कर-टीका
आग्रयणोसि आग्रयणाख्यो ग्रहस्त्वमस्ति । अग्रे इर्यते गृह्यत इत्यग्रयणः ग्रहाणामग्रेसरोसि । ‘ते देवा आग्रयाणाग्रान्ग्रहानपश्यन्’ इति ब्राह्मणम् । शकन्ध्वादित्वात्पररूपत्वम् । अग्रयाण एवाग्रयणाः । ‘सान्नाय्यानुजावर’ इत्यादिना स्वार्थिकोण्निपातितः । यद्वा - वाचा अग्रे प्रथममीयत इत्याग्रयणः । ‘वाग्वै देवेभ्यः’ इत्यादि ब्राह्मणं ‘तदाग्रयणस्याग्रयणत्वम्’ इत्यन्तम् ।
स्वाग्रयाणः, अग्र्यं श्रैष्ठ्यं यन्ति प्राप्नुवन्त्यनेनेत्याग्रयणः, शोभन आग्रयणस्स्वाग्रयणः । त्वां गृहीत्वा देवा अग्रं पर्यायन् । तथा यजमानोपि त्वां गृहीत्वा समानानामग्रं पर्येत्विति भावः । ‘अग्रमेव समानानां पर्येति’ इति ब्राह्मणम् । यस्मादीदृशस्त्वमसि तस्माज्जिन्व प्रीणय यज्ञं, यज्ञपतिं च जिन्व । उभयत्रापि वाक्यादित्वान्न निहन्यते । जिवि प्रीणने ।
विश्वास-प्रस्तुतिः
अ॒भि सव॑ना पाहि ।
विष्णु॒स् त्वाम् पा॑तु ।
विश॒न् त्वम् पा॑हीन्द्रि॒येण॑।
Keith
guard the pressings;
let Visnu guard thee,
do thou guard the folk with thy power;
मूलम्
अ॒भि सव॑ना पाहि ।
विष्णु॒स्त्वाम्पा॑तु ।
विश॒न् त्वम् पा॑हीन्द्रि॒येण॑।
भट्टभास्कर-टीका
सवना सवनानि, अभि पाहि आभिमुख्येन पालय तवाक्षीणतया । त्वयि हीक्षीणे प्रायश्चित्तप्रसङ्गादरक्षितानि सवनानि स्युः; तस्मान्मा क्षेष्ठा इत्यर्थः ।
तथा भगवान् विष्णुस्त्वां पातु यस्सर्वं पाति ।
तमपि विशं प्रजां यजमानस्य स्वभूतां पाहि सर्वां वा, इन्द्रियेणेत्थंभूतां प्रजामविकलेन्द्रियां कुर्वित्यर्थः ॥
भास्करोक्त-विनियोगः
3एवमनुद्रुत्य ‘एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्यः’ इति सादयति ।
विश्वास-प्रस्तुतिः
ए॒ष ते॒ योनि॒र्, विश्वे॑भ्यस् त्वा दे॒वेभ्यः॑ ॥ [11]
Keith
this is thy birthplace; to the All-gods thee!
मूलम्
ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ॥ [11]
भट्टभास्कर-टीका
‘वैश्वदेवो ह्येष देवतया’ इति ब्राह्मणम् । ‘आत्मा वा एष यज्ञस्य यदाग्रयणः’ इत्यादि च ॥